We have given detailed Deepakam Class 7 Solutions and Unseen Passage Apathit Gadyansh in Sanskrit Class 7 with Answers संस्कृत अपठित गद्यांश कक्षा 7 come in handy for quickly completing your homework.
संस्कृत अपठित गद्यांश कक्षा 7 – Apathit Gadyansh Sanskrit Class 7
Sanskrit Unseen Passage for Class 7
Apathit Gadyansh in Sanskrit Class 7 – Unseen Passage in Sanskrit Class 7
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्त – प्रश्नानाम् उत्तराणि लिखत । (निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों के उत्तर लिखिए।)
1. भारते षड् ऋतवः भवन्ति – वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः च । ग्रीष्मकालस्य पश्चात् वर्षाऋतुः आगच्छति। वर्षाकाले ग्रीष्मस्य तापेन शुष्काः पादपाः पुनः हरिताः। आकाशः कृष्णैः मेघैः आच्छादितः भवति । नद्यः जलवेगेन प्रवहन्ति । कुत्रचित् अत्यधिका वृष्टिः भवति कुत्रचित् च अनावृष्टिः । वृष्टेः अभावात् कृषकाः महत् कष्टम् अनुभवन्ति । ते वर्षादेवं प्रार्थयन्ति। वर्षाजलेन धरा शस्य – श्यामला भवति । एतत् दृष्ट्वा कृषकाणां चित्तं प्रफुल्लितं भवति ।
I. एकपदेन उत्तरत।
- भारते कति ऋतवः भवन्ति ?
- ग्रीष्मस्य पश्चात् कः ऋतुः आगच्छति?
- नद्यः कथं प्रवहन्ति ?
- वृष्टेः अभावात् के महत् कष्टम् अनुभवन्ति ?
उत्तर:
- षड्
- वर्षा
- जलवेगेन
- कृषकाः।
II. पूर्णवाक्येन उत्तरत।
- भारते षड् ऋतवः के सन्ति?
- किं दृष्ट्वा कृषकाणां चित्तं प्रफुल्लितं भवति ?
उत्तर:
- भारते षड् ऋतवः सन्ति – वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः च ।
- वर्षाजलेन धरा शस्यश्यामला इति दृष्ट्वा कृषकाणां चित्तं प्रफुल्लितं भवति ।
III. भाषिककार्यम् ।
प्रश्न 1.
‘वर्षाकाले ग्रीष्मस्य तापेन शुष्काः पादपाः पुनः हरिताः भवन्ति ।’ इति वाक्ये –
- ‘भवन्ति’ क्रियापदस्य कर्त्ता क: ? …….. …………
- ‘पादपा:’ इति पदस्य किं किं विशेषणम् अत्र प्रयुक्तम् ? …….. …………
- ‘तापेन’ अत्र किं विभक्तिः वचनम् च ? …….. …………
उत्तर:
- पादपाः
- शुष्का:, हरिता:
- तृतीया एकवचनं च
प्रश्न 2.
विपर्ययं लिखत- वृष्टिः …….. …………
उत्तर:
अनावृष्टिः
प्रश्न 3.
‘अनुभवन्ति’ अत्र कः उपसर्गः कः च धातु: ? …….. …………
उत्तर:
अनु, भू
प्रश्न 4.
पदानां लिङ्गं निर्दिशत ।
- धरा ……….
- चित्तम् ……..
- पादपा: ……
उत्तर:
- स्त्रीलिङ्गम्
- नपुंसकलिङ्गम्
- पुंल्लिङ्गम्
2. भारतवर्षः अस्माकं जन्मभूमिः । वयं भारतीयाः स्मः । भारते रम्याः देवालयाः, चित्र-विचित्र – उत्सवाः, विविधाः वेशभूषाः । अत्र अनेकानि दर्शनीयानि स्थानानि । वैदेशिकाः अत्र पर्यटनाय आगच्छन्ति । देशस्य च विविधतां दृष्ट्वा विस्मिताः भवन्ति । यदि पर्यटकानां निवासाय भ्रमणाय च सुव्यवस्था भवेत् तर्हि अधिकाधिकाः वैदेशिका: पर्यटकाः आगमिष्यन्ति । भारत – सर्वकारस्य पर्यटन-विभागः लाभान्वितः भविष्यति । देश: च समृद्धः भविष्यति । ‘अतिथिदेवो भव’ इति शास्त्रवचनम्।
I. एकपदेन उत्तरत।
- अस्माकं जन्मभूमिः कः ?
- वयम् के स्मः?
- के अत्र पर्यटनाय आगच्छन्ति ?
- कः देवो भवेत् ?
उत्तर:
- भारतवर्षः
- भारतीयाः
- वैदेशिकाः
- अतिथिः ।
II. पूर्णवाक्येन उत्तरत।
- सर्वकारस्य पर्यटनविभागः कथं लाभान्वितः भवेत् ?
- वैदेशिकाः पर्यटकाः कथं विस्मिताः भवन्ति ?
उत्तर:
- यदि पर्यटकानां निवासाय भ्रमणाय च सुव्यवस्था भवेत् तर्हि अधिकाधिकाः वैदैशिकाः पर्यटकाः आगमिष्यन्ति एतेन भारतसर्वकारस्य पर्यटन – विभागः लाभान्वितः भविष्यति।
- भारतदेशस्य विविधतां दृष्ट्वा वैदेशिका: पर्यटकाः विस्मिताः भवन्ति ।
III. भाषिककार्यम् ।
प्रश्न 1.
‘देश: च समृद्धः भविष्यति’ – इति वाक्ये-
- ‘भविष्यति’ क्रियापदस्य कर्त्ता क: ? …………
- ‘भविष्यति’ अत्र कः धातुः ? कः च लकारः ? ………… …………
- अत्र किम् अव्ययम् ? …………
- एतत् वाक्यं बहुवचने परिवर्तयत? ………… …………
उत्तर:
- देश:
- भू, लृट्
- च
- देशाः च समृद्धाः भविष्यन्ति ।
प्रश्न 2.
विपर्ययं चित्वा लिखत देशीयाः
उत्तर:
वैदेशिका:
प्रश्न 3.
दृष्ट्वा – अत्र कः धातुः कः च प्रत्यय : ?
उत्तर:
दृश् क्त्वा।
प्रश्न 3.
गङ्गा देशस्य प्रमुखा नदी । गङ्गायाः अपरं नाम भागीरथी । एषा नदी हिमालयात् निर्गच्छति । एतस्याः नद्याः तीरे बहवः तीर्थाः मुनीनाम् आश्रमाः च सन्ति । हरिद्वारनगरं प्रसिद्ध तीर्थस्थानं गंगानद्याः तटम् अलंकरोति । अत्र अनेके देवालयाः सन्ति। सायंकालस्य दृश्यम् तु अत्र अनुपमम् एव । भक्ताः गंगादेवीं श्रद्धया पूजयन्ति प्रज्वलितान् दीपान् च नद्याः जले प्रवाहयन्ति । यदा प्रज्वलिताः दीपाः जलेषु तरन्ति तदा एवं प्रतीयते यत् ताराणां समूहः आकाशात् अवतीर्य पृथिव्याम् आगतः । गंगानदी परमपावना नदी मन्यते ।
I. एकपदेन उत्तरत।
- देशस्य प्रमुखा नदी का ?
- एषा नदी कस्मात् पर्वतात् निर्गच्छति?
- भक्ताः गंगादेवीं कथं पूजयन्ति ?
- भक्ताः कान् नद्याः जले प्रवाहयन्ति ?
उत्तर:
- गङ्गा
- हिमालयात्
- श्रद्धया
- दीपान् ।
II. पूर्णवाक्येन उत्तरत।
- गंगायाः तीरे के सन्ति?
- यदा प्रज्वलिताः दीपाः नद्यां तरन्ति तदा किं प्रतीयते ?
उत्तर:
- गङ्गायाः तीरे बहवः तीर्थाः मुनीनाम् च आश्रमाः सन्ति ।
- यदा प्रज्वलिताः दीपाः नद्यां तरन्ति तदा एवं प्रतीयते यत् ताराणां समूहः आकाशात् अवतीर्य पृथिव्याम् आगतः ।
III. भाषिककार्यम् ।
प्रश्न 1.
‘यदा प्रज्वलिताः दीपाः जलेषु तरन्ति’ इति वाक्ये –
- ‘तरन्ति’ क्रियापदस्य कर्त्ता क: ? …….. ……..
- अत्र किम् अव्ययपदम् ? …….. ……..
- ‘जलेषु’ अत्र किं विभक्तिः वचनम् च ? …….. ……..
- ‘तरन्ति ‘ अत्र धातुः कः ? …….. ……..
उत्तर:
- दीपा:
- यदा
- सप्तमी, बहुवचनम्
- तृ
प्रश्न 2.
‘गंगा देशस्य प्रमुखा नदी ।’ इति वाक्ये –
- ‘नदी’ शब्दस्य विशेषणपदं किम् ?
- रिक्तस्थानपूर्तिं कुरुत – देशस्य ……. (द्वि०व०) …….. (ब०व०)
उत्तर:
- प्रमुखा
- देशयोः, देशानाम्
प्रश्न 3.
पदपरिचयं यच्छत।
- नद्या: – मूल शब्द: …….. विभक्तिः ……. वचनम् ……..
- श्रद्धया – मूलशब्दः …….. विभक्तिः ……. वचनम् …….
उत्तर:
- नदी, षष्ठी, एकवचनम्
- श्रद्धा, तृतीया, एकवचनम्
4. लोकमान्य बालगंगाधरतिलकः महान् देशभक्तः आसीत् । बाल्यकालात् एव एतस्य देशभक्तस्य रुचिः राजनीतौ आसीत् । अत एव सः विधिशास्त्रस्य अध्ययनम् अकरोत् । एषः राजद्रोही इति दोषारोपणं कृत्वा ब्रिटिश- सर्वकारः तं कारागारे अक्षिपत् । सः कारावास-काले अपि प्रयत्नशीलः आसीत् । सः गीतायाः अध्ययनं कृत्वा ‘गीता – रहस्यम्’ नाम महाग्रन्थम् अरचयत् । राष्ट्रे नवचेतनां जागरयितुं सः आजीवनं प्रयत्नं कृतवान् । एषः राष्ट्रवादी ‘स्वराज्यम् अस्माकं जन्मसिद्धः अधिकारः’ इति अघोषयत् ।
I. एकपदेन उत्तरत।
- देशभक्तस्य तिलकस्य रुचिः कस्याम् आसीत्?
- सः कस्य शास्त्रस्य अध्ययनम् अकरोत् ?
- सः कं ग्रन्थम् अरचयत् ?
- महान् देशभक्तः कः आसीत्?
उत्तर:
- राजनीतौ
- विधिशास्त्रस्य
- गीता – रहस्यम्
- बालगंगाधरतिलकः ।
II. पूर्णवाक्येन उत्तरत ।
- एषः राष्ट्रवादी किम् अघोषयत् ?
- सः आजीवनं किम् अकरोत् ?
उत्तर:
- एषः राष्ट्रवादी अघोषयत् – ‘स्वराज्यम् अस्माकं जन्मसिद्धः अधिकारः’ इति ।
- सः आजीवनं राष्ट्रे नवचेतनां जागरयितुं प्रयत्नम् अकरोत् ।
III. भाषिककार्यम् ।
यथानिर्देशम् उत्तरत–
- राजनीत – मूल शब्द: ……… विभक्तिः ……. वचनम् …….
- अकरोत् – धातुः …….. लकार: ……. पुरुष: ……. वचनम् …….
- कृत्वा – धातुः …….. प्रत्ययः ……..
- ‘एतस्य देशभक्तस्य’ – अत्र किं विशेषणपदम् ? ……………
- समानार्थकं लिखत-
- अलिखत ……….
- जीवन-पर्यन्तम् ……….
- लिङ्गम् निर्दिशत-
- गीतायाः …………..
- एतस्य ……….
उत्तर:
- राजनीति, सप्तमी, एकवचनम्,
- कृ, लङ्, प्रथम एक,
- कृ, क्त्वा,
- एतस्य
-
- अरचयत्
- आजीवनम्
-
- स्त्रीलिङ्गम्
- पुंल्लिङ्गम्
5. समाचारपत्रम् जीवनस्य अनिवार्यम् अङ्गम् जातम्। प्रातः भवति सति दैनिकं समाचारपत्रं गृहे गृहे आगच्छति । गृहस्य सदस्याः समाचार-पत्रस्य प्रतीक्षां कुर्वन्ति । जनकः समाचारं पठितुम् इच्छति, पुत्रः खेल- समाचारं ज्ञातुम् उत्सुकः । समाचार-पत्रे न केवलं देश-विदेश-वार्त्ताः राजनीति- अर्थनीति- समाचाराः परं लेखाः कथाः कार्टून- चित्राणि अपि सन्ति । समाचारपत्र – पठनेन ज्ञानवृद्धिः अपि भवति । बालाः युवकाः, वृद्धाः, गृहिण्यः सर्वे किञ्चित् रुचिकरम् अत्र लभन्ते । समाचार पत्राणि विविधासु भाषासु प्रकाश्यन्ते।
I. एकपदेन उत्तरत।
- किं जीवनस्य अनिवार्यम् अङ्गम् जातम् ?
- कः खेलसमाचारान् ज्ञातुम् उत्सुकः ?
- कानि विविधासु भाषासु प्रकाश्यन्ते ?
- समाचारपत्र – पठनेन किं भवति ?
उत्तर:
- समाचारपत्रम्
- पुत्र:
- समाचारपत्राणि
- ज्ञानवृद्धिः ।
II. पूर्णवाक्येन उत्तरत।
- समाचारपत्रे किं किं भवति ?
- के समाचारपत्रे किंचित् रुचिकरम् लभन्ते ?
उत्तर:
- समाचारपत्रे देशविदेश – वार्ताः राजनीति – अर्थनीति- समाचाराः लेखाः, कथा: कार्टूनचित्राणि च अपि भवन्ति ।
- बालाः, युवकाः, वृद्धाः, गृहिण्यः च अपि समाचारपत्रे किंचिद् रुचिकरं लभन्ते ।
III. भाषिककार्यम् ।
यथानिर्देशम् उत्तरत–
‘प्रातः भवति सति दैनिकं समाचारपत्रं गृहे गृहे आगच्छति।’ इति वाक्ये
- ‘आगच्छति’ क्रियापदस्य कर्त्ता कः? ……….. ………..
- अत्र किम् अव्ययपदम् प्रयुक्तम् ? ……….. ………..
- गृहे – अत्र किं विभक्तिवचनम् ? (द्वितीया – द्विवचनम् प्रथमा द्विवचनम्, सप्तमी-एकवचनम्) ……….. ………..
- ‘आगच्छति’ अत्र कः धातुः कः च उपसर्ग: ?
- रिक्तस्थानानि पूरयत ।
- समाचारपत्रम् …….. (द्विवचनम्) ……… (बहुवचनम्)
- आगच्छति ……….. (द्विवचनम्) ……… (बहुवचनम्)
- दैनिकं समाचारपत्रम् – अत्र किं विशेषणम् ?
- विलोमपदम् चित्वा लिखत । सायम्
उत्तर:
- समाचारपत्रम्,
- प्रातः,
- सप्तमी – एकवचनम्,
- गम्, आ,
-
- समाचारपत्रे, समाचारपत्राणि;
- आगच्छतः, आगच्छन्ति।,
- दैनिकं,
- प्रात:
Apathit Gadyansh in Sanskrit for Class 7 with Answers
Class 7 Sanskrit Apathit Gadyansh – अपठित गद्यांश संस्कृत में कक्षा 7
अभ्यास: (Exercise)
• अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत ।
1. अधुना सर्वत्र धनस्य महिमा विद्यते । धनविहीनः पशुसमानः इत्येव भावना प्रबला परन्तु धनेषु सन्तोषः नास्ति । ये जनाः अधिकाधिकं धनम् इच्छन्ति ते दुःखिनः भवन्ति । यदि लोभेन अन्धः भूत्वा अधिकाधिकं धनं प्राप्तुम् इच्छामः अनुचित-साधनानां प्रयोगं कुर्मः तर्हि तेन धनेन दुःखमेव भविष्यति । तस्य रक्षणे एव समयः गमिष्यति । कोऽपि तद् धनं हरिष्यति इति चिन्तनं प्रतिक्षणं वर्धते। अभिमानः विवेकं नाशयति । कृष्णधनस्य प्रच्छादनाय महान् क्लेशः भवति । अतः वयम् उचितसाधनैः एव धनार्जनं कुर्याम अन्यस्य धनं प्रति कदापि लोभः न करणीयः ।
I. एकपदेन उत्तरत।
(i) अधुना कस्य महिमा विद्यते ?
(ii) कस्य रक्षणे एव समयः गमिष्यति ?
II. एकवाक्येन उत्तरत।
(i) धनार्जनं कथं करणीयम् ?
(ii) क: मानवस्य विवेकं नाशयति ?
III. यथानिर्देशम् उत्तरत।
(i) ‘अधिकाधिकम्’ इति कस्य पदस्य विशेषणम् ?
(ii) ‘उचितम्’ इति पदस्य विलोमपदं गद्यांशात् चित्वा लिखत।
2. वर्षाकाले गगने मेघाः गर्जन्ति चपलाः स्फुरन्ति च । सर्वत्र जलं भवति । ग्रामे मार्गाः पंकमयाः भवन्ति । वर्षाकाले मण्डूका: उच्चस्वरैः हर्षोल्लासैः रटन्ति मयूराः च नृत्यन्ति । क्षेत्राणि जलपूर्णानि सस्यसमृद्धानि च भवन्ति । कृषकाः कृषिकार्यं कुर्वन्ति। ते क्षेत्रेषु बीजानि वपन्ति प्रसन्नाः च भवन्ति । वर्षाकाले जलाशयाः पूर्णाः भवन्ति कूपाः अपि पूर्णाः भवन्ति। नद्यः जलेन परिपूर्णाः भवन्ति। तत्र बालकाः नौकाः निर्माय प्लावयन्ति । खगाः अपि स्वनीडे वसन्ति । जनाः छत्राणि धृत्वा अत्र-तत्र गच्छन्ति । सर्वे प्राणिनः वर्षाकाले उल्लसिताः सन्ति ।
I. एकपदेन उत्तरत ।
(i) कदा मेघाः गर्जन्ति ?
(ii) कृषकाः किं कुर्वन्ति ?
II. एकवाक्येन उत्तरत।
(i) क्षेत्रेषु कृषकाः किं कुर्वन्ति ?
(ii) वर्षाकाले बालकाः किं कुर्वन्ति ?
III. यथानिर्देशम् उत्तरत।
(i) ‘वर्षाकाले’ इति पदे का विभक्ति: ?
(ii) गद्यांशात् बहुवचनान्त त्रीणि धातुपदानि चित्वा लिखत ।