We have given detailed Class 9 Sanskrit Solutions and Class 9th Sanskrit Sharada Chapter 8 Question Answer अन्नाद् आनन्दं प्रति NCERT Solutions come in handy for quickly completing your homework.
Sanskrit Class 9 Chapter 8 Question Answer अन्नाद् आनन्दं प्रति
Class 9 Sanskrit Ch 8 Question Answer NCERT Solutions अन्नाद् आनन्दं प्रति
अन्नाद् आनन्दं प्रति प्रश्न उत्तर कक्षा 9
१. एकेन पदेन रिक्तस्थानं पूरयत।
(एक पद में रिक्त स्थानों की पूर्ति कीजिए ।)

उदाहरणम् अन्नेन शरीरं वर्धते ।
(क) अन्नेन शरीरं वर्धते
(ख) ……….. ‘शरीरं प्रतिष्ठितम्।
(ग) …………. ‘विना शरीरं क्रियाशून्यं भवति ।
(घ) …….. ‘एव इमानि भूतानि जायन्ते ।
(ङ) ……… समस्तानि इन्द्रियाणि सञ्चाल्यन्ते ।
(च) ………. ‘विना बोधशक्तेः तर्कशक्तेश्च विकासो न भवति ।
(छ) ……… एव सर्वकर्मणः प्रवर्तकम् ।
उत्तर:
(ख) प्राणे
(ग) प्राणेन
(घ) प्राणाद्
(च) बुद्धितत्त्वं
(छ) मन:
(ङ) मनसा
२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत ।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए ।)
(क) भृगोः जिज्ञासा कस्मिन् विषये आसीत्?
(ख) भृगुणा ब्रह्मज्ञानाय किम् आचरितम् ?
(ग) भृगुः प्रथमं तपसा ब्रह्मरूपेण किं ज्ञातवान्?
(घ) मनसः के जायन्ते ?
(ङ) प्राणिनः कस्मात् जायन्ते?
(च) इन्द्रियाणि केन सञ्चाल्यन्ते?
(छ) शरीरं कुत्र प्रतिष्ठितम् अस्ति ?
(ज) केन विना स्मृतिशक्तेर्विकासो न भवति?
(झ) भृगुः तपसा केषां महत्त्वं ज्ञातवान्?
उत्तर:
(क) भृगो: जिज्ञासा ब्रह्मविषये आसीत्।
(ख) भृगुणा ब्रह्मज्ञानाय अनेकवर्षाणि तपः आचरितम् ।
(ग) भृगुः प्रथमं तपसा बह्मरूपेण अन्नं ज्ञातवान् ।
(घ) मनसः सङ्कल्पाः भावाः, विचाराश्च जायन्ते ।
(ङ) प्राणिनः आनन्दात् जायन्ते ।
(च) समस्तानि इन्द्रियाणि अपि मनसा सञ्चाल्यन्ते ।
(छ) शरीरं प्राणे प्रतिष्ठितम् अस्ति ।
(ज) बुद्धितत्त्वेन विना स्मृतिशक्तेर्विकासो न भवति।
(झ) भृगुः तपसा सूक्ष्मविज्ञानेन च अन्नस्य, प्राणस्य, मनसः, विज्ञानस्य, आनन्दस्य च महत्त्वं ज्ञातवान् ।
३. उदाहरणं दृष्ट्वा अधोलिखतेषु ‘किं सत्यं किम् असत्यम्’ इति रिक्तस्थाने पूरयत।
(उदाहरण देखकर नीचे लिखे गए ‘क्या सत्य है, क्या असत्य है’, ऐसा रिक्त स्थान में भरिए ।)

उदाहरणम्
(क) प्रस्तुते पाठे पितापुत्रयोः संवादः अस्ति। सत्यम्
(ख) अस्मिन् संवादे अन्नस्य महत्त्वं वर्णितम्। …………
(ग) प्राणिनः मनसः जायन्ते इति कथनम् अस्ति । ……..
(घ) अन्नेन शरीरं वर्धते इति । …………
(ङ) मनः सारथिरूपेण अस्मान् कर्मणि प्रवर्तयति । ……..
(च) भृगुः वरुणस्य पुत्रोऽस्ति । ……
(छ) भृगुः तपसा मनो ब्रह्मरूपेण ज्ञातवान् । ……..
(ज) विना योगे तृतीया विभक्तिर्भवति । ……….
उत्तर:
(ख) सत्यम्
(ग) असत्यम्
(घ) सत्यम्
(ङ) सत्यम्
(च) सत्यम्
(छ) असत्यम्
(ज) सत्यम्
![]()
४. क्रियापदेन सह समुचितं पदं योजयत ।
(क्रिया पदों के साथ समुचित पदों को जोड़िए ।)

(क) प्राणिनः – (i) क्रियताम्
(ख) शरीरम् – (ii) कुरुताम्
(ग) तपः – (iii) जायन्ते
(घ) पितरं – (iv) वर्ध
(ङ) यत्नः – (v) ब्रूते
उत्तर:
(क) प्राणिनः – (iii) जायन्ते
(ख) शरीरम् – (iv) वर्धते
(ग) तपः – (ii) कुरुताम्
(घ) पितरं – (v) ब्रूते
(ङ) यत्नः – (i) क्रियताम्
५. अवशिष्ट – धातुरूपाणि पूरयत ।
(अवशिष्ट धातु रूपों को पूरा कीजिए ।)

एकवचनम् – द्विवचनम् – बहुवचनम्
वर्तते – ………….. – …………..
………….. – ………….. – …………
………….. – ………….. – …………
उत्तर:
वर्तते – वर्तेते – वर्तन्ते
वर्तसे – वर्तेथे – वर्तध्वे
वर्ते – वर्तावहे – वर्तामहे
६. एतानि पदानि लट्-लकारस्य त्रिषु पुरुषेषु रूपाणि पठत लिखत च ।
(इन पदों के लट्-लकार के तीनों पुरुषों में रूपों को पढ़िए और लिखिए।)

उत्तर:



७. आत्मनेपदिधातूनां लोट्-लकारे त्रिषु पुरुषेषु अभ्यासं कुरुत लिखत च।
(आत्मनेपदी धातुओं को लोट् लकार में तीनों पुरुषों में अभ्यास कीजिए और लिखिए ।)

उत्तर:
1. मोदताम् – मोदेताम् – मोदन्ताम्
मोदस्व – मोदेथाम् – मोदध्वम्
मोदै – मोदावहै – मोदाम
2. वर्धताम् – वर्धेताम् – वर्धन्ताम्
वर्धस्व – वर्धेथाम् – वर्धध्वम्
वर्धे – वर्धावहै – वर्धाम
![]()
८. एतानि क्रियापदानि लोट्-लकारे त्रिषु पुरुषेषु पठत लिखत च।
(इन क्रिया पदों का लोट् लकार में तीनों पुरुषों में पढ़िए और लिखिए |)

कर्तृपदानुसारं लोट्-लकारेण क्रियापदं परिवर्तयत ।

लट्-लकारः – लोट्-लकारः
उदाहरणम् सः अन्नं सदा – भवान् सदा अन्नाम्
ईश्वरबुद्धा सेवते। – ईश्वरबुद्ध्या सेवताम्।
(क) बालकः अन्नस्य निन्दां न कुरुते । – भवान् …………..
(ख) मम जीवने यशो वर्धते । – तव ……………..
(ग) अहं बौद्धिकविकासाय सदा योगासनं कुर्वे । त्वं – ………..
(घ) रमेशः सर्वदा सत्यं भाषते । – दिनेश: ………..
(ङ) छात्रः लक्ष्यसिद्धये कष्टं सहते । – अहं ……..
(च) साधवः सर्वदा रमन्ते । – भवन्तः ……….
(छ) भवान् योगेन आरोग्यं लभते । – अहं ………..
(ज) रमा सदा सत्कर्मणि यतते । लता ……….
(झ) भक्तः ईश्वरं वन्दते । – त्वं ……..
उत्तर:
(क) भवान् अन्नस्य निन्दां न कुरुताम् ।
(ख) तव जीवने यशो वर्धताम् ।
(ग) त्वं बौद्धिकविकासाय सदा योगासनं कुरुष्व ।
(घ) दिनेशः सर्वदा सत्यं भाषताम् ।
(ङ) अहं लक्ष्यसिद्धये कष्टं सहै ।
(च) भवन्तः सर्वदा रमन्ताम् ।
(छ) अहं योगेन आरोग्यं लभै ।
(ज) लता सदा सत्कर्माणि यतताम्।
(झ) त्वं ईश्वरं वन्दस्व ।
कर्तृ-कर्मवाच्यनियम:
कर्तृवाच्ये कर्तरि प्रथमा विभक्तिः । कर्मणि द्वितीया विभक्तिः । क्रिया कर्तृपदानुसारिणी भवति । यतोहि कर्तृवाच्ये कर्तुः प्राधान्यं भवति अतः क्रियापदस्य वचनं पुरुषश्च कर्तृपदानुसारं भवतः । तथैव – कर्मवाच्ये कर्मणि प्रथमा, कर्तरि तृतीया, क्रिया कर्मपदानुसारिणी भवति । कर्मवाच्ये कर्मकारकस्य प्राधान्यं भवति । अतः क्रियायाः वचनं पुरुषश्च कर्मपदानुसारं भवतः। कर्मवाच्यप्रयोगे क्रियापदानि आत्मनेपदयुक्तानि भवन्ति ।
यथा रामः ग्रामं गच्छति इति कर्तृवाच्यम् अस्ति । अत्र रामः कर्तृवाचकं पदम्, अत: तत्र प्रथमा विभक्तिः । ग्रामम् इति कर्मवाचकं पदम् अतः द्वितीया विभक्तिः । गच्छति इति क्रियापदं कर्त्रनुसारि भवति, अतः एकवचने । अस्यैव कर्मवाच्यप्रयोगे – रामेण ग्रामः गम्यते इति वाक्यं भवति । अत्र रामेण इति कर्तृपदम्, अतः तुतीया विभक्तिः । ग्रामः इति कर्मवाचकपदं, तस्मात् प्रथमा । क्रिया कर्मपदानुसारिणी एकवचने, आत्मनेपदयुक्ता च। तथैव छात्राः विद्यालयं गच्छन्ति इत्यत्र छात्राः इति कर्तृपदं बहुवचने वर्तते, अत: क्रियापदमपि बहुवचने अस्ति । अस्यैव कर्तृवाच्यस्य कर्मवाच्यप्रयोगे छात्रैः विद्यालयः गम्यते इति भवति । अत्र कर्मपदम् (विद्यालयः) एकवचने अस्ति, अत: क्रियापि एकवचने भवति ।
अधोलिखितानि वाक्यानि उच्चैः पठत अवगच्छत च

अत्र सर्वेषु उदाहरणेषु क्रियापरिवर्तनं कर्मपदानुसारम् अस्ति। अत: एतानि कर्मवाच्यस्य उदाहरणानि सन्ति । यो नियमः अत्र ( तिङन्तस्थले) प्रदर्शित: स: एव नियमः कृत्-प्रत्ययस्थलेषु (क्त – तव्यत्- अनीयर्-प्रत्ययान्तपदेषु) बोद्धव्यः। केवलं तत्र कर्मपदगत-लिङ्गानुरूपं कृदन्तपदस्य लिङ्गं वचनं च भवतः इति विशेषः। तव्यत्-अनीयर्-प्रत्ययौ लृट्-लोट्- विधिलिङ्लकाराणां विषये योग्यार्थे च भवतः।
यथा-
अन्नं न परिहरेत् / परिहरतु / परिहरिष्यति = अन्नं न परिहर्तव्यम् (परि + हृ + तव्यत्/परिहरणीयम् (परि + हृ + अनीयर्) इति ।
योग्यार्थे – पानीयं जलम् । कर्तव्यं / करणीयं = कर्म |
तव्यत्-अनीयर्-प्रत्यययोः प्रयोगस्थलम्

त्रिषु लिङ्गेषु तव्यत्- अनीयर्-प्रत्यययोः प्रयोगः

त्रिषु वचनेषु तव्यत् – अनीयर्-प्रत्यययोः प्रयोगः

![]()
स्वाध्यायान्मा प्रमदः
१. आत्मनेपदिधातूनां लोट्-लकारे त्रिषु पुरुषेषु अभ्यासं कुरुत वन्द्-धातुः (लट्-लकारः)

२. एतेषु वाक्येषु निहितानि

३. आहारात् सर्वभूतानि सम्भवन्ति महीपते । आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ? (महाभारतम्, वनपर्व 131/ 7)
अन्वयः – हे महीपते ! सर्वभूतानि आहारात् सम्भवन्ति, आहारेण जन्तवः विवर्धन्ते, तेन आहारेण जीवन्ति च।
भावार्थ: – हे ‘राजन् ! सर्वे प्राणिनः अन्नादिभोज्यपदार्थाद् जायन्ते। प्राणिन: आहारेण एव शरीरस्य विकासं प्राप्नुवन्ति । तेन आहारेण एव जीवन्ति ।
आहारशुद्धिः – मानसिक-बौद्धिक विकासाय सर्वदा सात्त्विकं हितकारकं च आहारं सेवताम् । सात्त्विकम् अन्नं मनसि सद्भावान् गुणांश्च विकासयति । तेन अस्माकं स्मृतिशक्तेः आध्यात्मिकशक्तेः अन्नमयादिकोषाणां च विकासो भवति । अत एव उक्तम्-
आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः।
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः । (छान्दोग्योपनिषद् 0७/२६/२)
४. यावद् वायुः स्थितो देहे तावज्जीवनमुच्यते ।
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत्॥ (हठयोगप्रदीपिका)
अन्वयः यावद् देहे वायुः स्थितः तावत् जीवनम् उच्यते । तस्य निष्क्रान्ति: मरणम्, तत: वायुं निरोधयेत्।
भावार्थ: यावत् कालपर्यन्तं प्राणवायुः शरीरे रक्षितो भवति, तावत् कालपर्यन्तम् जीवनं भवति । वायो: शरीराद् निर्गमनम् एव मरणम् इति, अस्मात् हेतोः प्राणवायुं रक्षेत् । प्राणमयकोषविकासाय अस्माभिः सर्वदा प्राणायाम:, आसनानि च करणीयानि । शयनं जागरणं च यथासमयं करणीयम्।
५. मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम्॥ (अमृतबिन्दु–उपनिषद् १/२)
अन्वयः मनः एव मनुष्याणां बन्धमोक्षयोः कारणं, विषयासक्तं बन्धाय, निर्विषयं मुक्त्यै स्मृतम् अस्ति।
भावार्थः मनुष्याणां बन्धस्य मोक्षस्य च कारणं मन एव भवति । यदि मनः विषयेषु आसक्तं भवति अर्थात् कामादिदोषयुक्तं भवति तर्हि बन्धाय कारणं भवति । यदि मनः विषयेषु आसक्तं न भवति तर्हि बन्धाय कारणं न भवति । यदि अस्माकं मनः निर्मलं शान्तं राग-द्वेष-शोकादिरहितं च भवति तर्हि मानसिकशक्तेः, मनोमयकोषस्य च विकासो भवति। शास्त्रेषु मनस: द्विविधं रूपं वर्ण्यते।
(१) शुद्धम्
(२) अशुद्धम् इति ।
६. मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च।
अशुद्धं कामसङ्कल्पं शुद्धं कामविवर्जितम् ॥ (अमृतबिन्दु —उपनिषद् १/१)
७. मनसः विषयाः-
काम:, संकल्प:, विचिकित्सा, श्रद्धा, अश्रद्धा, धृति:, अधृति:, ह्रीः, धीः, भीः इत्येतत् सर्वं मन एव । (बृहदारण्यकोपनिषद् १/५/३)
८. यन्मनसा ध्यायति तद् वाचा वदति यद् वाचा वदति तत् कर्मणा करोति यत् कर्मणा करोति तदभिसम्पद्यते । (शतपथब्राह्मणम्)
एतानि उपनिषद्वचनानि उच्चैः पठन्तु स्मरन्तु च—
१. अन्नादेव खलु इमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति ।
२. अन्नं हि भूतानां ज्येष्ठम्। तस्मात् सर्वौषधमुच्यते।
३. अन्नं न निन्द्यात् । अन्नं बहु कुर्वीत ।
४. प्राणो हि भूतानाम् आयुः । प्राणे शरीरं प्रतिष्ठितम् । प्राणो वै ज्येष्ठः श्रेष्ठश्च ।
५. काम: संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा
धृतिरधृतिर्हीर्धीर्भीरित्येतत् सर्वं मन एव ।
६. तन्मे मनः शिवसङ्कल्पमस्तु।
यस्तु क्रियावान् मनुज: स विद्वान्
१. एकां छात्रसंगोष्ठीम् आयोज्य अस्य पाठस्य अस्माकं जीवने कीदृशी प्रासङ्गिकता अस्तीति स्वविचारान् उपस्थापयत ।
२. पाठे आगतानाम् उपनिषद्वचनानाम् आशयं दशसु वाक्येषु प्रकटयत।
३. पाठे आगतानि क्रियापदानि चित्वा विंशतिवाक्यानि रचयत ।
४. अन्नरक्षणाय भवता के उपाया: क्रियन्ते इति वर्णयत ।
५. मनसः कार्यं दशसु वाक्येषु निरूपयत।
६. केषाञ्चन त्रयाणाम् आत्मनेपदिधातूनां लट्-लोट्लकारयोः त्रिषु पुरुषेषु रूपाणि स्मरत लिखत च ।
७. अस्माकं जीवने प्रत्येकं कोषस्य विकासाय किं किं कर्तुं शक्यते चर्चां कुरुत ।
Class 9th Sanskrit Chapter 8 अन्नाद् आनन्दं प्रति Question Answer
संस्कृत कक्षा 9 पाठ 8 अन्नाद् आनन्दं प्रति के प्रश्न उत्तर
प्रश्न 1.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत |
(निम्नलिखित नाट्यांशों को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए |)
नाट्यांशः 1
(एकदा ब्रह्मज्ञानाय तत्पर: वरुणस्य पुत्रः भृगुः सविनयं पितरं प्रति गत्वा निवेदयति)
भृगुः – अयि भोः पितः ! अभिवादयेऽहं सादरम् । भगवन् ! ब्रह्मविषये मयि काचिद् जिज्ञासा वर्तते । किं तद् ब्रह्म येन सर्वं जगदिदं सञ्चाल्यते? कृपया उपदिशतु ।
वरुणः – पुत्र ! शुभं भूयात् । ब्रह्मज्ञानाय त्वया स्वयमेव अन्वेषणं क्रियताम्। यत्नः अभ्यासश्च क्रियेताम् । तपस्तप्यताम् । तपसैव ज्ञायते ।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए।)
- वरुणस्य पुत्रः कः आसीत्?
- ब्रह्मज्ञानार्थं कः सज्जः आसीत्?
- किं तप्यताम् ?
उत्तर:
- भृगुः
- भृगुः
- तप:
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- कस्य विषये जिज्ञासा वर्तते ?
- भृगो: जिज्ञासा किम् वर्तते ?
- वरुणः भृगुं किम् अवदत् ?
उत्तर:
- ब्रह्मविषये जिज्ञासा वर्तते ।
- भृगो: जिज्ञासा वर्तते – ‘ तद् ब्रह्म येन सर्वं जगदिदं सञ्चाल्यते’ अस्ति किम्। कृपया उपदिशतु ।
- वरुणः भृगुं अवदत् – ब्रह्मज्ञानाय त्वया स्वयमेव अन्वेषणं क्रियताम्। यत्नः अभ्यासश्च क्रियेताम् ।
![]()
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए।)
- ‘ब्रह्मज्ञानाय त्वया स्वयमेव अन्वेषणं क्रियताम्’ अत्र क्रियापदम् किमस्ति?
- ‘अनादरम्’ पदस्य विलोमपदं किमस्ति ?
अथवा
- ‘अयि भोः पितः’ अस्मिन् वाक्ये जनकः शब्दस्य पर्यायपदम् किमस्ति ?
- ‘अभिवादयेऽहं सादरम् ‘ आस्मिन् वाक्ये कर्तृपदं किमस्ति ?
उत्तर:
- क्रियताम्
- सादरम्
अथवा
- पित: !
- अहं
नाट्यांशः 2
वरुणः – अयि पुत्र ! त्वया किं ज्ञातम् ?
भृगुः – भोः पितः! अन्नं वै ब्रह्म इति ।
वरुणः – कथम् अन्नं ब्रह्मरूपेण ज्ञातम् ?
भृगुः – हे पित: ! अन्नाद् एव प्राणिनः जायन्ते । अन्नेन एव प्राणिनः जीवन्ति । अन्नेनैव शरीरं बलं च वर्धेते। अतोऽन्नं ब्रह्म इति । उच्यते हि
आहारात् सर्वभूतानि सम्भवन्ति महीपते ।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥
वरुणः – पुत्र! त्वया सम्यग् अवबुद्धम् । अत उच्यते – अन्नं हि भूतानां ज्येष्ठम् । तस्मात् (अन्नं) सर्वौषधम् इति उच्यते। अतः कदापि अन्नं न निन्द्यात् । अन्नं सदा ईश्वरबुद्ध्या सेवताम्। कदापि अन्नं न परिहर्तव्यम् । प्रयत्नेन अन्नं बहु कुर्वीत । सर्वदा सात्त्विकं हितकारकं च आहारं सेवताम्, परं च हे वत्स ! ब्रह्म ज्ञातुम् इतोऽपि यतताम्। तपः कुरुताम्।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए ।)
- कस्मात् प्राणिनः जायन्ते ?
- अन्नम् किं कथ्यते ?
- शरीरं बलं च केन वर्धेते?
उत्तर:
- अन्नाद्
- ब्रह्म
- अन्नेन
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- सर्वभूतानि कस्मात् सम्भवन्ति ?
- सदा कीदृशम् आहारं सेवताम् ?
- ब्रह्म ज्ञातुं किं करणीयम् ?
उत्तर:
- सर्वभूतानि आहारात् सम्भवन्ति ।
- सर्वदा सात्त्विकं हितकारकं च आहारं सेवताम् ।
- ब्रह्मं ज्ञातुम् इतोऽपि यतताम् । तपः कुरुताम्।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘हे पितः ! अन्नाद् एव प्राणिनः जायन्ते’ अस्मिन् वाक्ये क्रियापदं किम् अस्ति ?
- ‘हितकारकम् आहारम्’ अनयोः पदयोः विशेष्यपदं किमस्ति ?
अथवा
- ‘अन्नेन एव प्राणिनः जीवन्ति’ वाक्ये मनुष्याः शब्दस्य पर्यायपदं किम् अस्ति ?
- ‘तस्मात् सर्वौषधम् इति उच्यते’ – अत्र ‘तस्मात्’ सर्वनामपदम् कस्मै `प्रयुक्तम् ?
उत्तर:
- जायन्ते
- आहारम्
अथवा
- प्राणिन:
- अन्नाय
नाट्यांशः -3
वरुणः – भोः वत्स! तपसा त्वया कि विज्ञातम् ?
भृगुः – हे भगवन्! अत्यन्तं सूक्ष्मचिन्तनेन तपसा च मया एवम् अवबुद्धम् आनन्दो वै ब्रह्म इति ।
वरुणः – हे पुत्र ! कथम् आनन्दो वै ब्रह्म इति ?
भृगुः – हे पितः ! अस्माकं सर्वकर्माणि आनन्दाय भवन्ति । अस्माकं कर्मणो लक्ष्यम् आनन्दप्राप्तिरेव । आनन्देन एव प्राणिनो जीवन्ति । आनन्देन रहितं जीवनं मृत्युरूपमिति । तस्मात् आनन्दो वै ब्रह्म इति ।
वरुणः – हे वत्स! त्वया सत्यं प्रकटितम् । अतः आनन्दप्राप्तये प्रतिदिनं ध्यानं योगासनं च कर्त्तव्यम् । प्राणिषु दया कर्त्तव्या। परोपकारः कर्त्तव्यः । राग, द्वेष, ईर्ष्या, क्रोध, लोभ, मोहश्च हातव्याः । सर्वदा ईश्वरं सेवतां मोदतां च।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए ।)
- आनन्दः किम् अस्ति ?
- अस्माकं कर्माणि कस्मै भवन्ति ?
- सर्वदा कम् सेवताम् ?
उत्तर:
- ब्रह्म
- आनन्दाय
- ईश्वरम्
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- आनन्देन केन जीवन्ति ?
- आनन्दरहितं जीवनं कीदृशम् अस्ति ?
- के हातव्याः?
उत्तर:
- आनन्देन प्राणिनो जीवन्ति ।
- आनन्देन रहितं जीवनं मृत्युरूपमिति अस्ति ।
- रोग, द्वेष, ईर्ष्या, क्रोध, लोभ, मोहश्च, हातव्याः ।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘अस्माकं सर्वकर्माणि आनन्दाय भवन्ति ।’ अत्र क्रियापदं किमस्ति ?
- ‘आनन्देन एव प्राणिनो जीवन्ति ।’ अत्र कर्तृपदं किं अस्ति?
अथवा
- ‘प्रभुम् ‘ पदस्य किम् पर्यायपदं नाट्यांशे प्रयुक्तम् ?
- ‘अज्ञातम् ‘ पदस्य विलोमपदं किम् अस्ति ?
उत्तर:
- भवन्ति
- प्राणिनः
अथवा
- ईश्वरम्
- विज्ञातम्
अन्वयपूर्तिः
प्रश्न 2.
मञ्जूषात् समुचितपदानि चित्वा अधोलिखितस्य श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत ।
(मंजूषा से समुचित पद चुनकर निम्नलिखित श्लोक के अन्वय को पूर्ण करके पुन: लिखिए |)
(क) आहारात् सर्वभूतानि सम्भवन्ति महीपते।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ।।
अन्वयः (i) …….. आहारात् सर्वभूतानि (ii) ……. आहारेण (iii) ……. तेन जन्तवः (iv) ……… ।
मञ्जूषा विवर्धन्ते, जीवन्ति, सम्भवन्ति, महीपते ।
उत्तर:
(i) महीपते
(ii) सम्भवन्ति
(iii) विवर्धन्ते
(iv) जीवन्ति
(ख) यावद् वायुः स्थितो देहे तावज्जीवनमुच्यते। मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ।।
अन्वयः यावद् (i) ……….. वायुः स्थितः तावत् जीवनम् (ii) …….. । तस्य निष्क्रान्तिः (iii) …….. तत: वायुं (iv) ………. ।
मञ्जूषा उच्यते, मरणम्, निरोधयेत्, देहे।
उत्तर:
(i) देहे
(ii) उच्यते
(iii) मरणम्
(iv) निरोधयेत्
भावार्थपूर्तिः
प्रश्न 3.
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
(मंजूषा की सहायता से रिक्त स्थानों को पुनः पूरा करके लिखिए।)
(क) कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा ।
धृतिरधृतिर्हीर्धीर्भीरित्येतत् सर्वं मन एव ।।
भावार्थः कामः, सल्पः, विचिकित्सा, श्रद्धा (i) ………. धृति, अधृतिः, ह्रीः, (ii) ………, भीः- एता सर्वाः भावनाः (iii) ……….. एव कार्याणि सन्ति अर्थात् मन एव एतेषां सर्वेषां भावनां (iv) ………. ‘कारणं च अस्ति ।
उत्तर:
(i) अश्रद्धा
(ii) धी:
(iii) मनसः
(iv) मूलं
(ख) आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः ।
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः इति ।।
भावार्थः यदा आहार : (i) …………. भवति, तदा मनः शुद्धं भवति, मनसः शुद्धौ (ii) …….. स्मरणशक्तिः लभ्यते, तदा (iii) …….. सांसारिकबन्धनानां (iv) …… भवति ।
मञ्जूषा नाशः, सत्यां शुद्धः सर्वेषां ।
उत्तर:
(i) शुद्धः
(ii) सत्यां
(iii) सर्वेषां
(iv) नाश:
प्रश्ननिर्माणं कुरुतः
प्रश्न 4.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
(निम्नलिखित वाक्यों में रेखांकित पदों के आधार पर न – निर्माण कीजिए |)
प्रश्न-
- अतः एते ब्रह्मपदेन व्यवह्रियन्ते ।
- एतानि ब्रह्मज्ञानाय द्वाराणि सन्ति ।
- आनन्देन एव प्राणिनो जीवन्ति ।
- प्राणिषु दया कर्त्तव्या ।
- समग्रज्ञानं बुद्धौ एव विद्यते ।
उत्तर:
- केन
- कस्मै
- के
- केषु
- कस्याम्
प्रसङ्गानुसारं प्रश्नाः
प्रश्न 5.
रेखाङ्कितपदानां प्रसङ्गानुसारम् अर्थरूपं चयनं कुरुत ।
(रेखांकित पदों के प्रसंग के अनुसार अर्थरूप का चयन कीजिए ।)
(i) ब्रह्मज्ञानाय त्वया स्वयम् एव अन्वेषणं क्रियताम् ।
(क) गवेषणा
(ख) तलाश:
(ग) उभौ
(घ) कुरु
उत्तर:
(घ) कुरु
(ii) तपस्तप्त्वा पुनः पितरं निकषा गच्छति।
(क) मातरम्
(ख) जलम्
(ग) जनकम्
(घ) भ्राता
उत्तर:
(ग) जनकम्
(iii) आहारात् सर्वभूतानि सम्भवन्ति महीपते।
(क) भोजनात्
(ख) आम्र:
(ग) भ्रमणात्
(घ) ज्ञातम्
उत्तर:
(क) भोजनात्
(iv) अन्नाद् एव प्राणिनः जायन्ते ।
(क) कदापि
(ख) वर्धेते
(ग) ब्रह्म
(घ) नरा:
उत्तर:
(घ) नरा:
(v) अन्नं हि भूतानां ज्येष्ठम्।
(क) प्राणीनाम्
(ख) देवानाम्
(ग) प्रियाणाम्
(घ) सर्वेषाम्
उत्तर:
(क) प्राणीनाम्
(vi) भृगुः पर्वतं गत्वा बहूनि वर्षाणि तपः आचरति ।
(क) शाकं
(ख) दुग्धं
(ग) अनेकानि
(घ) न कोऽपि
उत्तर:
(ग) अनेकानि
![]()
मेलनं कुरुत
प्रश्न 6.
सुमेलितं कुरुत।
(सुमेलित कीजिए ।)

उत्तर:
सूची (अ) – सूची (ब)
(i) सङ्कल्पः – (ङ) प्रतिज्ञा
(ii) विप्रमोक्षः – (घ) मोक्षः
(iii) विवर्धन्ते – (ग) प्राप्नुवन्ति
(iv) भूतानि – (ख) प्राणिनः
(v) साधनीयम् – (क) संस्करणीयम्
कथापूर्ति कुरुतः
प्रश्न 7.
अधोलिखितानि कथां मञ्जूषायाः सहायतया पूरयित्वा पुनः लिखत ।
(निम्नलिखित कथा को मंजूषा की सहायता से पूर्ण करके पुन: लिखिए।)
वरुण – पुत्रः ! त्वया सम्यग् (i) ………. । अत उच्यते – अन्नं हि भूतानां (ii) …….. तस्मात् (अन्नं) सर्वौषधम् इति उच्यते। अतः कदापि अन्नं न निन्द्यात्। अन्नं सदा (iii) …….. सेवताम्। कदापि अन्नं न परिहर्तव्यम् । प्रयत्नेन (iv) …….. बहु कुर्वीत । सर्वदा (v) ……..हितकारकं च आहारं सेवताम्। (vi) ………. च हे वत्स ।
मञ्जूषा सात्त्विकं, ईश्वरबुद्ध्या, अवबुद्धम्, परं, अन्नं,
उत्तर:
(i) अवबुद्धम्
(ii) ज्येष्ठम्
(iii) ईश्वरबुद्ध्या
(iv) अन्नं
(v) सात्त्विकं
(vi) परं