We have given detailed NCERT Class 8 Sanskrit Deepakam Solutions and Chitra Varnan in Sanskrit for Class 8 with Answers चित्रवर्णनम् come in handy for quickly completing your homework.
Sanskrit Chitra Varnan Class 8 with Answers
चित्र वर्णन संस्कृत में Class 8 – Class 8 Sanskrit Chitra Varnan
Chitra Varnan Class 8 Sanskrit
प्रश्न: 1.
चित्रं दृष्ट्वा मञ्जूषायाम् प्रदत्तशब्दानाम् सहायतया संस्कृतेन पञ्च – वाक्यानि रचयत-

मञ्जूषा – पर्वताः, वृक्षाः, उन्नताः, विशाला:, छात्राः, सर्वे, पुष्पाणि, वन्दनां, विकसन्ति, कुर्वन्ति, हरिताः, सुन्दरं, करबद्धाः
उत्तर:
- अस्मिन् चित्रे उन्नताः पर्वताः दृश्यन्ते।
- हरिताः विशालाः च वृक्षाः सन्ति ।
- करबद्धाः छात्राः वन्दनां कुर्वन्ति ।
- सुन्दराणि पुष्पाणि विकसन्ति ।
- चित्रम् सुन्दरं रमणीयं च अस्ति ।
प्रश्न: 2.
चित्रं दृष्ट्वा मञ्जूषायाम् प्रदत्तपदानाम् सहायतया संस्कृतेन पञ्च वाक्यानि रचयत-

मञ्जूषा-पर्णकुटीरः, शिष्याः, गुरुकुलस्य, गुरुः, वृक्षस्य, अधः, शिक्षयति, ध्यानेन शृण्वन्ति, वातावरणं, सुन्दरम्
उत्तर:
- एतत् चित्रम् गुरुकुलस्य अस्ति ।
- वृक्षस्य अधः गुरुः तिष्ठति ।
- गुरुः शिष्यान् शिक्षयति ।
- शिष्याः ध्यानेन शृण्वन्ति ।
- समीपे एकः पर्णकुटीरः अपि अस्ति।
प्रश्न: 3.
चित्रम् दृष्ट्वा मञ्जूषायां प्रदत्तपदानाम् सहायतया संस्कृतेन पञ्च – वाक्यानि रचयत-

मञ्जूषा-पितुः, स्पृशति, चरणौ, आशीर्वादाः, यच्छति, पुत्राय, रक्तां, शाटिकाम्, पुत्रः, प्रसन्नाः, सन्ति, धारयति, परिवारस्य
उत्तर:
- एतत् चित्रम् परिवारस्य अस्ति ।
- पुत्रः पितुः चरणौ स्पृशति ।
- पिता पुत्राय आशीर्वादाः यच्छति।
- माता रक्तां शाटिकाम् धारयति ।
- ते सर्वे प्रसन्नाः सन्ति ।
प्रश्न: 4.
चित्रम् दृष्ट्वा मञ्जूषायां प्रदत्तपदानाम् सहायतया संस्कृतेन पञ्च-वाक्यानि रचयत-

मञ्जूषा-फलयुक्ताः, वनस्य, फलानि, शाकानि, वृक्षा:, वायुः शुद्धः, रक्षणं, अस्मभ्यम्, अस्माभिः, यच्छन्ति, पर्यावरणस्य, सघनाः
उत्तर:
- इदम् चित्रम् वनस्य अस्ति ।
- अत्र अनेके फलयुक्ताः वृक्षाः सन्ति ।
- वृक्षाः अस्मभ्यम् फलानि शाकानि च यच्छन्ति।
- वने शुद्धः वायुः वहति ।
- अस्माभिः पर्यावरणस्य रक्षणं करणीयम् ।
प्रश्न: 5.
मञ्जूषायां प्रदत्तशब्दानाम् सहायतया चित्रं दृष्ट्वा पञ्च-वाक्यानि संस्कृतेन लिखत-

मञ्जूषा-अध्यापकः सम्बोधयति छात्रान् सभाभवनम् विद्यालयस्य, मञ्चं, उपविशन्ति, ध्वनिविस्तारकयन्त्रस्य, छात्राः, करतलध्वनिं, प्रेरणाप्रदैः शब्दैः
उत्तर:
- एतत् चित्रम् विद्यालयस्य सभाभवनस्य अस्ति ।
- प्रधानाध्यापिका अध्यापकाः च मञ्चम् उपविशन्ति।
- एकः अध्यापकः ध्वनिविस्तारकयन्त्रस्य समीपं गच्छति ।
- सः छात्रान् प्रेरणाप्रदैः शब्दैः सम्बोधयति ।
- सर्वे छात्राः करतलध्वनिं कुर्वन्ति ।
प्रश्न: 6.
चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानाम् सहायतया संस्कृतेन पञ्च-वाक्यानि रचयत-

मञ्जूषा-छात्रेभ्यः ज्ञानार्जनं पठित्वा कुर्वन्ति पुस्तकानि, पुस्तकालस्य, पत्रिकाः, समाचार- पत्राणि, पठन्ति, उपविशन्ति, तूष्णीम्, पुस्तकालयाध्यक्षः, यच्छति
उत्तर:
- एतत् चित्रम् पुस्तकालयस्य अस्ति ।
- पुस्तकालयाध्यक्षः छात्रेभ्यः पुस्तकानि यच्छति।
- छात्राः अत्र पत्रिकाः समाचारपत्राणि पुस्तकानि च पठन्ति ।
- पुस्तकानि पठित्वा ते ज्ञानार्जनं कुर्वन्ति ।
- पुस्तकालये छात्राः तूष्णीम् उपविशन्ति ।
प्रश्न: 7.
मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रम् दृष्ट्वा पञ्च-वाक्यानि संस्कृतेन लिखत-

मञ्जूषा-पूर्वराष्ट्रपते:, ए.पी.जे. अब्दुलकलामस्य, प्रमुखः, वैज्ञानिकः, आणविक अस्त्राणाम् भूमिका, आसीत्, प्रमुखा, पिता, पुत्रम्, सफलः, लेखक:, अस्ति, विषये, निर्माणे
उत्तर:
- अत्र पिता पुत्रं चित्रस्य विषये बोधयति ।
- एतत् चित्रम् भारतस्य पूर्वराष्ट्रपतेः ए.पी.जे. अब्दुलकलामस्य अस्ति ।
- सः भारतस्य प्रमुखः वैज्ञानिकः अस्ति।
- आणविक अस्त्राणाम् निर्माणे तस्य प्रमुखा भूमिका आसीत्।
- सः एकः सफलः लेखकः अपि आसीत् ।
प्रश्न: 8.
चित्रं पश्यत । मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत । पञ्च – वाक्यानि रचयत-

मञ्जूषा-रथम्, सारथिः, श्रीकृष्णः, अर्जुन:, उपविशति उपदिशति, करबद्धः, शृणोति, पश्चभागे, रथे
1. ……………………..
2. ……………………..
3. ……………………..
4. ……………………..
5. ……………………..
उत्तर:
1. चित्रे एकम् रथम् अस्ति।
2. रथे श्रीकृष्णः सारथिः अस्ति ।
3. अर्जुनः रथस्य पश्चभागे उपविशति।
4. श्रीकृष्ण: अर्जुनम् उपदिशति ।
5. करबद्धः अर्जुनः शृणोति ।
प्रश्न: 9.
चित्रं पश्यत । मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत । संस्कृतेन पञ्च – वाक्यानि रचयत।

मञ्जूषा-सूर्योदयः, चित्रम्, खगाः, उद्यानम्, भ्रमणम् मनुष्याः, कुर्वन्ति, व्यायामम्, चलन्ति, उत्पतन्ति
उत्तर:
- एतत् प्रात:कालस्य चित्रम् अस्ति ।
- पूर्वदिशायाम् सूर्योदयः भवति ।
- आकाशे खगाः इतस्ततः उत्पतन्ति।
- जना: उद्याने व्यायामं कुर्वन्ति ।
- जना: मार्गे चलन्ति।
अथवा
एक युवकः समाचारपत्रं पठति।
प्रश्न: 10.
मञ्जूषायाः पदानि स्वीकृत्य चित्राधारितानि पञ्च – वाक्यानि संस्कृतेन लिखत ।

मञ्जूषा-पालितः, कुक्कुरः, भषति, दृष्ट्वा, अपरिचितान्, सर्वेषाम् प्रियः द्वौ युवकौ, स्नेहेन कुरुतः परिवारस्य, पालयति
उत्तर:
- अस्मिन् चित्रे एक: पालितः कुक्कुरः अस्ति।
- द्वौ युवकौ तेन सह कन्दुकक्रीडां कुरुतः।
- अपरिचितान् जनान् दृष्ट्वा सः भषति ।
- कुक्कुरः सर्वेषाम् प्रियः अस्ति ।
- परिवारस्य सदस्याः तम् स्नेहेन पालयति।
Chitra Varnan Sanskrit Class 8
अधोदत्तं प्रत्येकं चित्रम् आधृत्य संस्कृतेन पञ्चवाक्यानि लिखत-सहायतार्थं मञ्जूषायां पदानि दत्तानि-
(नीचे दिए गए प्रत्येक चित्र का वर्णन संस्कृत में पाँच वाक्यों में कीजिए। सहायता के लिए मजूषा में शब्द दिए गए हैं-)
प्रश्नः 1.
मञ्जूषायाः पदानि चित्वा चित्राधारितानि पञ्च-वाक्यानि संस्कृतेन लिखत-

वनस्य, नद्याः, सिंहः, वृक्षाः, वन्यजीवानाम्, मञ्जूषा – आश्रयम्, खगाः, तटे, शाखासु, नीडानि, स्वतन्त्ररूपेण, विहरन्ति, रचयन्ति
1. ………………….
2. ………………….
3. ………………….
4. ………………….
5. ………………….
उत्तर:
1. एतत् चित्रम् वनस्य अस्ति।
2. वनम् वन्यजीवानाम् आश्रयम् अस्ति।
3. खगाः वृक्षाणाम् शाखासु नीडानि रचयन्ति ।
4. सिंह: नद्या: तटे तिष्ठति ।
5. वने वन्यजीवाः स्वतन्त्ररूपेण विहरन्ति ।
प्रश्नः 2.
चित्रम् दृष्ट्वा मञ्जूषायां प्रदत्तपदानाम् सहायतया पञ्च-वाक्यानि संस्कृतेन लिखत ।

मञ्जूषा-नगरस्य, वाहनानि, जनाः, मध्ये, वृक्षः, उन्नतानि भवनानि, मानवाः, वृक्षाणाम् कुर्युः, सुखिनः भवन्तु, संरक्षणेन ।
1. ………………….
2. ………………….
3. ………………….
4. ………………….
5. ………………….
उत्तर:
1. एतत् चित्रम् नगरस्य अस्ति ।
2. नगरे उन्नतानि भवनानि सन्ति ।
3. एक: वृक्ष: मार्गस्य मध्ये अस्ति । मार्गे अनेकानि वाहनानि चलन्ति ।
4. मानवाः स्वस्वार्थाय वृक्षाणाम् कर्तनं न कुर्युः।
5. वृक्षाणाम् संरक्षणेन एव सर्वे सुखिनः भवन्तु ।
प्रश्न: 3.
चित्रं पश्यत । मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत । पञ्च – वाक्यानि रचयत ।

मञ्जूषा-वृक्षः, गोलिकाभिः, समीपे, सैनिकान्, चन्द्रशेखरः, हस्ते आयुधानि
1. ………………….
2. ………………….
3. ………………….
4. ………………….
5. ………………….
उत्तर:
1. चित्रे पुष्पितम् उद्यानं वर्तते ।
2. वृक्षस्य पश्चात् चन्द्रशेखरः तिष्ठति।
3. तस्य अग्रे सैनिकाः सन्ति ।
4. सैनिकानां हस्तेषु आयुधानि सन्ति ।
5. चन्द्रशेखरः सैनिकानाम् उपरि गोलिकाभिः वर्षणं कृत्वा स्वरक्षां करोति ।
प्रश्न: 4.
मञ्जूषायाम् प्रदत्तपदैः चित्राधारितानि पञ्च वाक्यानि संस्कृतेन लिखत-

मञ्जूषा-पूर्वदिशायाम्, प्रातःकालस्य, उदेति, उटजात्, द्वौ बालकौ, पितामहेन, भ्रमन्ति, सह, सुन्दराणि, खगाः, कुसुमानि बहिः, वृक्षस्य
1. ………………….
2. ………………….
3. ………………….
4. ………………….
5. ………………….
उत्तर:
1. एतत् प्रात:कालस्य दृश्यम् अस्ति।
2. सूर्य: पूर्वदिशायाम् उदेति ।
3. वृक्षस्य उपरि खगाः तिष्ठन्ति ।
4. द्वौ बालकौ उटजात् बहिः आगच्छतः।
5. बालकाः पितामहेन सह भ्रमन्ति
प्रश्न: 5.
चित्रम् दृष्ट्वा मञ्जूषायां प्रदत्तपदानाम् सहायतया संस्कृतेन पञ्च वाक्यानि लिखत-

मञ्जूषा-वानराः, स्यूतं, आकाशे, कूर्दन्ति, नीत्वा, उत्पतन्ति, विशालः, बालिका, खगाः, अधः, इतस्ततः, उद्यानस्य, लोमशः, तिष्ठति
1. ………………….
2. ………………….
3. ………………….
4. ………………….
5. ………………….
उत्तर:
पादपेषु सुन्दराणि कुसुमानि विकसन्ति ।
1. एतत् चित्रम् उद्यानस्य अस्ति ।
2. वृक्षे वानराः इतस्ततः कूर्दन्ति ।
3. वृक्षस्य अधः एकः लोमशः तिष्ठति ।
4. आकाशे खगाः उत्पतन्ति ।
5. बालिका स्यूतं नीत्वा विद्यालयं प्रति गच्छति।
अथवा
वृक्षः विशालः अस्ति ।
प्रश्न 6.

मञ्जूषा- ग्रामस्य, कुटीरः, कुम्भकारः, घटम्, महिला, घटाः रचयति, भूषयति, बालिका, क्रीडति, वृक्षाः, खट्वा, चित्रे।
1. ………………………………………………………………………………
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. ग्रामस्य कुम्भकार: घट रचयति।
2. एका महिला घटान् भूषयति।
3. कुटीरस्य पुरत: एका बालिका क्रीडति।
4. पार्वे एका खट्टा अपि अस्ति।
5. चित्रे वृक्षाः अपि सन्ति।
प्रश्न 7.

मञ्जूषा-पर्वताः, गृहाणि, पर्वतीय, सूर्यः, उदयति, ग्रामस्य, ग्रामीणाः, जनाः, सामान्याः, वृक्षाः।
1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. एतत् चित्रम् एकस्य पर्वतीयस्य ग्रामस्य अस्ति ।
2. अत्र अनेके पर्वताः सन्ति ।
3. चित्रे सूर्योदयः भवति ।
4. ग्रामीणाः जनाः इतस्तत: गच्छन्ति ।
5. पर्वतेषु वातावरणम् शुद्धम् भवति ।
प्रश्न 8.

मञ्जूषा- गुरुः, शिष्याः, वृक्षाः, उपदिशति, आकर्णयन्ति, शान्तिप्रदम्, गुरुकुलः, शृण्वन्ति, शिक्षा, कुटीरः।
1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. प्रदत्तम् चित्रम् एकस्य गुरुकुलस्य वर्तते ।
2. गुरु: वृक्षस्य अधः आसनम् अधितिष्ठति ।
3. शिष्याः ध्यानेन गुरोः उपदेशं शृण्वन्ति ।
4. गुरुकुले वातावरणम् शान्तिप्रदम् भवति ।
5. चित्रे एकः कुटीरः अपि अस्ति ।
प्रश्न 9.

मञ्जूषा- मेट्रो-रेल-स्थानकम्, यात्रिकाः, आरोहति, गच्छतः, द्वे युवती, वार्ताम्, कुरुतः, चित्रे, मेट्रो-रेलयानम्, स्थितम्, यात्राम् शीघ्रम्, कार्य-स्थलम्, जनाः।
1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. एतत्, दृश्यम् मेट्रो-रेलस्थानकस्य अस्ति।
2. चित्रे एक मेट्रो-रेलयानं स्थानके स्थितम्।
3. एकः जनः रेलयानम् आरोहति।
4. द्वे युवत्यौ वार्ता कुरुतः गच्छतः च।
5. जनाः शीघ्र स्वकार्यस्थलं गन्तुम् मेट्रोरेलयानेन यात्रां कुर्वन्ति।
प्रश्न 10.

मञ्जूषा- उल्लूकः, खगाः, वर्तकः, तरति, तीरे, भ्रमराः, पुरुषः, सरोवरे, पुष्पाणि, मत्स्याः ।।
1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. एतच्चित्रं सरस्तीरस्य वर्तते ।
2. चित्रे एक: वर्तक: जले प्रसन्नतया तरति ।
3. वृक्षस्य उपरि एक: उल्लूक: तिष्ठति ।
4. जले अनेके मत्स्याः सन्ति ।
5. एक: बक: मत्स्यं खादति ।
प्रश्न 11.

मञ्जूषा- बालाः, वयस्काः, महिलाः, राग-रङ्गाणाम्, उत्सवः, होली, प्रसन्नाः, लिम्पन्ति, रङ्गान्, रञ्जित-जलं, प्रक्षिपन्ति, अन्योन्यस्य, उपरि, पात्रे, हास-परिहासः, मुखे, आनन्दम्, अनुभवन्ति।
1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. होली राग-रङ्गाणाम् उत्सवः अस्ति।
2. चित्रे बालाः वयस्काः महिलाः च प्रसन्नाः सन्ति।
3. बाला: बालिकाः च रञ्जित-जलं अन्योन्यस्य उपरि प्रक्षिपन्ति।
4. जनाः अन्योन्यस्य मुखे रङ्गान् लिम्पन्ति।
5. ते परस्परं हास-परिहासम् कुर्वन्ति आनन्दम् च अनुभवन्ति।
प्रश्न: 12.
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्च वाक्यानि रचयत।


उत्तरम्
1. चित्रे पञ्च जनाः सन्ति।
2. तेषु त्रयः बालकाः सन्ति।
3. तेषु द्वे बालिके स्तः।
4. सर्वे वन्दनां कुर्वन्ति।
5. सर्वे पंक्तिबद्धाः तिष्ठन्ति।
प्रश्न: 13.
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्च वाक्यानि रचयत।


उत्तरम्
1. चित्रे एका खट्वा वर्तते।
2. खट्वायाम् एकः बालकः स्वपिति।
3. तस्य उपरि घटः वर्तते।
4. घटः सक्तूभिः पूर्णः अस्ति।
5. बालकः चरण प्रहारं करोति, घटः अधः पतति।
प्रश्न: 14.
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्च वाक्यानि रचयत।


उत्तरम्
1. चित्रे एका नदी अस्ति।
2. नदीतटे एकः धीवरः अस्ति।
3. धीवरस्य हस्ते जालम् अस्ति।
4. जाले मत्स्याः सन्ति।
5. धीवरः मत्स्यान् घटे क्षिपति।