We have given detailed Class 9 Sanskrit Solutions and Class 9th Sanskrit Sharada Chapter 10 Question Answer णमो अरिहन्ताणम् NCERT Solutions come in handy for quickly completing your homework.
Sanskrit Class 9 Chapter 10 Question Answer णमो अरिहन्ताणम्
Class 9 Sanskrit Ch 10 Question Answer NCERT Solutions णमो अरिहन्ताणम्
१. एकपदेन उत्तरं लिखत ।
(एक पद में उत्तर लिखिए |)
(क) ऋषभेण निर्मितस्य नगरस्य नाम किम् ?
(ख) ऋषभस्य प्रसिद्धे द्वे कन्ये के?
(ग) कस्यां लिप्यां नैकानि शास्त्राणि लिपिबद्धानि?
(घ) विनिता नामकं राज्यं ऋषभः कस्मै समर्पितवान्?
(ङ) ऋषभः बाहुबलिने किं राज्यं प्रदत्तवान्?
(च) प्रजाः भिक्षायां कानि वस्तूनि यच्छन्ति स्म ?
उत्तर:
(क) विनिता
(ग) ब्राह्मी
(ङ) तक्षशिलाम्
(ख) ब्राह्मी सुन्दरी च
(घ) भरताय
(च) आभरणानि अनर्घवस्तूनि च
२. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत।
(पूर्ण वाक्यों में प्रश्नों के उत्तर लिखिए |)
(क) देशे काः समस्याः सन्ति इति ऋषभदेवस्य कल्पना प्राप्ता?
(ख) महाराजः केषु कार्येषु प्रजाः प्रशिक्षितवान्?
(ग) ऋषभदेवस्य जीवनपरिवर्तिनी घटना का आसीत्?
(घ) ऋषभदेवस्य दीर्घकालिकस्य उपवासस्य समाप्तिः कथम् अभवत्?
(ङ) ऋषभदेवः कदा कुत्र च केवलज्ञानं प्राप्तवान्?
(च) जनानां मार्गदर्शनार्थं कं क्रमं रचितवान्?
उत्तर:
(क) देशे दुर्भिक्षः, विद्वेष:, जनानां आलस्यं, कृषिकार्ये न्यूनता प्रजासु उत्पादनक्षमतायाः अभावः इति ऋषभदेवस्य कल्पना प्राप्ता ।
(ख) महाराज: विशेषरूपेण कृषिकार्यं विविधपदार्थै: भोजननिर्माणं, तन्तुभिः वस्त्रनिर्माणं, गवाम् अश्वादीनां पशूनां पालनं चेत्यादीनि जीवनकौशलानि प्रशिक्षितवान्।
(ग) एकदा ऋषभदेव : राजप्रासादे नृत्यकलाप्रदर्शनम् आयोजितवान्। तत्र आगता काचित् नर्तकी नृत्यकलां प्रदर्शयन्ति सहसा भूमौ पतित्वा मृता। अनया घटनया ऋषभदेवस्य मनः सहसा विक्षुब्धम् अभवत्।
(घ) ऋषभदेवः भोज्यपदार्थानाम् अभावे चतुःशतं दिनानि नैरन्तर्येण उपवासं कृतवान्। एकदा पर्यटनावसरे सः हस्तिनापुरस्य समीपे स्थितस्य इक्षुक्षेत्रस्य पार्श्वमार्गात् गच्छति स्म। तत्र तस्य प्रपौत्रः श्रेयांसः प्रपितामहाय पानार्थम् इक्षुरसं दत्तवान् । अनेन ऋषभदेवसय दीर्घकालिकः उपवासः समाप्तः ।
(ङ) दीर्घकालिकोपवासेन निरन्तराध्ययनेन कठोरतपसा च ऋषभदेवः फाल्गुनमासस्य कृष्णपक्षे एकादश्यां तिथौ प्रयागराजे अक्षयवटवृक्षस्य अधः केवलज्ञानं प्राप्तवान् ।
(च) जनानां मार्गदर्शनार्थं भिक्षुः भिक्षुणी श्रावकः श्राविका चेति क्रमं रचितवान्। स एव क्रम: जैनसङ्घः इति प्रसिद्धः वर्तते ।
३. समस्तपदानि लिखत ।
(समस्त – पद लिखिए ।)

विग्रहवाक्यम् – समस्तपदम्
(क) महान् च असौ राजा च ………………
(ख) प्रजानां सुखम् ………………
(ग) मूलाः समस्याः ………………
(घ) भोजनस्य निर्माणम् ………………
(ङ) आर्थिकी स्थिति: ………………
(च) प्राप्तः आनन्दः येन सः ………………
(छ) विधिना लिखितम् ………………
(ज) गृहं गृहं प्रति ………………
(झ) ब्राह्मीनामा लिपिः ………………
उत्तर:
(क) महाराज:
(ख) प्रजासुखम्
(ग) मूलसमस्याः
(घ) भोजननिर्माणम्
(ङ) आर्थिकस्थिति:
(च) प्राप्तानन्दः
(छ) विधिलिखितम्
(ज) प्रतिगृहम्
(झ) ब्राह्मीनामलिपि:
![]()
४. वाक्यानि उदाहरणानुसारं परिवर्तयत ।
(वाक्यों को उदाहरणानुसार परिवर्तित कीजिए।)
यथा- जनैः स्वयमेव निर्माणकार्यम् आरब्धम् । – जनाः स्वयमेव निर्माणकार्यम् आरब्धवन्तः।
(क) महाराजेन राज्यं समर्पितम्। ………….
(ख) केनापि तत् न चिन्तितम् । …………
(ग) ऋषभदेवेन दीर्घकालिकः उपवासः कृतः । ………..
(घ) जनैः जीवनपद्धतिः परिवर्तिता । ………….
(ङ) ऋषभेण योजना कृता । ……….
उत्तर:
(क) महाराज: राज्यं समर्पितवान् ।
(ख) कोऽपि तत् न चिन्तितवान्।
(ग) ऋषभदेवः दीर्घकालिकं उपवासं कृतवान्।
(घ) जना: जीवनपद्धतिं परिवर्तितवन्तः ।
(ङ) ऋषभः योजनां कृतवान् ।
५. सन्धिं कुरुत ।
(संधि कीजिए |)
(क) इति + अतः
(ख) च + इति
(ग) देवस्य + अपि
(घ) तथा + एव
(ङ) इति + एतादृशाः
(च) ब्राह्मीद्वारा + एव
(छ) प्रस्थितः + अयम्
उत्तर:
(क) इत्यतः
(ख) चेति
(ग) देवस्यापि
(घ) तथैव
(ङ) इत्येतादृशा:
(च) ब्राह्मीद्वारैव
(छ) प्रस्थितोऽयम्
स्वाध्यायान्मा प्रमदः
१. जैनधर्मस्य चतुर्विंशतिः तीर्थङ्कराः
(जैन धर्म के चौबीस तीर्थंकर)

1. ऋषभदेवः (आदिनाथः)
- प्रथमः तीर्थङ्करः, ‘आदिनाथः’ इति प्रसिद्धः।
- आद्यः धर्मोपदेशकः, कृषि:, लिपि:, कला, व्यवसायः च जगति आरब्धाः ।



(२४) महावीरः (वर्धमानः)
- चतुर्विंशः तीर्थङ्करः, जैनधर्मस्य परमो महापुरुषः ।
- वैशाली – कुण्डग्रामे जात: ।
- ‘पञ्चमहाव्रतानां’ प्रचारकः ।
- अहिंसा, अपरिग्रह, संयमस्य महत्त्वं लोकाय उपदिष्टवान् ।
२. जैनधर्मस्य प्रमुखतीर्थस्थानानि
- सम्मेतशिखरम् (पारसनाथ पर्वतः, झारखण्डः)
- श्रवणबेलगोलः (कर्नाटकम्)
- पावापुरी (बिहार)
- रैवतकः (गिरनारः) पर्वतः (गुजरातः)
- शत्रुञ्जयपर्वतः (पदलिप्तपुरम् – पालीताणा,
- राजगृहम् (बिहार:)
- अयोध्या (उत्तर प्रदेश:)
- काशी (वाराणसी) (उत्तर प्रदेश:)
- चम्पापुरम् (भागलपुर, बिहार:)
- हस्तिनापुरम् (उत्तर प्रदेशः)
- मिथिला (बिहार:)
- द्वारिका (गुजरात:)
यस्तु क्रियावान् मनुजः स विद्वान्
१. जैनसम्प्रदायानुसारं भोजनपद्धतिं लिखत । (किं खादन्ति ? कस्मिन् समये खादन्ति?)
२. पञ्चमहाव्रतानि लिखत ।
३. णमोकारमहामन्त्र – दिवसस्य विषये किं जानन्ति इत्युपरि कक्षायां वदत।
४. पञ्चमहाव्रतेषु कस्यापि एकस्य व्रतस्य विषये सहपाठिनां पुरतः आगत्य वदत।
Class 9th Sanskrit Chapter 10 णमो अरिहन्ताणम् Question Answer
संस्कृत कक्षा 9 पाठ 10 णमो अरिहन्ताणम् के प्रश्न उत्तर
प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत ।
(निम्नलिखित गद्यांशों को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए |)
गद्यांशः 1
आसीत् युगानाम् आरम्भे प्रजानां प्रियः नाभिनामकः कश्चन महाराजः। सः राजनीतौ युद्धतन्त्रे प्रशासनादिषु च समर्थः । तस्य पत्नी मरुदेवी बुद्धिमती करुणाशालिनी च । तयोः एवं प्रियपुत्रः ऋषभः। ऋषभः सर्वगुणसम्पन्नः, अधीतविद्यः, राजनीतिज्ञश्च आसीत् । यौवनेन विलसन्तं तं राजकुमारं वीक्ष्य नाभिः तस्मै राज्यभारं समर्पयितुम् अचिन्तयत्।
I. एकपदेन लिखत।
(एक पद में उत्तर लिखिए।)
- युगस्य आरम्भे विश्वप्रजानां प्रियः महाराजस्य किं नाम आसीत्?
- तयोः प्रियपुत्रः कः आसीत्?
- ‘नाभि’ राज्ञः पत्न्याः नाम किमासीत्?
उत्तर:
- नाभिनायकः
- ऋषभ:
- मरुदेवी
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए।)
- ऋषभः कीदृशः आसीत्?
- नृपः कस्मै राज्यभारं दातुं निश्चितवान्?
- मरुदेवी स्वभावेनः कीदृशी आसीत्?
उत्तर:
- ऋषभः सर्वगुणसम्पन्नः, अधीतविद्यः, राजनीतिज्ञश्च आसीत्।
- नाभि: राजकुमारम् ऋषभं राज्यभारं समर्पयितुम् अचिन्तयत्।
- मरुदेवी स्वभावेन बुद्धिमती करुणाशालिनी च आसीत् ।
![]()
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘कश्चन महाराजः’ अनयोः पदयोः विशेषणं किमस्ति ?
- ‘स: राजनीतौ युद्धतन्त्रे च समर्थः ‘- अत्र ‘सः’ सर्वनामपदं कस्मै प्रयुक्तः ?
अथवा
- ‘बुद्धिहीना’ पदस्य विलोमपदं अस्मिन् गद्यांशे किम् प्रयुक्तम् ?
- “तस्मै राज्यभारं समर्पयितुम् अचिन्तयत् ।” अस्मिन् वाक्ये क्रियापदं किमस्ति ?
उत्तर:
- कश्चन
- नाभिराज्ञे
अथवा
- बुद्धिमती
- अचिन्तयत्
गद्यांश: 2
एकदा ऋषभदेवः राजप्रासादे नृत्यकलाप्रदर्शनम् आयोजितवान्। तत्र आगता काचित् नर्तकी नृत्यकलां प्रदर्शयन्ती सहसा भूमौ पतित्वा मृता। अनया घटनया ऋषभदेवस्य मनः सहसा विक्षुब्धम् अभवत्। कथं काचित् आरोग्यवती स्त्री सहसा मरणं प्राप्तवती, किं नाम जीवनम्, कथं जीवनीयम्, इत्यादयः अनेके प्रश्नाः तस्य बुद्धौ आविरभवन्। इह संसारे किमपि शाश्वतं नास्ति, इदं सुखं स्थायि नास्ति इति विचिन्त्य स्थिरसुखस्य प्राप्त्यर्थं सः सर्वमपि परित्यज्य भिक्षुरूपेण प्रस्थितवान्। स्वस्य विशालं साम्राज्यं स्वपुत्रेषु विभक्तवान्।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए ।)
- एकदा राजप्रासादे नृत्यकला प्रदर्शनम् कः आयोजितवान् ?
- सहसा भूमौ का पतित्वा मृता।
- कस्य मनः सहसा विक्षुब्धम् अभवत्।
उत्तर:
- ऋषभदेवः
- काचित् नर्तकी
- ऋषभदेवस्य
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- कीदृशी स्त्री सहसा मरणं प्राप्तवतीः
- सर्वमपि परित्यज्य भिक्षुरूपेण कः प्रस्थितवान्?
- कः विशालं साम्राज्यं स्वपुत्रेषु विभक्तवान्?
उत्तर:
- काचित् आरोग्यवती स्त्री सहसा मरणं प्राप्तवती ।
- सर्वमपि परित्यज्य भिक्षुरूपेण ‘ऋषभदेवः’ प्रस्थितवान् ।
- ऋषभदेव: विशालं साम्राज्यं स्वपुत्रेषु विभक्तवान् ।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘काचित् नर्तकी’ – अत्र विशेष्यपदं किमस्ति ?
- “ऋषभदेवस्य मनः सहसा विक्षुब्धम् अभवत्?” अस्मिन् वाक्ये कर्तृपदं किमस्ति ?
अथवा
- ‘इह संसारे किमपि शाश्वतं नास्ति ?’ वाक्ये क्रियापदं किम् अस्ति?
- ‘नर्तक:’ शब्दस्य विलोमपदं नाट्यांशे किमस्ति?
उत्तर:
- नर्तकी
- मन:
अथवा
- अस्ति
- नर्तकी
गद्यांश: 3
जैनमतस्य प्रमुखाः सिद्धान्ताः – अहिंसा परमो धर्म: (मनसा, वाचा, कर्मणा च अहिंसापालनम् ), अनेकान्तवादः (सत्यस्य अनेके पक्षाः भवन्ति), स्याद्वादः (प्रत्येकं वचनं सापेक्षं ‘स्यादिति’ रूपेण ग्राह्यम्), अपरिग्रहः (आवश्यकात् अधिकं सङ्ग्रहः न करणीयः) इत्यादयः। एतेषां दर्शनानां मध्ये – सम्यग्दर्शनम्, सम्यग्ज्ञानम्, सम्यक्चरित्रम् इति त्रीणि रत्नानि उच्यन्ते । च प्राणिमात्रहिताय पञ्चमहाव्रतानि – सत्यम्, अहिंसा, अस्तेयम्, अपरिग्रहः, ब्रह्मचर्यं च आचरितुं कल्याणकरम् इति निगद्यते ।
I. एकपदेन उत्तरत।
(एकपद में उत्तर दीजिए ।)
- ‘अहिंसा परमो धर्मः’ कस्य सिद्धान्तः अस्ति ?
- ‘आवश्यकतात् अधिकं सङ्ग्रहं न करणीयः इति कः कथ्यते?
- प्राणिमात्रहिताय कति महाव्रतानि सन्ति?
उत्तर:
- जैनमतस्य
- अपरिग्रहः
- पञ्च
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- जैनधर्मस्य प्रमुखः सिद्धान्तः किम् ?
- त्रीणि रत्नानि कानि सन्ति?
- पञ्चमहाव्रतानि कानि सन्ति?
उत्तर:
- ‘अहिंसा’ परमो धर्मः’, ‘अनेकान्तवादः’, ‘स्यान्दादः’, ‘अपरिग्रहः’ इत्यादयः जैन धर्मस्य प्रमुखः सिद्धान्तः ।
- सम्यक् दर्शनम्, सम्यग्ज्ञानम्, सम्यक् चरित्रम्, एते त्रीणि रत्नानि सन्ति ।
- सत्यम्, अहिंसा, अस्तेयम्, अपरिग्रहः, ब्रह्मचर्य पञ्चमहाव्रतानि सन्ति ।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- “आवश्यकतात् अधिकं सङ्ग्रहः न करणीयः” अत्र क्रियापदं किमस्ति ?
- ‘प्रमुखाः सिद्धान्ताः’ अनयोः पदयोः विशेषणपदं किमस्ति ?
अथवा
- ‘अधर्मः’ पदस्य विलोमपदं नाट्यांशे किम् प्रयुक्तम् ?
- ‘ऋतम्’ शब्दस्य पर्यायपदं गद्यांशे किं प्रयुक्तम् ?
उत्तर:
- करणीयः
- प्रमुखाः
अथवा
- अधर्मः
- सत्यम्
अन्वयपूर्तिः
प्रश्न 2.
मञ्जूषातः समुचितपदानि चित्वा अधोलिखितस्य श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत ।
(मंजूषा से समुचित पद चुनकर निम्नलिखित श्लोक के अन्वय को पूर्ण करके पुन: लिखिए ।)
प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ।।
अन्वयः राज्ञः सुखं (i) ………. च हितं प्रजानां हिते (ii) ………. आत्मप्रियं हितं न, तु (iii) ………. प्रियं (iv) …….।
मञ्जूषा हितम्, प्रजासुखे, प्रजानां, राज्ञः।
उत्तर:
(i) प्रजासुखे
(ii) राज्ञ:
(iii) प्रजानां
(iv) हितम्
भावार्थपूर्तिः
प्रश्न 3.
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत ।
(मंजूषा की सहायता से श्लोक के भावार्थ में रिक्त स्थानों को पूरा करके पुन: लिखिए।)
दैवाधीनं जगत्सर्वं जन्मकर्मशुभावहम्।
संयोगश्च वियोगश्च न च दैवात्परं बलम् ।।
भावार्थ: अस्मिन् संसारे सर्वं (i) ……… दैवाधीनं अस्ति। मनुष्यस्य जन्मः, तस्य कर्माणि (ii) …… फलानि च भाग्येनेव निर्धारीयन्ते। लोके यः संयोगः अथवा वियोगः भवति । तत् सर्वं (iii) ……… ‘खेलम् अस्ति। संसारे दैवात् श्रेष्ठं किमपि (iv) ……. ‘नास्ति ।
मञ्जूषा प्रारब्धस्य, वस्तुजातं बलं, शुभाशुभानि ।
उत्तर:
(i) वस्तुजातं
(ii) शुभाशुभानि
(iii) प्रारब्धस्य
(iv) बलं
प्रश्ननिर्माणं कुरुत
प्रश्न 4.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
(निम्नलिखित वाक्यों में रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए।)
- एकदा ऋषभदेवः राजप्रासादे नृत्यकलाप्रदर्शनम् आयोजितवान् ।
- अनेके जनाः शिष्यरूपेण अनुसृतवन्तः।
- अस्य अर्थः भवति नमामि अरहिन्तॄन्।
- अनया घटनया ऋषभदेवस्य मनः सहसा विक्षुब्धम् अभवत्।
- अहिंसा परमो धर्मः ।
- अन्ते अक्षयतृतीया दिने ईक्षुरसेन उपवासस्य समापनं कुर्वन्ति ।
उत्तर:
- कुत्र
- के
- कान्
- कस्य
- कः
- कदा
प्रसङ्गानुसारं प्रश्नाः
प्रश्न 5.
रेखाङ्कित पदानां प्रसङ्गानुसारम् अर्थरूपं चयनं कुरु ।
(रेखांकित पदों के प्रसंग के अनुसार अर्थरूप का चयन कीजिए।)
(i) अहिंसा परमो धर्मः ।
(क) श्रेष्ठः
(ख) पतङ्गा
(ग) तृतीया
(घ) जना
उत्तर:
(क) श्रेष्ठः
(ii) वैशाखमासस्य अक्षयतृतीया-दिनम् आसीत्।
(क) दिवस:
(ख) रात्रि
(ग) मक्षिकाः
(घ) दैनिक
उत्तर:
(क) दिवस:
![]()
(iii) सः एव कं जैनसङ्घः इति प्रसिद्धः वर्तते।
(क) श्रुतः
(ख) ख्यातः
(ग) कर्णौ
(घ) प्रसन्नः
उत्तर:
(ख) ख्यातः
(iv) एकदा ऋषभदेवः राजप्रासादे नृत्यकला प्रदर्शनम् आयोजितवान्।
(क) प्रासादे
(ख) नृपमन्दिरे
(ग) राजभवने
(घ) कार्यालये
उत्तर:
(ग) राजभवने
(v) जीवनस्य परमसत्यं अनवेष्टुम् प्रस्थितोऽयं महामुनिः ।
(क) गवेषितुम्
(ख) मार्गितुम्
(ग) प्राप्तुम्
(घ) निमग्नः
उत्तर:
(क) गवेषितुम्
(vi) सः अध्ययने गभीरध्याने च तथा लीनः भवति ।
(क) समीर:
(ख) निशक्तः
(ग) आसक्तः
(घ) अन्वेषणं
उत्तर:
(ग) आसक्तः
मेलनं कुरुतः
प्रश्न 6.
सुमेलितं कुरुत।
(सुमेलित कीजिए।)

सूची (क) – सूची (ख)
(i) अपरिग्रहः – (ङ) न परिग्रहः
(ii) आरम्भे – (क) आदौ
(iii) इक्षुक्षेत्रम् – (ख) इक्षोः क्षेत्रम्
(iv) अचिन्तयत् – (घ) चिन्तितवान्
(v) दुर्भिक्षकम् – (ग) भिक्षायाः अभावः
कथापूर्तिं कुरुतः
प्रश्न 7.
अधोलिखितानां कथां मञ्जूषायाः सहायतया पूरयित्वा पुनः लिखत ।
(निम्नलिखित कथा को मंजूषा की सहायता से पूर्ण करके पुन: लिखिए |)
आसीत् युगानाम् आरम्भे (i) ………. प्रियः नाभिनामकः कश्चन (ii) ………..। सः राजनीतौ युद्धतन्त्रे प्रशासनादिषु च समर्थः। तस्य पत्नी (iii) …….. बुद्धिमती करुणाशालिनी च। तयोः एव (iv) ……… ऋषभः। ऋषभः सर्वगुणसम्पन्नः, (v) …….. ‘राजनीतिज्ञश्च आसीत् । यौवनेन विलसन्तं तं राजकुमारं वीक्ष्य (vi) ……. तस्मै राज्यभारं समर्पयितुम्
अचिन्तयत्। अथैकदा समाजे दुर्भिक्षादयः (vii) ……. समुदभवन्। जनेषु परस्परं विद्वेषादयः (viii) ……. आविरभवन्। तदा नाभिः ‘अयं कालः ऋषभस्य (ix) …….. परीक्षार्थं सुयोग्यः’ इति मन्यमानः तस्मै (x) ……. समर्पितवान्।
मञ्जूषा नाभिः महाराजः प्रजानां प्रियपुत्रः, अधीतविद्यः, मरुदेवी, समस्याः, भावनाः, राजनीतेः, राज्यं ।
उत्तर:
(i) प्रजानां
(ii) महाराज:
(iii) मरुदेवी
(iv) प्रियपुत्र:
(v) अधीतविद्य:
(vi) नाभि:
(vii) समस्या:
(viii) भावना:
(ix) राजनीते:
(x) राज्यं