We have given detailed NCERT Class 8 Sanskrit Deepakam Solutions and Letter Writing in Sanskrit Class 8 with Answers पत्र लेखन come in handy for quickly completing your homework.
Patra Lekhan in Sanskrit Class 8
Class 8 Sanskrit Patra Lekhan
I. औपचारिक – पत्राणि
1. दिनद्वयस्य अवकाशप्राप्त्यर्थं प्रधानाचार्यां प्रति प्रार्थनापत्रम् मञ्जूषायां प्रदत्तपदैः पूरयत-
प्रधानाचार्या,
राजकीय माध्यमिक विद्यालयः
नोएडा, उत्तरप्रदेश:
विषयः अवकाशप्राप्त्यर्थं निवेदनम्।
महोदया
सविनयं निवेदनम् अस्ति यत् अहं ……..(i) …… अस्मि । अतः …..(ii)…. आगन्तुं न शक्नोमि । कृपया आगामिनः …..(iii)…… अवकाशः प्रदीयताम् इति …… (iv) ……
सधन्यवादम्
……(v)…… विनीता शिष्या
कोपल:
अष्टमी कक्षा
दिनाङ्क: 17.8.2026
मञ्जूषा-दिनद्वयस्य, भवदीया, प्रार्थये, विद्यालयम्,ज्वरग्रस्ता
उत्तर:
(i) ज्वरग्रस्ता
(ii) विद्यालयम्
(iii) दिनद्वयस्य
(iv) प्रार्थये
(v) भवदीया
2. शुल्कक्षमार्थं प्राचार्यं प्रति प्रार्थनापत्रम् मञ्जूषायाम् प्रदत्तपदैः पूरयत-
सेवायाम्
प्रधानाचार्यमहोदयः
राजकीयः विद्यालयः
गुरुग्राम:
दिनाङ्कः 27.3.2026
विषयः शुल्कक्षमार्थं प्रार्थनापत्रम्
श्रीमन्तः
सविनयं ……(i)……. अस्ति यत् अहं भवतां विद्यालये अष्टम्यां कक्षायां पठामि । मम पिता एकस्मिन् …..(ii)…….. लिपिकः अस्ति । पितुः वेतनेन …….(iii)……. निर्वाह: दुष्करः भवति। अहं गतपरीक्षायाम् समग्रे एव मण्डले प्रथम स्थानं ……(iv)……
श्रीमन्तः प्रार्थ्यन्ते यत् मह्यं …..(v)……… प्रदाय अनुगृह्णन्तु।
भवदीयः आज्ञाकारी शिष्यः
अभिषेकः
मञ्जूषा-शुल्कमुक्तिं प्राप्तवान्, निवेदनम्, परिवारस्य, कार्यालये
उत्तर:
(i) निवेदनम्
(ii) कार्यालये
(iii) परिवारस्य
(iv) प्राप्तवान्
(v) शुल्कमुक्तिं
3. पुस्तकप्रेषणार्थं प्रकाशकं प्रति पत्रम् मञ्जूषायाम् प्रदत्तपदैः पूरयत-
सेवायाम्
श्रीमान् प्रबन्धक महोदयः
दरियागंजः
नव दिल्ली
मान्यवराः
अहम् अष्टमकक्षायां …….(i) ……. निम्नलिखितपुस्तकानां महती ….(ii)… वर्तते। अधोलिखितविवरणानुसारेण ……(iii)……. वी.पी.पी. द्वारा प्रेषणीयानि । समुचितं
…..(iv)…… देयम्।
1. दीपकम् भाग 3 – एका प्रति:
2. दीपकम् अभ्यासपुस्तिका – एका प्रति:
…….(v)…….
वैभव:
दिनाङ्कः
………….
मञ्जूषा-भवदीयः, पठामि, कमीशनं, पुस्तकानि, आवश्यकता
उत्तर:
(i) पठामि
(ii) आवश्यकता
(iii) पुस्तकानि
(iv) कमीशनं
(v) भवदीयः
4. स्वभगिन्याः विवाहार्थं दिनत्रयस्य अवकाशार्थं प्रधानाचार्यं प्रति लिखितं प्रार्थनापत्रम् मञ्जूषायां प्रदत्तपदैः पूरयत-
सेवायाम्
माननीयः प्रधानाचार्यः
केन्द्रीय विद्यालयः
गौतमबुद्धनगरम्
विषय: अवकाशार्थं प्रार्थनापत्रम्
मान्यवराः महोदयाः !
सविनयं निवेदनम् अस्ति यत् मम ……..(i)……. विवाह: नवम्बरमासस्य नवदशतिथौ ….(ii)…….. भविष्यति । तत्र मम उपस्थितिः …..(iii)……। अतः मह्यं दिनत्रयस्य अवकाशं ……(iv)…… भवन्तः अनुगृह्णन्तु ।
सधन्यवादम्
……(v)…… आज्ञाकारी शिष्यः
समर्थः
दिनाङ्कः 17.10.2025
मञ्जूषा-प्रदाय, भगिन्याः, प्रयागराजनगरे, अनिवार्या, भवताम्
उत्तर:
(i) भगिन्याः
(ii) प्रयागराजनगरे
(iii) अनिवार्या
(iv) प्रदाय
(v) भवताम्
5. विद्यालयान्तरणं प्रमाणपत्रम् प्राप्यर्थं लिखितं प्रार्थनापत्रं मञ्जूषायां प्रदत्तपदैः पूरयत-
श्रीमन्तः प्राचार्यमहोदयः
केन्द्रीय विद्यालयः
नव दिल्ली
विषय:- प्रमाणपत्रं प्राप्त्यर्थं प्रार्थनापत्रम्।
परमादरणीयाः महोदयाः
सेवायाम् इदम् निवेदनम् अस्ति यत् मम ……(i)…….. स्थानान्तरणम् जातम्। पितरौ …..(ii)…….. मया अत्र एकाकिना अवस्थातुं न शक्यते । अतः …..(iii)……. विद्यालयान्तरणं प्रमाणपत्रं ……(iv)…….. भवन्तः इति प्रार्थये ।
दिनाङ्क- 22.12.2025
भवतां ……..(v)……
ईशानः
अष्टमी कक्षा
मञ्जूषा- प्रदापयन्तु, शिष्यः, माम्, पितुः, विना
उत्तर:
(i) पितुः
(ii) विना
(iii) माम्
(iv) प्रदापयन्तु
(v) शिष्यः
II. अनौपचारिक – पत्राणि
1. भवान् सुनीलः । भवतः ज्येष्ठा भगिनी सरिता छात्रावासे निवसति । रक्षाबन्धनपर्वणि भवतां विद्यालये संस्कृतदिवसस्य भव्यम् आयोजनम् अस्ति। तदर्थं तां निमन्त्रयितुं लिखिते पत्रे मञ्जूषापदसाहाय्येन रिक्तस्थानपूर्तिं कुरुत-
112, द्वारिकापुरी
दिल्लीत:
तिथि: 21.12.2025
पूज्ये भगिनि !
सस्नेहं
अत्र कुशलं तत्रास्तु …..(i)…….. भवती जानाति एव यत् श्रावणमासस्य …….(ii)……… रक्षाबन्धनपर्वणि अस्माकं विद्यालये प्रतिवर्षम् ….(iii)…….. आयोजनं भवति । अस्मिन् वर्षे ……(iv)…… नाटकस्य मञ्चनं भविष्यति । अहं ……(v)……. अभिनयं करिष्यामि । विद्यालये भवत्याः उपस्थित्या मम उत्साहवर्धनम् भविष्यति। मातृपितृचरणयोः मम प्रणामाः ।
भवत्याः स्नेहपात्रम्
सुनील:
मञ्जूषा-चारुदत्तस्य चारुदत्तमिति, अभिवादनम्, पूर्णिमायां, संस्कृतदिवसस्य
उत्तर:
(i) अभिवादनम्
(ii) पूर्णिमायां
(iii) संस्कृतदिवसस्य
(iv) चारुदत्तमिति
(v) चारुदत्तस्य
2. भवान् आयुषः छात्रावासे वसति एवं शैक्षिकयात्रायै गन्तुम् इच्छति । धनप्रेषणार्थं पितरं प्रति लिखितं पत्रं मञ्जूषां प्रदत्तैः पदैः पूरयत-
छात्रावासतः
बैंगलूरूनगरात्
दिनाङ्कः 3.4.2025
परमादरणीयाः पितृमहाभागाः !
सादरं प्रणमामि।
सविनयं निवेदयामि यत् मम ……(i)….. परीक्षा सम्पन्ना। मम उत्तरपत्राणि शोभनानि ……(ii)….. मम विद्यालयेन शैक्षिकयात्रायाः प्रबन्धः कृतः । एषा अजन्ता
……(iii)……. दर्शनाय आयोजिता अस्ति । यात्राव्ययार्थं …. (iv)…… रूप्यकाणि प्रेषयन्तु भवन्तः ।
शेषं सर्वं कुशलम् ……(v)……. अग्रजाय च सादरं प्रणामाः।
भवदीय प्रियपुत्रः
आयुषः
मञ्जूषा-पञ्चसहस्त्रम्, जनन्यै, त्रैमासिकी, अभवन्, एलोरागुहानाम्
उत्तर:
(i) त्रैमासिकी
(ii) अभवन्
(iii) एलोरागुहानाम्
(iv) पञ्चसहस्त्रम्
(v) जनन्यै
संस्कृत पत्र लेखन कक्षा 8
अभ्यासकार्यम्
प्रश्न: 1.
भवान् पार्थः । भवतां विद्यालये गीतायाः श्लोकानाम् अन्त्याक्षरी आयोज्यते । स्वमित्रं अवयानम् प्रति लिखितं पत्रं मञ्जूषायाम् प्रदत्तपदैः पूरयत-
एका
छात्रावासतः
संस्कृत महाविद्यालयः
दिल्लीतः
दिनाङ्कः 7.11.2025
प्रिय मित्र अवयान !
सप्रेम नमोनमः ।
अत्र कुशलं तत्रास्तु। अस्माकं विद्यालये संस्कृतदिवसे ……….(i)……… आयोज्यते । अस्माकं प्रतियोगिता अन्यविद्यालयस्य …..(ii)…… सह भविष्यति । अहम् स्वविद्यालयस्य ……..(iii)……. अस्मि । भवान् अपि अत्र आगत्य …….(iv)……. पश्यतु इति मम अभिलाषा ।
भवतः पितृचरणयोः मम ….(v)……
भवताम् अभिन्नम् मित्रम्
पार्थः
मञ्जूषा-कार्यक्रमं प्रणामाः, अन्त्याक्षरीप्रतियोगिता, विद्यार्थिभिः, प्रतिनिधिः
उत्तर:
(i) अन्त्याक्षरीप्रतियोगिता
(ii) विद्यार्थिभिः
(iii) प्रतिनिधि:
(iv) कार्यक्रमं
(v) प्रणामाः
प्रश्नः 2.
कमलिनी बिजनौरमण्डले अष्टमकक्षायां पठति । सा परियोजना कार्ये सूक्तीनां सङ्कलनं करोति । तस्याः सखीं योगितां प्रति सहायतार्थं लिखितं पत्रं मञ्जूषाप्रदत्तपदैः पूरयत-
सर्वोदय विद्यालयः
सागरपुरम्
बिजनौरमण्डलः
तिथि: 23.09.2025
प्रिय सखि योगिते!
सस्नेहम् अभिवादनम्। अत्र सर्वे ……..(i) …….. । इदानीं मम विद्यालये ……(ii)…….. प्रचलति । अहं धर्मस्य
………(iii)…… लक्षणानि अधिकृत्य सूक्तीनां सङ्कलनं करोमि । कृपया पञ्च ……(iv)….. प्रेषयतु । अवशिष्टं कार्यं तु मया कृतम्।
पितृभ्याम् मम …….(v)…… निवेदयतु ।
भवत्याः प्रिय सखी
कमलिनी
मञ्जूषा-प्रणामाः, कुशलिनः, सूक्ती:, परियोजनाकार्यम् दश
उत्तर:
(i) कुशलिनः
(ii) परियोजनाकार्यम्
(iii) दश
(v) प्रणामाः
(iv) सूक्ती:
प्रश्न: 3.
स्वविद्यालयस्य प्रगतिविषये ज्येष्ठभ्रातरं प्रति लिखितं पत्रं मञ्जूषायाम् प्रदत्तपदैः पूरयत-
परीक्षाभवनम्
नवदिल्लीतः
तिथि: 03.11.2025
पूज्य भ्रातः !
सादरं नमस्कारः
अधुना मम शिक्षणं …….(i)…… आरब्धम्। अहम् प्रतिदिनं प्रातः पञ्चवादने …..(ii)…….। सप्तवादनपर्यन्तं पठितानां ……..(iii)……. आवृतिं करोमि । संस्कृतविषये ………(iv)……… प्रथमं स्थानं प्राप्तम् । गणिते मम ……(v)…… अधुना दूरीभूता ।
पितृभ्याम् मम प्रणामाः ।
भवदीयः अनुजः
अभिषेकः
मञ्जूषा-उत्तिष्ठामि, दुर्बलता, मया, पाठानाम्, नियमेन
उत्तर:
(i) नियमेन
(ii) उत्तिष्ठामि
(iii) पाठानाम्
(iv) मया
(v) दुर्बलता
प्रश्न: 4.
स्वमित्रम् प्रति पर्वतीययात्रार्थम् लिखिते पत्रे मञ्जूषातः रिक्तस्थानानि पूरयत-
कानपुरतः
तिथि: 7-10-2025
प्रिय मित्र शिव!
सप्रेम नमोनमः
पत्रेण ज्ञातं यत् भवतः वार्षिकी परीक्षा …….(i)…….. जाता परिणामः च अग्रिमे …….(ii)…… आगमिष्यति । अहम् अपि परीक्षायाः अनन्तरं ……(iii)… प्रतीक्षां
करोमि। अस्मिन् अवकाश-अवसरे अहं …..(iv)…… कर्त्तुम् इच्छामि। भवान् अपि अत्र आगच्छेत्। आशास्ति भवान् निश्चितरूपेण ….(v)…..। मातापितरौ मम प्रणामाः ।
भवतः मित्रम्
ईशानः
मञ्जूषा-आगमिष्यति, पर्वतीययात्राम् परिणामस्य, समाप्ता, मासे
उत्तर:
(i) समाप्ता
(ii) मासे
(iii) परिणामस्य
(v) आगमिष्यति
(iv) पर्वतीययात्राम्
Patra Lekhan Class 8 Sanskrit
मञ्जूषातः उचितं पंद चित्वा अधोदत्तेषु पत्रेषु, रिक्तस्थानपूर्ति कुरुत- (मञ्जूषा से उचित पद चुनकर निम्नलिखित पत्रों में रिक्तस्थानपूर्ति कीजिए-)
प्रश्न 1.
मित्रं प्रति नववर्षस्य शुभकामनाः
ए-गोविंदपुरी
नव दिल्ली
दिनाङ्क : X.X.2017
प्रिय मित्र अर्णव
___________ नमस्ते
अत्र सर्वविधं ___________। तत्रापि अस्तु।
अग्रिमे सप्ताहे ___________ शुभारम्भः भविष्यति। एतस्मिन् ___________ तुभ्यम् शुभकामनाः प्रेषयामि। गृहे सर्वेभ्यः मम नववर्षस्य ___________ ददातु। ___________ मंगलमयं भवतु।
अग्रजेभ्यः सादरं प्रणामाः, ___________ स्नेहराशिः।
भवदीयम् ___________
राकेशः
मञ्जूषा-नववर्षस्य,अनुजेभ्यः, नववर्षम्,अभिन्नमित्रम्;, कुशलम्,सस्नेहम्, अवसरे, हार्दिक-शुभाशंसाः
उत्तरम्:
सस्नेहम्, कुशलम्, नववर्षस्य, अवसरे, हार्दिक शुभाशंसाः, नववर्षम्, अनुजेभ्यः, अभिन्नमित्रम्।
प्रश्न 2.
भगिनीं प्रति संस्कृतदिवस-समारोहस्य निवेदनम्
ई-217, ग्रेटर कैलाश,
नव दिल्ली
___________ : X.X.2017
प्रिय ___________
सादरं नमस्कारः
अहम्-भवत्यै इदम् निवेदयितुम् इच्छामि यत् अस्माकं विद्यालये ___________ अभवत्। एतस्मिन् अवसरे ___________ आयोजिता। इदं ज्ञात्वा भवती ___________ अनुभविष्यति यद् अहं प्रतियोगितायां प्रथमं ___________ अविन्दम्।
अन्यत् सर्वं ___________। शेषं पुन: लेखिष्यामि।
भवदीयः ___________
मयंकः
मञ्जूषा-पुरस्कारम्, भगिनि, श्लोकोच्चारण-प्रतियोगिता, कुशलम्, संस्कृतदिवस समारोहः, अनुजः, दिनाङ्कः, हर्षम्
उत्तरम्:
दिनाङ्कः भगिनि, संस्कृतदिवस-समारोहः, श्लोकोच्चारण-प्रतियोगिता, हर्षम्, पुरस्कारम्, कुशलम्, अनुजः।
प्रश्न 3.
पितरम् प्रति रूप्यकयाचनार्थं पत्रम्
चिन्मयः छात्रावासः
कुरुक्षेत्रम्
दिनाङ्क : X.X.2017
आदरणीयाः पितृमहाभागा:
___________ प्रणामाः,
अहम् अत्र ___________ अस्मि। आशा अस्ति तत्रापि कुशलं भवेत्। मम प्रथमसत्रीया ___________ अद्यैव समाप्ता। मम उत्तरपत्राणि ___________ अभवन्। परीक्षाफलं सप्ताहानन्तरम् आगमिष्यति। विद्यालयेन एकस्याः ___________ आयोजनं कृतम्। वयम् । ___________ द्रष्टुम् अमृतसरनगरं गमिष्यामः। चत्वारः ___________ चापि अस्माभिः सह गमिष्यन्ति।
एतदर्थं ___________ रुपयकाणां पञ्चशतम् प्रेषयतु भवान्। मातृचरणयोः मम ___________ कथनीयाः। अनुजाय स्नेहराशिः।
भवदीयः ___________
सौरभः
मञ्जूषा-कृपया, शोभनानि, सकुशलः, प्रणामाः, प्रियपुत्रः, सादरम्, शैक्षिकयात्रायाः, अध्यापकाः, परीक्षा, स्वर्णमन्दिरम् ।
उत्तरम्:
सादरम्, सकुशल: परीक्षा, शोभनानि, शैक्षिकयात्रायाः स्वर्णमन्दिरम्, अध्यापकाः, कृपया, प्रणामाः, प्रियपुत्रः।
प्रश्न 4.
समाजसेवार्थं ग्रामगमनं निवेदयितुम् मातरं प्रति पत्रम्।
छात्रावासः
नव दिल्ली
दिनाङ्क : X.X.2017
पूज्याः मातृचरणा:
___________ प्रणतिः
अत्र ___________ तत्रास्तु।
आगामिनि शरदवकाशे अहं ___________ आगन्तुम् न शक्नोमि। यतो हि विद्यालयस्य समाजसेवासमितेः ___________ ग्राम-विकास-योजना कार्यस्य कृते ___________ गच्छन्ति। अहमपि तैः ___________ गमिष्यामि। ग्रामसेवा-कार्यं ___________ अतीव रोचते।
___________ मम प्रणामाः। शेषं पुनः ___________।
भवदीयः ___________
अनरागः
मञ्जूषा-सह, पितृचरणयोः, लेखिष्यामि, पुत्रः, कुशलम्, सादरम्, मह्यम, सदस्याः, गृहम्, रामपुर-ग्रामम्।
उत्तरम्:
सादरम्, कुशलम्, गृहम्, सदस्याः , रामपुर-ग्रामम्, सह, मह्यम्, पितृचरणयोः, लेखिष्यामि, पुत्रः।
प्रश्न 5.
अवकाश-याचनार्थं प्रधानाचार्य प्रति प्रार्थनापत्रम्
श्रीमन्तः प्रधानाचार्य महोदयाः
केन्द्रीय विद्यालयः
जनकपुरी
नव दिल्ली
___________ महोदया:
विषयः अवकाश-याचनार्थं प्रधानाचार्यं प्रति प्रार्थनापत्रम्।
सविनयं ___________ इदम् अस्ति यत् गतदिवसात् अहं ___________ ग्रस्तः अस्मि। अत: ___________ आगन्तुम् असमर्थः। एतदर्थं कृपया मह्यम् दिनद्वयस्य ___________ ददातु भवान् इति ___________।
भवदीयः आज्ञाकारी ___________
दिनाङ्क : 12.10.2017
अनुक्रमाङ्क : 35
अष्टमी कक्षा।
मञ्जूषा-शिष्यः, अवकाशम्, ज्वरेण, निवेदनम्, विद्यालयम्, आदरणीयाः, अमिताभः, प्रार्थना।
उत्तरम्:
आदरणीयाः, निवेदनम्, ज्वरेण, विद्यालयम्, अवकाशम्, प्रार्थना, शिष्यः, अमिताभः
यहाँ कुछ पत्र दिए गए हैं उनमें दिए गए रिक्त स्थानों में मंजूषा में से उचित पद चुनकर भरें-
प्रश्न 6.
अवकाशहेतोः प्रार्थनापत्रम् (ज्वरकारणात्)
4/10, जयदेव पार्क,
दिल्ली – 26
श्रीमन्तः प्राचार्यमहोदयः,
जिन्दल पब्लिक स्कूल,
पंजाबी बाग, दिल्ली।
आदरणीयाः महोदयाः,
सेवायाम् ___________ अस्ति यद् अहं ___________ ग्रस्तः अस्मि। अतः पाठशालाम् आगन्तुं न शक्नोमि। तदर्थम् आगामिनः ___________ अवकाशः प्रदीयताम् इति प्रार्थये।
___________ आज्ञाकारी शिष्यः
प्रवीर कुमारः
अनुक्रमाङ्कः
अष्टमी कक्षा।
___________ 20.8.2020
मञ्जूषा-दिनाङ्कः, भवताम, निवेदनम्, ज्वरेण, दिनद्वयस्य
प्रश्न 7.
अवकाशहेतोः प्रार्थनापत्रम् (विवाहे गमनकारणात्)
4/3, जयदेव पार्क,
दिल्ली – 26
श्रीमन्तः प्राचार्यमहोदयाः,
डी०ए०वी० वरिष्ठमाध्यमिकविद्यालयः,
रोहिणी, नव दिल्ली।
आदरणीयाः ___________,
सविनयं निवेदनम् अस्ति यत् मम ___________ विवाहे मम गमनम् आवश्यकम् अस्ति। अतः विद्यालयम् आगन्तुं न ___________। कृपया एकदिनस्य (21-11-2020 दिनांकस्य) अवकाशम् दत्त्वा अनुगृहीतं कुर्वन्तु भवन्तः।
भवताम् प्रियः ___________
प्रमोदकुमारः
अनुक्रमाङ्कः 5
अष्टमी कक्षा।
दिनांक: ___________
मञ्जूषा-20.11.2020, शिष्यः, पारयामि, अग्रजस्य, महोदयाः
प्रश्न 8.
विद्यालयपरिवर्तनात् विद्यालयत्यागस्य प्रार्थनापत्रम्
श्रीमन्तः प्राचार्यमहोदयः,
केन्द्रीयः विद्यालयः
कुरुक्षेत्रम्।
परमादरणीयाः ___________,
सेवायाम् इदं निवेदनम् अस्ति ___________ मम पितुः स्थानान्तरणं जातम्। अतः मया अपि तत्रैव गत्वा ___________ अनिवार्यम् वर्तते। पितरौ ___________ मया अत्र एकाकिना अवस्थानं न शक्यते। अतः मां विद्यालयान्तरणं प्रमाणपत्रं प्रदापयन्तु ___________ इति प्रार्थये।
भवदीयः शिष्यः
राजकुमारः
अनुक्रमाङ्कः 18
अष्टमी कक्षा।
दिनांक: 20 अगस्त, 2020
मञ्जूषा-भवन्तः, विना, पठनम्, यत्, महोदयाः
प्रश्न 9.
शुल्कक्षमार्थं प्रार्थनापत्रम्
श्रीमन्तः प्राचार्य महाभागाः,
केन्द्रीय विद्यालयः
इन्द्रप्रस्थम्।
___________,
सविनयं निवेद्यते यत् मम ___________ कार्यालये लिपिककार्यं करोति। तस्य ___________ परिवारस्य निर्वाहः अपि दुष्करः अस्ति। अत: मासिकशुल्कप्रदानं न सम्भवति। मम शिक्षायां बाधा न ___________ अतः मासिकशुल्कस्य प्रदानेन ___________ प्रदाय अनुग्रहं कुर्वन्तु तत्रभवन्तः श्रीमन्तः।
भवदीयः शिष्यः
धर्मानन्दः
अनुक्रमाङ्कः 12
अष्टमी कक्षा।
दिनांक: 12.7.2020
मञ्जूषा-महोदयाः, मुक्तिम्, भवेत्, वेतनेन, पिता
प्रश्न 10.
मित्राय वर्धापनपत्रम्
935, सेक्टर-13,
अर्बन इस्टेट, कुरुक्षेत्रम्
दिनांक 28.8.2020
प्रिय मित्र ___________,
सप्रेम नमोनमः।
अद्यैव मया शुभा ___________ प्राप्ता यत् भवान् ___________ न केवलम् उत्तीर्णः जातः, अपितु ___________ स्थानं लब्धवान्। अस्मिन् प्रसन्नतायाः अवसरे निजपक्षतः, मम मातृ-पितृ-पक्षतः अपि कोटिशः वर्धापनानि स्वीकरोतु भवान्। शीघ्रं मेलनं ___________।
भवदीयं मित्रम्
आनन्दरूपः
संङ्केतः
प्रति-श्रीधर्मानन्दः
छात्रावासः
गीता निकेतनम्, नवदिल्ली।
मञ्जूषा-धर्मानन्द, प्रतीक्षे, सूचना, प्रथम, परीक्षायाम्
प्रश्न 11.
मित्राय विवाहप्रसङ्गे निमन्त्रणपत्रम्
निज-सङ्केतः
नगरम्
दिनांकः 10-12-2020
प्रियमित्र राकेश,
अत्र कुशलं ___________। भवान् इदं ___________ अतीव प्रसन्नो भविष्यति यत् मम विवाहः ___________ जातः। आगामिनि मासे प्रथम दिनाङ्के एव ___________ भविष्यति। अस्मिन् अवसरे भवान् द्विदिनपूर्वम् एव आगच्छतु।
भवदीयं स्नेहाङ्कितम्
रामकुमारः
पत्र-सङ्केतः
मञ्जूषा-तत्रास्तु, विज्ञाय, भ्रातुः, स्थिरः, माङ्गलिककार्यम्
प्रश्न 12.
अर्थदण्डस्य क्षमार्थं प्रार्थनापत्रम्
सेवायाम्
प्राचार्य महोदयाः,
डी.ए.वी. विद्यालयः,
भिवानी।
महोदय,
सादरं विनिवेद्यते यद् ___________ अष्टम्यां श्रेण्यां ___________। ह्यः ___________ वार्षिकोत्सवः आसीत्। ज्वरवेगेन ___________ अहं प्रार्थनापत्रं न प्रेषितवान्। अतः अहं रूप्यकद्वयेन ___________।
श्रीमन्तः, अहं विवशः आसम्। अतोऽहं प्रार्थये यत् मम अर्थदण्डः क्षन्तव्यः। धन्यवादः।
आज्ञाकारी शिष्यः,
ललितनारायणः
अष्टमी श्रेणी।
अनु. 22
दिनांक: 27.12.2020
मञ्जूषा-विद्यालयस्य, दण्डितः, अहम्, पठामि, व्यथितः
प्रश्न 13.
पुस्तकप्रेषणाय प्रकाशकं प्रति पत्रम्
द्रोण-छात्रावासः,
भिवानीतः।
दिनांक: 28.10.2020
प्रबन्धक महोदयः
लक्ष्मी पब्लिकेशंज़,
नवदिल्ली।
श्रीमन्तः,
सेवायां निवेदनम् अस्ति ___________ अधोलिखितस्य पुस्तकस्य ___________ आवश्यकता वर्तते। ___________ वी.पी.पी. द्वारा ___________ शीघ्रं प्रेषणीयम्। समग्रं ___________ अपि लेखनीयम्। समुचितं कमीशनं दातव्यम्।
1. रुचिरा – अष्टमी श्रेणी – एका प्रतिः।
भवदीयः,
मनोजकुमारः।
अष्टमी श्रेणी।
अनु. 32
मञ्जूषा-यद्, पुस्तकम्, विवरणम्, महती, अतः