We have given detailed NCERT Class 8 Sanskrit Deepakam Solutions and Unseen Passage Apathit Gadyansh in Sanskrit Class 8 with Answers संस्कृत अपठित गद्यांश कक्षा 8 come in handy for quickly completing your homework.
संस्कृत अपठित गद्यांश कक्षा 8
Sanskrit Apathit Gadyansh Class 8
Class 8 Sanskrit Apathit Gadyansh – Apathit Gadyansh in Sanskrit Class 8
अधोलिखितान् अनुच्छेदान् पठित्वा प्रश्नानाम् उत्तराणि लिखत-
1. एकदा शरीरस्य सर्वाणि इन्द्रियाणि – हस्तौ पादौ, मुखं, नासिका, कर्णौ इत्यादीनि मिलित्वा अचिन्तयन्- “वयं सर्वे प्रतिदिनं परिश्रमं कुर्मः । एतद् उदरं सर्वं स्वीकरोति, स्वयं किमपि कार्यं न करोति । अद्यप्रभृति वयमपि कार्यं न करिष्यामः” । एवं चिन्तयित्वा सर्वाणि अंगानि कार्यम् अत्यजन्। पादौ स्थिरौ भूत्वा अतिष्ठताम् । हस्तौ निश्चलौ अभवताम्। मुखं अन्नकणः अपि न प्रविशत् । एवं द्वे दिने व्यतीते जाते । शनैः शनैः सर्वाणि अंगानि शिथिलानि अभवन्। कार्यशक्तिः क्षीणा अभवत्। कथमपि पुनः मिलित्वा विचारम् अकुर्वन्- ” अहो ! अस्माकं प्रमादः। भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति। एतद् एव अस्मभ्यं शक्तिं ददाति । अस्य कृपया एव वयं जीवामः। अतः अस्माभिः सर्वैः अनेन सह सहयोगः करणीयः”। नूनं संहतिः एव कार्यसाधिका ।
प्रश्ना:-
I. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
- शनै: शनैः सर्वाणि अंगानि कीदृशानि अभवन्?
- कार्यसाधिका का भवति ?
- भुक्तस्य अन्नस्य पाचनं किम् अंगं करोति ?
उत्तर:
- शिथिलानि
- संहतिः
- उदरम्
II. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्)
- पादौ कीदृशौ भूत्वा अतिष्ठताम् ?
- कानि अंगानि मिलित्वा कार्यं त्यक्तवन्तः ?
- कस्य कृपया अंगानि शक्तियुक्तानि भवन्ति ?
उत्तर:
- पादौ स्थिरौ भूत्वा अतिष्ठताम् ।
- शरीरस्य सर्वाणि इन्द्रियाणि – हस्तौ पादौ, मुखं, नासिका, कर्णौ च इत्यादीनि मिलित्वा कार्यम् त्यक्तवन्तः।
- उदरस्य कृपया अङ्गानि शक्तियुक्तानि भवन्ति ।
III. यथानिर्देशम् उत्तरत-
(i) ‘करिष्यामः’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) उदर:
(ख) वयम्
(ग) अहम्
(घ) अङ्गानि
उत्तर:
(ख) वयम्
(ii) ‘गात्रस्य’ इति पदस्य पयार्यः कः?
(क) शरीरस्य
(ख) सर्वाणि
(ग) भुक्तस्य
(घ) अन्नस्य
उत्तर:
(क) शरीरस्य
(iii) ‘भुक्तस्य’ इति विशेषणस्य विशेष्यं किम् ?
(क) उदरस्य
(ख) अन्नस्य
(ग) शरीरस्य
(घ) अस्य
उत्तर:
(ख) अन्नस्य
(iv) ‘चलौ’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(क) हस्तौ
(ख) कर्णौ
(ग) निश्चलौ
(घ) पादौ
उत्तर:
(ग) निश्चलौ
IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत ।
उत्तर:
‘नूनं संहति एव कार्यसाधिका ।’
2. सुबुद्धिः दुर्बुद्धिश्च द्वौ धनिकौ आस्ताम् । सुबुद्धेः विशालं भवनम् आसीत् । तस्य अनेके उद्योगा: चलन्ति स्म। अत एव सः सर्वदा प्रसन्नचित्तः ईश्वरं स्मरन् आनन्दे निमग्नः भवति स्म । दुर्बुद्धिः तावत् लोभी आसीत् । अधिकाधिकं धनसङ्ग्रहं कर्तुम् इच्छति स्म। सर्वदा असन्तुष्टः, क्रुद्धः, दु:खी च भवति स्म। एकदा दुर्बुद्धिः कार्यवशात् सुबुद्धेः गृहम् अगच्छत्। आनन्दमग्नं तं दृष्ट्वा अपृच्छत् – “भवतः आनन्दस्य शान्तेश्च किं रहस्यम्?” सुबुद्धिः उवाच – “मित्र ! मम चत्वारः अङ्गरक्षकाः सन्ति । प्रथमः तु सत्यं यत् माम् अपराधात् सर्वदा रक्षति । द्वितीयः स्नेहः, अहं सर्वान् कर्मचारिणः पुत्रवत् मन्ये । तृतीयः न्यायः यः माम् अन्यायात् रक्षति। चतुर्थः त्यागः, माम् दानाय प्रेरयति । अतः एतेषां सहायतया अहं सर्वदा आनन्देन जीवामि लोकहितं च करोमि इति । ” दुर्बुद्धिः श्रद्धया तस्य चरणयोः अपतत्।
I. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
- सुबुद्धेः कति अङ्गरक्षकाः आसन्?
- सुबुद्धिः सर्वदा कस्मिन् निमग्नः भवति स्म ?
- दुर्बुद्धि किमर्थं सुबुद्धेः गृहम् आगच्छत् ?
उत्तर:
- चत्वारः
- आनन्दे
- कार्यवशात्
II. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
- द्वितीयस्य अङ्गरक्षकस्य किं नाम आसीत्?
- दुर्बुद्धिः सर्वदा कस्य सङ्ग्रहं कर्तुम् इच्छति स्म?
- सुबुद्धिः सर्वान् कर्मचारिणः कथं मन्यते स्म ?
उत्तर:
- द्वितीयस्य अङ्गरक्षकस्य नाम स्नेहः आसीत्।
- दुर्बुद्धिः सर्वदा अधिकाधिकं धनसङ्ग्रहं कर्तुम् इच्छति स्म।
- सुबुद्धिः सर्वान् कर्मचारिणः पुत्रवत् मन्यते स्म ।
III. यथानिर्देशम् उत्तरत-
(i) ‘सर्वान्’ इति विशेषणस्य विशेष्यपदं किंम् ?
(क) कर्मचारिणः
(ख) भवनं
(ग) सुबुद्धेः
(घ) धनिकौ
उत्तर:
(क) कर्मचारिणः
(ii) ‘चलन्ति स्म’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) सुबुद्धिः
(ख) उद्योगाः
(ग) दुर्बुद्धिः
(घ) अङ्गरक्षकाः
उत्तर:
(ख) उद्योगाः
(iii) ‘आस्थया’ इत्यर्थे किं पदं प्रयुक्तम् ?
(क) न्यायः
(ख) लोभी
(ग) श्रद्धया
(घ) असन्तुष्टः
उत्तर:
(ग) श्रद्धया
(iv) ‘न्यायात्’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(क) अपराधात्
(ख) दानाय
(ग) लोकहितं
(घ) अन्यायात्
उत्तर:
(घ) अन्यायात्
IV. एतस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर:
‘चत्वारः अङ्गरक्षका:’/आनन्दस्य रहस्यम्।
3. एकदा एकः राजा भोजनं वितरति स्म । राजपुरुषा: एकम् ऋषि-कुमारं दृष्ट्वा अवदन्- भवान् अपि भोजनं करोतु । इयम् एव राजाज्ञा इति । सः तरुणः ऋषिकुमारः अवदत्–‘भोः ! अहं श्रमं कृत्वा एव भोजनं करोमि । ये जना: वृद्धा:, असहायाः, तेभ्यः एव भोजनं प्रयच्छत इति।’ एषः आसीत् रैक्वः ऋषिकुमारः। राजा॒ तस्य समीपं गत्वा ज्ञानार्जनम् अकरोत्।
प्रश्ना:-
I. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
- ऋषिकुमारः किं कृत्वा भोजनं करोति स्म ?
- राजा किं वितरति स्म ?
- ऋषिकुमारस्य नाम किम् आसीत्?
उत्तर:
- श्रमं
- भोजनं
- रैक्व:
II. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
- ऋषिकुमारस्य समीपं गत्वा कः ज्ञानार्जनम् अकरोत्?
- केभ्यः एव भोजनं दातव्यम् ?
- राजपुरुषाः ऋषिकुमारं किम् अवदन् ?
उत्तर:
- ऋषिकुमारस्य समीपं गत्वा राजा ज्ञानार्जनम् अकरोत् ।
- ये जनाः वृद्धा:, असहायाः च तेभ्यः एव भोजनं दातव्यम्।
- राजपुरुषाः ऋषिकुमारं दृष्ट्वा अवदन् –“भवान् अपि भोजनं करोतु । इयम् एव राजाज्ञा इति ।”
III. यथानिर्देशम् उत्तरत-
(i) ‘भवान् अपि भोजनं करोतु’ अत्र ‘करोतु’ इति क्रियापदस्य कर्ता क: ?
(क) भवान्
(ख) अपि
(ग) भोजनं
(घ) करोतु
उत्तर:
(क) भवान्
(ii) ‘इयम् एव राजाज्ञा’ अत्र ‘इयम्’ इति विशेषणपदं किम् ?
(क) एव
(ख) इयम्
(ग) राजाज्ञा
(घ) आज्ञा
उत्तर:
(ख) इयम्
(iii) ‘युवा:’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(क) जना:
(ख) कुमारः
(ग) वृद्धा:
(घ) असहायाः
उत्तर:
(ग) वृद्धाः
(iv) ‘विलोक्य’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) दृष्ट्वा
(ख) श्रमं
(ग) तेभ्यः
(घ) भवान्
उत्तर:
(क) दृष्ट्वा
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर:
‘विवेकशील: ऋषिकुमारः ।
4. जिह्वायाः माधुर्यं स्वर्गं प्रापयति, जिह्वायाः कटुता नरके पातयति। एकः एव शब्दः जीवनं विभूषयेत्, अन्य एकः शब्दः जीवनं नाशयेत् । एकदा द्वयोः धनिनोः मध्ये विवादः उत्पन्नः जातः । तौ न्यायालयं गतौ । एक: धनिकः अचिन्तयत्-अहं लक्षं रुप्यकाणि न्यायाधीशाय यच्छामि इति । सः स्यूते लक्षं रुप्यकाणि स्थापयित्वा न्यायाधीशस्य गृहं गतवान् । न्यायाधीशः तस्य मन्तव्यं ज्ञात्वा क्रुद्धः अभवत्। धनिकः अवदत् – भोः मत्सदृशाः लक्षरुप्यकाणां दातारः दुर्लभाः एव । न्यायाधीश: अवदत्-लक्षरुप्यकाणां दातारः कदाचित् अन्ये अपि भवेयुः परन्तु लक्षरुप्यकाणां निराकर्त्तारः मत्सदृशाः अन्ये विरलाः एव। अतः कृपया गच्छतु । न्यायस्थानं मलिनं मा कुरु । लज्जित: धनिकः धनस्यूतं गृहीत्वा ततः निर्गतः।
प्रश्ना:-
I. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
- धनिकः धनम् आदाय कस्य गृहं गतवान्?
- कस्याः कटुता नरके पातयति ?
- केषां निराकर्त्तारः विरलाः एव?
उत्तर:
- न्यायाधीशस्य
- जिह्वायाः
- लक्षरुप्यकाणाम्
II. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
- एकः एव शब्दः किं विभूषयेत् ?
- कः न्यायस्थानं मलिनं कर्तुम् इच्छति स्म ?
- न्यायाधीशः किमर्थं क्रुद्धः अभवत्?
उत्तर:
- एकः एव शब्दः जीवनं विभूषयेत् ।
- एक: धनिकः न्यायस्थानं मलिनं कर्तुम् इच्छति स्म।
- न्यायाधीश: धनिकस्य मन्तव्यं ज्ञात्वा क्रुद्धः अभवत्।
III. यथानिर्देशम् उत्तरत-
(i) ‘लज्जित:’ इति पदं कस्य विशेषणम् ?
(क) न्यायाधीशः
(ख) धनिकं
(ग) धनिकः
(घ) दातारः
उत्तर:
(ग) धनिकः
(ii) ‘सुलभा :’ इति पदस्य विलोम पदं किम् अत्र प्रयुक्तम् ?
(क) दुर्लभाः
(ख) क्रुद्धः
(ग) विरलाः
(घ) निर्गतः
उत्तर:
(क) दुर्लभाः
(iii) ‘तौ न्यायालयं गतौ’ इति वाक्ये कर्तृपदं किम् ?
(क) शब्दः
(ख) धनिकः
(ग) न्यायालयं
(घ) तौ
उत्तर:
(घ) तौ
(iv) ‘अत: कृपया गच्छतु’ इति कः कं कथयति ?
(क) न्यायाधीशः, धनिकम्
(ख) धनिकः न्यायाधीशं
(ग) धनिकः
(घ) न्यायाधीशः
उत्तर:
(क) न्यायाधीशः, धनिकम् ।
IV. एतस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर:
‘न्यायप्रियः न्यायाधीशः’ ।
5. सायङ्काले अस्ताचलं प्रति गच्छन् भगवान् सूर्यः चिन्तितः अभवत् -“मयि गते सम्पूर्णः संसारः अन्धकारे निमग्नः भविष्यति । लोकानां व्यवहारः कथं चलिष्यति ? मां विना सर्वे जीवाः दुःखम् अनुभविष्यन्ति।” तस्य एतं भावं विज्ञाय एक: लघुदीपः सविनयं निवेदितवान् – “भगवन्! अलं चिन्तया । यद्यपि मम प्रकाशः क्षीणः तथापि जनानां सेवायाम् अहं यथाशक्ति स्वजीवनं समर्पयिष्यामि, कार्याणि च साधयिष्यामि ।”
प्रश्ना:-
I. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
- ‘अलं चिन्तया ! भगवन् !’ इति कः कथयति?
- कदा अस्ताचलं प्रति गच्छन् सूर्यः चिन्तितः अभवत्?
- कं विना सर्वे जीवाः दुःखम् अनुभविष्यन्ति ?
उत्तर:
- लघुदीपः
- सायङ्काले
- सूर्यम्
II. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
- सूर्ये गते सम्पूर्णः संसारः कस्मिन् निमग्नः भविष्यति ।
- सूर्यस्य भावं ज्ञात्वा लघुदीप: सविनयं किं निवेदितवान् ?
- सूर्यं विना के दुःखम् अनुभविष्यन्ति ?
उत्तर:
- सूर्ये गते सम्पूर्णः संसारः अन्धकारे निमग्नः भविष्यति ।
- सूर्यस्य भावं ज्ञात्वा लघुदीप: सविनयं निवेदितवान्–“अलं चिन्तया । यद्यपि मम प्रकाशः क्षीणः तथापि जनानां सेवायाम् अहम् यथाशक्ति स्वजीवनं समर्पयिष्यामि।
- सूर्य विना सर्वे जीवाः दुःखम् अनुभविष्यन्ति ।
III. निर्देशानुसारम् उत्तरम् लिखत-
(i) ‘निवेदितवान्’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) लघुदीपः
(ख) एक:
(ग) सूर्य:
(घ) भगवान्
उत्तर:
(क) लघुदीप:
(ii) ‘संसार:’ अस्य विशेषणपदं गद्यांशात् चिनुत- उत्तरपुस्तिकायां च लिखत ।
(क) गते
(ख) मयि
(ग) सम्पूर्ण:
(घ) निमग्नः
उत्तर:
(ग) सम्पूर्ण:
(iii) ‘दुर्बल:’ अस्य किं पर्यायवाचिपदं गद्यांशे प्रयुक्तम् ?
(क) निमग्नः
(ख) क्षीणः
(ग) अन्धकारः
(घ) जीवाः
उत्तर:
(ख) क्षीण:
(iv) ‘सुखम्’ अस्य विलोमपदं गद्यांशात् चित्वा उत्तरपुस्तिकायां लिखत ।
(क) दुःखम्
(ख) मम
(ग) अलं
(घ) एक:
उत्तर:
(क) दुःखम्
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर:
‘लघुदीपकस्य पुरुषार्थः’ ।
6. कालिदास मेघदूतं रचितवान् । मेघदूते मानसूनविज्ञानस्य अद्भुतं वर्णनम् अस्ति । मानसूनसमय: आषाढमासात् प्रारभते। श्याममेघान् दृष्ट्वा सर्वे जनाः प्रसन्नाः भवन्ति । मयूराः नृत्यन्ति। मानसूनमेघाः सर्वेषां जीवानां कष्टम् अपहरन्ति। मेघानां जलं वनस्पतिभ्यः, पशुपक्षिभ्यः, किं वा सर्वेभ्यः प्राणिभ्यः जीवनं प्रयच्छति । मेघजलैः भूमेः उर्वराशक्तिः वर्धते । क्षेत्राणां सिञ्चनं भवति । गगने यदा कदा इन्द्रधनुः अपि दृश्यते । वायुः शीतलः भवति । शुष्कभूमौ वर्षायाः बिन्दवः पतन्ति । भूमेः सुगन्धितं बाष्पं निर्गच्छति । कदम्बपुष्पाणि विकसन्ति । तेषु भ्रमराः गुञ्जन्ति। हरिणाः प्रसन्नाः भूत्वा इतस्ततः धावन्ति। चातकाः जलबिन्दून् पिबन्ति । बलाकाः पंक्तिं बध्वा आकाशे उड्डीयन्ते । मेघदूते मेघ: यक्षस्य सन्देशं नयतु इति प्रार्थितः । अतः कालिदासः वायुमार्गस्य ज्ञानवर्धकं वर्णनं करोति ।
प्रश्ना:-
I. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
- मेघानां जलं प्राणिभ्यः किं प्रयच्छति ?
- भ्रमराः कुत्र गुञ्जन्ति?
- मेघदूत क: रचितवान्?
उत्तर:
- जीवनं
- कदम्बपुष्पेषु
- कालिदासः
II. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्)
- जलबिन्दून् के पिबन्ति ?
- मानसूनमेघाः केषां कष्टम् अपहरन्ति ?
- बलाकाः कथम् आकाशे उड्डीयन्ते ?
उत्तर:
- चातका: जलबिन्दुन् पिबन्ति ।
- मानसूनमेघाः सर्वेषां जीवानाम् कष्टम् अपहरन्ति ।
- बलाकाः पक्तिं बद्ध्वा आकाशे उड्डीयन्ते ।
III. यथानिर्देशम् उत्तरत-
(i) ‘वारिदः’ इत्यर्थे किं पदं प्रयुक्तम् ?
(क) मेघः
(ख) चातकाः
(ग) वर्षा
(घ) मयूरः
उत्तर:
(क) मेघ:
(ii) ‘ज्ञानवर्धकम्’ इति कस्य विशेषणम् ?
(क) वाष्पं
(ख) मेघं
(ग) वर्णनम्
(घ) जलं
उत्तर:
(ग) वर्णनम्
(iii) ‘धावन्ति’ इति क्रियापदस्य कर्ता क: ?
(क) चातकाः
(ख) हरिणाः
(ग) बलाकाः
(घ) भ्रमराः
उत्तर:
(ख) हरिणाः
(iv) ‘क्षीयते’ क्रियापदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(क) प्रार्थितः
(ख) प्रारभते
(ग) दृश्यते
(घ) वर्धते
उत्तर:
(घ) वर्धते
IV. एतस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर:
‘मेघदूत’।
7. एकदा एक नरः सरोवरतटे अभ्रमत् । सः गम्भीरचिन्तने रतः आसीत्। सहसा वानराणां शब्दैः तस्य ध्यानं भङ्गः अभवत्। सः अपश्यत् यद् रक्तवर्णाः अतिविकरालाः वानराः नातिदूरे आसन्। सः धावितुम् आरभत। तं धावन्तं दृष्ट्वा वानराः अपि अनुधावितवन्तः । भीतः सः तीव्रगत्या धावितुम् आरभत । “मा धाव, भयं त्यक्त्वा तत्रैव स्थिरः भव” इति कस्यचित् वृद्धजनस्य उच्चस्वरं श्रुत्वा स तथैव अकरोत् । तं स्थिरं दृष्ट्वा वानराः अपि तत्रैव स्थितवन्तः। साहसं कृत्वा निर्भीकदृष्ट्या सः वानरान् अपश्यत्। तं निर्भीकं दृष्ट्वा वानरसमूह: पलायति। अहो! आश्चर्यम् । कीदृश: चमत्कारः । अनेन अनुभवेन तस्य ज्ञान – चक्षुषी उन्मीलिते । तेन ज्ञातं यद् आपत्तिभ्यः मुक्तिः दृढसंकल्पेन साहसेन, धैर्येण च भवति न ताभ्यः पलायनेन । किं भवन्तः जानन्ति एषः नरः कः आसीत्? एषः आसीत् स्वामिविवेकानन्दः ।
प्रश्ना:-
I. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
- “मा धाव” इति कः अकथयत् ?
- क: महात्मा सरोवरतटे भ्रमति स्म ?
- विवेकानन्दं निर्भीकं दृष्ट्वा वानरसमूहः किम् अकरोत्?
उत्तर:
- वृद्धजन:
- स्वामिविवेकानन्दः
- पलायनम्
II. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्)
- अनेन वानर-घटना – अनुभवेन विवेकानन्दस्य के उन्मीलिते ?
- आपत्तिभ्यः मुक्तिः कथं भवति ?
- विवेकानन्दः कीदृशान् वानरान् दृष्ट्वा धावितुम् आरभत?
उत्तर:
- अनेन वानर – घटना – अनुभवेन विवेकानन्दस्य ज्ञान – चक्षुषी उन्मीलिते।
- आपत्तिभ्यः मुक्तिः दृढ़संकल्पेन, साहसेन, धैर्येण च भवति ।
- विवेकानन्दः रक्तवर्णान् अतिविकरालान् च वानरान् दृष्ट्वा धावितुम् आरभत ।
III. निर्देशानुसारं उत्तरत-
(i) ‘स्थिरवन्तः’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) वानराः
(ख) नरः
(ग) वानरसमूहः
(घ) वृद्धजन:
उत्तर:
(क) वानराः
(ii) ‘भयभीतं’ अस्य विलोमपदं गद्यांशात् चित्वा लिखत ।
(क) निर्भीकं
(ख) भयं
(ग) धावन्तं
(घ) ध्यानम्
उत्तर:
(क) निर्भीकं
(iii) ‘आकर्ण्य’ अस्य किं पर्यायवाचिपदं गद्यांशे प्रयुक्तम्?
(क) भवन्तः
(ख) श्रुत्वा
(ग) दृष्ट्वा
(घ) पलायति
उत्तर:
(ख) श्रुत्वा
(iv) ‘एषः नरः’ अत्र विशेष्यपदं किम् ?
(क) नरः
(ख) एषः
(ग) नर
(घ) एष
उत्तर:
(क) नरः
IV. एतस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत ।
उत्तर:
‘निर्भीक: स्वामिविवेकानन्दः’।
8. तमिलनाडु प्रदेशे भारतस्य दक्षिणकोणस्य अन्ते बिन्दुरूपेण दृश्यते कन्याकुमारी । अत्र पूर्वसमुद्रस्य, पश्चिमसमुद्रस्य, दक्षिणसमुद्रस्य च सङ्गमः भवति । एते त्रयः समुद्राः भारतवर्षस्य पदतलं निरन्तरं प्रक्षालयन्ति । प्रातः सायं च सर्वदा जनानां महान् सम्मर्दः भवति । प्रातः सूर्योदयस्य सायं सूर्यास्तस्य च दृश्ये सर्वेषां मनः हरतः । अत्र एकम् अन्यद् दर्शनीयं स्थानम् अस्ति विवेकानन्दस्मारकं नाम । कन्याकुमारीतः यन्त्रचालितया नौकया विवेकानन्दस्मारकं प्रति गन्तुं शक्यते । समुद्रतीरात् प्रस्थिता नौका आदौ तिरुवल्लुवरप्रतिमायाः समीपं गच्छति । तिरुवल्लुवरमहोदयेन तिरुक्कुरल्’ इति नामक: तमिलवेद: रचितः । इतः पुनः प्रयाणं कृत्वा स्मारकं प्रति गम्यते । तत्र भूतले एकं विशिष्टं ध्यानमन्दिरम् अस्ति यत्र अन्धकारमये प्रकोष्ठे प्रकाशमानम् ‘ऊँ’ इति चित्रं दृश्यते । तत्र सर्वे मौनव्रतमेव धारयन्ति । समुद्रस्य स्वर्णमयं जलं, स्मारकस्य दर्शनम् सर्वमेव प्रेरणादायकं स्फूर्तिदायकम् च।
प्रश्ना:-
I. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
- तमिलवेदस्य ग्रन्थस्य नाम किम् ?
- त्रयः समुद्राः कस्य पदतलं प्रक्षालयन्ति ?
- कन्याकुमारीतः स्मारकं प्रति कया गम्यते ?
उत्तर:
- ‘तिरुक्कुरल्’
- भारतवर्षस्य
- यन्त्रचालितया नौकया
II. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्)
- स्मारकस्य भूतले किम् अस्ति ?
- कन्याकुमारी कस्मिन् प्रदेशे अस्ति ?
- समुद्रतीरात् प्रस्थिता नौका प्रथमं कस्य प्रतिमां प्रति गच्छति ?
उत्तर:
- स्मारकस्य भूतले एकं विशिष्टं ध्यानमन्दिरम् अस्ति ।
- कन्याकुमारी तमिलनाडुप्रदेशे भारतस्य दक्षिणकोणस्य अन्ते अस्ति ।
- समुद्रतीरात् प्रस्थिता नौका आदौ तिरुवल्लुवरप्रतिमायाः समीपं गच्छति ।
III. यथानिर्देशम् उत्तरत-
(i) ‘नौकया’ इति पदस्य किं विशेषणम् अत्र प्रयुक्तम्?
(क) यन्त्रचालितया
(ख) प्रकोष्ठे
(ग) सम्मर्दः
(घ) समुद्रस्य
उत्तर:
(क) यन्त्रचालितया
(ii) ‘अन्ते’ इति कस्य पदस्य विलोमपदम् ?
(क) पुनः
(ख) आदौ
(ग) एते
(घ) भूतले
उत्तर:
(ख) आदौ
(iii) ‘धारयन्ति’ इति क्रियापदस्य कर्तृपदं क: ?
(क) तत्र
(ख) मौनव्रतम्
(ग) सर्वे
(घ) एव
उत्तर:
(ग) सर्वे
(iv) ‘जनसमूह:’ इति कस्य शब्दस्य अर्थः ?
(क) सम्मर्दः
(ख) दर्शनम्
(ग) स्मारकं
(घ) प्रातः
उत्तर:
(क) सम्मर्द:
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर:
‘कन्याकुमारी दर्शनीयं स्थलम्’।
9. स्वामी विवेकानन्दः अमेरिकादेशे भारतीयसंस्कृत्याः प्रचारं करोति स्म। कश्चन श्रोता उपहासपूर्वकम् उक्तवान्– “अहो भारतीयसंस्कृत्याः विसंगतिः। लक्ष्म्याः वाहनम् उलूकः, सरस्वत्याः वाहनं हंसः इति।’ विवेकानन्दः अवदत् – “एषः एव अस्माकं भवतां मध्ये दृष्टिभेदः । धनाधीनः जनः उलूकवत् आचरति । विवेकम् आश्रितः नरः विद्वान् भवति । अतएव सरस्वत्याः वाहनं हंसः, लक्ष्म्याः वाहनम् उलूकः इति ।”
प्रश्ना:-
I. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
- लक्ष्म्याः वाहनं कः अस्ति ?
- कम् आश्रितः नरः विद्वान् भवति ?
- क: अमेरिकादेशे भारतीयसंस्कृत्याः प्रचारं करोति स्म ?
उत्तर:
- उलूकः
- विवेकं
- स्वामिविवेकानन्दः
II. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
- हंसः कस्याः वाहनम्?
- विवेकानन्दः श्रोतारम् उलूकहंसविषये किम् उत्तरम् अयच्छत्?
- कश्चन श्रोता उपहासपूर्वकं किम् उक्तवान्?
उत्तर:
- हंसः सरस्वत्याः वाहनम् अस्ति ।
- विवेकानन्दः श्रोतारम् उलूकहंसविषये उत्तरम् अयच्छत् यत् एषः एव अस्माकं भवतां मध्ये दृष्टिभेदः। धनाधीन जनः उलूकवत् आचरति। विवेकम् आश्रितः नरः विद्वान् भवति ।
- कश्चन् श्रोता उपहासपूर्वकम् उक्तवान् “अहो भारतीयसंस्कृत्याः विसंगतिः । लक्ष्म्याः वाहनम् उलूकः, सरस्वत्याः वाहनम् हंस इति “।
III. निर्देशानुसारम् उत्तरत-
(i) ‘उक्तवान्’ अस्याः क्रियायाः कः कर्ता ?
(क) श्रोता
(ख) स्वामी
(ग) विवेकानन्दः
(घ) हंसः
उत्तर:
(क) श्रोता
(ii) ‘मूढ़:’ इति पदस्य ‘विपरीतपदं’ किम् प्रयुक्तम् ?
(क) उलूकः
(ख) वाहनम्
(ग) विद्वान्
(घ) स्वामी
उत्तर:
(ग) विद्वान्
(iii) ‘मरालः’ इत्यर्थे किं पदं प्रयुक्तम् ?
(क) हंस
(ख) उलूकः
(ग) वाहनम्
(घ) एषः
उत्तर:
(क) हंस:
(iv) ‘धनाधीनः जनः’ अत्र विशेष्यपदं किम् ?
(क) धन
(ख) आधीन
(ग) जन:
(घ) धनाधीनः
उत्तर:
(ग) जन:
IV. एतस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर:
‘विवेकानन्दस्य विवेक: ।
10. वैज्ञानिका: सञ्चारसाधनेषु प्रतिदिनं नवीनतमान् आविष्कारान् कुर्वन्ति येन सन्देशप्रेषणे अधिकतमा सुविधा स्यात्। चलभाषितयन्त्रम् (मोबाइल सैलफ़ोन) तादृशम् एव लोकप्रिययन्त्रम्। बालाः वृद्धाः, युवकाः, पुरुषाः, महिलाः, नागरिकाः, ग्रामीणाः कर्मकराः च सर्वेषाम् एव एतत् कर्णभूषणं जातम् । यानानि आरूढाः, कार्यालयेषु कार्यं कुर्वन्तः, मार्गेषु चलन्तः, सभागारेषु प्रवचनं शृण्वन्तः जनाः अस्य ध्वनिं श्रुत्वा वार्तामग्नाः भवन्ति । अविवेकपूर्णः अस्य प्रयोगः कार्येषु व्यवधानं करोति। मार्गेषु दुर्घटनाः भवन्ति । सभागारेषु, कक्षासु, अन्यस्थानेषु च अव्यवस्था भवति । सत्यम् अस्ति यत् आविष्कारः कदापि हानिकार: न, परन्तु तस्य दुष्प्रयोगेण जीवनस्य शान्तिः नश्यति । वस्तुतः वयं यन्त्रस्य अधीनाः न स्याम अपितु यन्त्रम् अस्माकम् अधीनं स्यात् । ले एव बुद्धिमन्तः ये विज्ञानस्य सदुपयोगं कुर्वन्ति ।
प्रश्ना:-
I. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
- के विज्ञानस्य सदुपयोगं कुर्वन्ति ?
- अद्यत्वे किं लोकप्रियं यन्त्रम् ?
- अस्य यन्त्रस्य अविवेकपूर्णेन प्रयोगेण मार्गेषु काः भवन्ति ?
उत्तर:
- बुद्धिमन्तः
- चलभाषितयन्त्रम्
- दुर्घटना:
II. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
- यन्त्रं केषाम् अधीनं स्यात् ?
- जीवनस्य शान्तिः कथं नश्यति ?
- चलभाषितयन्त्रं (मोबाइल सैलफ़ोन) केषां कर्णभूषणं जातम् ?
उत्तर:
- यन्त्रम् अस्माकम् (मनुष्याणाम्) अधीनं स्यात् ।
- चलभाषितयन्त्रस्य दुष्प्रयोगेण जीवनस्य शान्तिः नश्यति ।
- बालाः, वृद्धा:, पुरुषाः, महिलाः, नागरिकाः, ग्रामीणाः, कर्मकराः च सर्वेषाम् एव चलभाषितयन्त्रं कर्णभूषणं जातम् ।
III. निर्देशानुसारम् उत्तरत-
(i) ‘स्याम’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) वयम्
(ख) तेन
(ग) जना:
(घ) ते
उत्तर:
(क) वयम्
(ii) ‘लाभकरः’ अस्य विलोमपदं गद्यांशात् चित्वा लिखत ।
(क) अधीनं
(ख) हानिकरः
(ग) सदुपयोगं
(घ) अधीनाः
उत्तर:
(ख) हानिकरः
(iii) ‘आकर्ण्य’ अस्मिन् अर्थे किं पर्यायवाचिपदं गद्यांशे प्रयुक्तम् ?
(क) सत्यम्
(ख) शान्तिः
(ग) श्रुत्वा
(घ) अपितु
उत्तर:
(ग) श्रुत्वा
(iv) ‘नवीनतमान्’ इति पदस्य विशेष्यपदं किम् ?
(क) यन्त्रम्
(ख) प्रवचनं
(ग) अधीनं
(घ) आविष्कारान्
उत्तर:
(घ) आविष्कारान्
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर:
‘चलभाषितयन्त्रम्’।
Unseen Passage for Class 8 Sanskrit
अभ्यासकार्यम्
1. मानवः जीवने सुखं वाञ्छति । सुखं कुत्र अस्ति, कुतः वा प्राप्यते? केचन मन्यन्ते धनेन सुखं भवति । अद्यत्वे धनमेव सर्वस्वं जातम्। धनविहीनः पशुसमानः इत्येव भावना प्रबला जाता परन्तु धनिषु अपि सन्तोष: नास्ति । ते अधिकाधिकं धनम् इच्छन्ति अधिकाधिका: च दुःखिनः भवन्ति । सन्तोषस्य कष्टस्य, दु:खस्य वा हेतु: मनः। यदि मनः प्रसन्नं भवति तदा सुखं भवति । मनः सन्तोषेण प्रसन्नं भवति अन्यथा लालसा वर्धते, सुखं च नश्यति। सन्तोष: प्राप्यते त्यागतः, परोपकारतः च। यदा धनं, बुद्धिः अन्यस्य कृते उपयुज्यते तदा आनन्दः भवति। साहाय्यप्रवृत्तिः अस्माकं जीवनस्य अङ्गं भवेत्। अस्माकं व्यवहारः प्रीतिपूर्णः भवेत्। अस्माकं वाण्यां माधुर्यं भवेत् तदा मनः संतुष्टं भवति । मनसि च परितुष्टे जीवनं भवति सुखमयम् आनन्दपूर्ण च।
प्रश्ना:-
I. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
- सन्तोषस्य हेतुः किम् ?
- अस्माकं जीवनस्य अङ्ग का भवेत् ?
- अस्माकं व्यवहारः कीदृशः भवेत् ?
उत्तर:
- मनः
- साहाय्यप्रवृति:
- प्रीतिपूर्ण:
II. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्)
- मनसि परितुष्टे जीवनं कीदृशं भवति ?
- अद्यत्वे धनविहीनानां कृते कीदृशी भावना प्रबला जाता?
- सन्तोषः कस्मात् प्राप्यते ?
उत्तर:
- मनसि परितुष्टे जीवनं सुखमयम् आनन्दमयं च भवति ।
- अद्यत्वे धनहीनानाम् कृते ‘धनहीनः पशुसमानः’ इति भावना प्रबला जाता।
- त्यागतः परोपकारतः एव सन्तोषः प्राप्यते ।
III. यथानिर्देशम् उत्तरत-
(i) ‘यदि मनः प्रसन्नं भवति’ अत्र प्रसन्नम् इति कस्य विशेषणम्?
(क) यदि
(ख) मनः
(ग) प्रसन्नम्
(घ) भवति
उत्तर:
(ख) मन:
(ii) ‘निर्बला’ इति पदस्य विपरीतपदं किम् ?
(क) प्रबला
(ख) लालसा
(ग) प्रीति
(घ) तदा
उत्तर:
(क) प्रबला
(iii) ‘वित्तम्’ इत्यर्थे किम् पदं प्रयुक्तम् ।
(क) सुखं
(ख) जातम्
(ग) धनम्
(घ) लघुः
उत्तर:
(ग) धनम्
(iv) ‘मानव: जीवने सुखं वाञ्छति’ अत्र ‘वाञ्छति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) मानवः
(ख) जीवने
(ग) सुखं
(घ) वाञ्छति
उत्तर:
(क) मानवः
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर:
‘सन्तोषं परमं धनम्’ ।
2. एकस्य भिक्षुकस्य भिक्षापात्रे अञ्जलिपरिमिता: तण्डुलाः आसन्। सः अवदत् -“भगवन! दयां कुरु । कथम् अनेन उदरपूर्तिः भविष्यति” तदैव अन्यः भिक्षुकः तत्र आगच्छति वदति च ‘भिक्षां देहि ।’ क्रुद्धः प्रथमः भिक्षुकः अगर्जत् – “रे भिक्षुक! भिक्षुकमेव भिक्षां याचसे? तव लज्जा नास्ति ?” द्वितीयः भिक्षुकः उक्तवान्– ‘“तव भिक्षापात्रे अञ्जलिपरिमिता: तण्डुलाः, मम तु पात्रं रिक्तम् दयां कुरु । अर्धं देहि ।” प्रथमः भिक्षुकः तत् न स्वीकृतवान् । द्वितीयः भिक्षुकः पुनः अवदत्-“भोः कृपणः मा भव । केवलम् एकं तण्डुलं देहि।” प्रथमः भिक्षुकः तस्मै एकम् एव तण्डुलं ददाति । द्वितीये भिक्षुके गते सति प्रथमः भिक्षुकः भिक्षापात्रे तण्डुलाकारं स्वर्णकणं पश्यति । आश्चर्यचकितः शिरः ताडयन् सः पश्चात्तापम् अकरोत् धिक् माम्। धिक् मम मूर्खताम् ।”
प्रश्ना:-
I. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
- कस्य भिक्षुकस्य भिक्षापात्रं रिक्तम् आसीत्?
- ‘धिक् माम्’ इति कः वदति ?
- द्वितीयः भिक्षुकः अन्ते कति तण्डुलम् याचते ?
उत्तर:
- द्वितीयभिक्षुकस्य
- प्रथमः भिक्षुकः
- एकं तण्डुलं
II. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
- प्रथमः भिक्षुकः दानी आसीत् अथवा कृपण: ?
- प्रथमः भिक्षुकः स्वभिक्षापात्रे किं पश्यति?
- द्वितीयः भिक्षुकः एकस्य तण्डुलस्य कृते किं ददाति?
उत्तर:
- प्रथम भिक्षुकः कृपणः आसीत् ।
- प्रथमः भिक्षुकः स्वभिक्षापात्रे तण्डुलाकारं स्वर्णकणं पश्यति ।
- द्वितीयः भिक्षुकः एकस्य तण्डुलस्य कृते तण्डुलाकारं स्वर्णकणं ददाति ।
III. यथानिर्देशम् उत्तरत-
(i) ‘क्रुद्धः भिक्षुकः’ अत्र विशेषण पदं किम् ?
(क) प्रथमः
(ख) भिक्षुकः
(ग) क्रुद्धः
(घ) भिक्षुकं
उत्तर:
III.
(ग) क्रुद्धः
(ii) ‘यच्छ’ इत्यर्थे किम् पदं प्रयुक्तम् ?
(क) कुरु
(ख) देहि
(ग) धिक्
(घ) भव
उत्तर:
(ख) देहि
(iii) ‘स्वीकृतवान्’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) द्वितीय:
(ख) भिक्षुकः
(ग) प्रथम
(घ) प्रथमः भिक्षुकः
उत्तर:
(घ) प्रथमः भिक्षुकः
(iv) ‘पूर्णं’ इति पदस्य विलोमपदं किम् ?
(क) रिक्तम्
(ख) लघुः
(ग) अर्धं
(घ) अन्यः
उत्तर:
(क) रिक्तम्
IV. एतस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर:
‘कृपण: मा भव’ ।
3. एकदा गंगातटे गोस्वामी परमेश्वरस्य नामस्मरणे मग्नः आसीत्। तदैव कश्चित् भिक्षुकः आगत्य भिक्षाम् अयाचत। गोस्वामी अवदत् – “मम समीपे भिक्षापात्रं विहाय किमपि नास्ति । परन्तु अद्य मया नद्याः तीरे एक: मणिः प्राप्तः, स तु दूरे सिकतासु क्षिप्तः। त्वं तं नेतुं शक्नोषि ।” भिक्षुकः मणिं तु प्राप्तवान्, परन्तु सहसा तस्य हृदये ज्ञानोदयः जातः । गोस्वामिनं नत्वा सः उवाच-‘“भगवन्। त्वम् एनं मणिं मृत्तिकातुल्यं मत्वा अक्षिपः। कथमहम् तं स्वीकरोमि । दीक्षां मे देहि भगवन्।
I. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
- कस्य हृदये ज्ञानोदय: जात: ?
- गोस्वामी कुत्र नामस्मरणं करोति स्म ?
- गोस्वामिना मणिः कुत्र क्षिप्त: ?
उत्तर:
- भिक्षुकस्य
- गंगातटे
- सिक्तासु
II. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्)
- भिक्षुकः कं दीक्षां दातुं प्राथितवान् ?
- भिक्षुकः गोस्वामिनं किम् अयाचत् ?
- गोस्वामी मणि केन तुल्यं मत्वा अक्षिपत् ?
उत्तर:
- भिक्षुकः गोस्वामिनं परमेश्वरं दीक्षां दातुम् प्राथितवान्
- भिक्षुकः गोस्वामिनं भिक्षाम् अयाचत्।
- गोस्वामी मणिं मृत्तिकातुल्यं मत्वा अक्षिपत् ।
III. यथानिर्देशम् उत्तरत-
(i) ‘अयाचत्’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) गोस्वामिने
(ख) भिक्षुकः
(ग) मणये
(घ) गंगायै
उत्तर:
(ख) भिक्षुकः
(ii) ‘एक:’ इति पदस्य विशेष्यपदम् किम्?
(क) मणिः
(ख) ज्ञानस्य
(ग) भिक्षुकस्य
(घ) जलस्य
उत्तर:
(क) मणिः
(iii) ‘शक्नोषि’ इति क्रियापदस्य किं कर्तृपदम्?
(क) भिक्षुकः
(ख) गोस्वामी
(ग) त्वम्
(घ) त्रिषु न कोऽपि
उत्तर:
(ग) त्वम्
(iv) ‘त्यक्त्वा’ इत्यर्थे कि पदमत्र प्रयुक्तम् ?
(क) विहाय
(ख) क्षिप्तः
(ग) मत्वा
(घ) मग्न:
उत्तर:
(क) विहाय
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर:
“मणि: मृत्तिकातुल्यम्”।
4. महात्मानो बुद्धस्य शिष्यः आनन्दः आसीत् । एकदा सः ग्रीष्मकाले मार्गे गच्छति स्म। सूर्यस्य आतपः तीव्रः आसीत्। सः पिपासाकुलः जलपानार्थम् इतस्ततः पश्यति स्म । किंचिद् दूरे सः एकाम् कन्याम् अपश्यत्। सा कूपात् जलं निष्कासयति स्म । आनन्दः तस्याः समीपम् अगच्छत् जलं च अयाचत । मातङ्गी प्रत्यवदत् नाहं जलं पाययितुं शक्नोमि यतः अहम् अपवित्रा अस्मि । आनन्दोऽवदत् नाहं पवित्र – अपवित्रकुलो गणयामि। यतः सर्वे जीवा : ईश्वरस्य अंशभूताः भवन्ति। मातङ्गी प्रसन्नमनसा स्वकीयघटात् जलम् अस्त्रावयत्। आनन्दः यथेष्टं जलं पीतवान्। मातङ्गी बुद्धस्य समीपम् अगच्छत् । भगवान् बुद्धः तस्यै अमृततुल्यवचनैः उपदेशम् अयच्छत् । मातङ्गी ज्ञानं लब्ध्वा अभूतपूर्वं शान्तिं प्राप्तवती । नूनं कर्मणा एव नरः उच्चः नीचः वा भवति ।
प्रश्ना:-
I. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
- माहात्मनः बुद्धस्य शिष्यस्य नाम किम् आसीत्?
- शिष्यः किमर्थम् इतस्ततः पश्यति स्म ?
- सर्वे जीवाः कस्य अंशभूताः भवन्ति ?
उत्तर:
- आनन्दः
- जलपानार्थम्
- ईश्वरस्य
II. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्)
- आनन्दः कुत्र अगच्छत् किं च अयाचत?
- मातङ्गी कथं शान्ति प्राप्तवती ?
- आनन्दः मातङ्गीं किम् अवदत् ?
उत्तर:
- आनन्द कन्याया: समीपे अगच्छत् जलम् च अयाचत।
- मातङ्ङ्गी ज्ञानं लब्ध्वा अभूतपूर्वं शान्तिं प्राप्तवती ।
- आनन्द: मातङ्गीम् अवदत् यत् सः पवित्र – अपवित्रकुलः न गणयति । यतः सर्वे जीवाः ईश्वरस्य अंशभूताः भवन्ति ।
III. यथानिर्देशम् उत्तरत-
(i) ‘प्रत्यावदत्’ इति क्रियापदस्य किं कर्तृपदम् अत्र प्रयुक्तम्?
(क) आनन्दः
(ख) मातङ्गी
(ग) बुद्धः
(घ) सूर्य:
उत्तर:
(ख) मातङ्गी
(ii) ‘भानो:’ इति अर्थे किम् पदम् अत्र प्रयुक्तम् ?
(क) मार्गे
(ख) दूरे
(ग) बुद्धस्य
(घ) सूर्यस्य
उत्तर:
(घ) सूर्यस्य
(iii) ‘नूनं कर्मणा एव नरः उच्चः नीचः वा भवति’ अत्र ‘उच्चः’ इति पदस्य विलोमपदं किम् ?
(क) कर्मणा
(ख) भवति
(ग) उच्चः
(घ) नीचः
उत्तर:
(घ) नीचः
(iv) ‘एकाम् कन्याम्’ अत्र विशेष्यपदं किम्?
(क) कन्याम्
(ख) शिष्याय
(ग) बुद्धाय
(घ) नराय
उत्तर:
(क) कन्याम्
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर:
“नूनम् कर्मणा एव नरः उच्चः नीचः वा भवति । सर्वे जीवाः ईश्वरस्य अंशभूता:”
5. एकदा एका पञ्चदशवर्षीया बालिका पित्रा सह मेलकं द्रष्टुं नगरं प्रति गच्छति स्म । सा चतुरमतिः धैर्यशालिनी च आसीत् । सा बाल्यकाले एव विविधासु विद्यासु पारङ्गता आसीत्। मार्गे एका नदी आसीत् । सा नौकया गच्छति स्म। नौकायाम् अनेके जनाः आसन् । नद्यां एकः मकरः आसीत्। तत्र द्वौ जनौ तस्मात् मकरात् भीतौ जले पतितौ। तयोः मुखे भयस्य छाया आसीत्। सा अपि भीता आसीत् परन्तु सा अचिन्तयत् – ‘तयोः जनयोः रक्षणं कथं करणीयम् ?’ सा जले अकूर्दत् तयोः च जनयोः हस्तौ गृहीत्वा नौकां प्रति आनयत्। सा तयोः रक्षणम् अकरोत् । सा साहसी बालिका लक्ष्मीबायी आसीत्। एतस्यै वीरबालायै नमः ।
प्रश्ना:-
I. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
- साहसी बालिका का आसीत् ?
- मकरः कुत्र आसीत्?
- नद्याम् मकरस्य मुखे कौ आस्ताम् ?
उत्तर:
- लक्ष्मीबाई
- नद्यां
- द्वौ जनौ
II. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्)
- सा बालिका कीदृशी आसीत्?
- सा बालिका कथम् तयोः जनयोः रक्षणं अकरोत् ?
- सा बालिका कुत्र गच्छति स्म ?
उत्तर:
- सा बालिका चतुरमतिः धैर्यशालिनी च आसीत्।
- सा बालिका जले अकूर्दत् तयोः च जनयोः हस्तौ गृहीत्वा नौकां प्रति आनयत् ।
- सा बालिका पित्रा सह मेलकं द्रष्टुम् नगरं प्रति गच्छति स्म |
III. यथानिर्देशम् उत्तरत-
(i) ‘सा बाल्यकाले एव विविधासु विद्यासु पारङ्गता आसीत्’ इति अस्मिन् वाक्ये क्रियापदम् किम्?
(क) बालिका
(ख) बाल्यकाले
(ग) आसीत्
(घ) पारङ्गता
उत्तर:
(ग) आसीत्
(ii) ‘शैशवकाले’ इत्यत्र समानार्थकपदं किं प्रयुक्तम् ?
(क) नौकया
(ख) भयस्य
(ग) बाल्यकाले
(घ) एतस्यै
उत्तर:
(ग) बाल्यकाले
(iii) ‘विद्यासु’ इति पदस्य विशेषणपदं किम् ?
(क) विविधासु
(ख) पारङ्गता
(ग) बालिका
(घ) नगरं
उत्तर:
(क) विविधासु
(iv) ‘निर्भीका’ इति पदस्य विपरीतार्थकम् पदं किम् ?
(क) भयस्य
(ख) भीता
(ग) भीतौ
(घ) साहसी
उत्तर:
(ख) भीता
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर:
‘साहसी बालिका” / “वीरबाला लक्ष्मीबाई’ ।
6. आयुर्वेदः भारतस्य भारतीयानां च प्राचीनतमा मौलिकी चिकित्सापद्धतिः वर्तते । सृष्टिपरम्परायाः आयुर्वेदः शाश्वतं नित्यं च भारतीयचिकित्साविज्ञानम् । अतः आयुर्वेदः एव भारतीयचिकित्साविज्ञानस्य मूलम् इति अस्माकं मतिः। अद्यापि संपूर्णविश्वे अस्य महत्त्वं न्यूनं न जातम्। अस्य महिमा तु उत्तरोत्तरं वर्धते एव। धन्यम् एतत् जीवनविज्ञानम् ।
प्रश्ना:-
I. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
- प्राचीनतमा चिकित्सापद्धतिः का?
- आयुर्वेदः केषां चिकित्सापद्धति:?
- कस्य महिमा उत्तरोत्तरं वर्धते ?
उत्तर:
- आयुर्वेदः
- भारतीयानां
- आयुर्वेदस्य
II. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
- आयुर्वेदस्य किं न्यूनं न जातम् ?
- आयुर्वेदः कीदृशं : चिकित्साविज्ञानम् ?
- भारतीयचिकित्साविज्ञानस्य मूलं किम् ?
उत्तर:
- आयुर्वेदस्य महत्त्वम् न्यूनं न जातम्।
- आयुर्वेदः शाश्वतं नित्यं च चिकित्साविज्ञानम् ।
- भारतीयचिकित्साविज्ञानस्य मूलम् आयुर्वेदः अस्ति ।
III. अस्य अनुच्छेदस्य कृते उचितं शीर्षकं लिखत ।
उत्तर:
‘आयुर्वेदः एव भारतीयानां मौलिकी चिकित्सापद्धतिः’।
IV. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत-
(i) ‘वर्तते’ अस्य कर्तृपदं किमस्ति ?
(क) आयुर्वेदः
(ख) भारतस्य
(ग) प्राचीनतमा
(घ) मौलिक
उत्तर:
(क) आयुर्वेदः
(ii) ‘महत्त्वम्’ अस्य पदस्य विशेषणपदं किम् ?
(क) न्यूनम्
(ख) जातम्
(ग) संपूर्णे
(घ) अद्यापि
उत्तर:
(क) न्यूनम्
(iii) ‘विचारः’ इत्यर्थे किं पदमत्र प्रयुक्तम् ?
(क) मूलम्
(ख) मतिः
(ग) एषः
(घ) शाश्वतम्
उत्तर:
(ख) मति:
(iv) गद्यांशे ‘अधिकं’ इति पदस्य विपरीतपदं किमस्ति ?
(क) मूलम्
(ख) न्यूनम्
(ग) शाश्वतम्
(घ) नित्यम्
उत्तर:
(ख) न्यूनम्
Sanskrit Unseen Passage for Class 8
1. अधोदत्तम् प्रत्येकंअनुच्छेदं पठत प्रश्नान् च उत्तरत-(नीचे दिए गए प्रत्येक अनुच्छेद को पढ़िए और प्रश्नों के उत्तर दीजिए-)
ग्रीष्मकालः सुखदस्य वसन्तकालस्य पश्चात् आगच्छति। ग्रीष्मकाले सूर्यस्य आतपः प्रखरः वर्तते । मानवाः पशु-पक्षिणः वृक्षाः, पादपाः चापि प्रखर-तापेन व्याकुलाः भवन्ति। केचित् जनाः विहाराय पर्वतस्थलेषु गच्छन्ति, केचित् गृहे वातानुकूलितेषु कक्षेषु तिष्ठन्ति । नद्यः, सरोवराः, तडागाः च शुष्यन्ति। सर्वत्र जलस्य अभावः दृश्यते। परं यदि ग्रीष्म-कालस्य प्रचण्डः तापः न स्यात् तर्हि मेघाः कथं भविष्यन्ति। मेघान् विना कुतः वृष्टिः? ग्रीष्मकालस्य प्रभावात् एव वर्षा-ऋतुः आगच्छति। ग्रीष्मकाले गुलमोहर-वृक्षेषु रक्तानि पुष्पाणि अतीव शोभन्ते। मल्लिका-मालती-पादपेषु सुगन्धमयानि श्वेतानि पुष्पाणि विकसन्ति।
I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)
1. ग्रीष्मकालः कस्य कालस्य पश्चात् आगच्छति ?
2. जनाः किमर्थं पर्वतस्थलेषु गच्छन्ति ?
3. ग्रीष्मकाले कस्य अभावः दृश्यते ?
4. ग्रीष्मकाले केषु वृक्षेषु रक्तानि पुष्पाणि आगच्छन्ति ?
उत्तरम्:
1. वसन्तकालस्य
2. विहाराय
3. जलस्य
4. गुलमोहरवृक्षेषु
II. पूर्णवाक्येन उत्तरत-(एक वाक्य में उत्तर दीजिए-)
श्वेतानि पुष्पाणि कुत्र विकसन्ति ?
उत्तरम्-
मल्लिका-मालती-पादपेषु सुगन्धमयानि श्वेतानि पुष्पाणि विकसन्ति।
III. यथानिर्देशम् उत्तराणि लिखत-(निर्देशानुसार उत्तर दीजिए)
1. स्यात् = …………………. धातुः, …………………. लकारः, …………………. पुरुषः, …………………. वचनम्
2. विहाराय = …………………. विभक्तिः , …………………. वचनम्।
उत्तरम्:
1. अस्, विधिलिङ, प्रथमः, एक
2. चतुर्थी, एकवचनम्।
IV. 1. समानार्थकम् पदम् चित्वा लिखत- प्रचण्डः = ………………….
2. विलोमपदम् लिखत-शैत्यम् = ………………….
उत्तरम्:
1. प्रखर:
2. तापः
2. भारतवर्षः कृषिप्रधान-देशः। अत्र अनेके जनाः ग्रामेषु निवसन्ति। कृषकाः कृषि-कार्यं कुर्वन्ति अन्नानि च उत्पादयन्ति। अन्नं विना कुतः जीवनम्? कृषिकार्यं विना च कथम् अन्नानाम् उत्पादनम् भवेत्? अतः ग्रामाणां कृषकाणां च महत्त्वम्। केचित् ग्रामीणाः स्वे-स्वे गृहे स्थित्वा कार्याणि कुर्वन्ति। यथा लौहकाराः लौहकार्यम् कुर्वन्ति, कुम्भकाराः घयन् रचयन्ति, तक्षकाः काष्ठेन मञ्चकान्, फलकान् आसन्दिकाः च रचयन्ति। अनेकेषु ग्रामेषु विद्युत्-सुविधा न अस्ति। जलानाम् अभावे कृषिः अपि इष्टम् फलं न ददाति। वस्तुतः ग्राम्य-जीवनम् अति कठिनम्। परम् ग्रामीणाः अल्पेन एवं सन्तुष्टाः भवन्ति।
I. एकपदेन उत्तरत–(एक पद में उत्तर दीजिए-)
1. भारतवर्षः कीदृशः देश: ? ।
2. के अन्नानि उत्पादयन्ति ?
3. कः घटान् रचयति ?
4. जलाभावे का इष्ट-फलं न ददाति ?
उत्तरम्:
1. कृषिप्रधान:
2. कृषकाः
3. कुम्भकार:
4. कृषिः |
II. पूर्णवाक्येन उत्तरत–(पूर्ण वाक्य में उत्तर दीजिए-)
तक्षकाः किं कुर्वन्ति ?
उत्तरम्:
तक्षकाः काष्ठेन मञ्चकान्, फलकान् आसन्दिकाः च रचयन्ति।
III. निर्देशानुसारं रिक्तस्थानानि पूरयत-(निर्देशानुसार रिक्त स्थान भरिए-)
1. भवेत् = …………………. धातुः, …………………. लकार:, …………………. पुरुषः, …………………. वचनम्।
2. कार्याणि = …………………. विभक्तिः , …………………. वचनम्
उत्तरम्:
1. भू, विधिलिङ, प्रथमः, एक।
2. द्वितीया, बहु।
IV. 1. अन्नं विना-अत्र विना योगे का विभक्तिः प्रयुक्ता? ………………….
2. समानार्थकं पदं चित्वा लिखत-यच्छति = ………………….
3. ‘जलानाम् अभावे कृषिः अपि इष्टं फलं न ददाति’ इति वाक्ये
(क) कर्तृपदम् किम्? |
(i) जलानाम्।
(ii) कृषिः
(iii) इष्टम्।
(ख) कर्मपदम् किम्? |
(i) अपि
(ii) इष्टम्।
(iii) फलम्।
उत्तरम्:
1. द्वितीया
2. ददाति।
3. (क) (ii) कृषि
(ख) (iii) फलम्
3. रामायणम् महाभारतम् च द्वे महाकाव्ये संस्कृत-साहित्यस्य। एतौ ग्रन्थौ भारतीय-संस्कृतेः आधारस्तम्भौ। आदिकाव्यं रामायणम् ऋषेः वाल्मीकेः रचना अस्ति। इदम् काव्यम् अष्टेषु अध्यायेषु वर्तते। ऋषिः वाल्मीकिः आदिकविः कथ्यते । महाभारतस्य रचयिता ऋषिः वेदव्यासः । महाभारतं नाम महाकाव्यम्। विश्व-कोषः इति कथ्यते। ‘यत् इह अस्ति न तत् अन्यत्र’ इति मन्यते । अयं ग्रन्थः शतसहस्र-श्लोकेषु निबद्धः। विश्व-प्रसिद्ध श्रीमद्भगवद्गीता अस्य महाकाव्यस्य अंशः अस्ति। गीतायाम् श्रीकृष्णः अर्जुनाय उपदिशति-‘कर्तव्य-भावेन स्वकर्त्तव्यं कुरु, कर्म-फलस्य आशाम् मा कुरु’। एषः उपदेशः जनानां हितकरः।।
I. एकपदेन उत्तरत।
1. रामायणं कस्य रचना ?
2. ऋषि: वेदव्यासः कस्य रचयिता ?
3. कः आदिकविः कथ्यते ?
4. किं नाम महाकाव्यं विश्वकोषः कथ्यते ?
उत्तरम्:
1. ऋषिवाल्मीके:
2. महाभारतस्य
3. वाल्मीकिः
4. महाभारतम्
II. एकवाक्येन उत्तरत।
श्रीकृष्णः अर्जुनाय किम् उपदिशति ?
उत्तरम्:
श्रीकृष्णः अर्जुनाय उपदिशति-कर्तव्यभावेन स्वकर्तव्यं कुरु, कर्मफलस्य आशा मा कुरु इति।
III. 1. एषः उपदेश:–अत्र किं विशेषणम्?
2. यथानिर्देशम् उत्तरत।
(क) कुरु = …………………. धातुः, …………………. लकारः, …………………. पुरुषः, …………………. वचनम्।
(ख) ऋषेः = …………………. विभक्तिः …………………. वचनम्।
3. बहुवचनम् लिखत-
(क) कुंरु (ए०व०) = …………………. बहुवचनम्।
(ख) स्वकर्त्तव्यम् (ए०व०) = …………………. बहुवचनम्
4. पर्यायम् लिखत
(क) रचित: ………………….
(ख) लेखक:- ………………….
उत्तरम्:
1. एषः
2. (क) कृ, लोट्, मध्यमः, एक.
(ख) षष्ठी, एक
3. (क) कुरुत
(ख) स्वकर्तव्याणि
4. (क) निबद्धः
(ख) रचयिता
IV. ‘गीतायाम् श्रीकृष्णः अर्जुनाय उपदिशति’ इति वाक्ये कर्तृपदम् किम्?
(गीतायाम्, श्रीकृष्णः, अर्जुनाय)
उत्तरम्:
श्रीकृष्णः
4. नदी-तीरे अस्ति एकः वट-वृक्षः। एकः अल्पज्ञः बालकः तस्य छायायाम् उपविष्टः। पश्यतिएकस्याम् लतायाम् विशालानि कालिन्द-फलानि सन्ति । सः चिन्तयति-अहो विचित्रम्! सुकोमलायाम् लतायाम् दीर्घानि फलानि, विशाले वट-वृक्षे च लघूनि पुष्पाणि सन्ति । नूनम् एव ईश्वरः मन्दमतिः मूर्खः च। एवम् चिन्तयन् सः वृक्षस्य अधः तिष्ठति स्म। तदैव एकम् सुकोमलम् पुष्पम् तस्य शिरसि पतति। सः विचारयति-यदि एतस्मिन् वृक्षे विशालम् फलम् स्यात् तर्हि अद्य मे शीर्षम् भग्नम् भवेत्। सौभाग्येन अहम् सकुशलः अस्मि। ईश्वरः यत् करोति शोभनं करोति। ननु मूर्खः अहम्, न तु ईश्वरः।
I. एकपदेन उत्तरत।।
1. वटवृक्षः कुत्र अस्ति?
2. विशालानि फलानि कस्याम् सन्ति ?
3. वटवृक्ष कीदृशानि पुष्पाणि?
4. बालकः कीदृशः अस्ति?
उत्तरम्:
1. नदीतीरे
2. लतायाम्
3. लघूनि
4. अल्पज्ञः
II. एकवाक्येन उत्तरत
अन्ततः बालकस्य ईश्वरविषये किं मतम् ?
उत्तरम्:
अन्ततः बालकस्य ईश्वरविषये इदं मतम् ‘ईश्वरः यत् करोति शोभनं करोति’। |
III. यथानिर्देशम् उत्तरत।
1. ‘दीर्घानि फलानि’–अत्र किं विशेषणम्?
2. (क) भवेत् = …………………. धातुः, …………………. लकारः, …………………. पुरुषः, …………………. वचनम्
(ख) लतायाम् = …………………. विभक्तिः …………………. वचनम्।
(ग) तदा + एव = ………………….
3. बहुवचने परिवर्त्य लिखत
(क) विशालम् फलम् = ………………….
(ख) एतस्मिन् वृक्षे = ………………….
(ग) अहम् मूर्खः = ………………….
उत्तरम्:
1. दीर्घानि
2. (क) भू, विधिलिङ, प्रथमः, एक
(ख) सप्तमी, एक
(ग) तदैव
3. (क) विशालानि फलानि
(ख) एतेषु वृक्षेषु
(ग) वयम् मूर्खाः
IV. ‘नदीतीरे अस्ति एकः वट-वृक्षः, इति वाक्ये ‘अस्ति’ क्रियापदस्य कर्ता कः?
(i) नदीतीरे
(ii) एकः
(iii) वटवृक्षः
उत्तरम्:
वटवृक्षः
5. व्याघ्रः अस्माकं राष्ट्र-पशुः। अतीव मनोहरः अयम्। अस्य शरीरे पीत-कृष्ण वर्णाः पंक्तयः नितरां शोभन्ते। कदाचित् अयं सघनेषु वनेषु निर्भयं विहरति स्म। हन्त! साम्प्रतम् व्याघ्राणां संख्या अत्यल्पा जाता। व्याघ्र-जातिं सर्वनाशात् रक्षितुं वन-पर्यावरण-मन्त्रालयः अनेकान् उपायान् करोति; परं सर्वे प्रयत्नाः निष्फलाः भवन्ति। कारणं किम्? केषाञ्चित् धूर्तानां लोभः अथ वा वनानां छेदनम्। अस्माकं वन-सम्पत्तिः रक्षितव्या, देशस्य राष्ट्रपशुः चापि रक्षणीयः। ‘परियोजना-व्याघ्रः’ (Project Tiger) सफलः भवेत्। अन्यथा भविष्यत्-काले वयं पुस्तकेषु अस्य चित्रमेव द्रक्ष्यामः।
I. एकपदेन उत्तरत।
1. अस्माकं राष्ट्रपशुः कः?
2. व्याघ्रं रक्षितुं कः उपायान् करोति ?
3. केषां संख्या अत्यल्पा जाता ?
4. अस्माकं का रक्षितव्या?
उत्तरम्:
1. व्याघ्रः
2. वन-पर्यावरण मन्त्रालयः
3. व्याघ्राणाम् 4. वन-सम्पदा
II. पूर्णवाक्येन उत्तरत
वन-पर्यावरण-मन्त्रालयः किमर्थम् उपायं करोति ?
उत्तरम्:
वन-पर्यावरण मन्त्रालयः व्याधं जाति सर्वनाशात् रक्षितुम् अनेकान् उपायान् करोति।
III. यथानिर्देशम् उत्तरत।
1. कदाचित् अयं सघनेषु वनेषु निर्भयं विहरति स्म।’ इति वाक्ये-
(क) कि विशेषणपदम्? ………………….
(ख) किम् अव्ययम्? ………………….
(ग) “अयं’ स्थाने संज्ञापदं प्रयोज्य वाक्यं पुनः लिखत। ………………….
उत्तरम्:
1. (क) सघनेषु
(ख) कदाचित्
(ग) कदाचित् व्याघ्रः सघनेषु वनेषु निर्भयं विहरति स्म।
2. विपर्ययम् लिखत।
(क) सफलाः
(ख) अत्यधिका
उत्तरम्:
(क) निफलाः
(ख) अत्यल्पा।
3. (क) ‘द्रक्ष्याम:’-अत्र कः धातुः?
(ख) ‘सर्वे’–अत्र का विभक्तिः ?
(ग) “रक्षितुम्’-अत्र कः प्रत्ययः?
उत्तरम्:
(क) दृश्
(ख) प्रथमा विभक्तिः
(ग) तुमुन् प्रत्ययः।
4. (क) चित्रमेव = …………………. + ………………….| (चित्रम + एव; चित्रम् + ऐव, चित्रम् + एव)
(ख) चापि = …………………. + …………………. (चा + पि, च + आपि, च + अपि)
उत्तरम्:
(क) चित्रम् + एव
(ख) च + अपि
6. हिमालयः भारतस्य उत्तरस्यां दिशायाम् स्थितः। एषः हि संसारस्य उन्नततमः पर्वतः। माउँट-एवरेस्ट इति हिमालस्य उन्नततमम् शिखरम्। इदम् शिखरम् नेपालदेशे स्थितम्। अनेकाः नद्यः हिमालयात् निर्गच्छन्ति देशस्य च विशालं भूभागं सिञ्चन्ति। अयं गिरिः अनेकासां वनस्पतीनाम् अपि आलयः। अत्र अनेकाः ओषधयः जायन्ते। हिमालयस्य कानिचित् शिखराणि सर्वं वर्ष हिमेन आच्छादितानि। पर्यटकाः अत्र हिमक्रीडानाम् आनन्दम् अनुभवितुम् आगच्छन्ति। अयं हि पर्वतानां राजा।
I. एकपदेन उत्तरत।
1. कः पर्वतानां राजा?
2. हिमालयः भारतस्य कस्यां दिशायां स्थित:?
3. हिमालयस्य उन्नततमम् शिखरम् किम्
4. अत्र अनेकाः काः जायन्ते?
उत्तरम्:
1. हिमालयः
2. उत्तरस्याम्
3. माउँट-एवरेस्ट
4. ओषधयः
II. पूर्णवाक्येन उत्तरत।
1. कानि सर्वं वर्ष हिमेन आच्छादितानि? ………………….
2. पर्यटकाः अत्र किमर्थम् आगच्छन्ति? ………………….
उत्तरम्:
1. हिमालयस्य कानिचित् शिखराणि सर्वं वर्ष हिमेन आच्छादितानि।
2. पर्यटकाः अत्र हिमक्रीडानाम् आनन्दम् अनुभवितुम् आगच्छन्ति।
III. भाषिककार्यम्-यथानिर्देशम् उत्तरत-
1. (क) अत्र अनेकाः ओषधयः जायन्ते’। इति वाक्ये ‘जायन्ते’ क्रियापदस्य कर्ता कः? (अत्र, ओषधयः, अनेकाः ) …………………………………..
(ख) अस्मिन् वाक्ये किम् अव्ययपदम् प्रयुक्तम्? …………………………………..
(ग) अत्र किम् विशेषणम्? …………………………………..
(घ) ………………………………….. (ए. व.) ………………………………….. (द्वि. व.) ओषधयः (ब. व.)
2. ‘अनेकाः नद्यः हिमालयात् निर्गछन्ति’ इति वाक्ये-
(क) हिमालयात् = ………………………………….. विभक्तिः ………………………………….. वचनम्
(ख) निर्गच्छन्ति = ………………………………….. उपसर्ग ………………………………….. धातुः
(ग) ………………………………….. (ए.व.) ………………………………….. (द्वि. व.) नद्यः (ब. व.)
3. (क) पर्यायम् लिखत- (i) पर्वत: = ………………………………….. (ii) गृहम् = …………………………………..
(ख) विपर्ययम् लिखत- (i) लघुम् = ………………………………….. (ii) दक्षिणस्याम् = …………………………………..
उत्तरम्:
1. (क) ओषधयः
(ख) अत्र
(ग) अनेकाः
(घ) ओषधिः, ओषधी
2. (क) पञ्चमी, एकवचनम्
(ख) निर्, गम् (ग) नदी, नद्यौ
3. (क)
(i) गिरिः
(ii) आलयः
(ख) (i) विशालम्
(ii) उत्तरस्याम्।
7. प्रातः काल अति सुखकरः भवति। खगाः मधुरं कूजन्ति। उद्यानेषु पुष्पाणि विकसन्ति। पवनः सुगन्धः शुद्धः च अस्ति। जनाः भ्रमणाय व्यायामाय वा गच्छन्ति। यदा पूर्वस्यां दिशायाम् सूर्यः उदयं गच्छति तदा क्षितिजस्य शोभा दर्शनीया भवति। एतत् मनोहरं दृश्यम् दृष्ट्वा चित्तम् प्रसन्नम् भवति। प्रातः सर्वे जनाः स्व-स्व-कार्यम् उल्लासेन कुर्वन्ति। परम् अलसाः सुप्ताः सन्ति। छात्राः प्रसन्नमुखेन विद्यालयम् पठनाय गच्छन्ति। सर्वे नवजीवनम् अनुभवन्ति।
I. एकपदेन उत्तरम्
1. प्रात:काल कीदृशः भवति? …………………………………..
2. के मधुरं कुजन्ति? …………………………………..
3. जनाः किमर्थम् गच्छन्ति? …………………………………..
4. सर्वे किम् अनुभवन्ति? …………………………………..
उत्तरम्:
1. सुखकरः,
2. खगाः,
3. भ्रमणाय/व्यायामाय,
4. नवजीवनम्
II. एकवाक्येन उत्तरम्
छात्राः प्रातः किम् कुर्वन्ति?
उत्तरम्:
छात्रा: प्रात: विद्यालयम् पठनाय गच्छन्ति।
III. 1. ‘पूर्वस्यां दिशायाम्’-अत्र किम् विशेषणपदम्?
2. यथानिर्देशम् उत्तरत-
(क) कुर्वन्ति = …………………. धातुः, …………………. लकार: …………………., पुरुष: …………………. वचनम्
(ख) दृष्ट्वा = …………………. धातुः, …………………. प्रत्ययः
(ग) पठनाय = …………………. विभक्तिः , …………………. वचनम्।
(घ) नवजीवनम् = …………………. विभक्तिः , …………………. वचनम्
3. विलोमपदं लिखते-
(क) पश्चिमायाम् = ………………….
(ख) अस्तं गच्छति = ………………….
4. समानार्थकं पदम् लिखत-
(क) सुन्दरम् = ………………….
(ख) रविः = ………………….
5. एकवचने परिवर्त्य वाक्यं पुनः लिखत-
(क) उद्यानेषु पुष्पाणि विकसन्ति। ………………….
(ख) खगाः मधुरं कूजन्ति। ………………….
उत्तरम्:
1. पूर्वस्याम्
2. (क) कृ धातुः, लट् लकारः, प्रथमः पुरुषः, बहुवचनम्
(ख) दृश् धातुः, क्त्वा प्रत्ययः
(ग) चतुर्थी विभक्तिः एकवचनम्
(घ) द्वितीया विभक्तिः एकवचनम्।
3. (क) पूर्वस्याम्
(ख) उदयं गच्छति
4. (क) मनोहरम्
(ख) सूर्यः
5. (क) उद्याने पुष्पं विकसति।
(ख) खगः मधुरं कूजति।
अधोलिखितम् अनुबन्धम् पठित्वा तदाधारितानाम् प्रश्नानाम् उत्तराणि लिखत-
(क) युवकः अचिन्तयत्-अयं घटः सक्तुभिः पूर्णः अस्ति। अनेन दुभिः शतं रूप्यकाणि भविष्यन्ति। तैः अहम् अजाद्वयं क्रेष्यामि। शनैः शनैः अजानां समूहः भविष्यति। तेन अहम् क्रमशः गाः, महिषीः, वडवाः च क्रेष्यामि। तेन बहुसुवर्णं प्राप्स्यामि।
प्रश्न I. एकपदेन उत्तरत-
(i) कः अचिन्तयत्?
(ii) घटः कैः पूर्णः अस्ति?
(iii) कदा शतं रूप्यकाणि भविष्यन्ति?
(iv) युवक: रूप्यकैः किं क्रेष्यति?
उत्तर-
(i) युवकः
(ii) सक्तुभिः
(iii) दभिः
(iv) पशून्
प्रश्न II.
पूर्णवाक्येन उत्तरत-
शनैः शनैः कः भविष्यति?
उत्तर-
शनैः शनैः अजानां समूहः भविष्यति।
प्रश्न III.
निर्देशानुसारम् उत्तरत-
(i) भविष्यन्ति इति पदे कः लकारः?
(ii) सक्तुभिः इति पदे का विभक्तिः?
(iii) अनुच्छेदस्य शीर्षको लेखनीयः।
(iv) ‘वडवा’ इत्यस्य पर्याय शब्दं लिखत।
(v) ‘घट: सक्तुभिः पूर्णः अस्ति’-अत्र क्रियापदं लिखत।
उत्तर-
(i) लृट् लकारः
(ii) तृतीया विभक्ति
(iii) ‘अनागती चिन्ता’
(iv) अश्वा/घोटिका
(v) अस्ति
(ख) एकदा अकस्मात् चन्द्रशेखरः आंग्लशासकैः आक्रान्तः। सः निर्भयः आसीत्। सः एकाकी बहून् सैनिकान् हतवान्। अन्ते एका गोलिका अवशिष्टा। सः तया स्वयमेव आत्मानं वीरगति प्रापयत्।
प्रश्न I.
एकपदेन उत्तरत-
(i) चन्द्रशेखरः कैः आक्रान्तः?
(ii) सः कति सैनिकान् हतवान्?
(iii) अन्ते कति गोलिकाः अवशिष्टाः?
(iv) चन्द्रशेखरः कीदृशः आसीत्?
उत्तर-
(i) आग्लशासकैः
(ii) बहून्
(iii) एका
(iv) निर्भयः
प्रश्न II.
पूर्णवाक्येन उत्तरत-
चन्द्रशेखरः कथं वीरगतिं प्रापयत्?
उत्तर-
सः तया स्वयमेव आत्मानं वीरगतिं प्रापयत्।
प्रश्न III.
निर्देशानुसारम् उत्तरत-
(i) आसीत् इति पदे कः लकारः?
(ii) सैनिकान् इति पदे का विभक्तिः?
(iii) अनुच्छेदस्य शीर्षको लेखनीयः।
(iv) ‘निर्भयः’ इत्यस्य विलोम शब्दं लिखत।
(v) ‘सः निर्भयः आसीत्’ इत्यत्र ‘सः’ इत्यस्य सझापदं लिखत।
उत्तर-
(i) लङ् लकार
(ii) द्वितीया विभक्ति
(iii) ‘निर्भयः चन्द्रशेखरः’
(iv) अभयः / भयः
(v) चन्द्रशेखरः
(ग) चन्द्रः सूर्यः इव दृश्यते। परम् चन्द्रः सूर्यवत् विशालः न अस्ति। अयं तु पृथिव्याः अपि लघुः अस्ति। चन्द्रमाः एव धरायाः सर्वेषु नक्षत्रेषु समीपवर्ती अस्ति। अयं पृथिवीं प्रति अष्टाविंशतितमे दिवसे परिक्रमां पूरयति।
प्रश्न I.
एकपदेन उत्तरत-
(i) चन्द्रः कः इव दृश्यते?
(ii) चन्द्रः किंवत् विशालः न अस्ति?
(iii) चन्द्रः कस्याः अपि लघुः अस्ति?
(iv) चन्द्रः कस्याः समीपवर्ती अस्ति?
प्रश्न II.
पूर्णवाक्येन उत्तरत-
चन्द्रः पृथिव्याः परिक्रमा कति दिवसेषु पूरयति?
प्रश्न III.
निर्देशानुसारम् उत्तरत
(i) ‘लघुः’ इति पदं कस्य विशेषणम् अस्ति?
(ii) दिवसे इति पदे का विभक्तिः?
(iii) अनुच्छेदस्य शीर्षको लेखनीयः।
(iv) ‘लघुः’ इत्यस्य विलोमशब्दं लिखत।
(v) ‘धरा’ इत्यस्य पर्यायशब्द लिखत।
बहुविकल्पीय प्रश्नाः
अधोलिखितं अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-
(क) युवकः अचिन्तयत्-अयं घटः सक्तुभिः पूर्णः अस्ति। अनेन दुभिः शतं रूप्यकाणि भविष्यन्ति। तैः अहम् अजाद्वयं क्रेष्यामि। शनैः शनैः अजानां समूहः भविष्यति। तेन अहम् क्रमशः गाः, महिषी:, वडवाः च क्रेष्यामि। तेन बहुसुवर्णं प्राप्स्यामि।
(i) एकपदेन उत्तरत-
शनैः शनैः केषाम् समूहः भविष्यति?
(क) अश्वानां
(ख) अजानां
(ग) घटानाम्
(घ) मूषकानाम्
(ii) पूर्णवाक्येन उत्तरत-
युवकः क्रमशः किं-किं क्रेष्यति।
(iii) भाषिककार्यम्-
‘प्राप्स्यामि’ इत्यत्र कः लकारः
(क) लट्लकारः
(ख) लृट्लकारः
(ग) लङ्लकारः
(घ) लोट्लकार:
(iv) ‘अचिन्तयत्’ इति क्रियायाः कर्त्ता कः?
(क) गाः
(ख) अजा
(ग) युवकः
(घ) महिषी
(ख) एकदा अकस्मात् चन्द्रशेखरः आंग्लशासकैः आक्रान्तः। सः निर्भयः आसीत्। सः एकाकी बहून् सैनिकान् हतवान्। अन्ते एका गोलिका अवशिष्टा। सः तया स्वयमेव आत्मानं वीरगतिं प्रापयत्।
(i) एकपदेन उत्तरत-
सैनिकान् क हतवान्?
(क) चन्द्रशेखरः
(ख) गोलिका
(ग) आत्मनं
(घ) बहून्
(ii) पूर्णवाक्येन उत्तरत-
कस्य समीपे एका गोलिका अवशिष्टा।
(iii) भाषिककार्यम्-
‘आक्रान्तः’ इत्यत्र कः प्रत्ययः?
(क) क्त्वा
(ख) तुमुन्
(ग) क्त
(घ) तम्
(iv) ‘सैनिकान्’ इति पदे का विभक्तिः?
(क) षष्ठी
(ख) तृतीया
(ग) द्वितीया
(घ) प्रथमा
(ग) चन्द्रः सूर्यः इव दृश्यते। परम् चन्द्रः सूर्यवत् विशालः न अस्ति। अयं तु पृथिव्याः अपि लघुः अस्ति। चन्द्रमाः एव धरायाः सर्वेषु नक्षत्रेषु समीपवर्ती अस्ति। अयं पृथिवीं प्रति अष्टाविंशतितमे दिवसे परिक्रमां पूरयति।
(i) एकपदेन उत्तरत-
धरायाः सर्वेषु नक्षत्रेषु समीपवर्ती कः अस्ति?
(क) मंगल
(ख) बुध
(ग) चन्द्रः
(घ) सूर्यः
(ii) पूर्णवाक्येन उत्तरत-
पृथिव्याः अपि लघुः कः अस्ति!
(iii) भाषिककार्यम्-
‘धरायाः’ इति पदस्य पर्यायः कः अस्ति?
(क) धरा
(ख) पृथिव्याः
(ग) पृथिवीं
(घ) भूमिः
(iv) ‘पृथिव्याः’ इति पदे का विभक्तिः?
(क) षष्ठी
(ख) चतुर्थी
(ग) द्वितीया
(घ) सप्तमी