Our free Class 6 Sanskrit Deepakam Worksheet and Class 6 Sanskrit अपठित अवबोधनम् गद्यांश काव्यांश Apathit Avbodhanam Gadyansh Kavyansh Worksheet with Answers make learning easier and fun.
Class 6 Sanskrit अपठित अवबोधनम् Worksheet with Answers
वर्कशीट 1
निर्देश अधोलिखितान् गद्यांशान् पठित्वा निर्देशानुसारम् उत्तरत।
(निम्नलिखित गद्यांशों को पढ़कर निर्देश अनुसार उत्तर दीजिए ।)
गद्यांश 1
एतत् वनम् अस्ति। वने वृक्षाः लताः च सन्ति । वृक्षेषु खगाः तिष्ठन्ति । ते मधुरं कूजनं कुर्वन्ति । अत्र विविधाः प्राणिनः अपि सन्ति । यथा – मृगाः, गजाः, सिंह:, भल्लूकः इत्यादयः । वने एकः सरोवर: अपि अस्ति। सरोवरे कमलानि विकसन्ति । मत्स्याः कूर्मादयः सरोवरे निवसन्ति ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) एतत् किम् अस्ति ? _________________
(ख) वृक्षेषु के तिष्ठन्ति ? _________________
(ग) अत्र विविधा: के : अपि वसन्ति ? _________________
(घ) सरोवरे कानि विकसन्ति? _________________
उत्तर :
(क) वनम्
(ख) खगाः
(ग) प्राणिनः
(घ) कमलानि
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) वने के के प्राणिनः वसन्ति ?
____________________________________
उत्तर :
वने मृगाः, गजाः सिंहः, भल्लूकः इत्यादयः प्राणिनः वसन्ति।
(ख) मत्स्याः कूर्मादयः कुत्र निवसन्ति ?
____________________________________
उत्तर :
मत्स्याः कूर्मादयः सरोवरे निवसन्ति।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए। )
(i) ‘तिष्ठन्ति’ इत्यत्र का धातु ?
(क) स्था
(ख) हस्
(ग) वस्
(घ) तिस्
उत्तर :
(क) स्था
(ii) ‘मधुरं ‘ पदस्य विलोमपदम् अस्ति ।
(क) सरसं
(ख) सरलं
(ग) कटु
(घ) तरलं
उत्तर :
(ग) कटु
(iii) ‘वृक्षेषु’ पदे का विभक्ति: ?
(क) प्रथमा
(ख) षष्ठी
(ग) सप्तमी
(घ) तृतीया
उत्तर :
(ग) सप्तमी
(iv) ‘कुर्वन्ति’ इत्यत्र कः लकार ?
(क) लट्
(ख) लोट्
(ग) लृट्
(घ) विधिलिङ्
उत्तर :
(क) लट्
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
वनम्
![]()
गद्यांश 2
कस्मिंश्चित् ग्रामे एकः कूपः आसीत्। कूपे मण्डूकानां राजा गंगदत्त: परिवारेण सह निवसति स्म । सः विनैव परिश्रमं प्रभुत्वं प्राप्नोत् । तत: गंगदत्तः गर्वितः अभवत् । तस्य व्यवहारेण केचित् प्रमुखा: रूष्टाः जाताः । ते गंगदत्तम् अधिकारेण हीनं कृत्वा कूपात् बहिः निष्कासितुं उद्यताः अभवन्।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) ग्रामें एकः कः आसीत्? _________________
(ख) मण्डूकानां राजा कः आसीत्? _________________
(ग) गंगदत्तः कः अभवत्? _________________
(घ) ते गंगदत्तम् केन हीनं उद्यताः अभवन् ? _________________
उत्तर :
(क) कूप:
(ख) गंगदत्तः
(ग) गर्वितः
(घ) अधिकारेण
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत | (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) गंगदत्तः केन सह निवसति स्म: ?
____________________________________
उत्तर :
गंगदत्तः परिवारेण सह निवसति स्म।
(ख) कस्य व्यवहारेण केचित् प्रमुखा: रूष्टाः जाता ?
____________________________________
उत्तर :
गंगदत्तस्य व्यवहारेण केचित् प्रमुखाः रुष्टाः जाताः ।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत । (दिए गए विकल्पों में से निर्देशानुसार उचित उत्तर चुनकर लिखिए |)
(i) ‘परिवारेण’ इत्यस्मिन् पदे विभक्ति अस्ति ?
(क) तृतीया विभक्ति
(ख) पंचमी विभक्ति
(ग) चतुर्थी विभक्ति
(घ) कोऽपि नास्ति
उत्तर :
(क) तृतीया विभक्ति
(ii) ‘अभवन्’ इत्यस्मिन् पदे लकार अस्ति ?
(क) लट्
(ख) लोट्
(ग) लङ्
(घ) विधिलिङ्
उत्तर :
(ग) लङ्
(iii) ‘कृत्वा’ शब्दे कः प्रत्ययः अस्ति ?
(क) त्वं
(ख) तव
(ग) क्त्वा
(घ) क्तवय्
उत्तर :
(ग) क्त्वा
(iv) ‘गर्वित:’ पदस्य विलोमपदम् अस्ति ?
(क) लज्जा:
(ख) महान:
(ग) उद्धतता:
(घ) अभिमानः
उत्तर :
(क) लज्जा:
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
गंगदत्तः
![]()
वर्कशीट 2
निर्देश अधोलिखितान् गद्यांशान् पठित्वा निर्देशानुसारम् उत्तरत।
(निम्नलिखित गद्यांशों को पढ़कर निर्देश अनुसार उत्तर दीजिए ।)
गद्यांश 1
अहो! प्रात: काल: प्रात: काले सूर्यः उदेति । रामः प्रातः काले सूर्योदयात् पूर्वं शयनं त्यजति । सः सर्वप्रथमम् ईश्वरं नमति। स्वदैनिक कार्याणि सम्पादयति । भ्रमणाय उद्यानं गच्छति । भ्रमणात् अनन्तरं दुग्धम् अपि आनयति। गृहम् आगत्य स्नानं कृत्वा विद्यालयस्य गणवेशं धारयति । प्रातरांशं कृत्वा विद्यालयं गच्छति।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) सूर्यः कदा उदेति ? _________________
(ख) सूर्योदयात् पूर्वं कः शयनं त्यज्यति? _________________
(ग) भ्रमणात् अनन्तरं किम् अपि आनयति ? _________________
(घ) रामः स्नानं कृत्वा कस्य गणवेशं धारयति ? _________________
उत्तर :
(क) प्रातः काले
(ख) रामः
(ग) दुग्धम्
(घ) विद्यालयस्य
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) रामः सर्वप्रथमं किं करोति ?
____________________________________
उत्तर :
रामः सर्वप्रथमम् ईश्वरं नमति ।
(ख) रामः किं कृत्वा विद्यालयं गच्छति ?
____________________________________
उत्तर :
रामः प्रातराशं कृत्वा विद्यालयं गच्छति ।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए ।)
(i) ‘प्रात:कालम्’ पदस्य विलोमपदम् अस्ति ?
(क) रात्रिकालम्
(ख) सायंकालम्
(ग) निशाकालम्
(घ) मध्याह्नम्
उत्तर :
(ख) सायंकालम्
(ii) ‘सूर्योदयः’ इत्यस्मिन् पदे सन्धि अस्ति ?
(क) दीर्घ
(ख) यण्
(ग) गुण
(घ) वृद्धि
उत्तर :
(ग) गुण
(iii) ‘विद्यालयस्य’ शब्दे का विभक्तिः ?
(क) पष्ठी
(ख) सप्तमी
(ग) चतुर्थी
(घ) द्वितीया
उत्तर :
(क) पष्ठी
(iv) ‘गणवेशम्’ पर्याय: किम् अस्ति ?
(क) उपनेत्रम्
(ख) छत्रम्
(ग) परिधानम्
(घ) पादत्राणम्
उत्तर :
(ग) परिधानम्
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए ।)
____________________________________
उत्तर :
प्रातःकालम्
गद्यांश 2
भारत: एक: विशाल देशः अस्ति । भारतस्य उत्तरस्यां दिशायां हिमालयः नाम्नः पर्वतः स्थितः अस्ति । अयं भारतस्य प्राकृतिक प्रतिहारी रूपेण स्थितोऽस्ति । कालिदासः अयं नागाधिराज अपि कथ्यते । हिमालयात् गङ्गा उद्भवति । साधकाः हिमालयस्य गुहासु निवसन्ति । हिमालयस्य क्रोडे हिमाचलप्रदेशः, शिमला, कश्मीर :, उत्तराखण्ड इत्यादयः प्रान्तानि सन्ति ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) भारतस्य प्राकृतिक प्रतिहारी रूपेण कः स्थितः अस्ति ? _________________
(ख) साधकाः कुत्र निवसन्ति ? _________________
(ग) हिमालयः कस्य प्राकृतिक प्रतिहारीरूपेण स्थितोऽस्ति ? _________________
(घ) गङ्गा कुत्र उद्भवति ? _________________
उत्तर :
(क) हिमालयः
(ख) गुहासु
(ग) भारतस्य
(घ) हिमालयात्
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) कालिदासेन हिमालयः किं कथ्यते ?
____________________________________
उत्तर :
कालिदासेन हिमालयः नगाधिराजः कथ्यते ।
(ख) हिमालयस्य क्रोडे कानि प्रान्तानि सन्ति?
____________________________________
उत्तर :
हिमालयस्य क्रोडे हिमाचलप्रदेश, उत्तराखण्डः, कश्मीर इतयादयः प्रान्तानि सन्ति ।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए।)
(i) ‘हिमालय:’ इत्यत्र का सन्धि अस्ति ?
(क) यण्
(ख) गुण
(ग) दीर्घ
(घ) अयादि
उत्तर :
(ग) दीर्घ
(ii) ‘हिमालयात्’ अत्र विभक्तिं वचनस्य च निर्देशनं कुरुत ?
(क) पंचमी – एकवचनम्
(ख) द्वितीया -बहुवचनम्
(घ) प्रथमा – द्विवचनम्
(ग) षष्ठी-एकवचनम्
उत्तर :
(क) पंचमी – एकवचनम्
(iii) ‘विशाल’ पदस्य पर्याय: किम् अस्ति ?
(क) नीच
(ख) महान
(ग) न्यून
(घ) अल्पं
उत्तर :
(ख) महान
(iv) ‘नागाधिराज’ इति पदस्य अर्थः किम् अस्ति ?
(क) कालिदासः
(ख) भारतस्य
(ग) पर्वतराजः
(घ) पर्वतः
उत्तर :
(ग) पर्वतराजः
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
हिमालयः
![]()
वर्कशीट 3
निर्देश अधोलिखितान् गद्यांशान् पठित्वा निर्देशानुसारम् उत्तरत।
(निम्नलिखित गद्यांशों को पढ़कर निर्देश अनुसार उत्तर दीजिए ।)
गद्यांश 1
अश्विन् मासस्य दशम्यां तिथौ दशहरा पर्वं मन्यते । इदं पर्वं अस्माकं पर्वसु महत्त्वपूर्णं वर्तते। अस्मिन् दिवसे जनाः अस्त्राणां- शस्त्राणां पूजनं कुर्वन्ति । एवं श्रूयते यत् भगवान् श्री रामचन्द्रः अस्मिन् दिवसे रावणं विजितवान्। अतः अस्मिन् अवसरे रामलीलायाः आयोजनं अपि भवति । तत्र रावणस्य वधं दर्शयति । सत्यस्य असत्योपरि विजयः भवति। धर्मात्मा सदा विजयते । पापी च विनश्यति । इदं पर्वं भगवतः श्रीरामचन्द्रस्य विजयं उपलक्ष्ये आयोजयते। अतः इदं पर्वं विजयादशमी अपि कथ्यते ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत ।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) रामचन्द्रः कं विजितवान्? _________________
(ख) अस्मिन् पर्वस्य अवसरे कस्याः आयोजनं भवति ? _________________
(ग) तत्र कस्य वधं दर्शयति ? _________________
(घ) कस्य विजयं उपलक्ष्ये आयोज्यते ? _________________
उत्तर :
(क) रावणं
(ख) रामलीलायाः
(ग) रावणस्य
(घ) श्रीरामचन्द्रस्य
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) दशहरा पर्व कदा मन्यते ?
____________________________________
उत्तर :
अश्विन् मासस्य दशम्यां तिथौ दशहरा पर्वं मन्यते ।
(ख) अस्मिन् दिवसे केषां पूजनं कुर्वन्ति ?
____________________________________
उत्तर :
अस्मिन् दिवसे अस्त्राणां – शस्त्राणां च पूजनं कुर्वन्ति ।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए ।)
(i) ‘धर्मात्मा’ इत्यस्य सन्धिविच्छेदम् अस्ति ?
(क) धर्म + आत्मा
(ख) धर्मा + आत्मा
(ग) धर्मात् + मा
(घ) धर्मान् + तमा
उत्तर :
(क) धर्म + आत्मा
(ii) ‘विजयं’ इति पदस्य विलोमपदम् अस्ति ?
(क) जयम्
(ख) पराजयम्
(ग) विराजयम्
(घ) स्वराज्यम्
उत्तर :
(ख) पराजयम्
(iii) ‘कुर्वन्ति’ इति पदस्य कः लकारः ?
(क) लोट्
(ख) लट्
(ग) लृट्
(घ) विधिलिङ्
उत्तर :
(ख) लट्
(iv) उपलक्ष्ये’ पदे कः उपसर्गः अस्ति?
(क) उप
(ख) लक्ष्ये
(ग) उपलक्ष
(घ) उपम्
उत्तर :
(क) उप
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
दशहरा
गद्यांश 2
वर्षे षड् ऋतवः भवन्ति। सर्वप्रथमं वसन्तः ऋतुः आगच्छति । अस्मिन् ऋतौ सर्वे वृक्षाः फलैः पुष्पै च युक्ताः भवन्ति । सर्वेषु वृक्षेषु नवीनानि पत्राणि भवन्ति । कोकिलाः मधुरेण स्वरेण कूजन्ति । सरोवरेषु कमलानि विकसन्ति। तेषु भ्रमराः सानन्दं विचरन्ति । भ्रमरा: कमलानां रसं पीत्वा मधुरं गुञ्जन्ति । अस्मिन् समये शीतलः, मन्दः वायु प्रवहति। अयम् ऋतुराजः अपि कथ्यते ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) वर्षे कति ऋतवः भवन्ति ? _________________
(ख) अस्मिन् ऋतौ के मधुरेण स्वरेण कूजन्ति ? _________________
(ग) भ्रमराः कमलानां किं पीत्वा मधुर गुञ्जन्ति ? _________________
(घ) सरोवरेषु कानि विकसन्ति? _________________
उत्तर :
(क) षड्
(ख) कोकिला:
(ग) रसं
(घ) कमलानि
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) सर्वेषु वृक्षेषु कानि भवन्ति ?
____________________________________
उत्तर :
सर्वेषु वृक्षेषु नवीन पत्राणि भवन्ति ।
(ख) भ्रमराः किं कुर्वन्ति ?
____________________________________
उत्तर :
भ्रमराः कमलानां रसं पीत्वा मधुरं गुञ्जन्ति।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए।)
(i) ‘सरोवरेषु’ इत्यस्मिन् पदे विभक्तिं वचनस्य निर्देशनं कुरुत ।
(क) पंचमी – एकवचनम्
(ख) चतुर्थी – बहुवचनम्
(ग) सप्तमी -बहुवचनम्
(घ) द्वितीया – बहुवचनम्
उत्तर :
(ग) सप्तमी -बहुवचनम्
(ii) ‘शीतलं’ इत्यस्य शब्दस्य विलोमपदम् अस्ति ?
(क) ऊष्णम्
(ख) नूतनम्
(ग) शीतम्
(घ) जलम्
उत्तर :
(क) ऊष्णम्
(iii) ‘आगच्छति’ इति पदे कः लकारः ?
(क) लट्
(ख) लङ्
(ग) लोट
(घ) लृट्
उत्तर :
(क) लट्
(iv) ‘पीत्वा’ पदस्य प्रत्ययः किम् ?
(क) क्त
(ख) अनीयर्
(ग) क्त्वा
(घ) ल्यप्
उत्तर :
(ग) क्त्वा
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
वसंत ऋतुः
![]()
वर्कशीट 4
निर्देश अधोलिखितान् गद्यांशान् पठित्वा निर्देशानुसारम् उत्तरत।
(निम्नलिखित गद्यांशों को पढ़कर निर्देश अनुसार उत्तर दीजिए ।)
गद्यांश 1
इदम् उद्यानम्। रमणीयम् इदम् उद्यानम्। उद्याने बालकाः बालिकाश्च क्रीडन्ति । केचन कन्दुकेन क्रीडन्ति । अत्र बहव: जना: प्रात:काले भ्रमणार्थम् आगच्छन्ति । ते स्वास्थ्यलाभाय अत्र भ्रमन्ति । प्रातः काले वातावरणं स्वच्छम्, शुद्धं च भवति । शीतल वायुः मन्दं मन्दं प्रवहति । उद्याने विविधा वृक्षाः सन्ति । वृक्षाणाम् उपरि खगाः तिष्ठन्ति । ते मधुरं कलरवं कुर्वन्ति । उद्याने एकः सरः अपि अस्ति । तस्मिन् वर्तिका: तरन्ति ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) इदं किम् अस्ति ? _________________
(ख) केचन बालकः केन क्रीडन्ति ? _________________
(ग) प्रातःकाले वातावरण कीदृशं भवति ? _________________
(घ) मन्दं मन्दं कीदृश: वायुः प्रवहति ? _________________
उत्तर :
(क) उद्यानम्
(ख) कन्दुकेन
(ग) स्वच्छंशुद्धम्
(घ) शीतलवायुः
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) जनाः प्रातः काले किमर्थं भ्रमन्ति ?
____________________________________
उत्तर :
जनाः प्रातः काले स्वास्थ्यलाभाय भ्रमन्ति ।
(ख) सरे: का : तरन्ति ?
____________________________________
उत्तर :
सरे: वर्तिकाः तरन्ति ।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए।)
(i) ‘प्रात:काले’ इत्यस्य विलोमपदम् अस्ति ?
(क) सायंकाले
(ख) प्रभात काले
(ग) मध्याह्न काले
(घ) रात्रिकाले
उत्तर :
(क) सायंकाले
(ii) ‘कन्दुकेन’ इत्यस्मिन् पदे विभक्तिम् अस्ति ?
(क) पंचमी
(ख) तृतीया
(ग) षष्ठी
(घ) प्रथमा
उत्तर :
(ख) तृतीया
(iii) ‘ते स्वास्थ्यलाभाय अत्र भ्रमन्ति’ अव्ययः पदं किम् अस्ति ?
(क) ते
(ख) स्वास्थ्य
(ग) भ्रमन्ति
(घ) अत्र
उत्तर :
(घ) अत्र
(iv) ‘मन्दं मन्दं’ पदस्य पर्याय: किम् अस्ति ?
(क) शीघ्रं – शीघ्रं
(ख) तीव्रं – तीव्रं
(ग) शनैः-शनैः
(घ) उच्चैः-उच्चैः
उत्तर :
(ग) शनैः-शनैः
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
उद्यानम्
गद्यांश 2
महाराज्ञी लक्ष्मीबाई एका प्रमुखा सेनानायिका आसीत् । लक्ष्मीबाई अश्वारोहणे शस्त्रज्ञाने च निपुणा आसीत् । तस्याः विवाह गंगाधरेण सह अभवत् । तस्य असमये मृत्युः अभवत्। तस्मिन् समये महाराज्ञी आङ्ग्लशासकान् प्रति युद्धम् अकुर्वन्। लक्ष्मीबाई अवदत्-यत्-झाँसीराज्यं मम अस्ति । अहं झाँसी – राज्यं न दास्यामि ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत ।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) प्रमुखा सेनानायिका का आसीत्? _________________
(ख) कस्य मृत्युः असमये अभवत्? _________________
(ग) का अश्वरोहणे शस्त्रज्ञाने च निपुणा आसीत्? _________________
(घ) लक्ष्मीबाई विवाह केन सह अभवत्? _________________
उत्तर :
(क) लक्ष्मीबाई
(ख) गंगाधरस्य
(ग) लक्ष्मीबाई
(घ) गंगाधरेण
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) लक्ष्मीबाई कान् प्रति युद्धम् अकरोत् ?
____________________________________
उत्तर :
लक्ष्मीबाई आङ्ग्लशासकान् प्रति युद्धम् अकरोत् ।
(ख) लक्ष्मीबाई किम् अवदत् ?
____________________________________
उत्तर :
लक्ष्मीबाई अवदत्-यत्-झाँसी राज्यं मम अस्ति । अहं झाँसीराज्यं न दास्यामि ।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए ।)
(i) ‘तस्मिन् ‘ शब्दे विभक्ति अस्ति ?
(क) पञ्चमी
(ख) षष्ठी
(ग) सप्तमी
(घ) द्वितीया
उत्तर :
(ग) सप्तमी
(ii) ‘दास्यामि’ इत्यस्मिन् पदे धातु अस्ति ?
(क) दा
(ख) दास्
(ग) दासता
(घ) न कोऽपि
उत्तर :
(क) दा
(iii) ‘अभवत्’ पदे कः लकारः ?
(क) लट्
(ख) लङ्
(ग) लोट्
(घ) लृट्
उत्तर :
(ख) लङ्
(iv) ‘अश्वारोही’ इति पदस्य कः समासः ?
(क) द्विगु
(ख) द्वन्द्व
(ग) तत्पुरुष
(घ) बहुव्रीहि
उत्तर :
(ग) तत्पुरुष
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
महाराशी लक्ष्मीबाई
![]()
वर्कशीट 5
निर्देश अधोलिखितान् गद्यांशान् पठित्वा निर्देशानुसारम् उत्तरत।
(निम्नलिखित गद्यांशों को पढ़कर निर्देश अनुसार उत्तर दीजिए ।)
गद्यांश 1
अस्माकं देशे षड् ऋतवः समायन्ति । तेषु एकः वर्षा ऋतु । वर्षा ऋतौ सर्वे प्रसन्नाः भवन्ति । अयं ग्रीष्मात् अनन्तरं समायाति। वर्षाकाले आकाशे मेघा गर्जन्ति, वर्षन्ति च । सर्वत्र जलं भवति । वर्षाजलैः स्नाता वसुन्धरा मोदते। वर्षाकाले मण्डूकाः रटन्ति । मयूराः नृत्यन्ति । नद्यः वेगेन प्रवहन्ति । जलाशयाः कूपाः अपि जलैः पूर्णाः भवन्ति। कृषकाः स्व-स्व क्षेत्रेषु बीजानि वपन्ति । कृषकाः प्रसन्नाः भवन्ति, गीतानि गायन्ति च।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) ग्रीष्मात् अनन्तरं कः समायति ? _________________
(ख) सर्वत्र किं भवति ? _________________
(ग) कदा आकाशे मेघा गर्जन्ति ? _________________
(घ) नद्यः केन प्रवहन्ति ? _________________
उत्तर :
(क) वर्षा ऋतु:
(ख) जलं
(ग) वर्षाकाले
(घ) वेगेन
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए ।)
(क) वर्षाजलैः स्नाता का मोदते?
____________________________________
उत्तर :
वर्षा जलैः स्नाता वसुन्दधरा मोदते ।
(ख) कृषकाः किं कुर्वन्ति ?
____________________________________
उत्तर :
कृषकाः स्व-स्व क्षेत्रेषु बीजानि वपन्ति ।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए।)
(i) ‘दृष्ट्वा’ इत्यस्मिन् पदे प्रकृति + प्रत्यय अस्ति ?
(क) दृश + क्त्वा
(ख) दृश् + त्वा
(ग) द्रश् + ट्वा
(घ) द्रश् + कत्वा
उत्तर :
(क) दृश + क्त्वा
(ii) ‘मोदते’ इत्यत्र लकारः अस्ति ?
(क) लोट्लकार
(ख) लङ्लकार
(ग) लट्लकार
(घ) लृट्लकार
उत्तर :
(ग) लट्लकार
(iii) ‘ग्रीष्मात्’ पदे का विभक्तिः ?
(क) प्रथमा
(ख) पञ्चमी
(ग) षष्ठी
(घ) सप्तमी
उत्तर :
(ख) पञ्चमी
(iv) ‘भवन्ति’ इत्यस्मिन् पदे धातु अस्ति ?
(क) दान्
(ख) भू
(ग) भव
(घ) भवि
उत्तर :
(ख) भू
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
वर्षाकालः
गद्यांश 2
अस्माकं देशे अनेके उत्सवाः आयोजिताः भवन्ति । होलिकोत्सवः तेषु प्रमुखः अस्ति। भारतीय संस्कृतौ होलिकोत्सवस्य विशिष्टं महत्त्वं वर्तते । होलिकायाः दहनेन अयम् उत्सवः सम्बद्धः अस्ति । अयम् उत्सवः फाल्गुन मासस्य पूर्णिमायां तिथौ मन्यते । अग्रिमे दिवसे रंगोत्सवः अपि मन्यते । बालकाः प्रसन्नाः भवन्ति । सर्वे मिष्ठान्नानि खादन्ति । जनाः परस्परं प्रेम्णा मिलन्ति । एतेन तेषु प्रीतिः वर्धते ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) होलिकायाः दहनेन कः उत्सवः सम्बद्धः अस्ति ? _________________
(ख) अग्रिमे दिवसे कः मन्यते ? _________________
(ग) एतेन तेषु कः वर्धते ? _________________
(घ) जनाः परस्परं कीदृशेन मिलन्ति ? _________________
उत्तर :
(क) होलिकोत्सवः
(ख) रंगोत्सवः
(ग) प्रीतिः
(घ) प्रेम्णा
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) भारतीय संस्कृतौ कस्य विशिष्टं महत्त्वं वर्तते ?
____________________________________
उत्तर :
भारतीय संस्कृतौ होलिकोत्सवस्य विशिष्टं महत्वं वर्तते ।
(ख) होलिकोत्सवः कदा मन्यते ?
____________________________________
उत्तर :
होलिकोत्सवः फाल्गुन मासस्य पूर्णिमायां तिथौ मन्यते ।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए ।)
(i) ‘रंगोत्सवः’ इत्यस्य सन्धिविच्छेदः अस्ति
(क) रंग + उत्सवः
(ख) रंगो + उत्सवः
(ग) रंगो + त्सव
(घ) रंगः + उत्सवः
उत्तर :
(क) रंग + उत्सवः
(ii) ‘तेषां’ इत्यस्मिन् शब्देः मूलशब्दः कः ?
(क) तेषा
(ख) तेषाम्
(ग) तष्
(घ) तत्
उत्तर :
(घ) तत्
(iii) ‘बालका:’ इति पदे विभक्तिः, वचनं किम् अस्ति ?
(क) प्रथमा, बहुवचनम्
(ख) द्वितीया, एकवचनम्
(ग) प्रथमा, एकवचनम्
(घ) तृतीया, बहुवचनम्
उत्तर :
(क) प्रथमा, बहुवचनम्
(iv) ‘खादन्ति’ पदे का धातु अस्ति ?
(क) खद्
(ख) खदि
(ग) खाद्
(घ) खा
उत्तर :
(ग) खाद्
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
होलिकोत्सवः
![]()
वर्कशीट 6
निर्देश अधोलिखितान् गद्यांशान् पठित्वा निर्देशानुसारम् उत्तरत।
(निम्नलिखित गद्यांशों को पढ़कर निर्देश के अनुसार उत्तर दीजिए ।)
गद्यांश 1
जना: उत्सवप्रिया भवन्ति । प्रतिवर्ष विद्यालयेषु उत्सवः समायोज्यते । सः एव विद्यालयस्य वार्षिकोत्सवः कथ्यते । छात्रा: विद्यालयं परिष्कुर्वन्ति सुसज्यति च । समारोहस्य हेतु सर्वे छात्राः, अध्यापकाः, कर्मचारिणः मिलित्वा कार्यं सम्पादयन्ति। समारोहे कश्चित् मुख्य अतिथिः अपि भवति । तस्य आगमनात् अनन्तरं समारोह प्रारम्भते। विद्यालयस्य प्रधानाचार्य महोदय: तेषां स्वागतं करोति । तदनन्तरं सांस्कृतिक कार्यक्रमाः समायोज्यन्ते । तत्र कक्षायां श्रेष्ठं स्थानं लब्धा: छात्रा: पुरस्कारम् अपि प्राप्नुवन्ति ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) प्रतिवर्ष विद्यालयेषु किं समायोज्यते ? _________________
(ख) सर्वे छात्राः, अध्यापकाः, कर्मचारिणः मिलित्वा किं सम्पादयन्ति ? _________________
(ग) समारोहे मुख्य कः अपि भवति ? _________________
(घ) तदनन्तरं कस्य समायोज्यन्ते ? _________________
उत्तर :
(क) उत्सवः
(ख) कार्यम्
(ग) अतिथिः
(घ) सांस्कृतिककार्यक्रमस्य
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) समारोह कदा प्रारम्भते ?
____________________________________
उत्तर :
मुख्य अतिथेः आगमनात् अनन्तरं समारोहः प्रारम्भते ।
(ख) कक्षायां श्रेष्ठं स्थानं लब्धा: छात्राः किं प्राप्नुवन्ति ?
____________________________________
उत्तर :
कक्षायां श्रेष्ठं स्थानं लब्धाः छात्राः पुरस्कारं प्राप्नुवन्ति ।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए।)
(i) ‘वार्षिकोत्सव:’ इति शब्दस्य सन्धिविच्छेद अस्ति
(क) वार्षि + कोत्सवः
(ख) वार्षिक + ओत्सवः
(ग) वार्षिक + उत्सवः
(घ) वार्षिक + त्सवः
उत्तर :
(ग) वार्षिक + उत्सवः
(ii) ‘प्रतिवर्ष’ इत्यत्र कः उपसर्गः अस्ति ?
(क) प्रति
(ख) वर्ष
(ग) प्रतिवर्ष
(घ) कोऽपि नास्ति
उत्तर :
(क) प्रति
(iii) ‘विद्यालयस्य’ पदे का विभक्तिः ?
(क) द्वितीया
(ख) सप्तमी
(ग) षष्ठी
(घ) चतुर्थी
उत्तर :
(ग) षष्ठी
(iv) ‘मिलित्वा’ इत्यत्र कः प्रत्ययः अस्ति ?
(क) त्वा
(ख) क्त्वा
(ग) ल्यप्
(घ) क्तवतु
उत्तर :
(ख) क्त्वा
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
वार्षिकोत्सवः
गद्यांश 2
प्राचीनकाले मत्स्याप्रदेशे काचित् नदी प्रवहति स्म । कश्चन महात्मा स्वशिष्यैः सह तत्र निवसति स्म। एकदा महात्मा शिष्यैः सह नद्या: अपरं तीरं गन्तुम् एका नौकाम् आरूढवान् । अकस्मात् एकः विशाल मकरः सम्मुखं आगतः। महात्मा अकथयत्-यत्-नौकायां कश्चित् दुष्टः अस्ति, इति मन्ये ।
नौकायाः
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) प्राचीनकाले मत्स्याप्रदेशे का प्रवहति स्म ? _________________
(ख) कश्चन महात्मा कैः सह तत्र निवसति ? _________________
(ग) नौकायाः सम्मुखं किम् आगत: ? _________________
(घ) ‘नौकायां कश्चित् दुष्टः अस्ति, इति मन्ये’ कः अकथयत? _________________
उत्तर :
(क) नदी
(ख) स्वशिष्यैः
(ग) विशालमकरः
(घ) महात्मा
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) महात्मा कुत्र गन्तुं नौकाम् आरूढवान्?
____________________________________
उत्तर :
महात्मा नद्याः अपरं तीरं गन्तुं नौकां आरुढवान्।
(ख) महात्मा किम् अकथयत् ?
____________________________________
उत्तर :
महात्मा अकथयत्-यत्- नौकायां कश्चित् दुष्टः इति मन्ये ।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए ।)
(i) ‘सज्जन:’ इति पदस्य विलोमपदं गद्यांशानुसारेण लिखत ।
(क) दुष्टः
(ख) महात्मा
(ग) शिष्य
(घ) न कोऽपि
उत्तर :
(क) दुष्टः
(ii) ‘गन्तुम्’ इत्यस्मिन् पदे प्रत्ययः अस्ति ?
(क) तुमुन्
(ख) ल्यप्
(ग) क्त्वा
(घ) कोऽपि नास्ति
उत्तर :
(क) तुमुन्
(iii) ‘निवसति’ इति पदे कः उपसर्ग: ?
(क) निव
(ख) नि
(ग) वस
(घ) निस्
उत्तर :
(ख) नि
(iv) ‘एका’ इति पदे किं लिङ्गम् अस्ति ?
(क) स्त्रीलिङ्ग
(ख) पुल्लिङ्ग
(घ) कोऽपि न
(ग) नपुंसकलिङ्ग
उत्तर :
(क) स्त्रीलिङ्ग
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
कश्चन् महात्मा
![]()
वर्कशीट 7
निर्देश अधोलिखितान् गद्यांशान् पठित्वा निर्देशानुसारम् उत्तरत।
(निम्नलिखित गद्यांशों को पढ़कर निर्देश के अनुसार उत्तर दीजिए।)
गद्यांश 1
एकस्मिन् समये एकः काकः आसीत् । एकदा सः पिपासया व्याकुलः इतस्तत: भ्रमति । किन्तु कुत्रापि जलं न प्राप्नोति । सः एकस्य वृक्षस्य अधः एकं घटं पश्यति । घटस्यसमीपम् आगत्य सः चञ्चवा जलं पातुम् इच्छति । परं घटे अल्पं जलम् अस्ति। सः इतस्ततः पश्यन् प्रस्तरखण्डानि दृष्ट्वा किमपि विचार्य चञ्चवा प्रस्तर खण्डानि आदाय घटे शनै- शनैः निक्षिपति । जलम् उपरि आगच्छति । सः जलं पीत्वा स्वस्थानं गच्छति।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत ।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) कः पिपासया व्याकुलः इतस्ततः भ्रमति ? _________________
(ख) एकस्य वृक्षस्य अधः काकः किं पश्यति? _________________
(ग) कुत्रापि किं न प्राप्नोति ? _________________
(घ) काकः जलं पीत्वा कुत्र गच्छति ? _________________
उत्तर :
(क) काक:
(ख) घटं
(ग) जलं
(घ) स्वस्थानं
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) सः घटस्यसमीपम् आगत्य किम् इच्छति?
____________________________________
उत्तर :
सः घटस्यसमीपम् आगत्य चञ्च्वा जजं पातुम् इच्छति।
(ख) काकः घटे कानि निक्षिपति ?
____________________________________
उत्तर :
काकः घटे प्रस्तरखण्डानि निक्षिपति।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए।)
(i) ‘शनै- शनैः’ इत्यस्य अव्ययपदस्य अर्थम् अस्ति ?
(क) धीरे-धीरे
(ख) जल्दी-जल्दी
(ग) कभी-कभी
(घ) जैसे-तैसे
उत्तर :
(क) धीरे-धीरे
(ii) ‘पीत्वा’ इत्यत्र प्रकृति + प्रत्यय अस्ति ?
(क) पी + त्वा
(ख) पीत + वा
(ग) पा + क्त्वा
(घ) कोऽपिनास्ति
उत्तर :
(ग) पा + क्त्वा
(iii) ‘द्रष्ट्वा’ इति पदे का धातु ?
(क) दृश्
(ख) दष्ट्
(ग) पश्य
(घ) द्रष्टं
उत्तर :
(क) दृश्
(iv) ‘इतस्तत:’ पदस्य सन्धि-विच्छेदं किम् अस्ति ?
(क) इत + तत
(ख) इतः + ततः
(ग) इतस् + तत:
(घ) इतः + स्तत
उत्तर :
(ख) इतः + ततः
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए । )
____________________________________
उत्तर :
पिपासितः काकः
गद्यांश 2
महात्मा गाँधी अस्माकं राष्ट्रपिता अस्ति । अस्य महापुरुषस्य जन्म 2 अक्टूबर, 1869 तमे वर्षे गुर्जर प्रदेशे पोरबन्दर नाम्नि नगरे अभवत् । तस्य पिता करमचन्द गाँधी माता च पुतलीबाई आसीत् । गाँधी महोदयस्य प्रारम्भिकी शिक्षा भारतदेशे अभवत् । उच्चशिक्षायै स: इंग्लैण्डदेशम् अगच्छत् । सः भारतस्य स्वतंत्रता प्राप्त्यर्थं बहु प्रयत्नम् अकरोत् ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) अस्माकं राष्ट्रपिता कः अस्ति ? _________________
(ख) उच्चशिक्षायै सः कुत्र अगच्छत् ? _________________
(ग) गाँधी प्रारम्भिकी शिक्षा कुत्र अभवत्? _________________
(घ) तस्य पितुः नाम किं आसीत्? _________________
उत्तर :
(क) महात्मा गाँधी
(ख) इंग्लैण्डदेशम्
(ग) भारतदेशे
(घ) करमचन्द गाँधी
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) महात्मा गाँधी महोदयस्य जन्म कदा अभवत्?
____________________________________
उत्तर :
महात्मा गाँधी महोदयस्य जन्म 2 अक्टूबर, 1869 तमे वर्षे गुर्जर प्रदेशे पोरबन्दर नाम्नि नगरे अभवत्।
(ख) तस्य माता कः आसीत्?
____________________________________
उत्तर :
तस्य माता पुतलीबाई आसीत् ।
प्रश्न 3.
प्रदत्त विकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत । (दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए।)
(i) ‘अभवत्’ इत्यत्र लकारः अस्ति ?
(क) लट्लकार
(ख) लोट्लकार
(ग) लङ्लकार
(घ) लृट्लकार
उत्तर :
(ग) लङ्लकार
(ii) ‘अस्माकं’ इत्यत्र मूलशब्दः अस्ति ?
(क) अस्मद्
(ख) युष्मद्
(ग) अहम्
(घ) इदम्
उत्तर :
(क) अस्मद्
(iii) ‘महापुरुषस्य’ इत्यत्र कः समासः अस्ति ?
(क) कर्मधारय
(ख) तत्पुरुष
(ग) बहुव्रीहि
(घ) द्विगु
उत्तर :
(क) कर्मधारय
(iv) ‘अगच्छत्’ इति पदे का धातु अस्ति ?
(क) आ
(ख) गच्छ्
(ग) गम्
(घ) अगच्छ्
उत्तर :
(ग) गम्
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
महात्मा गाँधी
![]()
वर्कशीट 8
निर्देश अधोलिखितान् गद्यांशान् पठित्वा निर्देशानुसारम् उत्तरत।
(निम्नलिखित गद्यांशों को पढ़कर निर्देश अनुसार उत्तर दीजिए ।)
गद्यांश 1
अस्माकं देशः भारतवर्षः अस्ति । उत्तरस्यां दिशि हिमालय: इमं रक्षति । अस्य देशस्य दक्षिणतः महान् जलनिधिः वर्तते। अत्र गंगादयः सरितः सुधा सदृशं जलं प्रवहन्ति । वसुधा च अस्य । सर्वेषां अन्नानां रत्नानां च जननी। अत्र विविधरङ्गधर्मेजातीनां लोकाः निवसन्ति । अत्र जना: विविधाः भाषाः भाषन्ते । अस्य देशस्य जलवायुः अपि शोभनम् अस्ति।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत । (निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) हिमालयः भारतस्य कस्यां दिशि रक्षति ? _________________
(ख) अस्य देशस्य जलवायुः कीदृशः अस्ति ? _________________
(ग) अस्माकं देशः कः अस्ति ? _________________
(घ) कुत्र विविधरङ्गधर्मेजातीनां लोकाः निवसन्ति । _________________
उत्तर :
(क) उत्तरस्यां
(ख) शोभनम्
(ग) भारतवर्षः
(घ) भारते
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत । (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) अस्य वसुधा केषां जननी ?
____________________________________
उत्तर :
अस्य वसुधा सर्वेषां अन्नानां रत्नानां च जननी।
(ख) अत्र के निवसन्ति ?
____________________________________
उत्तर :
अत्र विविधरङ्गधर्मेजातीनां लोकाः निवसन्ति।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितं उत्तरम् निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए।)
(i) ‘भाषन्ते’ इत्यस्मिन् पदे लकार – वचन अस्ति
(क) लट् – बहुवचनम्
(ख) लट् – एकवचनम्
(ग) लट् – द्विवचनम्
(घ) लोट् – एकवचनम्
उत्तर :
(क) लट् – बहुवचनम्
(ii) ‘जनक:’ इति पदस्य विलोमपदम् अस्ति
(क) भार्या
(ख) जननी
(ग) स्वसा
(घ) पुत्र
उत्तर :
(ख) जननी
(iii) ‘अत्र जनाः विविधाः भाषाः भाषन्ते’ अस्मिन् वाक्ये अव्ययः पदं किम् अस्ति ?
(क) जना:
(ख) विविधाः
(ग) अत्र
(घ) भाषा:
उत्तर :
(ग) अत्र
(iv) ‘शोभनम्’ इति पदस्य पर्याय: किं न अस्ति ?
(क) सुन्दरम्
(ख) सम्यकम्
(ग) वनम्
(घ) शोभते
उत्तर :
(ग) वनम्
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
भारतवर्षः
गद्यांश 2
एकस्मिन् नगरे एकः नृपः आसीत् । तस्य प्रासादे बहवः पशवः आसन् । तेषु पशुषु एकः वानरः तस्य प्रियः अभवत्। एकदा नृपः सुप्तः आसीत् । तदा सः वानरः व्यजनेन तम् अवीजयत्। तस्मिन् काले एका मक्षिकां .नृपस्य नासिकायाम् उपाविशत् । तेन सः वानरः क्रुद्धः अभवत् । तां मक्षिकां हन्तुं सः खड्गेन प्रहारम् अकरोत् । मक्षिकां तु उड्डीय दूरम् अगच्छत्, किन्तु प्रहारेण नृपस्य नासिका छिन्ना अभवत्।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) नृपस्य प्रासादे के आसन्? _________________
(ख) नृपस्य नासिकायां का उपाविशत् ? _________________
(ग) नगरे एकः कः आसीत्? _________________
(घ) सः वानरः केन तम् अवीजयत् ? _________________
उत्तर :
(क) पशवः
(ख) मक्षिकां
(ग) नृपः
(घ) व्यजनेन
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) मक्षिकां हन्तुं वानरः केन प्रहारम् अकरोत् ?
____________________________________
उत्तर :
मक्षिका हन्तुं वानरः खड्गेन प्रहारम् अकरोत् ।
(ख) खड्गस्य प्रहारेण किम् अभवत्?
____________________________________
उत्तर :
खड्गस्य प्रहारेण नृपस्य नासिका छिन्ना अभवत् ।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए।)
(i) ‘अगच्छत्’ इत्यस्मिन् पदे लकार अस्ति ?
(क) लट्लकार
(ख) लङ्लकार
(ग) लोट्लकार
(घ) लृट्लकार
उत्तर :
(ख) लङ्लकार
(ii) ‘दूरम्’ पदस्य विलोमपदम् अस्ति ?
(क) निकटम्
(ख) उपरि
(ग) अधः
(घ) अतिदूरम्
उत्तर :
(क) निकटम्
(iii) ‘नृपस्य ‘ पदे का विभक्ति: ?
(क) प्रथमा
(ख) षष्ठी
(ग) सप्तमी
(घ) द्वितीया
उत्तर :
(ख) षष्ठी
(iv) ‘नृप:’ पदस्य अर्थः किम् ?
(क) राजा:
(ख) माली
(ग) वैद्यः
(घ) पुरुष:
उत्तर :
(क) राजा:
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
मूर्खः वानरः
![]()
वर्कशीट 9
निर्देश अधोलिखितान् गद्यांशान् पठित्वा निर्देशानुसारम् उत्तरत।
(निम्नलिखित गद्यांशों को पढ़कर निर्देश अनुसार उत्तर दीजिए।)
गद्यांश 1
एकदा सुशील: जनकेन सह जन्तुशालां गच्छति । तत्र सः गजः भल्लूकः, हरिणः, सिंहः, चित्रकः इत्यादयः पशून् पश्यति । जन्तुशालायां एकस्मिन् सरे मकरः अपि अस्ति। एकस्मिन् पञ्जरे वानराः कूर्दन्ति । तत्र विविधवर्णचटकाः इतस्ततः विचरन्ति । जन्तुशालायां अनेके मयूराः नृत्यन्ति । सुशील सायंकाले गृहम् आगच्छति ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) सुशील: केन सह जन्तुशालां गच्छति ? _________________
(ख) मकरः कुत्र अस्ति ? _________________
(ग) तत्र कः इतस्ततः विचरन्ति ? _________________
(घ) सुशील सायंकाले कुत्र आगच्छति? _________________
उत्तर :
(क) जनकेन
(ख) सरे
(ग) विविधवर्णचटकाः
(घ) गृहम्
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) वानराः कुत्र कूर्दन्ति ?
____________________________________
उत्तर :
वानराः पञ्जरे कूर्दन्ति ।
(ख) जन्तुशालायां के नृत्यन्ति ?
____________________________________
उत्तर :
जन्तुशालायां मयूराः नृत्यन्ति ।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए।)
(i) ‘जनकेन’ इत्यस्मिन् पदे विभक्ति अस्ति ?
(क) चतुर्थी
(ख) पञ्चमी
(ग) तृतीया
(घ) सप्तमी
उत्तर :
(ग) तृतीया
(ii) ‘नृत्यन्ति’ इत्यस्मिन् पदे धातु अस्ति ?
(क) नृत्
(ख) नृत्य
(ग) नृत्यति
(घ) नृतयन
उत्तर :
(क) नृत्
(iii) ‘गच्छति’ पदे कः लकारः ?
(क) लट्
(ख) लोट्
(ग) लृट्
(घ) विधिलिङ्
उत्तर :
(क) लट्
(iv) ‘इत्यादयः’ पदस्य सन्धि-विच्छेदं किम् अस्ति ?
(क) इति + आदयः
(ख) इतस् + आदय्
(ग) इत + आदयाः
(घ) इति + आदिः
उत्तर :
(क) इति + आदयः
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
जन्तुशाला
गद्यांश 2
एकस्मिन् वने एकः सिंहः प्रतिवसति स्म । सः वनस्य नित्यं एकं पशुं खादति स्म। एकदा सिंहः अति क्षुधितः अस्ति। एकः शशकः तत्र आगच्छति । सः चतुरः अस्ति। सः सिंहे कथयति – महाराज ! अस्मिन् वने एक: अपरः सिंह अस्ति। सः स्वयमेव राजा कथयति । एतत् श्रुत्वा सिंह कुपितः भवति! शशकः सिंहं एकस्मिन् कूपस्य समीपे नयति । सिंहः जले स्व प्रतिबिम्बं पश्यति, कूपे कूर्दति म्रियते च । शशकः स्व बुद्धिबलेन आत्मरक्षां करोति ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) सिंहः नित्यं किं खादति स्म ? _________________
(ख) सिंह जले किं पश्यति? _________________
(ग) एकस्मिन् वने एकः कः वसति स्म ? _________________
(घ) एकदा सिंहः कीदृशः अस्ति ? _________________
उत्तर :
(क) एकं पशुं
(ख) स्व प्रतिबिम्बम्
(ग) सिंहः
(घ) अति क्षुधितः
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) शशकः केन आत्मरक्षा करोति ?
____________________________________
उत्तर :
शशकः बुद्धिबलेन् आत्मरक्षां करोति।
(ख) शशकः सिंहे कुत्र नयति ?
____________________________________
उत्तर :
शशकः सिंहे एकस्य कूपस्य समीपे नयति।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए।)
(i) ‘भूत्वा’ इत्यस्मिन् पदे प्रकृति + प्रत्यय अस्ति?
(क) भू + त्वा
(ख) भूत + वा
(ग) भू + क्त्वा
(घ) भूत + क्तवा
उत्तर :
(ग) भू + क्त्वा
(ii) ‘क्षुधित: ‘ शब्दस्य विलोमपदम् अस्ति ?
(क) भोजनम्
(ख) तृप्तः
(ग) जलम्
(घ) अन्नम्
उत्तर :
(ख) तृप्तः
(iii) ‘श्रुत्वा’ इत्यत्र प्रत्ययः किम् अस्ति ?
(क) त्वा
(ख) क्त्वा
(ग) क्तवतु
(घ) ल्यप्
उत्तर :
(ख) क्त्वा
(iv) ‘कूपस्य’ इति पदे का विभक्तिः ?
(क) प्रथमा
(ख) पञ्चमी
(ग) षष्ठी
(घ) द्वितीया
उत्तर :
(ग) षष्ठी
![]()
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
बुद्धिर्यस्य बलं तस्य
वर्कशीट 10
निर्देश अधोलिखितान् गद्यांशान् पठित्वा निर्देशानुसारम् उत्तरत।
(निम्नलिखित गद्यांश को पढ़कर निर्देश अनुसार उत्तर दीजिए ।)
गद्यांश 1
कश्चित् ग्रामे एकः वृद्धः कृषकः अवसत् । सः परिश्रमी दूरदर्शी च आसीत् । तस्य चत्वारः पुत्राः आसन्। परं ते अलसा अभवन्। एकदा वृद्धः कृषकः मरणासन्नावसरे स्व पुत्रान् अकथयत् यत् – मम क्षेत्रेषु गुप्तं धनं वर्तते । कृषकस्य मरणान्तरं ते निजक्षेत्रान् अकर्षन् । परं गुप्तं धनं न लब्धम् । ते निराशं अभवन् । निजमातुः प्रेरणया क्षेत्रेषु ते बीजानि अवपन् । परिणामस्वरूपं प्रभूतं धान्यम् अभवत् । तस्य विक्रयैः ते धनिनः संजाता। अन्ते च ते स्वपितुः सुगुप्तधनस्य रहस्यम् अवबोधन् ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए ।)
(क) परिश्रमी दूरदर्शी च कः आसीत्? _________________
(ख) कस्याः प्रेरणया क्षेत्रेषु ते बीजानि अवपन् ? _________________
(ग) ग्रामे एकः वृद्धः कः अवसत् ? _________________
(घ) कृषकस्य कति पुत्राः आसन् ? _________________
उत्तर :
(क) कृषकः
(ख) निजमातुः
(ग) कृषकः
(घ) चत्वारः
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) वृद्धः कृषक: मरणासन्नावसरे स्व पुत्रान् किम् अकथयत् ?
____________________________________
उत्तर :
वृद्ध कृषकः मरणासन्नावसरे स्व पुत्रान् अकथयत्-यत्-मम क्षेत्रेषु गुप्तं धनं वर्तते।
(ख) अन्ते च ते किम् अवबोधन् ?
____________________________________
उत्तर :
अन्ते चते स्वपितुः सुगुप्तधनस्य रहस्यम् अवबोधन् ।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए ।)
(i) ‘अलसा’ शब्दस्य विलोमपदम् अस्ति ?
(क) परिश्रमी
(ख) साहसी
(ग) प्ररेणाया
(घ) धान्यम्
उत्तर :
(क) परिश्रमी
(ii) ‘मम’ इत्यस्मिन् पदे मूलशब्द- विभक्तिम् अस्ति ?
(क) युष्मद् – षष्ठी विभक्तिं
(ख) अस्मद् – षष्ठी विभक्ति
(ग) युष्मद् – तृतीया विभक्तिं
(घ) अस्मद् – तृतीया विभक्ति
उत्तर :
(ख) अस्मद् – षष्ठी विभक्ति
(iii) ‘अवसत्’ पदे का धातु ?
(क) वस्
(ख) वत्
(ग) अव
(घ) अवस्
उत्तर :
(क) वस्
(iv) ‘प्रभूतम्’ इति पदे कः उपसर्गः ?
(क) प्रभू
(ख) तम्
(ग) प्र
(घ) भूतम्
उत्तर :
(ग) प्र
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
परिश्रमस्य फलम्
गद्यांश 2
अस्माकं भारतदेशः 15 अगस्त, 1947 तमे वर्षे स्वतंत्रः अभवत्। भारतस्य स्वतंत्रतायै । बहवः जननायकाः प्रयत्नं अकरोत्। अतः अस्मिन् दिने प्रतिवर्ष स्वतंत्रतादिवसस्य उत्सव : मन्यते । सर्वे मनुष्याः राष्ट्रध्वजस्य राष्ट्रगीतस्य च सम्मानं कुर्वन्ति । सर्वेषु नगरेषु विद्यालयेषु च सर्वत्र समारोहाः भवन्ति । अतः अस्मिन् दिवसे सर्वत्र उल्लासः दृश्यते। देशस्य सुरक्षा शान्ति च अस्माकं परमः कर्त्तव्यः अस्ति।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) 1947 तमे वर्षे कः देशः स्वतंत्रः अभवत्? _________________
(ख) देशस्य सुरक्षा शान्ति च अस्माकं किम् अस्ति ? _________________
(ग) अस्मिन् दिने प्रतिवर्ष कः उत्सवः मन्यते? _________________
(घ) सर्वे मनुष्याः कस्य सम्मानं कुर्वन्ति ? _________________
उत्तर :
(क) भारतदेशः
(ख) कर्त्तव्यः
(ग) स्वतंत्रतादिवसः
(घ) राष्ट्रध्वजस्य राष्ट्रगीतस्य च
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) स्वतंत्रतायैः के प्रयत्नम् अकुर्वन् ?
____________________________________
उत्तर :
स्वतन्त्रायैः बहवः जननायकाः प्रयत्नमकुर्वन्।
(ख) अस्मिन् दिवसे किं दृश्यते ?
____________________________________
उत्तर :
अस्मिन् दिवसे सर्वत्र उल्लासः दृश्यते।
प्रश्न 3.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देश के अनुसार चुनकर लिखिए।)
(i) ‘स्वतंत्रता’ शब्दस्य विलोमपदम् अस्ति ?
(क) परतंत्रता
(ख) स्वाधीनता
(ग) जननायका:
(घ) उत्सवः
उत्तर :
(क) परतंत्रता
(ii) ‘विद्यालयेषु’ इत्यस्मिन् पदे विभक्ति – वचनम् अस्ति ?
(क) सप्तमी – बहुवचनम्
(ख) षष्ठी – बहुवचनम्
(ग) पञ्चमी – बहुवचनम्
(घ) चतुर्थी – बहुवचनम्
उत्तर :
(क) सप्तमी – बहुवचनम्
(iii) ‘प्रतिवर्ष’ पदे उपसर्गः किम् अस्ति ?
(क) प्रति
(ख) वर्ष
(ग) प्रती
(घ) वर्षम्
उत्तर :
(क) प्रति
(iv) ‘स्वतंत्र’ पदे सन्धि-विच्छेदं किम् अस्ति ?
(क) स्व + तंत्र
(ख) सव् + तंत्र
(ग) सव + तत्र
(घ) स्व + तत्र
उत्तर :
(क) स्व + तंत्र
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
(उपरोक्त गद्यांश का समुचित शीर्षक लिखिए।)
____________________________________
उत्तर :
स्वतंत्रता दिवस: