We have given detailed NCERT Class 8 Sanskrit Deepakam Solutions and Nibandh in Sanskrit Class 8 with Answers निबंध लेखनम् come in handy for quickly completing your homework.
Sanskrit Nibandh Class 8
Class 8 Sanskrit Nibandh Lekhan
Nibandh Lekhan Class 8 Sanskrit
मञ्जूषा में से उचित शब्द चुनकर निबन्धों में यथास्थान भरें-
1. व्यायामः
अस्मिन् संसारे सर्वे ___________ सुखम् इच्छन्ति। शरीरं नीरोगं ___________ च भवेत्। स्वास्थ्यलाभाय ___________ व्यायामः कर्त्तव्यः। व्यायामस्य ___________ प्रकाराः सन्ति, यथा क्रीड़ा, धावनम्, भ्रमणम्, व्यायामयोगः, आसनम्, प्राणायामः, इत्यादयः। अद्यत्वे आसनानाम् प्राणायामस्य ___________ बहु चर्चा वर्तते। गृहे गृहे जनाः दूरदर्शने तेषां। ___________ दृष्ट्वा तदनुसृत्य स्वयमपि आचरन्ति। शरीरं हृष्टं पुष्टं बलिष्ठं भवितव्यम्। तदर्थं सुस्वादु पौष्टिकं भोजनम् आवश्यकम्। तस्य पचनाय अपि ___________ आवश्यकता अस्ति। व्यायामेन शरीरे ___________ संचारः सम्यक् भवति। शरीरं कार्यक्षम ___________ च भवति। मनुष्येण ___________ एव व्यायामः करणीयः।
मञ्जूषा
प्रदर्शनम्, प्रातः, च, लघु, पुष्टं, व्यायामस्य, नित्यं, रक्तस्य, विविधाः, जनाः
उत्तर:
अस्मिन् संसारे सर्वे जनाः सुखम् इच्छन्ति । शरीरं नीरोगं पुष्टं च भवेत्। स्वास्थ्यलाभाय नित्यं व्यायामः कर्त्तव्यः । व्यायामस्य विविधाः प्रकाराः सन्ति, यथा क्रीड़ा, धावनम्, भ्रमणम्, व्यायामयोगः, आसनम्, प्राणायामः, इत्यादयः। अद्यत्वे आसनानाम् प्राणायामस्य च बहु चर्चा वर्तते । गृहे गृहे जनाः दूरदर्शने तेषां। प्रदर्शनं दृष्ट्वा तदनुसृत्य स्वयमपि आचरन्ति । शरीरं हृष्टं पुष्टं बलिष्ठं भवितव्यम् । तदर्थं सुस्वादु पौष्टिकं भोजनम् आवश्यकम्। तस्य पचनाय अपि लघु आवश्यकता अस्ति। व्यायामेन शरीरे रक्तस्य संचार: सम्यक् भवति । शरीरं कार्यक्षमं च भवति। मनुष्येण प्रातः एव व्यायामः करणीयः ।
2. संस्कृतभाषायाः महत्त्वम्
संस्कृतभाषा ___________ प्राचीनतमा भाषा अपि। एषा ___________ अपि कथ्यते। अस्यां भाषायाम् सर्वविधं ___________ विज्ञानं च अस्ति। सदाचारस्य नीतिशास्त्रस्य च उच्चतमा ___________ अपि संस्कृतभाषया प्राप्यते। प्राचीनकाले इयं भाषा देशस्य ___________ अस्ति। सांस्कृतिक-दृष्टया तु, इयं विश्वभाषा अस्ति। एषा सर्वासाम् आर्यभाषाणां जननी अस्ति। वाल्मीकि-व्यास-भास-कालिदास-भवभूति-इत्यादयः कवयः विश्ववाङ्मयस्य अमूल्यानि ___________ सन्ति। संस्कृतस्य ___________ अस्माभिः सर्वदा प्रयत्नः करणीयः। संस्कृतभाषायां ___________ अभ्यासः करणीयः। गीता-रामायणादि-ग्रन्थानां ___________ अपि करणीयम्। इयं भारतीयानां ___________ भवेत्।
मञ्जूषा
रत्नानि, राजभाषा, शिक्षा, ज्ञानम्, परिशीलनम्, देववाणी, व्यवहारभाषा, संसारस्य, प्रचाराय, सम्भाषणस्य
उत्तर:
संस्कृतभाषा संसारस्य प्राचीनतमा भाषा अपि । एषा देववाणी अपि कथ्यते । अस्यां भाषायाम् सर्वविधं ज्ञानं विज्ञानं च अस्ति। सदाचारस्य नीतिशास्त्रस्य च उच्चतमा शिक्षा अपि संस्कृतभाषया प्राप्यते । प्राचीनकाले इयं भाषा देशस्य व्यवहारभाषा अस्ति । सांस्कृतिक दृष्टया तु, इयं विश्वभाषा अस्ति। एषा सर्वासाम् आर्यभाषाणां जननी अस्ति। वाल्मीकि-व्यास – भास – कालिदास – भवभूति-इत्यादयः कवयः विश्ववाङ्मयस्य अमूल्यानि रत्नानि सन्ति । संस्कृतस्य प्रचाराय अस्माभिः सर्वदा प्रयत्नः करणीयः । संस्कृतभाषायां सम्भाषणस्य अभ्यासः करणीयः । गीता-रामायणादि-ग्रन्थानां परिशीलनम् अपि करणीयम्। इयं भारतीयानां व्यवहारभाषा भवेत्।
3. मम शिक्षकः
डॉ० परमानन्दगुप्तः मम ___________ अस्ति। सः संस्कृतभाषायाः ___________ अस्ति। सः ___________ अनुशासनप्रियः अस्ति। सः छात्रान् ___________ पाठयति। सः अन्येषु शिक्षकेषु अपि ___________ अस्ति। अहं यदा-कदा तस्य ___________ अपि गच्छामि। सः अपि मम गृहम् ___________। सः प्रतिदिनं ___________ करोति। सः सर्वदा ___________ दृश्यते। तस्य स्मरणशक्तिः ___________ अस्ति।
मञ्जूषा
विद्वान्, विलक्षणा, व्यायाम, शिक्षकः, गृहम्, प्रसन्नमुखः, आयाति, अतीव, लोकप्रियः, प्रेमपूर्वकम्
उत्तर:
मम शिक्षकः
डॉ॰ परमानन्दगुप्तः मम शिक्षकः अस्ति। सः संस्कृतभाषायाः विद्वान् अस्ति। सः अतीव अनुशासनप्रियः अस्ति। सः छात्रान् स्नेहेन पाठयति । सः अन्येषु शिक्षकेषु अपि लोकप्रियः अस्ति । अहं यदा-कदा तस्य गृहम् अपि गच्छामि। सः अपि मम गृहम् आयाति । सः प्रतिदिनं व्यायामं करोति। सः सर्वदा प्रसन्नमुखः दृश्यते । तस्य स्मरणशक्तिः विलक्षणा अस्ति ।
4. दीपावलिः
अस्माकं ___________ बहवः उत्सवाः मान्यन्ते। तेषु ___________ एकः प्रमुख उत्सवः अस्ति। अयं ___________ अमावस्यायां भवति। श्रीरामचन्द्रस्य अयोध्यायाम् आगमनम् उपलक्ष्य उत्सवः मान्यते। जनाः गृहेषु अधिकाधिक प्रकाशं कुर्वन्ति। रात्रौ ___________ कुर्वन्ति। जनाः ___________ प्रकाशेन अन्धकारस्य नाशं कुर्वन्ति। सर्वत्र ___________ उत्साहः वर्तते। नराः मिष्टान्नानि सेवन्ते, शुभ्राणि ___________ वस्त्राणि धारयन्ति। परस्परम् उपहारान् मिष्टान्नानि च वण्टयन्ति। दीपावल्याम् अपूर्वा ___________ दर्शनीया भवति। भगवतः महावीरस्य महर्षेः दयानन्दस्य च ___________ अस्मिन् एव दिने अभवत्। अयं महामहोत्सवः अस्ति।
मञ्जूषा
उत्सवः, देशे, शोभा, निर्वाणम्, दीपानां, लक्ष्मीपूजनम्, अपूर्वः, उत्सवेषु, एषः, नवानि
उत्तर:
अस्माकं देशे बहवः उत्सवाः मान्यन्ते । तेषु उत्सवेषु एकः प्रमुखः उत्सवः अस्ति । अयम् उत्सवः अमावस्यायां भवति। श्रीरामचन्द्रस्य अयोध्यायाम् आगमनम् उपलक्ष्ये उत्सवः मान्यते। जनाः गृहेषु अधिकाधिकं प्रकाशं कुर्वन्ति । रात्रौ लक्ष्मीपूजनं कुर्वन्ति। जनाः दीपानां प्रकाशेन अन्धकारस्य नाशं कुर्वन्ति । सर्वत्र अपूर्व: उत्साहः वर्तते । नराः मिष्टान्नानि सेवन्ते, शुभ्राणि नवानि वस्त्राणि धारयन्ति । परस्परम् उपहारान् मिष्टान्नानि च वण्टयन्ति । दीपावल्याम् अपूर्वा शोभा दर्शनीया भवति। भगवतः महावीरस्य महर्षेः दयानन्दस्य च निर्वाणम् अस्मिन् एव दिने अभवत् । अयं महामहोत्सवः अस्ति।
5. मम प्रियं पुस्तकम्
रामायणम् ___________ प्रियं पुस्तकम् अस्ति। एतत् न केवलं धार्मिकग्रन्थः, अपि ऐतिहासिकं ___________ अस्ति। अस्य ___________ महाकविः वाल्मीकिः अस्ति। रामायणम् आदिकाव्यम् अस्ति, भगवान् वाल्मीकिः च आदिकविः अस्ति। रामायणे ___________ परमपावनी कथा वर्तते। रामस्य चरितम् ___________ अस्ति। श्रीरामः ___________ आसीत्। अतः रामायणे पितृभक्तिः, भ्रातृप्रेम, आदर्शराज्यम्, पुत्रवात्सल्यम्, पत्नीप्रेम, पातिव्रत्यम्, इत्यादयः ___________ आदर्शाः प्रस्तुताः सन्ति। एतत् महाकाव्यं ___________ महत् कल्याणकरम् अस्ति। अत्र संस्कृतभाषायाः ___________ माधुर्यं वर्तते।
मञ्जूषा
मम, श्रीरामस्य, मर्यादापुरुषोत्तमः, महाकाव्यं, अतीव, आदर्शः, कर्ता, महान्तः, संसारस्य, मया
उत्तर:
रामायणम् मम प्रियं पुस्तकम् अस्ति। एतत् न केवलं धार्मिकग्रन्थः, अपि ऐतिहासिकं महाकाव्यं अस्ति। अस्य कर्ता महाकविः वाल्मीकिः अस्ति। रामायणम् आदिकाव्यम् अस्ति, भगवान् वाल्मीकिः च आदिकविः अस्ति। रामायणे श्रीरामस्य परमपावनी कथा वर्तते। रामस्य चरितम् अतीव आदर्शः अस्ति। श्रीरामः मर्यादापुरुषोत्तमः आसीत्। अतः रामायणे पितृभक्तिः, भ्रातृप्रेम, आदर्शराज्यम्, पुत्रवात्सल्यम्, पत्नीप्रेम, पातिव्रत्यम्, इत्यादयः महान्तःआदर्शाः प्रस्तुताः सन्ति। एतत् महाकाव्यं संसारस्य महत् कल्याणकरम् अस्ति। अत्र संस्कृतभाषायाः अतीव माधुर्यं वर्तते।