We have given detailed NCERT Class 8 Sanskrit Deepakam Solutions and Anuched Lekhan in Sanskrit for Class 8 with Answers अनुच्छेद लेखन come in handy for quickly completing your homework.
Sanskrit Anuched Lekhan Class 8
Anuched Lekhan Class 8 Sanskrit
संस्कृत में अनुच्छेद लेखन कक्षा 8
मंजूषायां दत्तानां पदानां सहायतया अधोदत्तान् अनुच्छेदान् पूरयत-
1. मम विद्यालय
मम विद्यालयः नगरस्य एकस्मिन् सुरम्ये स्थले ______________ अस्ति। विद्यालयस्य भवनम् ______________ सुन्दरम् च अस्ति। अत्र अध्यापकानां संख्या ______________ छात्राणां च सहस्रद्वयं वर्तते। अस्य प्रधानाचार्यः सुयोग्यः ______________ च अस्ति। अध्यापकाः अतीव निपुणाः योग्याः च सन्ति। ते छात्रान् परिश्रमपूर्वकम् ______________ पाठयन्ति। विद्यालये विशालम् ______________ अस्ति। क्रीडा-प्रतियोगितास विद्यालयस्य ______________ स्थानम् अस्ति। प्रतिसप्ताहं सांस्कृतिकः ______________ अपि भवति। मम विद्यालयस्य समीपे ______________ अपि व्यवस्था विद्यते यत्र गत्वा छात्राः स्वादूनि वस्तूनि खादन्ति, पेयानि च पिबन्ति। शिक्षाक्षेत्रे अस्य ______________ सम्पूर्णदेशे अस्ति।
मञ्जूषा-विशालम्, कार्यक्रमः, स्नेहेन, स्थितः, क्रीडाक्षेत्रम्, ख्यातिः, विशिष्टं, अनुशासनप्रियः, सप्ततिः, जलपानगृहस्य
उत्तर:
मम विद्यालयः नगरस्य एकस्मिन् सुरम्ये स्थले स्थितः अस्ति। विद्यालयस्य भवनम् विशालं सुन्दरम् च अस्ति। अत्र अध्यापकानां संख्या सप्ततिः छात्राणां च सहस्रद्वयं वर्तते। अस्य प्रधानाचार्यः सुयोग्य: अनुशासनप्रियः च अस्ति। अध्यापकाः अतीव निपुणाः योग्याः च सन्ति । ते छात्रान् परिश्रमपूर्वकम् स्नेहेन पाठयन्ति । विद्यालये विशालम् क्रीडाक्षेत्रम् अस्ति । क्रीडा – प्रतियोगितासु विद्यालयस्य विशिष्टं स्थानम् अस्ति। प्रतिसप्ताहं सांस्कृतिक कार्यक्रमः अपि भवति । मम विद्यालयस्य समीपे जलपानगृहस्य अपि व्यवस्था विद्यते यत्र गत्वा छात्राः स्वादूनि वस्तूनि खादन्ति, पेयानि च पिबन्ति । शिक्षाक्षेत्रे अस्य ख्यातिः सम्पूर्णदेशे अस्ति।
2. परोपकारः
मनसा वचसा कर्मणा च परेषाम् उपकारः ______________ कथ्यते। संसारे आत्मार्थे सर्वे जीवन्ति किन्तु ते एव पुरुषा धन्याः ये ______________ कार्यं कुर्वन्ति। ये परोपकारं कुर्वन्ति ते ______________ लभन्ते। ये अन्यान् पीडयन्ति ते ______________ प्राप्नुवन्ति। प्रकृतेः बहूनि वस्तूनि सर्वेषाम् उपकारं कुर्वन्ति। यथा वृक्षाः परोपकाराय फलन्ति, नद्यः ______________ जलं न पिबन्ति, पृथ्वी परोपकाराय एव अन्नम् तथा एव परोपकाराय एव ______________ विभूतयः सन्ति। अतः लोकाः यथाशक्ति धनेन, अन्नेन, च निर्धनानां दुःखितानां पुरुषाणां ______________ कुर्वन्तु। अनेन परोपकारेण जनाः संसारे ______________ सुखं च प्राप्नुवन्ति अन्ते च सद्गतिम्।
मञ्जूषा-सताम्, पुण्यम्, यशः, परोपकारः, स्वकीयं, परार्थे, उत्पादयति, पापम्, सहायतां, शरीरेण
उत्तर:
मनसा वचसा कर्मणा च परेषाम् उपकारः परोपकारः कथ्यते। संसारे आत्मार्थे सर्वे जीवन्ति किन्तु ते एव पुरुषा धन्याः ये परार्थे कार्यं कुर्वन्ति । ये परोपकारं कुर्वन्ति ते पुण्यम् लभन्ते। ये अन्यान् पीडयन्ति ते पापं प्राप्नुवन्ति । प्रकृतेः बहूनि वस्तूनि सर्वेषाम् उपकारं कुर्वन्ति । यथा वृक्षाः परोपकाराय फलन्ति, नद्यः स्वकीयं जलं न पिबन्ति, पृथ्वी परोपकाराय एव अन्नम् उत्पादयति, तथा एव परोपकाराय एव सतां विभूतयः सन्ति । अतः लोकाः यथाशक्ति धनेन, अन्नेन, शरीरेण च निर्धनानां दुःखितानां पुरुषाणां सहायतां कुर्वन्तु। अनेन परोपकारेण जनाः संसारे यशः सुखं च प्राप्नुवन्ति अन्ते च सद्गतिम् ।
3. विद्या
विद्याधनं सर्वधनप्रधानम् अस्ति। अन्यानि सर्वाणि धनानि तु व्यये कृते ______________ गच्छन्ति परं विद्याधनं व्यये कृते अपि ______________। विद्याविहीनः नरः ______________ अस्ति। विद्यायाः बहवः लाभाः सन्ति। विद्या ______________ ददाति। विद्यया एव नरः उचित-अनुचितस्य ______________ कर्तुम् शक्नोति। विद्यावान् नरः सभायां ______________ प्राप्नोति। सः स्वदेशे अपि सम्मानं प्राप्नोति, ______________ अपि सः आदरम् अवाप्नोति। विद्या गुरूणाम् ______________ अस्ति। विद्या बहुहितकरी ______________ च अस्ति। विद्या सर्वविधस्य ______________ साधनम् अस्ति। विद्याधनाय वारं वारं नमः।मञ्जूषा-परदेशे, वर्धते, सुखकरी, प्रतिष्ठां, सुखस्य, विनयं, क्षीणतां भेदं, गुरुः, पशुतुल्यः
उत्तर:
विद्याधनं सर्वधनप्रधानम् अस्ति । अन्यानि सर्वाणि धनानि तु व्यये कृते क्षीणतां गच्छन्ति परं विद्याधनं व्यये कृते अपि वर्धते। विद्याविहीन : नरः पशुतुल्यः अस्ति । विद्यायाः बहवः लाभाः सन्ति। विद्या विनयं ददाति । विद्यया एव नरः उचित – अनुचितस्य भेदं कर्तुम् शक्नोति । विद्यावान् नरः सभायां प्रतिष्ठां प्राप्नोति। सः स्वदेशे अपि सम्मानं प्राप्नोति, परदेशे अपि सः आदरम् अवाप्नोति । विद्या गुरूणाम् गुरुः अस्ति । विद्या बहुहितकरी सुखकरी च अस्ति । विद्या सर्वविधस्य सुखस्य साधनम् अस्ति । विद्याधनाय वारं वारं नमः ।
4. प्रातःकाल वर्णनम्
प्रतिदिनं रात्रिः ______________ प्रात:कालश्च भवति। सूर्योदयं यावत् च प्रात:काल एव उच्चते। पक्षिणां मधुररवः ______________ श्रूयते। अस्मिन् ब्रह्ममुहूर्ते जनाः ______________ ध्यायन्ति। विद्याशीला: ______________ उत्थाय विद्यां पठन्ति, पठितानां पाठानां अभ्यासं कुर्वन्ति, बहून् ______________ च कण्ठीकुर्वन्ति। प्रात:काले ______________ एकाग्रं भवति। शुद्धः वायुः सर्वत्र वहति। प्रातःकाले प्रकृतेः ______________ मनोहारिणी भवति। उष:काले प्राच्यां दिशि लालिमा प्रस्फुटति। ______________ कमलानि विकसन्ति। प्रात:काले ब्रह्ममुहूर्ते उत्थाय जनाः प्रातः भ्रमणस्य
______________ लभन्ते। प्रभाते शुद्धे ______________ परिभ्रमणेन स्वास्थ्यं वर्धते।
मञ्जूषा-मनः, विद्यार्थिनः, आनन्दं, ईश्वरं, वायौ, सर्वत्र, सरोवरेषु, शोभा, गच्छति
उत्तर:
प्रतिदिनं रात्रिः गच्छति प्रात:कालश्च भवति । सूर्योदयं यावत् च प्रात:काल एव उच्चते। पक्षिणां मधुररवः सर्वत्र श्रूयते । अस्मिन् ब्रह्ममुहूर्ते जनाः ईश्वरं ध्यायन्ति । विद्याशीलाः विद्यार्थिनः उत्थाय विद्यां पठन्ति, पठितानां पाठानां अभ्यासं कुर्वन्ति । पठितानां पाठानां अभ्यासं कुर्वन्ति, बहून् श्लोकान्च कण्ठीकुर्वन्ति।
प्रात:काले मनः एकाग्रं भवति । शुद्धः वायुः सर्वत्र वहति । प्रात:काले प्रकृतेः शोभा मनोहारिणी भवति । उष:काले प्राच्यां दिशि लालिमा प्रस्फुटति। सरोवरेषु कमलानि विकसन्ति । प्रातःकाले ब्रह्ममुहूर्त्ते उत्थाय जनाः प्रातः भ्रमणस्य आनन्दं लभन्ते। प्रभाते शुद्धे वायौ परिभ्रमणेन स्वास्थ्यं वर्धते ।
बहून् च कण्ठीकुर्वन्ति।
Sanskrit Mein Anuchchhed Class 8
मञ्जूषायां दत्तानां पदानां सहायतया अधोदत्तान् अनुच्छेदान् पूरयत–(मञ्जूषा में दिए पदों की सहायता से नीचे दिए अनुच्छेद को पूरे कीजिए)
1. मम विद्यालयः
मम विद्यालय ______________ अस्ति। विद्यालयस्य ______________ विशालम्। अत्र द्वादश श्रेण्यः सन्ति। ______________ छात्रान् स्नेहेन पाठयन्ति । छात्राः अपि ______________ सन्ति। विद्यालये विशाल ______________ विस्तृतम्क्रीडाक्षेत्रम्, नृत्य-संगीत-शाला ______________ चापि सन्ति ।विद्यालयस्य पुरते: रम्यम् उद्यानम् अस्ति । अत्र “पुष्पाणि विकसन्ति ______________ अत्र परिश्रमेण कार्य करोति।
मञ्जूषा-अध्यापकाः, उद्यानपालकः, विज्ञान-प्रयोगशालाः, योग्याः, भवनम्, पुस्तकालयः दिल्ली-नगरे, सुन्दराणि।
उत्तरम्:
दिल्ली-नगरे, भवनम्, अध्यापकाः, योग्याः, पुस्तकालयः, विज्ञान-प्रयोगशाला, सुन्दराणि, उद्यानपालकः।
2. प्रातःकाल-भ्रमणम्
प्रातः सुदीप ______________ सह उद्यानम् अगच्छत् । तत्र जना: भ्रमन्ति बाला: च ______________। सुदीप: एकम् सुन्दरम् पुष्पितं ______________ अपश्यत्। सः पितामहम् ______________ ‘एषः कः वृक्ष:’? पितामहः अवदत् एषः ______________ अस्ति । ______________ गुलमोहर-वृक्ष ______________ “पुष्पाणि आगच्छन्ति ।गुलमोहर-वृक्षैः ______________ रमणीयम्।
मञ्जूषा-रक्तानि, वृक्षम्, उपवनम्, अपृच्छत्, क्रीडन्ति, पितामहेन, गुलमोहर-वृक्षः, ग्रीष्मकाले।
उत्तरम्:
पितामहेन, क्रीडन्ति, वृक्षम्, अपृच्छत्, गुलमोहर-वृक्षः, ग्रीष्मकाले, रक्तानि, उपवनम्।
3. पादकन्दुक-खेलः
पादकन्दुकखेल: अति ______________ खेलः अस्ति । एतस्मिन् खेले द्वौ ______________ भवतः। प्रत्येकपक्षे एकादश ______________ सन्ति । एकः क्रीडकः पादेन ______________ क्षिपति । एक: ‘गोलकीपर: गोल-प्रान्तं ______________। क्रीडका: कन्दुकं ______________ ‘क्षिप्त्वा गोलप्रान्तं नयन्ति। य: पक्षः अधिकान् गोलान् करोति स ______________ भवति। पादकन्दुक-खेलः अन्ताराष्ट्रियः खेलः। परं यथा अस्माकं देशे क्रिकेट् खेल ______________ न तथा एषः खेलः।।
मञ्जूषा-विजयी, पक्षौ, लोकप्रियः, पादेन, क्रीडकाः, कन्दुकम्,रोचकः, रक्षति।
उत्तरम्:
रोचकः, पक्षौ, क्रीडकाः, कन्दुकम्, रक्षति, पादेन, विजयी, लोकप्रियः।
4. स्वतन्त्रम् भारतम्
स्वतन्त्रम् भारतम् अस्माकं गौरवम्। वीराणां ______________ प्रयत्नैः वयम् ______________ अविन्दाम। देश: अस्माकम् अधुना ______________ वर्तते। कस्यापि देशस्य ______________ तदैव सम्भवति यदा देशवासिनः सुशिक्षिताः, परिश्रमशीला ______________ च वर्तन्ते । सुशिक्षित: एव ______________ प्रति स्वकर्तव्यं सम्यक् जानाति। अतः सर्वेषां ______________ अत्यावश्यकम्। सर्वशिक्षा अभियानम् अस्माकं ______________ भवेत निष्ठापूर्वकम् कर्तव्य-आचरणं च ध्येयम्।
मञ्जूषा-स्वतन्त्रः, स्वतन्त्रताम्, देशभक्तानाम्, स्वदेशम्, उन्नतिः, कर्तव्यनिष्ठाः, लक्ष्यम्, शिक्षणम्।
उत्तरम्:
देशभक्तानाम्, स्वतन्त्रताम्, स्वतन्त्रः, उन्नतिः, कर्तव्यनिष्ठाः स्वदेशम्, शिक्षणम्, लक्ष्यम्
5. व्यायामः
शरीरं स्वस्थं रक्षितुं व्यायामः अनिवार्यः अस्ति। ______________ शरीरं सबलं नीरोगं च जायते । ______________ नरः साहसी भवति । प्राणायामः, ______________ धावनम्, योगाभ्यासः मल्लयुद्धम् इति विविधा ______________ सन्ति ।य: व्यायामं करोति तस्य ______________ रक्तसञ्चार: सम्यक्-रूपेण भवति । स्फूर्तिः अपि जायते । यदि ______________ इच्छेत्, तर्हि नियमपूर्वकं व्यायाम शरीरम् स्वस्थं तर्हि चित्तं अपि ______________ इति सर्वसम्मतम्।
मञ्जूषा-कुर्यात्, भ्रमणम्, शारीरिक-व्यायामाः, शरीरे, प्रसन्नम्, व्यायामशीलः, व्यायामेन, सुस्वास्थ्यम्।
उत्तरम्:
व्यायामेन, व्यायामशीलः, भ्रमणम्, शारीरिक-व्यायामाः, शरीरे, सुस्वास्थ्यम्, कुर्यात्, प्रसन्नम्।