Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Set 1 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Set 1 with Solutions
समयः : 3 होरा
पूर्णांक: 80
सामान्यनिर्देशाः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे मुद्रितानि सन्ति ।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति ।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
प्रश्नपत्रस्वरूपम् –
‘क’ खण्डः: अपठितावबोधनम् – 10 अङ्काः
‘ख’ खण्ड: रचनात्मककार्यम् – 15 अङ्काः
‘ग’ खण्ड: अनुप्रयुक्तव्याकरणम् – 25 अङ्काः
‘घ’ खण्डः पठितावबोधनम् – 30 अङ्काः - प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
- प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयः ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
खण्ड-‘क’ (10 अङ्काः)
(अपठिति अवबोधनम्)
प्रश्न 1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (10)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
ग्रीष्मकालानन्तरं वर्षाकालः आगच्छति। आकाशे सूर्यमाच्छाद्य मेघाः इतस्ततः विहरन्ति । तदा कृषकाः मुदिताः भवन्ति । यदा वृष्टिः भवति तदा भगवतः आशीर्वादा इव जलबिन्दवः भुवि निपतन्ति । आकाशे मेघाः नितरां गर्जन्ति । सर्वत्र उत्पन्नप्रकम्पनं भयङ्करं भवति । तदा मयूराः करवं कुर्वन्तः मुदिताः भूत्वा नृत्यन्ति । नद्यः तडागाः च जलपूर्णाः भवन्ति । कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति । क्रमेण सस्यसम्पद् वर्धते । परं यदा अतिवृष्टिः भवति तदा महती विपद् सञ्जायते । नदीनां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमज्जितानि भवन्ति । पशुपक्षिणः, लघवः प्राणिनः च म्रियन्ते । एवमेव अनावृष्ट्या अपि आपदः सम्भवन्ति । तदा जलस्य अभावेन तडागाः शुष्यन्ति । वृक्षाः विनश्यन्ति । कृषिकर्म असाध्यं भवति । कृषि विना धान्योत्पत्तिः एव न भवति । प्राणधारणवस्तूनाम् अभावेन जनाः क्लेशम् अनुभवन्ति । क्रमशः जीवनम् एव दुर्वहं भवति । अतिवृष्टेरनावृष्टेः च मूल मानवः एव । सघनविपिनानाम् अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति । पर्यावरणप्रदूषणेन ऋतूनां गतयः परिवर्तिताः भवन्ति । अतः पर्यावरणस्य संरक्षणाय वयं जागरुकाः भवेम ।
(अ) एकपदेन उत्तरत। (केवलं प्रश्न-द्वयम्) (1 × 2 = 2)
(i) कुत्र मेघाः इतस्ततः विहरन्ति ?
उत्तरः
आकाशे
(ii) सर्वत्र उत्पन्नप्रकम्पनं कीदृशं भवति ?
उत्तरः
भयङ्करम्
(iii) जलस्य अभावेन के शुष्यन्ति ?
उत्तरः
तडागाः
आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम् ) (2 × 2 = 4)
(i) पर्यावरणं कथम् असन्तुलितं भवति ?
उत्तरः
सघनविपिनानाम् अनियन्त्ितनाशनेन पर्यावरणम् असन्तुलितं भवति।
(ii) कदा भगवतः आशीर्वादा इव जलबिन्दवः निपतन्ति ?
उत्तरः
यदा वृष्टिः भवति तदा भगवतः आशीर्वादा इव जलबिन्दवः भुवि निपतन्ति ।
(iii) प्राणिनः कदा म्रियन्ते ?
उत्तरः
यदा अतिवृष्टिः अनावृष्टिः वा भवति तदा प्राणिनः ग्रियन्ते।/ यदा अतिवृष्टिः अपावृष्टिः वा भवति तदा महती विपद् सञ्जायते । नदीनां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमज्जितानि भवन्ति। पशुपक्षिणः, लघवः प्राणिनः च म्रियन्ते ।
(इ) उपयुक्तं शीर्षकं – (1× 1 = 1)
अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।
उत्तरः
वृष्टेः अनावृष्टेः परिणामः/ वर्षाकालः/ असन्तुलितं वातावरणम् ।
छात्रस्य उत्तरं दृष्ट्वा छात्रहिताय समुचितः निर्णयः करणीयः।
(ई) यथानिर्देशम् उत्तरत- (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) “कृषकाः क्षत्राणि कृष्टा बीजानि वपन्ति ।” अत्र किं क्रियापदम् ?
(क) कृष्ट्वा
(ख) बीजानि
(ग) वपन्ति
(घ) उपरोक्तसर्वम्
उत्तरः
(ग) वपन्ति
(ii) असन्तुलितम्” इति विशेषणपदस्य विशेष्यपदं किम्?
(क) पर्यावरणम्
(ख) विपिनम्
(ग) ऋतुः
(घ) मानवः
उत्तरः
(क) पर्यावरणम्
(iii) “अरण्यानाम् ‘ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम् ?
(क) मेघानाम्
(ख) विपिनानाम्
(ग) निमन्जितानाम्
(घ) पर्यावरणम्
उत्तरः
(ख) विपिनानाम्
(iv) दुःखिताः” इति पदस्य विपर्ययपदं किं प्रयुक्तम् ?
(क) भ्रमिताः
(ख) जनाः
(ग) आशीर्वादाः
(घ) मुदिताः
उत्तरः
(घ) मुदिताः
खण्ड-‘ख’ (15 अङ्काः)
(रचनात्मक कार्यम्)
प्रश्न 2. भवान् दिवाकरः । स्वमातुलं निमन्त्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत । (1/2 × 10 = 5 अङ्काः)
(आप दिवाकर हैं। आप अपनी माता को बुलाने हेतु मञ्जूषा की सहायता से एक पत्र लिखिए)
वाराणसीतः
दिनाङ्कः …………..
आदरणीय (i) …………….
सस्नेहं नमः ।
अत्र कुशलं (ii) ……….. | भवान् इदं ज्ञात्वा अत्यधिकः प्रसन्नः (iii) …………… यत् मम वार्षिकपरीक्षायाः परिणामः आगतः। अहं (iv) ………. सर्वाधिकाङ्कान् प्राप्तवान् अस्मि । सर्वाधिकानाम् अङ्कानां (v) ……….. सर्वोत्कृष्ट – छात्र – सम्माननाय राज्यसर्वकारेण (vi) ………… चितः अस्मि । तत्र सम्मानस्थले (vii) ………… अभिभावकाः आमन्त्रिताः सन्ति । मम सम्मान – कार्यक्रमे भवान् अपि (viii) ……… भवतु इति मम महती इच्छा वर्तते । यतोहि अभिभावकेषु भवान् अन्यतमः वर्तते। मातामहयोः चरणयोः मम (ix) …….. प्रणामाञ्जलिः ।
भवदीयः भागीनेयः
(x) …………….
[मञ्जूषा दिवाकरः, अहम्, परीक्षायाम्, तत्रास्तु, मातुल, भविष्यप्ति, कारणात्, सर्वेऽपि, उपस्थितः, साष्टाङ्गम्।
उत्तर:
वाराणसीतः
दिनाङ्कः …………..
आदरणीय (i) मातुल!
सस्नेहं नमः ।
अत्र कुशलं (ii) तत्रास्तु | भवान् इदं ज्ञात्वा अत्यधिकः प्रसन्नः (iii) भविष्यति यत् मम वार्षिकपरीक्षायाः परिणामः आगतः। अहं (iv) परीक्षायां सर्वाधिकाङ्कान् प्राप्तवान् अस्मि । सर्वाधिकानाम् अङ्कानां (v) कारणात् सर्वोत्कृष्ट – छात्र – सम्माननाय राज्यसर्वकारेण (vi) अहं चितः अस्मि । तत्र सम्मानस्थले (vii) सर्वेऽपि अभिभावकाः आमन्त्रिताः सन्ति । मम सम्मान – कार्यक्रमे भवान् अपि (viii) उपस्थितः भवतु इति मम महती इच्छा वर्तते । यतोहि अभिभावकेषु भवान् अन्यतमः वर्तते। मातामहयोः चरणयोः मम (ix) साष्टाङ्ग प्रणामाञ्जलिः ।
भवदीयः भागीनेयः
(x) दिवाकरः
प्रश्न 3. प्रदत्तं चित्रं दृष्टवा मज्जुषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि संस्कृतेन लिखत – (1 × 5 = 5)
चित्रवर्णनम् –
अत्र छत्रभ्यः सं्षिप्तवाव्यचना अपेक्षिता वर्ते । केवलं वाक्यशुद्धिः द्रष्टव्या । अस्य प्रश्नस्य प्रमुखम् उद्यं वाक्यरचना अस्ति । वाक्यं दीर्घम् अस्ति अथवा लघु इति महत्वपूर्णं नस्त । प्रतिवाक्यम् अर्धः अदु: भावस्य कृते अर्धः अङ्कः च व्याकरणदृष्टया शुद्धतानिमितत निर्धारितः अस्ति। मञ्जषायां प्रदत्ताः शब्दाः सहायार्थं सन्ति। छात्रः तेषां वावयषु प्रयोगं कुयदिव इति अनिवार्यं नास्ति। छत्रः स्वमेधया अपि वाक्यानि निर्मातुं शकोति। मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तन कूत्वा अपि वाक्यनिर्माणं कर्तुं शक्यते ।
व्याख्यात्मक हल –
(i) एतत् चित्रम् उद्यानस्य अस्ति।
(ii) उद्याने बहूनि पुष्पाणि विकसन्ति ।
(iii) अत्र सर्वत्र हरीतिमा दृश्यते।
(iv) सूर्यः पूर्वदिशायां उदेति।
(v) प्रातःकालीन दृश्यम् अतीव मनोहरं प्रतीयते ।
अथवा
निम्नलिखितं विषयम् अधिकृत्य मञ्जूषा प्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत –
उत्तरः
अनुच्छेद लेखनम्
अयं विकल्पः सर्वेभ्यः अस्ति। छत्राः मञ्जूषायां प्रदत्तानां शब्दानां विभवित परिवर्तनं कुत्वा अपि वाक्यनिर्माणं कर्तु शक्वन्ति। अतः अङ्काः देयाः। अस्य मूल्या्कनाय अन्ये नियमाः । चित्रवर्णनस्य अनुगुणं पालनीयाः।
“क्रीडा-महतत्वम्” (1 × 5 = 5)
उत्तरः
व्याख्यात्मक हल –
(i) क्रीडा स्वास्थ्याय महत्वपूर्णं अस्ति।
(ii) सर्वे जनाः आनन्दम् अनुभवन्ति।
(iii) क्रोडकानाम् जीवनं संयमितं भवति।
(iv) सर्वेभ्यः जनेभ्यः क्रीडा अनिवार्यम् अस्ति।
(v) क्रोडकाः जीवने सफलाः भवन्ति।
प्रश्न 4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत । (केवलं वाक्यपञ्चकम्) (1 × 5 = 5 अङ्का:)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए।) (केवल पाँच वाक्य)
(i) देश की शिक्षाव्यवस्था अच्छी है।
The education system of the country is good.
उत्तर:
देशस्य शिक्षाव्यवस्था उत्तमास्ति ।
(ii) तुम विदेश में पढ़ोगे ?
Will you study abroad ?
उत्तर:
त्वं विदेशे पठिष्यसि ?
(iii) मैं सुबह आठ बजे विद्यालय जाता हूँ।
I go to school at eight in the morning.
उत्तर:
अहं प्रातः अष्टवादने विद्यालयं गच्छामि।
(iv) आपके संस्कृत शिक्षक का नाम क्या है ?
What is the name of your Sanskrit teacher?
उत्तर:
भवतः | भवत्याः / तव संस्कृत-शिक्षकस्य नाम किम् / किमस्ति ?
(v) संसार में सभी सुखी रहें।
May everyone be happy in the world.
उत्तर:
संसारे सर्वे सुखिनः भवन्तु । / संसारे सर्वे सुखपूर्वक / सुखेन निवसन्तु ।
(vi) छात्र अध्ययन करें।
Students study.
उत्तर:
छात्राः अध्ययनं कुर्वन्तु / कुर्युः।
(vii) तुम सब श्लोक लिखो |
Everyone writes verses.
उत्तर:
यूर्य / यूयं सर्वे श्लोक लिखत ।
खण्ड-‘ग’ (25 अङ्काः)
(अनुप्रयुक्त व्याकरणम्)
प्रश्न 5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत-(केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) अस्य पिता कि तपः + तेपे ।
उत्तरः
तपस्तेपे
(ii) मम नृत्य तु प्रकृतेराराधना।
उत्तरः
प्रकृतेः + आराधना
(iii) नय माम् अस्मात् + नगरात् बहुटूरम्।
उत्तरः
अस्मानगरात्
(iv) अन्योऽपि बुद्धिमाल्लोके मुच्यते महतो भयात्।
उत्तरः
अन्यः + अपि
(v) भूरि परिश्रम्य किञ्चित् + वित्तम् उपार्जितवान्।
उत्तरः
किञ्चिद्धित्त्/ किञ्चिद् वित्तम्
प्रश्न 6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4 अङ्का:)
(निम्नलिखित वाक्यों में रेखांकित पदों का समास अथव विग्रह दिए गए विकल्पों में से चुनकर लिखिए।) (केवल चार प्रश्न)
(i) न्यायाधीशः आरक्षिणं दोषभाजनम् अमन्यत।
(क) दोषस्य भाजनम्
(ख) दोषाय भाजनम्
(ग) दोषं भाजनम्
(घ) दोषेण भाजनम्
उत्तर:
(क) दोषस्य भाजनम्
(ii) काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते ।
(क) काकस्य चेष्टा
(ख) काकः चेष्टः इव
(ग) काकः इव चेष्टा यस्य सः
(घ) काकः चेष्टः
उत्तर:
(ग) काकः इव चेष्टा यस्य सः
(iii) जलद ! त्वं पर्वतकुलम् आश्वास्य रिक्तोऽसि ।
(क) पर्वतेभ्यः कुलम्
(ख) पर्वतानां कुलम्
(ग) पर्वतेषु कुलम्
(घ) पर्वताः कुलम्
उत्तर:
(ख) पर्वतानां कुलम्
(iv) हयाश्च नागाश्च वहन्ति बोधिताः ।
(क) हयनागाश्च
(ग) हयनागः
(ख) हयानागा:
(घ) हयनागा:
उत्तर:
(घ) हयनागाः
(v) धरातलं मलेन सहितं जातम् ।
(क) सहमलम्
(ख) समलम्
(ग) यथामलम्
(घ) उपमलम्
उत्तर:
(ख) समलम्
प्रश्न 7. अधोलिखितवाक्यषुरेखाङ्कितपदेषुप्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत । (केवलं परश्नचतुष्टयं) (1 × 4 = 4)
(i) अन्योऽपि बुद्धिमान् लोके मुच्यते ?
(क) बुद्धि + मतुप्
(ख) बुद्धि + राप्
(ग) बुद्धि + डीप्
(घ) बुद्धि + इक्
उत्तरः
(क) बुद्धि + मतुप्
(ii) पुत्रस्य अभ्यधिका कृपा।
(क) अभ्यधिक + ठक्
(ख) अभ्यधिक + टाप्
(ग) अभ्यधिक + डीप्
(घ) अभ्यधिक + तल्
उत्तरः
(ख) अभ्यधिक + टाप्
(iii) त्वं मीनान् छलेन अधिगृह्य क्रूर + तल् भक्षयसि ।
(क) कऋूरतायै
(ख) कऋूरतायाः
(ग) ब्रूरतया
(घ) क्रूरतानाम्
उत्तरः
(ग) ब्रूरतया
(iv) तदेवाहुः महात्मानः सम + त्व इति तथ्यतः।
(क) समत्वम्
(ख) समता
(ग) समताम्
(घ) समतया
उत्तरः
(क) समत्वम्
(v) सा तपस्विनी । स्वापत्यम् एवम् निरभ्सयति ।
(क) तपस्वी + ठक्
(ख) तपस्वी + तल्
(ग) तपस्वी + इन्
(घ) तपस्वी + डीप्
उत्तरः
(घ) तपस्वी + डीप्
प्रश्न 8. वाच्यानुसारम् उचित पदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत- (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) भोः वासव! पुत्रस्य दैन्यं दृष्ट्वा मया ____________?
(क) रुचे
(ख) रुद्यते
(ग) रुदयसे
(घ) रोदिमि
उत्तरः
(ख) रुद्यते
(ii) सः दीन इति जाननपि सः कृषकः _____________ पीडयति।
(क) तम्
(ख) तेन
(ग) सः
(घ) ताः
उत्तरः
(क) तम्
(iii) किम् एतत् भवता न ______________ ?
(क) दृश्ये
(ख) दृश्यसे
(ग) दृश्यते
(घ) पश्यति
उत्तरः
(ग) दृश्यते
(iv) _____________ पुत्राय बाल्ये महत् विद्याधनं यच्छति ।
(क) पिता
(ख) पित्रा
(ग) पितरम्
(घ) पितरः
उत्तरः
(क) पिता
प्रश्न 9. कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत (केवलं प्रश्नचतुष्ट्यम) 1 × 4 = 4
(कालबोधक शब्दों से निम्नलिखित दिनचर्या को पूरा कीजिए।) (केवल चार प्रश्न)
(i) उमा प्रातः 8:30 _____ वादने गृहकार्यं करोति।
(ii) सुनीलः प्रातः 6:15 _____ वादने जागर्ति।
(iii) अनिलः सायं 5:00 _____ वादने उद्याने क्रीडति।
(iv) सा प्रात: 7:30 _____ वादने पूजां करोति।
(v) कमला रात्रौ 9:45 _____ वादने स्वपिति।
उत्तर :
(i) सार्ध-अष्ट
(ii) सपाद-षट्/षड्
(iii) पञ्च
(iv) सार्ध सप्त
(v) पादोन दश
प्रश्न 10. मञ्जूषायां प्रद्तैः उचितैः अव्ययपदैः अधोलिखितवावयेषु रिक्तस्थानानि पूरयत– (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) _____________________ आस्ते सा धूर्ता तत्र गम्यताम्।
उत्तरः
यत्र
(ii) अरे परभृत्) अहं __________________ तव सन्तति न पालयामि तर्हि कुत्र स्युः पिकाः?
उत्तरः
यदि
(iii) तत्तनयः _______________ एव छात्रावासे अध्ययने संलग्नः समभूत्। अहसत् आरक्षी ।
उत्तरः
तत्र
(iv) त्वं कारादण्डं लप्स्यसे इति प्रोच्य ____________________ अहसत् आरक्षी ।
उत्तरः
उच्चैः
प्रश्न 11. अधोलिखितवाक्येषु रेखाङ्कित -अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत- (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) मार्ग गहनकानने सा एकं व्याघ्रं ददर्श ?
(क) मार्गः
(ख) मर्गे
(ग) मार्गात्
(घ) मार्गाय
उत्तरः
(ख) मार्गे
(ii) सः द्यः पदातिरेव चलिष्यति।
(क) अचलत्
(ख) अचलः
(ग) चलतु
(ख) चलेत्
उत्तरः
(क) अचलत्
(iii) किं सा कुपितः एवं भणति?
(क) कुपितौ
(ख) कुपिता
(ग) कुपिताः
(घ) कुपिते
उत्तरः
(ख) कुपिता
(iv) सर्वे प्रकृतिमातरं प्रणमति ।
(क) प्रणमतः
(ख) प्रणमथः
(ग) प्रणमावः
(घ) प्रणमन्ति
उत्तरः
(घ) प्रणमन्ति
खण्ड-‘घ’ (30 अङ्काः)
(पठित-अवबोधनम्)
खंड ‘घ’ पठितावबोधनम् में पाठ्यपुस्तक से गद्यांश व पद्यांश पर आधारित एकपदेन, पूर्णवाक्येन, निर्देशानुसारम् प्रश्न, प्रश्ननिर्माण, श्लोकों का अन्वय व भावार्थ, घटनाक्रम व प्रसङ्गानुकूल संबंधित प्रश्न दिए गए हैं। जिनके निर्धारित अंक प्रश्न के सामने अंकित हैं।
प्रश्न 12. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । (5 अङ्काः)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान् । न्यायाधीशो बङ्किमचन्द्रः उभाभ्यां पृथक् पृथक् विवरणं श्रुतवान् । सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम्। किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत् । ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्। अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ । तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः कोशद्वयान्तराले कश्चिज्जनः केनापि हतः । तस्य मृतशरीरं राजमार्गं निकषा वर्तते। आदिश्यतां किं करणीयमिति ? न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्। आदेशं प्राप्य उभौ प्राचलताम्। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1 अङ्कः)
(एक पद में उत्तर दीजिए) (केवल दो प्रश्न)
(i) न्यायाधीशः कं दोषभाजनम् अमन्यत?
उत्तर:
आरक्षिणम्
(ii) आरक्षी चौर्याभियोगे तं जनं कुत्र नीतवान् ?
उत्तर:
न्यायालयम्
(iii) न्यायाधीशः आरक्षिणम् अभियुक्तं च किम् आनेतुम् आदिष्टवान् ?
उत्तर:
तम् | शवम् | तं शवम्
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(पूर्णवाक्य में उत्तर दीजिए।) (केवल दो प्रश्न )
(i) उभौ कथं न्यायाधिकरणं प्रति प्रस्थितौ ?
उत्तर:
उभौ काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ ।
(ii) कर्मचारी समागत्य किं न्यवेदयत् ?
उत्तर:
कर्मचारी समागत्य न्यवेदयत् यत् इतः कोशद्वयान्तराले कश्चिज्जनः केनापि हतः । तस्य मृतशरीरं राजमार्गं निकषा वर्तते। आदिश्यतां किं करणीयमिति ।
(iii) न्यायाधीशो बङ्किमचन्द्रः किं श्रुतवान्?
उत्तर:
न्यायाधीशो बङ्किमचन्द्रः उभाभ्यां पृथक् पृथक् विवरणं श्रुतवान्।
III. निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।) (केवल दो प्रश्न)
(i) ‘अमन्यत’ इत्यस्य क्रियापदस्य कर्तृपदं किम् ?
उत्तर:
सः | न्यायाधीशो बङ्किमचन्द्रः
(ii) ‘पटाच्छादितम्’ इति विशेषणपदस्य किं विशेष्यपदं प्रयुक्तम् ?
उत्तर:
देहम्
(iii) ‘द्वौ’ इत्यस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तर:
उभौ
प्रश्न 13. अधोलिखितं पद्याशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत – 5
दर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्। शुचिपर्यावरणम्।।
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मन: शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्। ।
दुर्दानर्दशनैरमुना स्यात्रैव जनग्रसनम्। शुचिपर्यावरणम् । ।
प्रष्नाः
अ. एकपदेन उत्तरत-(केवलं प्रश्रयम्) (½ × 2 = 1)
(क) अत्र कि दुर्वहं जातम्?
उत्तरः
जीवितम्
(ख) महानगरे कालायसचक्रं कदा चलति ?
उत्तरः
अनिशम्
(ग) पर्यावरणं कौदृशं भवितव्यम् ?
उत्तरः
शुचि
आ. पूर्णवाक्येन उत्तरत -(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) कालायसचक्र कि कुर्वत् वक्रं भ्रमति?
उत्तरः
कालायसचक्रं मनः शोषयत् तनुः पेषयद् सदा वक्रम् भ्रमति।
(ख) केन जनग्रसनं न स्यात्?
उत्तरः
दुरदान्र्दशनैरमुना जनग्रसन न स्यात्।
(ग) का अस्माकं शरणम् अस्ति ?
उत्तरः
प्रकृतिरेव अस्माक शरणम् अस्ति।
(इ) निर्देशानुसारं उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘ सर्वदा” इति पदस्य पर्यायपदं श्लोकात् चित्वा लिखत ।
उत्तरः
सदा
(ख) ‘ सुकरम्” इति पदस्य विलोमपदं श्लोकात् चित्वा लिखत ।
उत्तरः
दुर्वहम्
(ग) “दुर्दान्त दशनैः” इत्यनयोः पदयोः कि विशेषणपदम् ?
उत्तरः
दुर्दानः
प्रश्न 14. अधोलिखितं नाट्यांशं पठित्वा प्रदक् प्रश्नानाम् उत्तराणि संस्कृतेन लिखत- 5
(सिंहासनस्थः रामः। ततः प्रविशतः विदूषकेनोयदिश्यमानमारगौ तापसौ कुशलवौ)
विदूषकः इत इत आयौ !
कुशलवौ – (रामम् उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य ?
रामः युष्महर्शनात् कूशलमिव । भवतोः कि वयमत्र कशलप्रश्नस्य भाजनम् एव, न पुनरतिथिजनसमुचितस्य कण्ठश्लेषस्य ।
(परिष्वज्य) अहो हदयग्राही स्पर्शः ।
(आसनार्धमुपवेश्यति)
उभौ – राजासन खल्वेतत्, न युक्तमध्यासितुम्।
रामः सव्यवधानं न चारित्रलोपाय । तस्मादङ्क-व्यवहितमध्यास्यतां सिंहासनम्।
(अङ्कमुपवेश्यति)
उभौ – (अनिच्छ नाटयतः) राजन्! अलमतिदाक्षिण्येन ।
रामः अलमतिशालीनतया।
भवति शिशुजनो वयोऽनुरोधाद् गुणमहतामपि लालनीय एव ।
व्रजति हिमकरोऽपि बालभावात् पशुपति-मस्तक-केतकच्छदत्वम्। ।
रामः एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छमि-कषत्रियकूल-पितामहयोः सूर्यचन्द्रयोः को वा भवतोरवशस्य कर्ता?
लवः भगवन् सहस्त्रदीधितिः।
प्रश्नाः
अ. एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) कुशलवयोः वंशस्य कर्ता कः?
उत्तरः
सहस्त्रदीधितिः
(ख) कौ अनिच्छ नाटयतः?
उत्तरः
उभौ/कुशलवौ
(ग) कुशलवयोः मार्ग कः निर्दिशति ?
उत्तरः
विदूषकः
आ. पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) हिमकरः कस्मात् भावात् पशुपतेः मस्तके व्रजति?
उत्तरः
हिमकरः बालभावात् पशुपतेः मस्तके व्रजति।
(ख) कुशलवौ रामम् उपसूत्य प्रणम्य च किं पृच्छतः ?
उत्तरः
कुशलवौ रामम् उपसृत्य प्रणम्य च पृच्छतः – अपि कुशलं महाराजस्य इति।
(ग) रामः कथं वंशपरिचयं पृच्छति ?
उत्तरः
रामः कौतूहलेन वंशपरिचयं पृच्छति ।
(इ) निर्देशानुसारं उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) “ततः प्रविशतः विदूषकेनोपदिश्यमानमागौ तापसौ कुशलवौ ।’ अत्र कर्तृपदं किम्?
उत्तरः
कुशलवौ
(ख) ‘ समीपं गत्वा” इत्यस्य पर्यायपदं कि प्रयुक्तम् ?
उत्तरः
उपसृत्य
(ग) “निर्गच्छतः” इति पदस्य विपर्ययपदं नाटयांशात् चित्वा लिखत ।
उत्तरः
प्रविशतः
प्रश्न 15. रेखाड्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलं प्रश्नचतुष्ट्यम) – 1 × 4 = 4
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए।) (केवल चार प्रश्न)
(क) तत्र राजसिंहो नाम राजपुत्र: वसति स्म।
(ख) शकटीयानम् कण्जलमलिनं धूमं मुल्चति ?
(ग) धेनूनाम् माता सुरभि: आसीत्।
(घ) त्वं मानुषात् बिभेषि।
(ङ) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यते।
उत्तर :
(क) क:
(ख) कीदृशः
(ग) कासाम्
(घ) कस्मात्
(ङ) के
प्रश्न 16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकस्यः अन्वयं पूरयित्वा पुनः लिखत- (1 × 4 = 4)
आश्वास्य पर्वतकुलं तपनोष्णतप्त-
मुहामदावविधुराणि च काननानि।
नानानदीनदशतानि पूरयित्वा
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः । ।
अन्वयः-हे जलद ! (त्वं) (i) _____________ पर्वतकुलम् उदामदावविधुराणि (ii) ____________________ च आश्वास्य नानानदीनदशतानि (iii) _____________ च यत् (स्वयं ) रिक्तः असि, सा (रिक्तता) एव तव (iv) _______________ श्रीः (अस्ति)।
उत्तरः
हे जलद! (त्वं) (i) तपनोष्णतप्तम् पर्वतकूलम् उदामदावविधुराणि (ii) काननानि च आश्वस्य नानानदीनदशतानि (iii) पूरयित्वा च यत् (स्वयं) रिक्तः असि, सा (रिक्तता) एव तव (iv) उत्तमा श्रीः (अस्ति) ।
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावा रिक्त स्थानानि पूरयित्वा पुनः लिखित्- (1 × 4 = 4)
विचित्रे खलु संसारे नास्ति किञ्चिनिनरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः।।
भावार्थः- अस्य श्लोकस्य भावः अस्ति यत् (i) _________________ विचित्रे संसारे किञ्चिदपि वस्तु निरर्थकं न अस्ति। यतः यदा धावनस्य कार्यं भवति तदा (ii) _______________ प्रयोगः भवति परन्तु यदा (iii) कार्यं भवति तदा खरस्य एव (iv)_____________ भवति।
उत्तरः
श्लोकभावार्थः
अस्य श्लोकस्य भावः अस्ति यत् (i) अस्मिन् विचित्रे संसारे किञ्चिदपि वस्तु निरर्थकं न अस्ति। यतः यदा धावनस्य कार्यं भवति तदा (ii) अश्वस्य प्रयोगः भवति परन्तु यदा (iii) भारवहनस्य कार्य भवति तदा खरस्य एव (iv) आवश्यकता भवति।
प्रश्न 17. अधोलिखित-कथांशं समुचित-क्रमेण लिखत- (½ × 8 = 4)
(i) स तामेव असान्त्वयत् ‘ गच्छ वत्से! सर्वं भद्रं जायेत ‘।
(ii) “बहूनि अपत्यानि मे सन्ति” इति सत्यम्।
(iii) सर्वेषु सन्तानेषु जननी तुल्यवत्सला एव ।
(iv) अचिरादेव चण्डवातेन मेघरवैः च सह प्रवर्षः समजायत ।
(v) सुरभिवचनं श्रुत्वा इनद्रस्य हदयम् अद्रवत्।
(vi) यतोहि अयम् अन्येभ्यः दुर्बलः।
(vii) तथापि दुर्बले सुते मातुः अधिका कृपा भवति।
(viii) तथापि मम अस्मिन् पुत्रे विशिष्टः स्नेहः।
उत्तरः
(ii) “बहूनि अपत्यानि मे सन्ति” इति सत्यम्।
(viii) तथापि मम अस्मिन् पुत्रे विशिष्टः स्नेहः।
(vi) यतोहि अयम् अन्येभ्यः दुर्बलः।
(iii) सर्वेषु सन्तानेषु जननी तुल्यवत्सला एव ।
(vii) तथापि दुर्बले सुते मातुः अधिका कृपा भवति।
(v) सुरभिवचनं श्रुत्वा इन्द्रस्य हदयम् अद्रवत् ।
(i) स तामेव असान्त्वयत ” गच्छ वत्से! सर्वं भदरं जायेत! ।
(iv) अचिरादेव चण्डवातेन मेषरवैः च सह प्रवर्षः समजायत ।
प्रश्न 18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गनुकूलम् उचितार्थं चित्वा लिखत । (केवलं प्रश्नत्रयम् ) ( 1 × 3 = 3 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित शब्दों के प्रसङ्गनुकूल उचित अर्थ लिखिए।) (केवल तीन प्रश्न)
(i) पाषाणी सभ्यता निसर्गे न स्यात् ।
(क) संसर्गे
(ख) प्रकृतौ
(ग) प्रसङ्गे
(घ) पृथिव्याम्
उत्तर:
(ख) प्रकृतौ
(ii) सा पुत्रौ चपेटया प्रहृत्य जगाद ।
(क) प्रोत्साह्य
(ख) विचारं कृत्वा
(ग) प्रशंसां कृत्वा
(घ) ताडयित्वा
उत्तर:
(घ) ताडयित्वा
(iii) दुर्बले सुते मातुः कृपा भवति ।
(क) वीरे पुत्रे
(ख) निर्बले पुत्रे
(ग) धीरे सुते
(घ) प्रदत्तं सर्वम्
उत्तर:
(ख) निर्बले पुत्रे
(iv) अर्थकार्त्स्न्येन पीडितः पदातिरेव प्राचलत् ।
(क) धनाभावेन
(ख) अर्थाधिक्येन
(ग) अर्थप्राप्तये
(घ) सर्वम्
उत्तर:
(क) धनाभावेन