We have given detailed Sharda Sanskrit Book Class 9 Solutions and Apathit Gadyansh in Sanskrit with Answers Class 9 come in handy for quickly completing your homework.
संस्कृत अपठित गद्यांश कक्षा 9 – Apathit Gadyansh Class 9 Sanskrit
Class 9 Sanskrit Apathit Gadyansh
Sanskrit Unseen Passage for Class 9 – Sanskrit Apathit Gadyansh Class 9
अपठितगद्यांशः
अपठित गद्यांश का अर्थ है – ऐसा अनुच्छेद जिसे विद्यार्थी ने पहले कभी न पढ़ा हो। इसमें किसी व्यक्ति, घटना, विचार, सामाजिक विषय या नैतिक शिक्षा से जुड़ा एक गद्यांश दिया जाता है। विद्यार्थी को उसे ध्यानपूर्वक पढ़कर उसके आशय (मुख्य अर्थ) को समझना होता है और उसके बाद उससे सम्बन्धित प्रश्नों के उत्तर देने होते हैं।
अस्मिन् अपठित गद्यांशे 80-100 (अशीतिः शतम्) शब्दाः भवन्ति । तं सम्यक् प्रकारेण पठित्वा तेनैव आधारेण प्रश्नोत्तराणि लेखनीयानि । अस्मिन् चतुर्विधप्रश्नाः भवन्ति।
इसमें एक 80-100 शब्दों का अपठित गद्यांश दिया जाता है; उसे ठीक प्रकार से पढ़कर, उसी के आधार पर प्रश्न के उत्तर लिखने होते हैं। इसमें चार प्रकार के प्रश्न होते हैं।
1. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
अस्मिन् प्रश्नवाचकशब्दान् (वाक्यानां) प्रयोज्य प्रश्नाः पृच्छ्यन्ते । प्रश्नवाचकाः शब्दाः किम् कः, कौ, के, कान्, केन, काभ्याम्, कैः कस्मै, केभ्यः, काभ्यः, कस्मात्, कस्याः, कस्मिन्, कयोः केषु कीदृशः कीदृशी, कीदृशम्, कथम्, कति, कदा इत्यादि (स्त्रीलिङ्ग, नपुंसलिङ्गश्च इति) शब्दान् प्रयोज्य प्रश्नाः पृच्छ्यन्ते। अत्र इदं ध्यातव्यं यत्- या विभक्तिः, यत्- वचनम्, यत्- लिङ्गं प्रश्नवाचके शब्दे भविष्यति तस्यैव विभक्त्याः, तस्यैव वचनस्य, लिङ्गस्य प्रयोगः उत्तरे भविष्यति ।
इसमें प्रश्नवाचक शब्दों को (वाक्य में) प्रयोग करके प्रश्न पूछे जाते हैं। प्रश्नवाचक शब्द किम्, कः, कौ, के, कान्, केन, काभ्याम्, कै:, कस्मै, केभ्यः, काभ्यः, कस्मात् कस्याः, कस्मिन् कयो:, केषु कीदृशः कीदृशी, कीदृशम्, कथम्, कति, कदा आदि (इसी प्रकार के स्त्रीलिंग तथा नपुंसकलिंग) शब्दों का प्रयोग करके प्रश्न पूछे जाते हैं। यहाँ यह ध्यान रखना चाहिए कि जिस विभक्ति, जिस वचन तथा जिस लिंग में प्रश्नवाचक शब्द होगा, उसी विभक्ति, उसी वचन तथा उसी लिंग का उत्तर में प्रयोग होगा।
प्रश्नाः मानवः केन स्वजीवने साफल्यं प्राप्नोति ? (मानव किससे अपने जीवन में सफलता प्राप्त करता है?)
उत्तरम् मानवः अनुशासनेन स्वजीवने साफल्यं प्राप्नोति । (मानव अनुशासन से अपने जीवन में सफलता प्राप्त करता है।)
अत्र प्रश्ने प्रश्नवाचकशब्दः ‘केन’ तृतीयायाः एकवचने अस्ति । अतः उत्तरमपि तृतीयायाः एकवचने एव भविष्यति । अतः ‘अनुशासनेन’ एव समीचीनम् उत्तरं भविष्यति ।
यहाँ प्रश्न में प्रश्नवाचक शब्द ‘केन’ तृतीया, एकवचन है। अतः उत्तर भी तृतीया, एकवचन में ही होगा। अतः ‘अनुशासनेन’ ही उपयुक्त उत्तर होगा।
2. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
अस्मिन् द्वौ प्रश्नौ पृच्छ्येते । अतः प्रश्नौ सम्यक् प्रकारेण अवगम्य प्रश्नवाचक शब्दानां अर्थं ज्ञात्वा स्वभाषायाम् उत्तरं दातव्यम् ।
प्रश्नाः धीराः कदा सफलाः भवन्ति ?
उत्तरम् धैर्यमाश्रित्य एव धीराः विपत्सु सफलाः भवन्ति ।
अत्र प्रश्नवाचक ‘कदा’ शब्दस्य अर्थं ज्ञात्वा उत्तरम् उपर्युक्तं सम्पूर्णं वाक्यमेव (धैर्यमाश्रित्य एव धीराः विपत्सु सफलाः भवन्ति) भविष्यति ।
इसमें दो प्रश्न पूछे जाते हैं। अतः प्रश्नों को भली-भाँति समझकर प्रश्नवाचक शब्दों का अर्थ समझते हुए अपनी भाषा में उत्तर देना चाहिए।
प्रश्नाः धीराः कदा सफलाः भवन्ति ?
(धैर्यवान कब सफल होते हैं?)
उत्तरम् धैर्यमाश्रित्य एव धीराः विपत्सु सफलाः भवन्ति ।
धैर्य का सहारा लेकर ही धीर पुरुष (धैर्यवान) विपत्तियों में सफल होते हैं।
यहाँ प्रश्नवाचक ‘कदा’ शब्द का अर्थ जानकर (प्रश्न का) उत्तर उपर्युक्त संपूर्ण वाक्य में ही (धैर्यमाश्रित्य एव धीराः विपत्सु सफला: भवन्ति) होगा।
3. शीर्षकं लिखत (शीर्षक लिखिए)
अस्मिन् सम्पूर्णं गद्यांशस्य केन्द्रियभावम् अवगन्तुं एकः प्रश्नः शीर्षकाय भवति । अत्रापि इदं ध्यातव्यं यत् – शीर्षकं नातिदीर्घं भवितव्यम्। यथा-अनुशासनम्, सदाचारः, सत्सङ्गतिः, देशप्रेम, सङ्गठनम् इत्यादिकं शीर्षकं समीचीनमस्ति ।
इसमें संपूर्ण गद्यांश के केंद्रीय भाव को जानने हेतु एक प्रश्न शीर्षक के लिए दिया जाता है। यहाँ भी यह ध्यान रहे कि शीर्षक अधिक लंबा नहीं होना चाहिए। जैसे- अनुशासन, सदाचार, सत्संगति, देशप्रेम, संगठन आदि शीर्षक सही हैं।
4. भाषिककार्यम् (भाषा से संबंधित कार्य)
अस्मिन् भाषा सम्बद्धाः व्याकरणस्य प्रश्नाः पृच्छ्यन्ते । ये गद्यांशे एव आधारिताः भवन्ति । विशेषणपदं, विशेष्यपदं, कर्ता, क्रिया, पर्यायपदं, विपर्ययपदं च इति प्रश्नाः पृच्छ्यन्ते ।
इसमें भाषा से सम्बन्धित व्याकरण के प्रश्न पूछे जाते हैं। जो गद्यांश पर आधारित होते हैं। विशेषण शब्द, विशेष्य शब्द, कर्ता, क्रिया, पर्याय शब्द और विलोम शब्द के प्रश्न पूछे जाते हैं।
ध्यान रखने योग्य बिंदु
• गद्यांश को ध्यानपूर्वक पढ़ें सर्वप्रथम पूरे गद्यांश को ध्यान से दो बार पढ़ें, जिससे उसका मुख्य अर्थ और मुख्य संदेश स्पष्ट हो जाए।
• प्रश्नों को ध्यान से पढ़ें और सटीक उत्तर लिखें प्रत्येक प्रश्न को ध्यानपूर्वक समझें और गद्यांश में दी गई जानकारी के आधार पर ही उत्तर लिखें। उत्तर ज्यादा लंबे न हों और उत्तर में केवल आवश्यक बातों का ही उल्लेख करें।
• समीक्षा करें सभी उत्तर लिखने के बाद एक बार पुनः जाँच लें, जिससे उत्तर में कोई गलती या अधूरापन न रह जाए।
साधितम् उदाहरणम्
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतमाध्यमेन उत्तरत।
(निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत माध्यम में लिखिए |)
गद्यांश: 1
अथ एकदा कौचित् पुरुषौ किमपि नगरं प्रस्थितौ। तयोः एकः स्थूलः अन्यश्च कृशः आसीत् । कियतापि कालेन तौ मार्गे निबिडं वनं प्राप्तौ। तद् शीतलं स्थलं दृष्ट्वा भृशं सन्तुष्टौ तौ पथिकौ कस्यापि वृक्षस्य छायायां उपविशताम् । स्वच्छजलेन पूर्णो निर्झरः समीपमेवासीत्। तं दृष्ट्वा कृशोऽवदत् । ‘अहो निर्मलमेतज्जलम्’। अस्य स्वादोऽपि बहु मधुरः । प्रशातमेतत् स्थलं सुखकरं भवति इति। तं स्थूलः प्रत्यभाषत् । एवमेतद् आवां प्रवासेन श्रान्तौ । अत्र किञ्चित् कालं विश्रातिसुखं अनुभवावः अल्पाहारं च कुर्वः इति । ततः तौ पथिकौ खाद्यानि गृहीत्वा तस्य निर्झरस्य समीपं आहारार्थं उपविष्टौ । अनन्तरं स्थूलो वदति । अतिसुखदम् एतत्स्थलम् । अत्रैव वसितुं अहमिच्छामि । न पुनः कोलाहलेन आकुलिते ग्रामे ।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए ।)
(i) पुरुषौ कुत्र निबिडं वनं प्राप्तौ ?
(ii) तौ पथिकौ कुत्र उपविशताम् ?
(iii) तौ पथिकौ किं दृष्टवन्तौ ?
उत्तर:
(i) मार्गे
(ii) वृक्षस्य छायायां
(iii) शीतलं स्थलम्
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
(i) पुरुषौ कीदृशौ आस्ताम् ?
(ii) खाद्यानि गृहीत्वा तौ पथिकौ किमर्थम् उपविष्टौ ?
(iii) स्थलं दृष्ट्वा कृशो किमवदत् ?
उत्तर:
(i) तयोः पुरुषयोः एकः स्थूलः अन्यश्च कृशः आसीत् ।
(ii) तौ पथिकौ खाद्यानि गृहीत्वा तस्य निर्झरस्य समीपम् आहारार्थम् उपविष्टौ ।
(iii) अहो निर्मलमेतज्जलम् अस्य स्वादोऽपि बहु मधुरः । प्रशान्तमेतत् स्थलं सुखकरं भवति इति कृशोऽवदत् ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
(इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
सुखदं स्थलम्
IV. यथानिर्देशम् उत्तरत ।
(निर्देशानुसार उत्तर दीजिए ।)
(i) ‘आकुलिते ग्रामे’ अनयोः विशेषणं किम् ?
(क) आकुलिते
(ख) ग्रामे
(ग) अतिसुखदं
(घ) नगरे
उत्तर:
(क) आकुलिते
(ii) ‘अस्य स्वादोऽपि बहु मधुरः’ अस्मिन् वाक्ये विशेषणपदं चिनुत?
(क) स्वादोऽपि
(ख) मधुरः
(ग) उभौ
(घ) न कोऽपि
उत्तर:
(ख) मधुरः
(iii) अनुच्छेदे ‘उपविष्टौ ‘ इति क्रियापदस्य कर्तृपदम् किम्?
(क) पथिकौ
(ख) पुरुषौ
(ग) कौचित् पुरुषौ
(घ) द्वौ पुरुषौ
उत्तर:
(क) पथिकौ
(iv) ‘अस्य स्वादः अपि बहु मधुरः’ अत्र ‘अस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) वृक्षाय
(ख) निर्झराय (जलाय)
(ग) मार्गाय
(घ) नगराय
उत्तर:
(ख) निर्झराय (जलाय)
गद्यांश: 2
पुरा एकः धौम्यः नामकः महर्षिः आसीत् । तस्य अनेके शिष्याः आसन्। तेषु आरुणिः नामकः अपि शिष्यः आसीत्। अथ एकदा मेघे वर्षति सति गुरुः आरुणिम् आदिशत् – वत्स ! केदारखण्डं बद्ध्वा रक्ष। त्वरितमेव आरुणिः धान्यक्षेत्रं प्रति अगच्छत् । एकस्मिन् स्थले केदारखण्डः भग्नः आसीत् । तेन कारणेन क्षेत्रस्य जलं बहिः निरगच्छत्। भग्ने क्षेत्रबन्धे सः मृत्तिकाम् अस्थापयत्। परं मृत्तिका जलस्य वेगेन तत्र स्थातुं न अशक्नोत् । तदा आरुणिः स्वयमेव तत्र समाविशत् । ततो जलस्य प्रवाहो रुद्धोऽभवत्। तथा संस्थितस्य तद् दिनं व्यतीतम् । सन्ध्या समये तं न अवलोक्य ऋषिः शिष्यान् अपृच्छत्-‘क्व गतः आरुणिः ?’ ते प्रत्यवदन्–‘भवतैव प्रेषितः केदारखण्डस्य बन्धनाय’ ततोऽवदत् ऋषिः – तर्हि वयं सर्वे तत्र गच्छामः यत्रासौ आरुणिः गतः । आरुणिना एवं युक्तः ऋषिः तस्य गुरुभक्त्या विस्मितोऽभवत् । प्रीतोऽवदत्-” वत्स ! त्वं मम अभूतपूर्वः शिष्यः । कल्याणं ते भवतु। सर्वे वेदाः सर्वाणि शास्त्राणि च तव प्रतिभान्तु । अयं हि मम आशीर्वादः।”
ततः आरुणिः गुरोः प्रसादेन अल्पेनैव कालेन सर्वाः विद्याः अशिक्षत्।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) पुरा किं नाम महर्षिः आसीत्?
(ii) का जलस्य वेगेन तत्र स्थातुं न अशक्नोत् ?
(iii) ऋषिः कान् अपृच्छत्?
उत्तर:
(i) धौम्यः
(ii) मृत्तिका
(iii) शिष्यान्
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) शिष्याः किं प्रत्यवदन् ?
(ii) ततः ऋषिः किम् अवदत् ?
(iii) ते कीदृशम् कल्याणं भवतु ?
उत्तर:
(i) शिष्याः प्रत्यवदन्- “ भवतैव प्रेषितः केदारखण्डस्य बन्धनाय ।”
(ii) ततः ऋषिः अवदत् – ” तर्हि वयं सर्वे तत्र गच्छामः यत्रासौ आरुणिः गतः ।”
(iii) सर्वे वेदाः सर्वाणि शास्त्राणि च तव प्रतिभान्तु ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
गुरो: आज्ञा सर्वोपरि /गुरुभक्त: आरुणि:
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘अशिक्षत्’ इति क्रियापदस्य कर्तृपदं किम् प्रयुक्तम् ?
(क) आरुणि:
(ख) शिष्यः
(ग) गुरु:
(घ) महर्षि
उत्तर:
(क) आरुणि:
(ii) ‘सर्वा:’ इति सर्वनामपदस्य विशेष्यपदम् किम् प्रयुक्तम् ?
(क) विद्या:
(ख) जलमार्गान्
(ग) मार्गान्
(घ) शिष्यान्
उत्तर:
(क) विद्या:
(iii) ‘गुरुः’ इति पदस्य किं विलोमपदम् अनुच्छेदे प्रयुक्तम् ?
(क) शिष्य:
(ख) आचार्यः
(ग) छात्र:
(घ) महर्षि
उत्तर:
(क) शिष्य:
(iv) ‘वत्स ! त्वं मम अभूतपूर्वः शिष्यः ।’ अत्र ‘त्वं’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) ऋषि धौम्याय
(ख) सर्वेभ्यः शिष्येभ्यः
(ग) आरुणये
(घ) केदारखण्डाय
उत्तर:
(ग) आरुणये
गद्यांश: 3
अस्माकं भारतीयसंस्कृतौ नारीणां स्थानं महत्त्वपूर्णं वर्तते । वैदिकयुगे मैत्रेयी-गार्गी – लोपामुद्रा प्रभृतयः महत्यः नार्यः अभवन्। सीता-सावित्री – द्रौपदी – कुन्ती – विदुला-प्रभृतयः पुराण – युगस्य उल्लेखनीयाः नार्यः आसन्। लक्ष्मी, सरस्वती, पार्वती च देवलोकस्य नार्यः सन्ति । यस्मिन् गृहे नारीणाम् आदरः भवति तत्र देवाः निवसन्ति । पुरुषाणाम् अपेक्षया स्त्रीणां वाणी प्रायः मधुरा भवति । तासां स्वभावः अपि मधुरः भवति । स्त्रियः मातृशक्तेः प्रतीकभूताः सन्ति । अतः सर्वदा स्त्रीणां सम्मानः करणीयः । माता एव बालकस्य प्रथमः शिक्षकः भवति । बालके सत्संस्काराणाम् आधानं माता एव करोति । अतएव कथितम् अपि – “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।”
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए।)
(i) भारतीयसंस्कृतौ कासां महत्त्वपूर्णं स्थानं वर्तते?
(ii) मैत्रेयी कस्य युगस्य नारी आसीत्?
(iii) स्त्रियः कस्याः प्रतीकभूताः सन्ति?
उत्तर:
(i) नारीणां
(ii) वैदिकयुगस्य
(iii) मातृशक्ते:
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) पुराणयुगस्य उल्लेखनीयाः नार्यः काः सन्ति?
(ii) कुत्र देवाः निवसन्ति?
(iii) नारीणां विषये किम् चापि कथितम् ?
उत्तर:
(i) सीता – सावित्री – द्रौपदी – कुन्ती – विदुला-प्रभृतयः पुराणयुगस्य उल्लेखनीयाः नार्यः सन्ति ।
(ii) यस्मिन् गृहे नारीणाम् आदरः भवति तत्र देवाः निवसन्ति।
(iii) “नारीणां विषये जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।” कथितम्।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
स्त्रीणां सम्मान:/मातृशक्तेः आदरम्
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘वर्तते’ क्रियायाः कर्तृपदं किम् ?
(क) स्थानं
(ख) महत्य
(ग) बालकः
(घ) जन्मभूमि
उत्तर:
(क) स्थानं
(ii) ‘उल्लेखनीयाः’ इति विशेषणपदस्य विशेष्यः कः ?
(क) लक्ष्मी
(ख) नार्य:
(ग) शिक्षक:
(घ) गृहे
उत्तर:
(ख) नार्य:
(iii) ‘वाणी’ इति पदस्य पर्यायः कः ?
(क) मधुर
(ख) सरस्वती
(ग) कोमल
(घ) वाक
उत्तर:
(ख) सरस्वती
(iv) ‘दृष्टवा’ इति पदस्य प्रत्ययः किम् ?
(क) क्त्वा
(ख) त्वत्
(ग) क्त
(घ) ल्यप्
उत्तर:
(क) क्त्वा
गद्यांश: 4
अथ कश्चित् मार्जारः मूषकान् अनुधावन् किमपि क्षेत्रं वा प्राप्तः । तत्र एकः शृगालः आसीत् तस्य नाम जम्बूकः आसीत् । तयोः मैत्री अभवत्। जम्बूकः अवदत् – एतत् एकमेव स्थलम् आवयोः क्षुधानिवृत्त्यर्थम् उपयुक्तम् पर्याप्तं चास्ति । तत्र विविधान् विषयान् उद्देश्य तौ मुहूर्तं गोष्ठीसुखं अन्वभवताम् । कथाप्रसङ्गेन जम्बूकः अभाषत् । यदि किञ्चित् व्यसनम् अत्र उपतिष्ठेत् तर्हि किं करिष्यसि सखे बिडाल ! कथं आत्मानं रक्षिष्यसि। इति यावत् सः अवदत् तावत् तत्र प्राप्ताः केऽपि सारमेयाः व्याधाः च। तान् दृष्ट्वा सत्वरं सः बिडालः वृक्षशिखरं आरोहत् सः वञ्चकः शृगालस्तु बुद्धिचातुर्यं प्रदर्शयितुं का युक्तिः अधुना विधेयेति विचारयन् यावत् चालितचित्तः तिष्ठति तावत् आक्रान्तः सः शृगालः सारमेयैः व्यापादितश्च ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) कः मूषकान् अनुधावन् किमपि क्षेत्रं वा प्राप्तः ?
(ii) एकमेव स्थलं कयोः क्षुधानिवृत्त्यर्थम् अस्ति ?
(iii) कथाप्रसङ्गेन कः अभाषत् ?
उत्तर:
(i) मार्जारः
(ii) आवयोः
(iii) जम्बूकः
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) कथाप्रसङ्गेन जम्बूकः किम् अभाषत् ?
(ii) सारमेयान् व्याधान् दृष्ट्वा तौ किं कृतवन्तौ ?
(iii) शृगालः कैः व्यापादितः ?
उत्तर:
(i) जम्बूकः अभाषत् – यदि किञ्चित् व्यसनम् अत्र उपतिष्ठेत् तर्हि किं करिष्यसि सखे बिडाल !
(ii) सारमेयान् व्याधान् दृष्ट्वा बिडालः सत्वरं वृक्षशिखरं आरोहत् परं सः वञ्चकः शृगालस्तु बुद्धिचातुर्यं प्रदर्शयितुं तत्र एव स्थितवान्।
(iii) शृगालः सारमेयैः व्यापादितः ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
जम्बूकः/वञ्चकः शृगालः / चतुर: मार्जारः
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) अनुच्छेदे ‘आरोहत्’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) जम्बूकः
(ख) मूषकः
(ग) बिडाल:
(घ) सारमेयः
उत्तर:
(ग) बिडाल:
(ii) अस्मिन् गद्यांशे शृगालः शब्दस्य पर्यायः शब्दः कः ?
(क) बिडाल:
(ख) मूषकः
(ग) जम्बूकः
(घ) खलु
उत्तर:
(ग) जम्बूकः
(iii) ‘यावत्’ इति पदस्य विपर्ययार्थे किं पदं प्रयुक्तम् ?
(क) एवम्
(ख) तावत्
(ग) तत्र
(घ) अधुना
उत्तर:
(ख) तावत्
(iv) ‘तयो: मैत्री अभवत्।’ अस्मिन् वाक्ये ‘तयो:’ इति पदं कयोः कृते अस्ति?
(क) शृगाल- सारमेययोः
(ख) मार्जार-शृगालयोः
(ग) मूषक – मार्जारयोः
(घ) व्याध-शृगालयोः
उत्तर:
(ख) मार्जार-शृगालयोः
गद्यांश: 5
राजाचार्यः मार्गे गच्छन् आसीत् । समीपस्थस्य जीर्णकुटीरस्य पुरतः काचित् माता पुत्रं निर्दयं ताडयन्ती तेन दृष्टा । बालकः उच्चैः रोदिति स्म। तथापि माता तं पुनः – पुनः ताडयति स्म। एतत् द्रष्टुम् अशक्तः राजाचार्यः वेगेन अग्रे गत्वा तां महिलां पृष्टवान्–“अम्ब ! अलं ताडनेन । किमर्थम् एषः एवं ताडयते? कः अपराधः कृतः एतेन?” माता पुनरपि एकं प्रहारं पुत्राय समर्प्य राजाचार्यम् उक्तवती–“महामूर्खः एषः कुक्कुटकण्डोलस्य द्वारम् उद्घाटितवान् अस्ति। मया सङ्गृहीताः सर्वे कुक्कुटाः पलायिताः सन्ति….।” तां सांत्वयन् उक्तवान् राजाचार्य:- ” एतावत् एव खल ? एतदर्थम् एतावत् कोपः किमर्थम् ? इदानीं निर्गताः कुक्कुटा: सायं सूर्यास्तसमये प्रत्यागच्छेयुः एव ! ” इति ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए।)
(i) मार्गे कः गच्छन् आसीत्?
(ii) माता पुत्रं निर्दयं ताडयन्ती केन दृष्टा ?
(iii) बालकः कथं रोदिति स्म ?
उत्तर:
(i) राजाचार्यः
(ii) राजाचार्येण
(iii) उच्चैः
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) माता पुत्रं किमर्थं ताडयति स्म ?
(ii) तां सांत्वयन् राजाचार्यः किम् उक्तवान्?
(iii) माता बालकं किं करोति स्म ?
उत्तर:
(i) माता पुत्रं ताडयति स्म – यतोहि सः कुक्कुटकण्डोलस्य द्वारम् उद्घाटितवान्।
(ii) तां सांत्वयन राजाचार्यः उक्तवान् “एतदर्थम् एतावत् कोपः किमर्थम्? इदानीं निर्गता: कुक्कुटा: सायं सूर्यास्तसमये प्रत्यागच्छेयुः एव” इति ।
(iii) माता बालकं पुनः पुनः ताडयति स्म ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
कुक्कुटा:/राजाचार्यः
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘ताडयति स्म’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) पुत्रः
(ख) राजाचार्य:
(ग) माता
(घ) बालकः
उत्तर:
(ग) माता
(ii) ‘निर्गताः’ अस्य पदस्य विशेष्यं किम् ?
(क) निर्गता:
(ख) कुक्कुटा:
(ग) पलायिताः
(घ) किमपि न
उत्तर:
(ख) कुक्कुटा:
(iii) ‘बुद्धिमान्’ इति पदस्य विलोमपदम् अनुच्छेदानुसारेण किम्?
(क) महामूर्खः
(ख) एषः
(ग) राजाचार्य:
(घ) माता
उत्तर:
(क) महामूर्खः
(iv) ‘अम्ब! अलं ताडनेन ।’ अत्र ‘अम्ब’ इति संज्ञापदं कस्यै प्रयुक्तम् ?
(क) राजाचार्याय
(ख) कुक्कुटाय
(ग) महिलायै (मात्रे)
(घ) पुत्राय
उत्तर:
(ग) महिलायै (मात्रे)
गद्यांश: 6
रामरावणयुद्धं प्रसिद्धं खलु ? श्रीरामः सेतुबन्धनं कृत्वा रावणेन सह युद्धाय लङ्काम् आगतवान् । रामः विभीषणं पृष्टवान् – विभीषण! कः सः सज्जनः ? किं तस्य नाम ? इति । विभीषणः प्रत्युत्तरं दत्तवान्-“भगवन् ! सः एव भवतः शत्रुः रावणः” इति । विभीषणस्य वचनं श्रुत्वा आश्चर्यचकितः अभवत् श्रीरामः । सः विभीषणम् एवम् उक्तवान्- “ द्रष्ट! कियत् सुन्दरः सः ? सीताहरणादयः पापभाराः यदि तस्य न सन्ति तर्हि निश्चयेन लोकत्रयमपि शासितुं योग्यः एव” इति । मित्राणि ! एकस्य योग्यतायाः परिज्ञानं तस्य सङ्कल्पादेव भवति । तस्य हृदयादेव भवति । रावणस्य मूलस्वभावः राक्षसस्य आसीत् पवित्रं निर्मलं च मनः तस्य नासीत्।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) श्रीरामः केन सह युद्धाय लङ्काम् आगतवान्?
(ii) रामः कं पृष्टवान् ?
(iii) श्रीरामः किं कृत्वा लङ्काम् आगतवान्?
उत्तर:
(i) रावणेन
(ii) विभीषणं
(iii) सेतुबन्धनं
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) रावणः कदा लोकत्रयं शासितुं योग्य: ?
(ii) श्रीरामः कस्य वचनं श्रुत्वा आश्चर्यचकितः अभवत्?
(iii) रावणस्य स्वरूपं कीदृशम् आसीत्?
उत्तर:
(i) रावणः यदि सीताहरणादयः पापभारा: न तस्य सन्ति, तर्हि निश्चयेन लोकत्रयमपि शासितुं योग्य: ।
(ii) विभीषणस्य वचनं श्रुत्वा श्रीरामः आश्चर्यचकितः अभवत् ।
(iii) रावणस्य मूलस्वभाव: राक्षसस्य आसीत् पवित्रं निर्मलं च मनः तस्य नासीत्।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
रावणस्य मूलस्वभावः
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘आगतवान्’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) रावणः
(ख) श्रीरामः
(ग) विभीषण:
(घ) सीता
उत्तर:
(ख) श्रीरामः
(ii) ‘निर्मलं मनः’ अनयो विशेषणं पदं किम् ?
(क) निर्मलं
(ख) मन:
(ग) परिज्ञानं
(घ) किमपि न
उत्तर:
(क) निर्मलं
(iii) अनुच्छेदे ‘अपृच्छत्’ इति पदस्य अर्थे किं पदं प्रयुक्तम् ?
(क) पृष्टवान्
(ख) आगतवान्
(ग) अवलोकितवान्
(घ) दत्तवान्
उत्तर:
(क) पृष्टवान्
(iv) “श्रीरामः सेतुबन्धनं कृत्वा लङ्काम् आगतवान्।” अस्मिन् वाक्ये व्यक्तिवाचकसंज्ञापदं किम् ?
(क) कृत्वा
(ख) श्रीरामः
(ग) आगतवान्
(घ) अपि
उत्तर:
(ख) श्रीरामः
गद्यांश: 7
अस्माकं देशे कुम्भमेलानां बहुमहत्त्वम् अस्ति । देशस्य चतुर्षु स्थानेषु कुम्भमेलाः आयोज्यन्ते – प्रयागे, हरिद्वारे, उज्जयिन्यां, नासिके च। प्रत्येकस्मिन् नगरे द्वादशवर्षाणाम् अनन्तरम् एकः पूर्णकुम्भयोगः आयाति । एवं वर्षत्रयस्य अनन्तरम् क्रमशः देशस्य एकैकस्मिन् स्थाने कुम्भमेला भवति । प्रत्येकस्मिन् नगरे षष्ठे वर्षे अर्धकुम्भयोगः अपि भवति । कुम्भमेलायां भागं गृहितुं भारतवर्षस्य अनेकेभ्यः स्थानेभ्यः सामान्यजनाः, साधवः सन्तः च आगच्छन्ति। कुम्भमेलायां जनाः नदीषु स्नानं कुर्वन्ति । तत्र स्नानस्य एव विशिष्टं महत्त्वं वर्तते । चत्वारि कुम्भस्थानानि चतसृणां प्रमुखानां नदीनां तटेषु अवस्थितानि सन्ति । प्रयागः उत्तर- प्रदेशे तिसृणां पवित्राणां नदीनां सङ्गमस्थाने अवस्थितः अस्ति । हरिद्वारम् उत्तर-प्र – प्रदेशे गङ्गनद्याः तटे स्थितम् अस्ति। उज्जयिनी मध्य-प्रदेशे शिप्रानद्याः तटे स्थिता अस्ति । नासिकं महाराष्ट्रप्रान्ते गोदावरीनद्याः तटे स्थितम् अस्ति ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) कुम्भमेलाः कति स्थानेषु आयोज्यन्ते ?
(ii) कुम्भमेलायां जनाः किं कुर्वन्ति ?
(iii) उज्जयिनी मध्य-प्रदेशे कस्याः तटे स्थिता अस्ति ?
उत्तर:
(i) चतुर्षु
(ii) स्नानं
(iii) शिप्रानद्या:
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) एकः पूर्णकुम्भयोगः कदा आयाति ?
(ii) चत्वारि कुम्भस्थानानि कुत्र अवस्थितानि सन्ति ?
(iii) कुत्र कदा च अर्धकुम्भयोगः भवति ?
उत्तर:
(i) एकः पूर्णकुम्भयोग: द्वादशवर्षाणाम् अनन्तरम् आयाति ।
(ii) चत्वारि कुम्भस्थानानि चतसृणां प्रमुखानां नदीनां तटेषु अवस्थितानि सन्ति ।
(iii) प्रत्येकस्मिन् नगरे षष्ठे वर्षे अर्धकुम्भयोगः अपि भवति ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
कुम्भमेला
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘प्रमुखानां’ इति विशेषणपदस्य विशेष्यः कः ?
(क) नदीनां
(ख) मेलानां
(ग) देशानां
(घ) गृहाणां
उत्तर:
(क) नदीनां
(ii) ‘कुर्वन्ति’ क्रियायाः कर्तृपदं किम् ?
(क) साधवः
(ख) जना:
(ग) सन्तः
(घ) प्रदेश:
उत्तर:
(ख) जना:
(iii) अनुच्छेदे ‘कूले’ इति पदस्य अर्थे किम् पदं प्रयुक्तम्?
(क) देशे
(ख) गृहे
(ग) तटे
(घ) स्थाने
उत्तर:
(ग) तटे
(iv) “तत्र स्नानस्य एव विशिष्टं महत्त्वं वर्तते।” अस्मिन् वाक्ये ‘तत्र’ इति पदं कस्य सर्वनाम – प्रकारस्य बोधं कारयति ?
(क) पुरुषवाचक सर्वनाम
(ख) स्थानवाचक-सङ्केतवाचक-सर्वनाम
(ग) प्रश्नवाचक सर्वनाम
(घ) निजवाचक सर्वनाम
उत्तर:
(ख) स्थानवाचक-सङ्केतवाचक-सर्वनाम
गद्यांश: 8
दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् आसीत्। तस्मिन् नगरे एकः वटवृक्षः आसीत् । तत्र देशदेशान्तरात् आगत्य अनेके कपोताः वृक्षे उपविशन्ति स्म । ते परस्परं प्रेम्णा वसन्ति स्म । सर्वे कपोता: तत्र सुखेन कालं यापयन्ति स्म। एकदा प्रातः सर्वे कपोताः भोजनार्थं गगने उत्पतन्तः आसन् । तदा एकः व्याधः तत्रागच्छत्। सः भूमौ जालं प्रासारयत् । जालस्योपरि तण्डुलकणान् अक्षिपत् । पार्श्वे निभृतो भूत्वाऽतिष्ठत् । तदा कपोताः तण्डुलकणान् अपश्यन्। ते तान् भक्षणार्थं नीचैः आगन्तुम् ऐच्छन्। तेषां स्वामी चित्रग्रीवः तान् तथाकर्तुं न्यवारयत् । कपोताः स्वामिनः आज्ञां नान्वसरन्। एवं ते शीघ्रं जालेन बद्धाः जाताः । मूषकः तेषां जालम् अकृन्तत्। एवं सर्वे कपोताः बन्धनमुक्ताः अभवन्। वस्तुतः संघे शक्तिर्भवति ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) दाक्षिणात्ये जनपदे किम् नाम नगरम् आसीत् ?
(ii) सर्वे कपोताः तत्र केन कालं यापयन्ति स्म ?
(iii) अनेके कपोताः कुत्र उपविशन्ति स्म ?
उत्तर:
(i) महिलारोप्यम्
(ii) सुखेन
(iii) वृक्षे
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) एकः व्याधः कदा तत्रागच्छत्?
(ii) व्याधः भूमौ जालं प्रसार्य किम् अक्षिपत्?
(iii) केषां स्वामी न्यवारयत् ?
उत्तर:
(i) यदा सर्वे कपोता : भोजनार्थं गगने उत्पतन्तः आसन् तदा एक: व्याधः तत्रागच्छत्।
(ii) व्याधः भूमौ जालं प्रसार्य जालस्योपरि तण्डुलकणान् अक्षिपत्।
(iii) कपोतानाम् स्वामी चित्रग्रीवः तान् तथाकर्तुं न्यवारयत्।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
संघे शक्ति:
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘स्नेहेन’ इति पदस्य कः पर्यायः अनुच्छेदे प्रयुक्तम् ?
(क) प्रेम्णा
(ख) एकदा
(ग) मूषकः
(घ) कपोता:
उत्तर:
(क) प्रेम्णा
(ii) ‘यापयन्ति स्म’ इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम् ?
(क) खगाः
(ख) काकः
(ग) कपोतः
(घ) सर्वे कपोता:
उत्तर:
(घ) सर्वे कपोता:
(iii) ‘उच्चैः’ इति पदस्य किं विलोमपदं अनुच्छेदे प्रयुक्तम् ?
(क) मन्दम्
(ख) नीचैः
(ग) शीघ्रम्
(घ) त्वरितम्
उत्तर:
(ख) नीचैः
(iv) “तेषां स्वामी चित्रग्रीवः तान् तथाकर्तुं न्यवारयत्।” अस्मिन् वाक्ये ‘तान्’ इति सर्वनामपदं केभ्यः प्रयुक्तम् ?
(क) व्याधाय
(ख) कपोतेभ्यः
(ग) मूषकाय
(घ) तण्डुलकणेभ्यः
उत्तर:
(ख) कपोतेभ्यः
गद्यांश: 9
किं त्वम् जानासि ? अन्धकारं कः नाशयति ? कः दिनानां, रात्रीणां, मासानां, ऋतूणां, वर्षाणां च कारणम् अस्ति ? को जगतम् शीतात् रक्षति? इत्यादीनां सर्वेषां प्रश्नानाम् एकमेवोत्तरम् अस्ति, भगवान् भास्करः इति । सूर्य: दिनकरः मार्त्तण्डः इत्यादयः अस्य पर्यायाः सन्ति । अस्य जगतः प्रकाशकः भास्करः अस्ति । दीपकानां प्रकाशे तु जगतः सर्वे व्यवहाराः भवितुं न शक्नुवन्ति । भास्करस्याभावे तु सर्वत्र शैत्यमेव भवेत्। पश्यामः एवं वयं यत् – उत्तरदक्षिणयोः ध्रुवप्रदेशयोः भास्करस्य दर्शनं दुर्लभं भवति । ऋतूणामपि जनकः भास्करः अस्ति । यदा भास्करः उत्तरायणे भवति तदा तस्य प्रकाशः ऊष्मा च तीव्रौ भवतः । एभिः मेघैरेव वर्षाः भवन्ति। वर्षाभिरेव विविधान्यन्नानि, शाकाः पादपाः च भवन्ति ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) जगतः प्रकाशकः कः अस्ति ?
(ii) कस्य अभावे सर्वत्र शैत्यमेव भवेत् ?
(iii) भास्करः कम् नाशयति ?
उत्तर:
(i) भास्करः
(ii) भास्करस्य
(iii) अन्धकारं
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) सूर्यः केषां कारणम् अस्ति ?
(ii) वर्षाभिः कानि भवन्ति ?
(iii) यदा भास्करः उत्तरायणे भवति तदा किं भवति ?
उत्तर:
(i) सूर्य: दिनानां, रात्रीणां मासानां, ऋतूणां, वर्षाणां च कारणम् अस्ति।
(ii) वर्षाभिः एव विविधान्यन्नानि, शाकाः पादपाः च भवन्ति ।
(iii) यदा भास्करः उत्तरायणे भवति तदा तस्य प्रकाशः ऊष्मा च तीव्रौ भवतः ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए ।)
उत्तर:
भगवान् भास्करः
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘भास्करस्य’ पर्यायः कः ?
(क) शशिकरः
(ख) निशाकरः
(ग) दिनकरः
(घ) विशाचरः
उत्तर:
(ग) दिनकरः
(ii) ‘दुर्लभं’ इति विशेषणपदस्य विशेष्यपदं किं प्रयुक्तम् ?
(क) दर्शनं
(ख) ध्रुवप्रदेशं
(ग) भास्करस्य
(घ) आधिक्यम्
उत्तर:
(क) दर्शनं
(iii) ‘शक्नुवन्तिः’ इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम् ?
(क) अहम्
(ख) त्वम्
(ग) व्यवहारा:
(घ) सर्वे
उत्तर:
(ग) व्यवहारा:
(iv) “अस्य जगतः प्रकाशक : भास्करः अस्ति।” अस्मिन् वाक्ये ‘भास्करः’ इति पदं कस्याः संज्ञायाः भेदः अस्ति ?
(क) जातिवाचकसंज्ञा
(ख) भाववाचकसंज्ञा
(ग) व्यक्तिवाचकसंज्ञा
(घ) समूहवाचकसंज्ञा
उत्तर:
(ग) व्यक्तिवाचकसंज्ञा
गद्यांश: 10
एकस्मात् ग्रामात् तीर्थयात्रीणाम् एकं दलं प्रस्थितम् । तत् दलं एकं आश्रमं प्राप्तं तत्र महात्मानं नमस्कृत्य दलसदस्याः अकथयन्- “अस्माकं तीर्थयात्रा निर्विघ्नतया यथा समापयेत्, फलप्रदा च यथा स्यात् तथा आशीर्वादः क्रियताम्” इति। महात्मा आशीर्वादेन तान् अनुगृह्य कुटीरस्थानात् एकां तुम्बिकां निःसार्य तेभ्यः दत्त्वा अवदत्-” यत्र यत्र तीर्थेषु भवन्तः स्नानं करिष्यन्ति तत्र सर्वत्र मम एतां तुम्बिकाम् अपि अवश्यं स्नापयन्तु।” पश्चात् परावर्तन समये इमाम् मह्यं यच्छतु । ते तथैव अकुर्वन् । आत्मना सह तुम्बिकां स्नापयित्वा ते तां तुम्बिकां मुनये अयच्छन् तदा महात्मा तुम्बिकां त्रोटयित्वा तस्याः एकम् एकं खण्डं सर्वस्मै अपि यात्रिणे भक्षयितुं दत्तवान् । स्वादेन तत् आसीत् नितरां तिक्तम्। अतः तत्क्षणे एव सर्वे अपि थूत्कृतवन्तः। महात्मा अवदत्-यथा तुम्बिका तथा भवताम् आचरणमस्ति । तत् तु केवलं सत्कर्माचरणात् एव शुद्धं भवितुम् अर्हति ।” अतः सत्कर्माचरणं जीवने मुख्यं तीर्थयात्रा गौणा इति ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) ग्रामात् केषां दलं प्रस्थितम् ?
(ii) कं नमस्कृत्य दलसदस्याः अकथयन् ?
(iii) सत्कर्माचरणात् एव कीदृशं भवितुम् अर्हति ?
उत्तर:
(i) तीर्थयात्रीणाम्
(ii) महात्मानम्
(iii) शुद्धं
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) तुम्बिकां त्रोटयित्वा महात्मा किं कृतवान्?
(ii) तुम्बिकां दत्त्वा महात्मा किम् अवदत् ?
(iii) तीर्थयात्रीणां दलसदस्याः महात्मानं किम् अकथयन् ?
उत्तर:
(i) तुम्बिकां त्रोटयित्वा महात्मा तस्याः एकम् एकं खण्डं सर्वस्मै यात्रणे भक्षयितुं दत्तवान् ।
(ii) तुम्बिका दत्त्वा महात्मा अवदत् – यत्र तीर्थेषु भवन्तः स्नानं करिष्यन्ति तत्र सर्वत्र मम एतां तुम्बिकाम् अपि अवश्यं स्नापयन्तु।
(iii) ते अकथयन्—यथा अस्माकं तीर्थयात्रा निर्विघ्नं फलप्रदा च स्यात् तथा आशीर्वादः क्रियताम् ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
सत्कर्माचरणम्
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए।)
(i) ‘एकस्मात्’ इति विशेषणपदस्य विशेष्यः कः ?
(क) नगरात्
(ख) गृहात्
(ग) ग्रामात्
(घ) विद्यालयात्
उत्तर:
(ग) ग्रामात्
(ii) ‘दत्तवान्’ इति क्रियापदस्य किम् कर्तृपदं प्रयुक्तम् ?
(क) वयम्
(ख) महात्मा
(ग) तौ
(घ) त्वम्
उत्तर:
(ख) महात्मा
(iii) ‘तीर्थयात्रा’ अस्य पदस्य विशेषणपदं किम् ?
(क) तीर्थ
(ख) यात्रा
(ग) दूषिताम्
(घ) गौणा
उत्तर:
(घ) गौणा
(iv) “यत्र यत्र तीर्थेषु भवन्तः स्नानं करिष्यन्ति तत्र सर्वत्र मम तां तुम्बकम् अपि अवश्यं स्नापयन्तु ।” अस्मिन् वाक्ये ‘मम’ इति पदं कस्य सर्वनाम – शब्दस्य रूपम् अस्ति ?
(क) युष्मद् (मध्यमपुरुष:)
(ख) अस्मद् (उत्तमपुरुष:)
(ग) तत् (प्रथमपुरुष:)
(घ) किम् (प्रश्नवाचक:)
उत्तर:
(ख) अस्मद् (उत्तमपुरुष:)
गद्यांश: 11
एकदा राजकुमारः सिद्धार्थः विहाराय उद्यानं गतवान्। सहसा सः क्रन्दनध्वनिम् अशृणोत्। तदैव च एकः हंसः तस्य सम्मुखे भूमौ अपतत्। तं दृष्ट्वा सिद्धार्थः करुणापूर्णः सञ्जातः । पुनश्च स हंसस्य शरीराद् बाणं निष्कास्य यावत्पश्यति तावद् देवदत्तः तत्र समागतः। सः सिद्धार्थम् उक्तवान्- “भो सिद्धार्थ ! एषः हंसः मया हतः इमं हंसं मह्यं देहि” सिद्धार्थः उच्चैः अवदत् – “न दास्यामि इमं हंसं यतः अहम् अस्य रक्षकः ।” तौ परस्परं विवादमानौ राजसभां गतवन्तौ । राजा सर्वं वृत्तान्तं श्रुत्वा आदिष्टवान्-यस्य समीपे हंसः गमिष्यति स तस्यैव भविष्यति । हंसः तु सानन्दं सिद्धार्थमेव उपगतः। उक्तं हि रक्षकः भक्षकात् श्रेयान् ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) सिद्धार्थ: उद्यानं कस्मै प्रयोजनाय गतवान्?
(ii) तस्य सम्मुखे भूमौ कः अपतत् ?
(iii) बाल्यकाले गौतमबुद्धस्य किं नाम आसीत् ?
उत्तर:
(i) विहाराय
(ii) हंस:
(iii) सिद्धार्थः
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) देवदत्तः सिद्धार्थं किम् अवदत् ?
(ii) राजा सर्वं वृत्तान्तं श्रुत्वा किम् आदिष्टवान् ?
(iii) तौ परस्परं कीदृशौ गतवन्तौ ?
उत्तर:
(i) एष: हंसः मया हतः इमं हंसं मह्यं (मह्यम्) देहि ।
(ii) राजा सर्वं वृत्तान्तं श्रुत्वा आदिष्टवान् – यस्य समीपे हंसः गमिष्यति स तस्यैव भविष्यति ।
(iii) देवदत्तः एवं सिद्धार्थः परस्परं विवादमानौ राजसभां गतवन्तौ ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
रक्षक: भक्षकात् श्रेयान्
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘विलोक्य’ इतिपदस्य गद्यांशे पर्यायपदं किं प्रयुक्तम् ?
(क) सदृश्य
(ख) वीक्ष्य
(ग) दृष्ट्वा
(घ) गत्वा
उत्तर:
(ग) दृष्ट्वा
(ii) ‘उपगतः’ इति क्रियायाः गद्यांशे कर्तृपदं किं प्रयुक्तम् ?
(क) सिद्धार्थः
(ख) देवदत्त:
(ग) हंस:
(घ) देहि
उत्तर:
(ग) हंस:
(iii) ‘एकदा राजकुमारः सिद्धार्थः विहाराय उद्यानं गतवान् ‘ अस्मिन् वाक्ये कः कर्तृपदं ?
(क) एकदा
(ख) सिद्धार्थः
(ग) राजकुमारः
(घ) गतवान्
उत्तर:
(ख) सिद्धार्थः
(iv) “एषः हंसः मया हतः, इमं हंसं मह्यं देहि ।” अस्मिन् वाक्ये ‘मह्यं’ इति पदं कस्य सर्वनामस्य रूपम् अस्ति ?
(क) युष्मद् (मध्यमपुरुषः)
(ख) तत् (प्रथमपुरुष:)
(ग) अस्मद् (उत्तमपुरुष:)
(घ) एतत् (नैकट्यवाचकः)
उत्तर:
(ग) अस्मद् (उत्तमपुरुष:)
गद्यांश: 12
इदं हि विज्ञानप्रधानं युगम्। ‘विशिष्ट – ज्ञानं विज्ञानम्’ इति कथ्यते । अस्यां शताब्दद्यां सर्वत्र विज्ञानस्यैव प्रभावो दृश्यते । अधुना हि तादृशं किमपि कार्यं यत्र विज्ञानस्य साहाय्यं नापेक्ष्यते। आवागमने, समाचार- -प्रेषणे, दूरदर्शने, सम्भाषणे, शिक्षणे, चिकित्साक्षेत्रे, मनोरञ्जनकार्ये अन्नोत्पादने, वस्त्रनिर्माणे, कृषिकर्मणि तथैवान्य- कार्यकलापेषु विज्ञानस्य प्रभावस्तदपेक्षा च सर्वत्रैवानुभूयते । सम्प्रति मानवः प्रकृतिं वशीकृत्य तां स्वेच्छया कार्येषु नियुङ्क्ते । तथाहि वैज्ञानिकैः अनेके आविष्काराः विहिताः । मानवजातेः हिताहितम् अपश्यद्भिः वैज्ञानिकैः राजनीतिविज्ञैर्वा परमाणुशक्तेः अस्त्रनिर्माणे एव विशेषतः उपयोगो विहितः । तदुत्पादितं च लोकध्वंसकार्यम् अतिघोरं निर्घृणं च । अयं च न विज्ञानस्य दोषः न वा परमाणुशक्तेरपराध:, पुरुषापराधः खलु एषः।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) इदं कीदृशं युगम् अस्ति ?
(ii) अस्यां शताब्द्यां सर्वत्र कस्य प्रभावो दृश्यते ?
(iii) कैः अनेके अविष्काराः विहिताः ?
उत्तर:
(i) विज्ञानप्रधानं
(ii) विज्ञानस्य
(iii) वैज्ञानिकैः
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) विज्ञानम् किम् अस्ति ?
(ii) सम्प्रति कां स्वेच्छया नियुङ्क्ते ?
(iii) अस्यां शताब्दद्यां सर्वत्र किं दृश्यते ?
उत्तर:
(i) विशिष्ट – ज्ञानं विज्ञानम् अस्ति ।
(ii) सम्प्रति मानवः प्रकृतिं वशीकृत्य तां स्वेच्छया कार्येषु नियुङ्क्ते।
(iii) अस्यां शताब्दद्यां सर्वत्र विज्ञानस्यैव प्रभावो दृश्यते ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए।)
उत्तर:
विज्ञानप्रधानं युगम्
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘विज्ञानप्रधानं युगम्’ अनयोः विशेष्यपदं किम् ?
(क) युगम्
(ख) विज्ञान
(ग) विशिष्ट
(घ) प्रधान
उत्तर:
(क) युगम्
(ii) ‘नियुङ्क्ते’ क्रियापदस्य कर्तृपदं किम् ?
(क) विज्ञानं
(ख) मानव:
(ग) समाचारं
(घ) दूरदर्शनं
उत्तर:
(ख) मानव:
(iii) ‘गुण:’ इति पदस्य विलोमपदं अनुच्छेदे किं प्रयुक्तम् ?
(क) अपराध:
(ख) प्रभाव:
(ग) दोष:
(घ) उपयोगः
उत्तर:
(ग) दोष:
(iv) “सम्प्रति मानवः प्रकृतिं वशीकृत्य तां स्वेच्छया कार्येषु नियुङ्क्ते ।” अस्मिन् वाक्ये ‘तां’ इति सर्वनामपदं कस्याः संज्ञायाः स्थाने प्रयुक्तम् ?
(क) मानवस्य
(ख) प्रकृतेः
(ग) शक्तेः
(घ) शताब्दद्या:
उत्तर:
(ख) प्रकृतेः
गद्यांश: 13
अस्माकं देशस्य नाम भारतवर्षम् अस्ति । अयं भरतस्य देशः अस्ति अतः भारतनाम्ना प्रसिद्धः अस्ति । ऋषभस्य पुत्रः भरतः वीरः आसीत् तस्य नाम्ना अयं देश: ‘भारत’ इति अस्ति । भरतस्य कुले अपि भारताः। भारतानां देश: शकुन्तला-दुष्यन्तयोः पुत्रस्य नाम अपि भरतः आसीत् सः अपि चक्रवर्ती सम्राट् आसीत् । प्रजानां भरणात् मनुः अपि भरत उच्यते । अस्माकं देशः अन्नैः, धनैः च स्वस्य उदरं तु भरति एव अन्येषाम् उदरम् अपि भरति, अतः अस्य नाम भारत इति अस्ति। भारत एव भारतवर्षं कथ्यते। पुराणेषु भारतस्य नवद्वीपानाम् उल्लेखः वर्तते। जनाः स्वजीवने धर्म-अर्थ- कामानां प्राप्त्यर्थं प्रयत्नशीलाः भवन्ति ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) अस्माकं देशस्य नाम किम् अस्ति ?
(ii) ऋषभस्य पुत्रः कः आसीत् ?
(iii) पुराणेषु भारतस्य केषाम् उल्लेखः वर्तते ?
उत्तर:
(i) भारतवर्षम्
(ii) भरत:
(iii) नवद्वीपानाम्
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) पुराणेषु किं वर्तते ?
(ii) अस्माकं देशः कथं भारत इति अस्ति ?
(iii) मनुः किम् अपि उच्यते?
उत्तर:
(i) पुराणेषु भारतस्य नवद्वीपानाम् उल्लेखः वर्तते।
(ii) अस्माकं देश: अन्नैः, धनैः च स्वस्य उदरं तु भरति एव अन्येषाम् अपि उदरं भरति, अतः अस्य नाम ‘भारत’ इति अस्ति ।
(iii) प्रजानां भरणात् मनुः भरत अपि उच्यते ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
भारतवर्षम्/भरत
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘भरतः वीरः’ अनयोः पदयोः विशेषणं किम् ?
(क) भरत:
(ख) वीरः
(ग) ऋषभः
(घ) जन:
उत्तर:
(ख) वीरः
(ii) ‘भवन्ति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) भारत:
(ख) जना:
(ग) वीरः
(घ) सम्राट:
उत्तर:
(ख) जना:
(iii) ‘राजा’ इत्यस्य पदस्य कः पर्यायः अनुच्छेदे आगतः ?
(क) पुत्रः
(ख) वीरः
(ग) सम्राट्
(घ) भरत:
उत्तर:
(ग) सम्राट्
(iv) “ऋषभस्य पुत्रः भरतः वीरः आसीत्, तस्य नाम्ना अयं देश: ‘भारत’’ इति अस्ति ।” अस्मिन् वाक्ये ‘तस्य’ इति पदं कस्याः संज्ञायाः स्थाने प्रयुक्तम् ?
(क) देशस्य
(ख) ऋषभस्य
(ग) भरतस्य
(घ) मनो:
उत्तर:
(ग) भरतस्य
गद्यांश: 14
स्वामी श्रद्धानन्दवर्यः आर्यसमाजस्य अनुयायी। महान् देशभक्तः अपि आसीत्। काङ्गडीस्थे गुरुकुले यदा सः अध्यापयति स्मः तदानीं नूतनाघटना एषा “गुरुकुले युद्धास्त्राणां निर्माणागारं गौप्येन कार्यं करोति” । इति किंवदन्ती गुप्तचरविभागद्वारा कदाचित् श्रुता आङ्ग्लसर्वकारेण।
वस्तुस्थितेः परीक्षणार्थं कश्चन् आङ्ग्लाधिकारिणः गुरुकुलम् आगत्य दर्पेण पृष्टवान्– “अत्र युद्धास्त्रनिर्माणागारम् अस्ति इति श्रूयते। किम् एतत् सत्यम् ?” स्वामी श्रद्धानन्दवर्यः शान्तस्वरेण उक्तवान्-‘आम्।’
आश्चर्येण कौतूहलेन च पृष्टवान् आङ्ग्लाधिकारिणः-‘कुत्र अस्ति तत्?” “तत् तु अत्रैव अस्ति । एते एव मया निर्मीयमाणानि युद्धास्त्राणि !” इति वदन् श्रद्धानन्दवर्यः गुरुकुलीयान् ब्रह्मचारिणः दर्शितवान्। एतत् श्रुत्वा सः गुप्तचरविभागीयः अधिकारी विषण्णवदनः सन् ततः निर्गतवान् । वराकः सः न जानाति स्म यत्-तत्रत्यः एकैकः ब्रह्मचारी अपि आङ्ग्लशासननिर्मूलकं गोलकास्त्रम् इव आचरति इति ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) स्वामी श्रद्धानन्दः कस्य समाजस्य अनुयायी आसीत्?
(ii) युद्धास्त्राणां निर्माणागारं कुत्र गौप्येन कार्यं करोति ?
(iii) कः गुरुकुलस्य विषये न जानाति स्म ?
उत्तर:
(i) आर्यसमाजस्य
(ii) गुरुकुले
(iii) आङ्ग्लाधिकारिणः
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) आङ्ग्लसर्वकारेण गुप्तचरविभाग द्वारा का श्रुता ?
(ii) श्रद्धानन्दवर्यः कान् दर्शितवान् ?
(iii) आङ्ग्लसर्वकारेण गुरुकुलस्य विषये किम् श्रुतवान्?
उत्तर:
(i) आङ्ग्लसर्वकारेण गुप्तचरविभाग द्वारा श्रुता यत्- ‘गुरुकुले युद्धास्त्राणां निर्माणागारं गौप्येन कार्यं करोति’ ।
(ii) श्रद्धानन्दवर्यः गुरुकुलान् ब्रह्मचारिणः दर्शितवान्।
(iii) आङ्ग्लसर्वकारेण गुप्तचरविभागद्वारा गुरुकुले अस्त्राणां निर्माणागारं विषये श्रुता ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
स्वामी श्रद्धानंदवर्य: /देशभक्तः श्रद्धानंद:
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) अनुच्छेदे ‘महान् देशभक्तः’ विशेषणस्य विशेष्यपदं किम् प्रयुक्तम् ?
(क) स्वामी
(ख) श्रद्धानन्दवर्यः
(ग) आङ्ग्लाधिकारी
(घ) स्वामी श्रद्धानन्दवर्यः
उत्तर:
(ख) श्रद्धानन्दवर्यः
(ii) ‘आश्रमे’ अस्य पदस्य अर्थे अनुच्छेदे किं पदं प्रयुक्तम् ?
(क) गुरुकुले
(ख) विद्यालये
(ग) पाठशालायाम्
(घ) पुस्तकालये
उत्तर:
(क) गुरुकुले
(iii) ‘महान् देशभक्तः अपि आसीत्’ अस्मिन् वाक्ये किम् क्रियापदम्?
(क) आसीत्
(ख) महान्
(ग) देशभक्तः
(घ) न कोऽपि
उत्तर:
(क) आसीत्
(iv) “यदा सः अध्यापयति स्म, तदानीं नूतना घटना एषा अस्मिन् वाक्ये ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) आङ्ग्लाधिकारिणे
(ख) गुप्तचरविभागाय
(ग) स्वामी श्रद्धानन्दवर्याय
(घ) गुरुकुलाय
उत्तर:
(ग) स्वामी श्रद्धानन्दवर्याय
अभ्यासप्रश्नाः
नवीनतम परीक्षा पैटर्न पर आधारित प्रश्न
• अधोलिखितान् अनुच्छेदान् पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत।
(निम्नलिखित अनुच्छेदों को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए |)
गद्यांश: 1
समयस्य समुचिते रूपे उपयोगः एव ‘समयस्य सदुपयोग : ‘कथ्यते । समयस्य सदुपयोगः मानवसमाजस्य हितसाधकेषु साधनेषु साधनं वर्तते। समयः अन्येषां वस्तूनाम् अपेक्षया अधिकः महत्त्वपूर्णः मूल्यवान् च वर्तते।
अन्यानि वस्तूनि विनष्टानि पुनरपि लब्धुं शक्यन्ते परं समयो विनष्टो न केनापि उपायेन पुनः परावर्तयितुं शक्यते । जनाः द्विधा समयस्य दुरुपयोगं कुर्वन्ति-व्यर्थयापनेन अकार्यकरणेन च। अनेके जनाः कार्यसम्पादने समर्थाः अपि निरर्थकं समयं यापयन्ति । इतस्ततः भ्रमन्ति, अप्रयोजनं गृहे गृहे अटन्ति। ते तु नैव स्वार्थाय न च परार्थाय किञ्चित् कार्यं कुर्वन्ति । न धर्मम् आचरन्ति, न धनम् उपार्जयन्ति तेषां जन्म निरर्थकं भवति । भूमिरपि एतादृशानां निष्क्रियाणां भारं वोढुं नेच्छति । ईदृशाः जनाः कस्मै अपि न रोचन्ते न वा कश्चित् तेभ्यः आश्रयमेव दातुमिच्छति । ते यत्र यत्र गच्छन्ति ततः एव बहिष्क्रियन्ते पितरौ अपि एतादृशान् तनयान् न अभिनन्दतः । अतः अस्माभिः आलस्यं विहाय सर्वदैव समयस्य सदुपयोगः कर्त्तव्यः ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) कस्य हितसाधकेषु साधनेषु साधनं वर्तते ?
(ii) क: विनष्टः परावर्तयितुं न शक्यते ?
(iii) का निष्क्रियाणां भारं वोढुं नेच्छति ?
उत्तर:
(i) मानवसमाजस्य
(iii) भूमि:
(ii) समय:
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) अस्माभिः किं विहाय समयस्य सदुपयोगः कर्त्तव्यः ?
(ii) अन्येषां वस्तूनामपेक्षया समयः किमर्थमधिक: महत्त्वपूर्णः मूल्यवान् च?
(iii) केषां जन्म निरर्थकं भवति ?
उत्तर:
(i) अस्माभिः आलस्यं विहाय समयस्य सदुपयोगः कर्त्तव्यः ।
(ii) अन्यानि वस्तूनि विनष्टानि पुनरपि लब्धुं शक्यन्ते परं समय विनष्ट न केनापि उपायेन पुनः परावर्तयितुं शक्यते ।
(iii) ये नैव स्वार्थाय न च परार्थाय किञ्चित् कार्यं कुर्वन्ति । न धर्मम् आचरन्ति, न धनम् उपार्जयन्ति तेषां जन्म निरर्थकं भवति ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
‘समयस्य सदुपयोग:’ ।
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘अनेके जनाः’ इत्यत्र विशेष्यपदं किम् ?
(क) जना:
(ख) अनेक:
(ग) अनेके
(घ) जन:
उत्तर:
(क) जना:
(ii) ‘सदुपयोगम्’ इत्यस्य पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम् ?
(क) निरर्थकं
(ख) परार्थाय
(ग) दुरुपयोगं
(घ) मूल्यवान्
उत्तर:
(ग) दुरुपयोगं
(iii) ‘पुत्रान्’ इत्यस्य कृते गद्यांशे किं पदं प्रयुक्तम् ?
(क) तनयान्
(ख) विहाय
(ग) अपियान्
(घ) एतादृशान्
उत्तर:
(क) तनयान्
(iv) “ईदृशाः जनाः कस्मै अपि न रोचन्ते न वा कश्चित् तेभ्यः आश्रयमेव दातुमिच्छति ।” अस्मिन् वाक्ये ‘तेभ्यः’ इति सर्वनामपदं केभ्यः प्रयुक्तम् ?
(क) कार्यसम्पादकेभ्यः
(ख) निष्क्रियजनेभ्यः
(ग) पितृभ्याम्
(घ) साधनेभ्यः
उत्तर:
(ख) निष्क्रियजनेभ्यः
गद्यांश: 2
अद्य स्वस्थस्य स्वच्छस्य च पर्यावरणस्य आवश्यकता वर्तते । पर्यावरणस्य रक्षा धर्मसम्मतमेव अस्ति । इति अस्माकं ऋषयः प्रतिपादितवन्तः। आवश्यकं वर्तते यद् वयं स्वजीवनं सन्तुलितं कुर्मः। प्रकृतेः संसाधनानां संरक्षणं कुर्मः । अपशिष्टपदार्थानामव- करस्य वा निक्षेपणं सावधानेन कुर्मः । अद्य प्रदूषण निवारणार्थं सर्वकारेण महान्तः प्रयासाः क्रियन्ते । तेषु प्रयासेषु वयमपि सहभागिनः भवामः। अधिकाधिकवृक्षारोपणं तेषां संरक्षणं च कुर्मः। प्राकृतिक जलस्रोतानां सुरक्षां कुर्मः । अनेन एव सौरोर्जायाः वायूर्जायाः च उपयोगं कुर्मः । सर्वत्र स्वच्छतां च पालयामः । जीवमात्रस्य संरक्षणं कुर्मः । नदीतडागवापीनां च स्वच्छतां स्थापयामः । ध्वनि विस्तारकयन्त्राणां उपयोगं अवरोधयामः । पर्यावरणस्य महत्त्वमावश्यकतां च संस्मृत्य सर्वे वयं तस्य संरक्षणाय प्रयत्नं करिष्यामः तर्हि विश्वः सुखी-सम्पन्नश्च भविष्यति। तदैव अस्माकं ‘सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः’ इति कामना सफला भविष्यति ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए।)
(i) अद्य कीदृशस्य पर्यावरणस्य आवश्यकता वर्तते ?
(ii) स्वच्छ-पर्यावरणस्य रक्षा धर्मसम्मतमेव इति के प्रतिपादयन्ति ?
(iii) वयं स्वजीवनं कीदृशं कुर्मः: ?
उत्तर:
(i) स्वस्थस्य स्वच्छस्य च
(ii) ऋषय:
(iii) सन्तुलिम्
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) अद्य कस्य आवश्यकता वर्तते?
(ii) स्वच्छपर्यावरण-प्रदूषण निवारणाय मानवेन किं करणीयम्?
(iii) वयं कस्य ऊर्जायाः प्रयोगं कुर्मः ?
उत्तर:
(i) अद्य स्वस्थस्य स्वच्छस्य च पर्यावरणस्य आवश्यकता वर्तते।
(ii) अधिकाधिकं वृक्षारोपण तेषां संरक्षणं च करणीयम् ।
(iii) वयं स्वजीवने सौरोर्जायाः वायूर्जायाः च प्रयोगं कुर्मः ।
III. अस्य अनुच्छेदस्य उपयुक्तं शीर्षकं लिखत। (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
स्वच्छपर्यावरणम् ।
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘स्वच्छं पर्यावरणम्’ अत्र किं पदं विशेष्यपदम् अस्ति ?
(क) स्वच्छः
(ख) पर्यावरणम्
(ग) स्वच्छं
(घ) पर्यावरण:
उत्तर:
(ख) पर्यावरणम्
(ii) ‘सहभागिनः भवामः’ अत्र भवामः क्रियापदस्य कर्तृपदं लिखत ।
(क) भगिनी
(ख) वयम्
(ग) सर्वे
(घ) अनेन
उत्तर:
(ख) वयम्
(iii) ‘नीरोगाः’ इति पदस्य स्थाने अनुच्छेदे किं समानार्थी पदं प्रयुक्तम्?
(क) दुःखिनः
(ख) सुखिन:
(ग) निरामयाः
(घ) स्वच्छतया:
उत्तर:
(ग) निरामयाः
(iv) “पर्यावरणस्य महत्त्वमावश्यकतां च संस्मृत्य सर्वे वयं तस्य संरक्षणाय प्रयत्नं करिष्यामः ।” अस्मिन् वाक्ये ‘तस्य’ इति सर्वनामपदं कस्य बोधं कारयति ?
(क) विश्वस्य
(ख) पर्यावरणस्य
(ग) धर्मस्य
(घ) वृक्षस्य
उत्तर:
(ख) पर्यावरणस्य
गद्यांश: 3
भारते उत्सवाः द्विविधाः सन्ति – राष्ट्रीयाः उत्सवाः अन्ये च पारम्परिकाः उत्सवाः । 1947 तमे वर्षे अगस्तमासस्य पञ्चदशदिनाङ्के अस्माकं देशः स्वतन्त्रः जातः । अतः समग्रे देशे अयम् उत्सवः आयोज्यते । एवमेव 1950 तमे वर्षे जनवरीमासस्य षडविंशतितिथौ गणतन्त्र दिवस – समारोहः भवति। एतौ अस्माकं राष्ट्रीयौ उत्सवौ पारम्परिक उत्सवेषु एकः विशिष्टः उत्सवः श्रावणपूर्णिमा वर्तते । एतत् दिनं भारतस्य केन्द्रशासनेन संस्कृतदिनत्वेन घोषितम् अस्ति । अतः समग्रे देशे संस्कृतज्ञाः संस्कृतोत्सवं मानयन्ति । अस्मिन् दिने अस्माभिः संस्कृतकार्यक्रमेषु भागः गृहीतव्यः । विदुषां मेलनं, संस्कृतनाट- कानां मञ्चनम्, परिचर्चा, श्लोकोच्चारणम् संवादा:, प्रदर्शनी, इत्यादयः बहवः कार्यक्रमाः आयोजयितुं शक्यन्ते । संस्कृतम् अस्माकं देशस्य गौरवम् इति अस्माभिः सर्वदा स्मरणीयम् । संस्कृतमेव अस्माकं संस्कृतिः आश्रिता । अतएव उच्यते – भारतस्य प्रतिष्ठे द्वे – संस्कृतं संस्कृतिश्च ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) गणतन्त्र-दिवस- समारोहः कदा समायोज्यते ?
(ii) अस्माकं देशस्य गौरवं किम् ?
(iii) किं दिनं संस्कृतदिवसम् इति घोषितम् ?
उत्तर:
(i) जनवरी मासस्य षड्विंशतितिथौ
(ii) संस्कृतम्
(iii) श्रावणपूर्णिमादिनम्
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) संस्कृतदिवसे अस्माभिः किं करणीयम् ?
(ii) अस्माकं देशः कदा स्वतन्त्रः जातः?
(iii) अस्माकं राष्ट्रीयौ उत्सवौ कौ स्तः ?
उत्तर:
(i) संस्कृतदिवसे अस्माभिः संस्कृतकार्यक्रमेषु भागः गृहीतव्य: ।
(ii) 1947 तमे वर्षे अगस्तमासस्य पञ्चदशदिनाङ्के अस्माकं देश: स्वतन्त्रः जातः ।
(iii) स्वतन्त्रतादिवसः गणतन्त्रदिवसश्च अस्माकं राष्ट्रीयौ उत्सवौ स्तः।
III. अस्य अनुच्छेदस्य उपयुक्तं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
संस्कृतदिवसः।
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘सम्पूर्णे’ इति अर्थे किं पदम् अत्र प्रयुक्तम् ?
(क) समस्ते
(ख) समग्रे
(ग) देशे
(घ) स्थाने
उत्तर:
(ख) समग्रे
(ii) ‘द्वे’ इति पदं कस्य विशेषणम् ?
(क) प्रतिष्ठौ
(ख) प्रतिष्ठ:
(ग) प्रतिष्ठम्
(घ) प्रतिष्ठे
उत्तर:
(घ) प्रतिष्ठे
(iii) ‘मूर्खाणाम्’ इत्यस्य किं विपर्ययपदम् अत्र प्रयुक्तम् ?
(क) विदुषाम्
(ग) छात्राणाम्
(ख) ज्ञानीनाम्
(घ) अध्येतृणाम्
उत्तर:
(क) विदुषाम्
(iv) “अतः समग्रे देशे अयम् उत्सवः आयोज्यते।” अस्मिन् वाक्ये ‘अयम्’ इति सर्वनामपदं कस्य उत्सवस्य बोधं कारयति?
(क) गणतन्त्र दिवसस्य
(ख) संस्कृतोत्सवस्य
(ग) स्वतन्त्रता दिवसस्य
(घ) दीपावल्याः
उत्तर:
(ग) स्वतन्त्रता दिवसस्य
गद्यांश: 4
योगः भारतस्य प्राचीनः विधिः अस्ति। अद्यत्वे योगस्य महत्त्वं सर्वे जानन्ति । एकविंशतिः (21) जूनदिनाङ्कः अन्ताराष्ट्रियः योगदिवसः इति आचर्यते । अद्यत्वे सम्पूर्णे विश्वे योगः लोकप्रियः अस्ति, तस्य महत्त्वं सर्वे अवगन्तुं शक्नुवन्ति । जीवने योगस्य महत्त्वं अधिकं महत्त्वपूर्णम् अस्ति । योगस्य साहाय्येन वयं बहिः आन्तरिकं च स्वशरीरं स्वस्थं स्थापयितुं शक्नुमः । योगः न केवलं अस्माकं शरीरं स्वस्थं स्थापयितुं सहायकः सिद्धः भवति अपितु अस्माकं मनः स्वस्थं अपि करोति । योगेन मनसः संवर्धनं शरीरं रोगमुक्तं च भवति । योग सफलतायाः मार्गः भवति । कर्मयोगीमानवः एव सफलतां प्राप्नोति । अलसः नरः भाग्यवादिनः भवति। सः सर्वदा चिन्तयति यत्- भाग्येन एव सर्वं फलति, किन्तु अस्य विपरीतं योगी नरः योगेन सर्वाणि कार्याणि साधयति। सः सर्वदायोगे एव विश्वसिति । योगेन तस्य जीवनं सुखमयं, समृद्धं शान्तिपूर्णं च भवति ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) योगः कस्य प्राचीन: विधिः अस्ति ?
(ii) योगः कस्याः मार्गः भवति ?
(iii) कः नरः भाग्यवादी भवति ?
उत्तर:
(i) भारतस्य
(ii) सफलतायाः
(iii) अलसः
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) योगेन जीवनं कीदृशं भवति ?
(ii) भाग्यवादी नरः किं चिन्तयति ?
(iii) कस्य साहाय्येन वयं बहिः आन्तरिकं च स्वशरीरं स्वस्थं स्थापयितुं शक्नुम: ?
उत्तर:
(i) योगेन जीवनं सुखमयं समृद्धं शान्तिपूर्णं च भवति ।
(ii) भाग्यवादी नरः सर्वदा चिन्तयति यत् – भाग्येन एव सर्वं फलति ।
(iii) योगस्य साहाय्येन वयं बहिः आन्तरिकं च स्वशरीरं स्वस्थं स्थापयितुं शक्नुमः।
III. अस्य अनुच्छेदस्य उपयुक्तं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
योगस्य महत्त्वम्
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘योग सफलतायाः मार्गः भवति’ अस्मिन् वाक्ये कर्तृपदम् किम्?
(क) योग
(ख) सफलतायाः
(ग) मार्ग:
(घ) भवति
उत्तर:
(क) योग
(ii) ‘जीवनं सुखमयं, समृद्धं शान्तिपूर्णं च भवति’ अत्र विशेष्यपदं किम् ?
(क) जीवनं
(ख) सुखमयं
(ग) समृद्धं
(घ) शान्तिपूर्णं
उत्तर:
(क) जीवनं
(iii) ‘न्यूनम्’ इति पदस्य गद्यांशे किं विलोमपदम् प्रयुक्तम् ?
(क) महत्त्वम्
(ख) पूर्वम्
(ग) अधिकम्
(घ) शरीरम्
उत्तर:
(ग) अधिकम्
(iv) “अद्यत्वे सम्पूर्णे विश्वे योगः लोकप्रियः अस्ति, तस्य महत्त्वं सर्वे अवगन्तुं शक्नुवन्ति ।” अस्मिन् वाक्ये ‘तस्य’ इति सर्वनामपदं कस्य बोधं कारयति?
(क) विश्वस्य
(ख) योगस्य
(ग) शरीरस्य
(घ) भाग्यस्य
उत्तर:
(ख) योगस्य
गद्यांश: 5
सन्त तुलसीदासेन कथितम् – धीरज, धर्म, मित्र अरु नारी; आपतकाल परखिए चारी अर्थात् धैर्यं धर्मः, मित्राणि, नारी च एतानि चत्वारि आपत्काले एव परीक्षयेत् । मित्रस्य परीक्षणं विपत्तौ एव भवति । सन्मित्रं सरलतया न मिलति । अतः जनैः मित्रस्य निर्वाचनं सम्यक्तया विचिन्त्य एव कर्त्तव्यम् । मित्रस्य निर्वाचने तस्य व्यवहारस्य आचरणस्य वा उपरि विशेषतया ध्यानं दातव्यम् । सन्मित्रं विनम्रं, सदाचारी, विश्वासपात्रं, सहृदयं चरित्रवान् च भवेत् । सन्मित्रं एकं शिक्षकमिव भवति यत् स्वमित्रं सन्मार्गे अग्रसरं कृत्वा पापपङ्कात् तम् रक्षति । यदा जनस्योपरि विपत्तीनां बद्दलाः आच्छादिताः भवन्ति सर्वत्रश्च निराशायाः गहनं तमः एव दृष्टिगोचरं भवति तदा केवलं सन्मित्रमेव आशायाः किरणम् इव समक्षे आगत्य तत् तमः दूरीकरोति । यत्-सम्मुखे तु मधुरं वदेत् पृष्ठे कार्यं विकुर्यात् तादृशस्य मित्रस्य त्यागे एव बुद्धिमत्ता वर्तते ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) मित्रस्य परीक्षणं कदा भवति ?
(ii) कस्य निर्वाचने आचरणस्य उपरि विशेषतया ध्यानं दातव्यम्?
(iii) सन्मित्रं कथं न मिलति ?
उत्तर:
(i) विपत्तौ
(ii) मित्रस्य
(iii) सरलतया
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) सन्त तुलसीदासेन किं कथितम् ?
(ii) सन्मित्रं कीदृशं भवेत् ?
(iii) कीदृशस्य मित्रस्य त्यागे एव बुद्धिमत्ता वर्तते ?
उत्तर:
(i) संत तुलसीदासेन कथितम् – “धीरज, धर्म, मित्र अरु नारी; आपतकाल परखिए चारी ।”
(ii) सन्मित्रं विनम्र, सदाचारी, विश्वासपात्रं, सहृदयं चरित्रवान् च भवेत्।
(iii) यः मित्रं सम्मुखे तु मधुरं वदेत् पृष्ठे कार्यं विकुर्यात् तादृशस्य मित्रस्य त्यागे एव बुद्धिमत्ता वर्तते ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
सन्मित्रम्
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘रक्षति’ इति क्रियापदस्य कर्तृपदं कि म् प्रयुक्तम् ?
(क) सन्मित्रम्
(ख) नारी
(ग) धर्मः
(घ) धैर्यम्
उत्तर:
(क) सन्मित्रम्
(ii) ‘तम:’ इति पदस्य पर्यायपदम् किम् ?
(क) प्रकाश:
(ख) अन्धकारः
(ग) उजाल:
(घ) प्रदीप्तः
उत्तर:
(ख) अन्धकारः
(iii) ‘सन्त तुलसीदासः ‘अनयोः विशेष्यपदं किम् अस्ति ?
(क) सन्त:
(ख) तुलसीदासः
(ग) दास:
(घ) तुलसी
उत्तर:
(ख) तुलसीदासः
(iv) “सन्मित्रं एकं शिक्षकमिव भवति यत्-स्वमित्रं सन्मार्गे अग्रसरं कृत्वा पापपङ्कात् तम् रक्षति।” अस्मिन् वाक्ये ‘तम’ इति सर्वनामपदं कस्य बोधं कारयति ?
(क) शिक्षकस्य
(ख) सन्मार्गस्य
(ग) स्वमित्रस्य
(घ) पापपङ्कस्य
उत्तर:
(ग) स्वमित्रस्य
गद्यांश: 6
एकदा शरीरस्य सर्वाणि इन्द्रियाणि – हस्तौ पादौ मुखं नासिका कर्णौ इत्यादीनि मिलित्वा अचिन्तयन् – “वयं सर्वे प्रतिदिनं परिश्रमं कुर्मः । एतद् उदरं सर्वं स्वीकरोति स्वयं किमपि कार्यं न करोति” । अद्य प्रभृति वयमपि कार्यं न करिष्यामः । एवं चिन्तयित्वा सर्वाणि अङ्गानि कार्यम् अत्यजन्। मुखम् अन्नकणं अपि न प्राविशत् । एवं द्वे दिने व्यतीते जाते । शनैः-शनैः सर्वाणि अङ्गानि शिथिलानि अभवन्। कथमपि पुनः मिलित्वा विचारम् अकुर्वन् – “अहो । अस्माकं प्रमादः । भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति । एतद् एव अस्मभ्यं शक्तिं ददाति । अस्य कृपया एव वयं जीवामः । अतः अस्माभिः सर्वैः अनेन सह सहयोगः करणीयः ।”
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) एकदा कानि मिलित्वा अचिन्तयन् ?
(ii) सर्वाणि अङ्गानि किम् अत्यजन् ?
(iii) वयं सर्वे प्रतिदिनं किं कुर्मः ?
उत्तर:
(i) इन्द्रियाणि
(ii) कार्यम्
(iii) परिश्रमम्
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) सर्वाणि इन्द्रियाणि किम् अचिन्तयन् ?
(ii) सर्वाणि इन्द्रियाणि मिलित्वा किं विचारम् अकुर्वन् ?
(iii) किं किमपि कार्यं न करोति ?
उत्तर:
(i) तानि अचिन्तयन् – “ वयं सर्वे प्रतिदिनं परिश्रमं कुर्मः । एतद् उदरं किमपि न करोति ।”
(ii) सर्वाणि इन्द्रियाणि मिलित्वा विचारम् अकुर्वन्- अहो! अस्माकं प्रमादः। भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति ।
(iii) एतद् उदरं सर्वं स्वीकरोति स्वयं किमपि कार्यं न करोति ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
सहयोग: करणीयः / मिलित्वा कार्यं कुर्मः/सर्वेषां महत्त्वम् अस्ति।
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘भुक्तस्य अन्नस्य’ अनयोः विशेषणपदं किम् अस्ति ?
(क) भुक्तस्य
(ख) अन्नस्य
(ग) शरीरस्य
(घ) सर्वाणि
उत्तर:
(क) भुक्तस्य
(ii) ‘शनैः-शनैः सर्वाणि अङ्गानि शिथिलानि अभवन्’ अस्मिन् वाक्ये विशेषणपदं किम् ?
(क) अङ्गानि
(ख) शिथिलानि
(ग) शनै: – शनैः
(घ) न कोऽपि
उत्तर:
(ग) शनै: – शनैः
(iii) ‘पाचनं करोति’ इति क्रियापदस्य गद्यांशे कर्तृपदं किं प्रयुक्तम् ?
(क) मुखम्
(ख) उदरम्
(ग) नासिका
(घ) हस्तौ
उत्तर:
(ख) उदरम्
(iv) “अस्य कृपया एव वयं जीवामः ।” अस्मिन् वाक्ये ‘अस्य’ इति सर्वनामपदं कस्य कृते प्रयुक्तम् ?
(क) मुखस्य
(ख) हस्तस्य
(ग) उदरस्य
(घ) भोजनस्य
उत्तर:
(ग) उदरस्य
गद्यांश: 7
एकदा एका पञ्चदशवर्षीया बालिका पित्रा सह मेलापकं द्रष्टुं नगरं प्रति गच्छति स्म । सा चतुरमतिः धैर्यशालिनी च आसीत्। सा बाल्यकाले एव विविधासु विद्यासु पारङ्गता आसीत्। मार्गे एका नदी आसीत् । सा नौकया गच्छति स्म । नौकायाम् अनेके जनाः आसन् । नद्यां एकः मकरः आसीत् । तत्र द्वौ जनौ तस्मात् मकरात् भीतौ जले पतितौ । तयोः मुखे भयस्य छाया आसीत् । सा अपि भीता आसीत्, परन्तु सा अचिन्तयत्-तयोः जनयोः रक्षणं कथं करणीयम् ? सा जले अकूर्दत् तयोः च जनयोः हस्तौ गृहीत्वा नौकां प्रति आनयत् । सा तयोः रक्षणम् अकरोत् । सा साहसी बालिका लक्ष्मीबाई आसीत्। एतस्यै वीरबालायै नमः ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) बालिका केन सह गच्छति स्म ?
(ii) मार्गे का आसीत् ?
(iii) बालिका कति वर्षीया अस्ति ?
उत्तर:
(i) पित्रा
(ii) नदी
(iii) पञ्चदशवर्षीया
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) बालिका बाल्यकाले कीदृशी आसीत् ?
(ii) बालिका कथं तयोः रक्षणम् अकरोत् ?
(iii) तत्र कौ जले पतितौ ?
उत्तर:
(i) बालिका बाल्यकाले चतुरमतिः, धैर्यशालिनी, विविधासु विद्यासु पारङ्गता च आसीत् ।
(ii) बालिका जले अकूर्दत् तयोः च जनयोः हस्तौ गृहीत्वा नौकां प्रति आनयत्।
(iii) द्वौ जनौ मकरात् भीतौ जले पतितौ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए।)
उत्तर:
साहसी बालिका / लक्ष्मीबाई
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘निपुणा’ इति पदस्य गद्यांशे पर्यायपदं किम् अस्ति ?
(क) कुशलाः
(ख) प्रवीणा:
(ग) पारङ्गता
(घ) पटवः
उत्तर:
(ग) पारङ्गता
(ii) ‘सा बाल्यकाले एव विविधासु विद्यासु पारङ्गता आसीत्’ अस्मिन् वाक्ये किम् क्रियापदं ?
(क) पारङ्गता
(ख) आसीत्
(ग) विद्यासु
(घ) बाल्यकाले
उत्तर:
(ख) आसीत्
(iii) ‘पतितौ’ क्रियापदस्य गद्यांशे कर्तृपदं किं प्रयुक्तम् ?
(क) जनौ
(ख) बालकौ
(ग) विद्यार्थिनौ
(घ) मूर्खो
उत्तर:
(क) जनौ
(iv) “तत्र द्वौ जनौ तस्मात् मकरात् भीतौ जले पतितौ।” अस्मिन् वाक्ये ‘तस्मात्’ इति सर्वनामपदं कस्य बोधं कारयति?
(क) जनस्य
(ख) नद्या:
(ग) मकरात्
(घ) नौकायाः
उत्तर:
(ग) मकरात्
गद्यांश: 8
एकदा एकः नरः सरोवरतटे अभ्रमत् । सः गम्भीरचिन्तने रतः आसीत्। सहसा वानराणां शब्दैः तस्य ध्यानः भङ्गः अभवत् । सः अपश्यत् यद् रक्तवर्णाः अतिविकरालाः वानराः नातिदूरे आसन्। सः धावितुम् आरभत् । तं धावन्तं दृष्ट्वा वानराः अपि अनुधावितवन्तः । भीतः सः तीव्रगत्या धावितुम् आरभत् । मा धाव भयं त्यक्त्वा तत्रैव स्थिरः भवि कस्यचित् वृद्धजनस्य उच्चस्वरं श्रुत्वा स तथैव अकरोत्। तं स्थिरं दृष्ट्वा वानराः अपि तत्रैव स्थितवन्तः । साहसं कृत्वा निर्भीकदृष्ट्या सः वानरान् अपश्यत् । तं निर्भीकं दृष्ट्वा वानर-समूहः पलायितः । अहो ! आश्चर्यम् । कीदृशः चमत्कारः। अनेन अनुभवेन तस्य ज्ञान – चक्षुषी उन्मीलिते । तेन ज्ञातं यद् आपत्तिभ्यः मुक्तिः दृढ़-सङ्ककल्पेन, साहसेन, धैर्येण च भवति न ताभ्यः पलायनेन।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) नरः कस्मिन् रतः आसीत् ?
(ii) तस्य ध्यानभङ्गः कैः अभवत्?
(iii) तं निर्भीकं दृष्ट्वा कः पलायितः ?
उत्तर:
(i) गम्भीरचिन्तने
(ii) वानराणां शब्दैः
(iii) वानर-समूहः
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) केनचित् वृद्धजनेन किं कथितम् ?
(ii) आपत्तिभ्यः कथं मुक्तिः ?
(iii) अनेन अनुभवेन कस्य ज्ञान – चक्षुषी उन्मीलिते ?
उत्तर:
(i) केनचित् वृद्धजनेन कथितं यत्-मा धाव भयं त्यक्त्वा तत्रैव स्थिरः भव ।
(ii) आपत्तिभ्यः मुक्ति: दृढसङ्कल्पेन, साहसेन, धैर्येण च भवति न ताभ्यः पलायनेन ।
(iii) अनेन अनुभवेन तस्य नरस्य ज्ञान – चक्षुषी उन्मीलिते ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
आपत्तिभ्यः मुक्ति दृढसङ्कल्पेन
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘अतिविकराला:’ इति पदस्य गद्यांशे विशेष्यपदं किम् अस्ति ?
(क) मानवा:
(ख) वानराः
(ग) पशव:
(घ) मूषकाः
उत्तर:
(ख) वानराः
(ii) ‘अज्ञानं’ इतिपदस्य गद्यांशे विलोमपदं किं प्रयुक्तम् ?
(क) ज्ञानं
(ख) ध्यानं
(ग) भङ्गं
(घ) धावन्तम्
उत्तर:
(क) ज्ञानं
(iii) ‘नयने’ इति पदस्य गद्यांशे पर्यायपदं किं प्रयुक्तम् ?
(क) नेत्रे
(ख) चक्षुषी
(ग) अक्षिणी
(घ) लोचने
उत्तर:
(ख) चक्षुषी
(iv) “तं धावन्तं दृष्ट्वा वानराः अपि अनुधावितवन्तः ।” अस्मिन् वाक्ये ‘तं’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) वृद्धजनाय
(ख) नराय
(ग) सरोवराय
(घ) वानराय
उत्तर:
(ख) नराय
गद्यांश: 9
डॉ. नागः कश्चन् श्रेष्ठः चिकित्सकः । गान्धीमहोदयस्य अनुयायी सः एकदा कलकत्तानगरं प्रति प्रेषितः । तदा तस्य हस्ते अष्ट- रूप्यकाणि एव आसन्, तान्यपि चिटिकानिमित्तम् । रेलस्थानके पुत्रैः सह उपविष्टा जीर्णशीर्णवस्त्रयुता एका क्षुधापीडिता महिला तेन दृष्टा । तस्याः याचनां न कोऽपि आकर्णयति स्म । नागमहोदयः तस्याः दयनीयां दशां दृष्ट्वा द्रवितहृदयः सन् तस्यै अष्ट-रूप्यकाणि अददात् । तस्मात् सः स्वयं रिक्तहस्तः सञ्जातः। यानचिटिकां क्रेतुं तत्समीपे धनं न आसीत् । अतः सः पादाभ्याम् एव कलकत्तां प्रति प्रस्थितः । अष्टाविंशतिदिनानां यात्रां कृत्वा सः कलकत्तां प्राप्नोत् । स्थानकेषु भारवहनकार्यं कृत्वा सः भोजननिमित्तं धनम् अर्जितवान्, परन्तु मार्गे स्वस्य श्रेष्ठचिकित्सकत्वं कोऽपि यथा न जानीयात् तथा व्यवहृतवान् सः।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) डॉ. नागः कस्य अनुयायी आसीत् ?
(ii) तस्य हस्ते कति रूप्यकाणि आसन् ?
(iii) सः स्वयं कीदृशः सञ्जातः ?
उत्तर:
(i) गान्धीमहोदयस्य
(ii) अष्ट- रूप्यकाणि
(iii) रिक्तहस्त:
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) डॉ. नागः कथं तस्यै अष्ट-रूप्यकाणि अददात् ?
(ii) रेलस्थानके का तेन दृष्टा ?
(iii) यानचिटिकां क्रेतुं किं न आसीत्?
उत्तर:
(i) डॉ. नागमहोदयः तस्याः क्षुधापीडितामहिलायाः दयनीयां दशां दृष्ट्वा द्रवितहृदयः सन् तस्यै अष्ट- रूप्यकाणि अददात् ।
(ii) रेलस्थानके पुत्रैः सह उपविष्टा जीर्णशीर्णवस्त्रयुता एका क्षुधापीडिता महिला तेन दृष्टा ।
(iii) यानचिटिकां क्रेतुं तत्समीपे धनं न आसीत् ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
द्रवितहृदय: नाग महोदयः ।
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) गद्यांशे ‘आकर्णयति स्म’ क्रियापदस्य कर्तृपदं किम् ?
(क) तस्या:
(ख) कोऽपि
(ग) याचनाम्
(घ) ताम्
उत्तर:
(ख) कोऽपि
(ii) ‘डॉ. नागः कश्चन् श्रेष्ठः चिकित्सकः’ अस्मिन् वाक्ये विशेष्यपदं किम् ?
(क) श्रेष्ठः
(ख) डॉ. नाग:
(ग) चिकित्सक:
(घ) न कोऽपि
उत्तर:
(ख) डॉ. नाग:
(iii) ‘क्षुधापीडिता महिला तेन दृष्टा ।’ अत्र विशेष्यपदं किम् ?
(क) क्षुधापीडिता
(ख) महिला
(ग) तेन
(घ) दृष्टा
उत्तर:
(ख) महिला
(iv) “नागमहोदयः तस्याः दयनीयां दशां दृष्ट्वा द्रवितहृदयः सन् तस्यै अष्ट- रूप्यकाणि अददात्।” अस्मिन् वाक्ये ‘तस्यै’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
(क) गान्धीमहोदयाय
(ख) क्षुधापीडितायै महिलायै
(ग) रेलस्थानकाय
(घ) कलकत्तानगराय
उत्तर:
(ख) क्षुधापीडितायै महिलायै
गद्यांश: 10
एकस्मिन् वने एकः विशालः वृक्षः आसीत् । तस्मिन् बहवः खगाः वसन्ति स्म। एकदा ते अतीव बुभुक्षिताः आसन् । अतः भोजनं खादितुम् इतस्ततः भ्रमन्ति स्म । ते दूरं दूरं गच्छन्ति स्म। अन्ते च एकस्मिन् क्षेत्रे तण्डुलकणान् अपश्यन्। ते तत्र गत्वा प्रसन्नतया तण्डुलान् खादन्ति स्म परन्तु जालेन बद्धाः अभवन् । अधुना किं करणीयम् इति चिन्तयित्वा ते सर्वे जालेन सह एव एकं स्वमित्रम् उपागच्छन्। तेषां मित्रम् एकः मूषकः आसीत् । सः जालं दन्तैः अकर्तयत्। अन्ते सर्वे स्वतन्त्राः भूत्वा अनृत्यन् अगायन् च-सुखं तु एकतायाम् एव विद्यते ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) वने एक: विशालः कः आसीत्?
(ii) खगाः कीदृशः आसन् ?
(iii) तेषां मित्रम् कः आसीत्?
उत्तर:
(i) वृक्षः
(ii) बुभुक्षिता:
(iii) मूषकः
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) ते खगाः जालेन सह एव कुत्र उपागच्छन् ?
(ii) ते कथं जालेन बद्धाः अभवन् ?
(iii) ते अन्ते कान् अपश्यन् ?
उत्तर:
(i) ते खगा: जालेन सह एकं स्वमित्रम् उपागच्छन्।
(ii) यदा ते प्रसन्नतया तण्डुलान् खादन्ति स्म, तदा जालेन बद्धाः अभवन्।
(iii) ते अन्ते एकस्मिन् क्षेत्रे तण्डुलकणान् अपश्यन्।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
सुखं तु एकतायाम् एव।
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘बन्धुः’ इति शब्दस्य गद्यांशे पर्यायपदं किं प्रयुक्तम् ?
(क) मित्रम्
(ख) सुहृद्
(ग) सखा
(घ) सहचरः
उत्तर:
(क) मित्रम्
(ii) ‘एकस्मिन् वने एकः विशालः वृक्षः आसीत्’ अस्मिन् वाक्ये किम् विशेष्यपदम् ?
(क) एक:
(ख) विशाल:
(ग) वृक्षः
(घ) वने
उत्तर:
(ग) वृक्षः
(iii) ‘भ्रमन्ति स्म’ क्रियापदस्य गद्यांशे कर्तृपदं किं प्रयुक्तम् ?
(क) मूषकाः
(ख) खगाः
(ग) नरा:
(घ) के
उत्तर:
(ख) खगाः
(iv) “तेषां मित्रम् एकः मूषकः आसीत्।” अस्मिन् वाक्ये ‘तेषां’ इति सर्वनामपदं केभ्यः प्रयुक्तम् ?
(क) तण्डुलकणेभ्यः
(ख) खगेभ्यः
(ग) वृक्षेभ्यः
(घ) जालेभ्यः
उत्तर:
(ख) खगेभ्यः
गद्यांश: 11
एकदा शीतस्य भीषणः प्रकोपः अभवत् । सम्राट् चन्द्रगुप्तः निश्चितवान् यत्-निर्धनेभ्यः कम्बलानां वितरणं भवेत् । प्रधानमन्त्री चाणक्यः तत्कार्यं स्वीकृतवान् । भृत्याः सर्वान् कम्बलान् तस्य कुटीरे स्थापितवन्तः । रात्रौ केचन चौरा: कम्बलान् चोरयितुं तस्य कुटीरं प्राविशन्। ते अपश्यन् यत्-चाणक्यः एकस्मिन् कुटीरे कम्बलं विना एव सुप्तः । तस्मिन् एव क्षणे चाणक्य: पद्ध्वनिं श्रुत्वा प्रबुद्धः । चौराः तम् अपृच्छन्-भवतां समीपे कम्बलानां राशिः अस्ति तथापि भवान् कम्बलं विना एव स्वपिति । चाणक्यः अवदत् – शृणुत ! एते प्रवारकाः केवलं निर्धनेभ्यः वितरणार्थम् एव सन्ति, यदि अहम् एतेषु एकं स्वीकरोमि तर्हि अहम् अपि चौरः भविष्यामि । नतमस्तकाः चौराः तस्य पादयोः पतित्वा क्षमायाचनाम् अकुर्वन् ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) कः निश्चितवान् यत्-निर्धनेभ्यः कम्बलानां वितरणं भवेत् ?
(ii) तत्कार्यं कः स्वीकृतवान् ?
(iii) एकदा शीतस्य कीदृशः प्रकोपः अभवत्?
उत्तर:
(i) चन्द्रगुप्तः
(ii) चाणक्यः
(iii) भीषणः
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) चौरा: चाणक्यं किम् अपृच्छन् ?
(ii) चाणक्यः चौरं किम् अवदत् ?
(iii) चौराः किं याचन्ते ?
उत्तर:
(i) भवतां समीपे कम्बलानां राशिः अस्ति तथापि भवान् कम्बलं विना एव स्वपिति ।
(ii) चाणक्यः अवदत् – शृणुत ! प्रवारकाः केवलं निर्धनेभ्यः वितरणार्थम् एव सन्ति, यदि अहम् एतेषु एकं स्वीकरोमि तर्हि अहम् अपि चौर: भविष्यामि ।
(iii) चौराः तस्य पादयोः पतित्वा क्षमायाचनाम् अकुर्वन्।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
अनुकरणीयम् आचरणम्
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘भीषणः प्रकोपः’ अनयोः विशेष्यपदं किम् अस्ति ?
(क) प्रकोप:
(ख) भीषणः
(ग) तस्य
(घ) चाणक्य
उत्तर:
(क) प्रकोप:
(ii) ‘प्रबुद्ध:’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) चाणक्य:
(ख) चौर:
(ग) भृत्यः
(घ) कम्बलः
उत्तर:
(क) चाणक्य:
(iii) ‘धनिकेभ्यः’ इति पदस्य गद्यांशे किं विलोमपदं प्रयुक्तम् ?
(क) कम्बलेभ्य
(ख) चौरेभ्यः
(ग) निर्धनेभ्यः
(घ) जनेभ्यः
उत्तर:
(ग) निर्धनेभ्यः
(iv) “चाणक्यः अवदत् – शृणुत ! यदि अहम् एतेषु एकं स्वीकरोमि तर्हि अहम् अपि चौरः भविष्यामि ।” अस्मिन् वाक्ये ‘अहम्’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) सम्राट – चन्द्रगुप्तस्य कृते
(ख) चौरस्य कृते
(ग) चाणक्यस्य कृते
(घ) भृत्यस्य कृते
उत्तर:
(ग) चाणक्यस्य कृते
गद्यांश: 12
मानवस्य बौद्धिकविकासाय ज्ञानवर्धनाय च पुस्तकालयानां महत्त्वपूर्णं स्थानं वर्तते । पुस्तकालयेषु विविधपुस्तकानां सङ्ग्रहो भवति । अत्र विविधभाषाणां पत्र-पत्रिकादयोऽपि प्रतिदिनं आयान्ति । अस्माकं पुस्तकालयः नगरस्य रमणीये स्थाने वर्तते । अस्मिन् दशसहस्राणि पुस्तकानि सन्ति । अस्माकं पुस्तकालये हिन्दी – आङ्ग्ल – संस्कृतभाषाणां पत्र-पत्रिकाः प्रतिदिनं आयान्ति । अस्य समीपे एकः वाचनालयः वर्तते। यत्र बहवः जनाः, छात्राः, युवतयश्च प्रतिदिनं आगत्य स्वाध्यायं कुर्वन्ति ।
अस्माकं पुस्तकालयस्य भवनं विशालं रमणीयञ्च वर्तते । अस्य पुस्तकालयस्य सर्वे जनाः प्रशंसां कुर्वन्ति । अस्माकं ज्ञानवर्धनाय अस्य महती भूमिका वर्तते । अयम् एकः आदर्शः पुस्तकालयः विद्यते ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) मानवस्य बौद्धिकविकासाय ज्ञानवर्धनाय च कस्य महत्त्वपूर्णं स्थानमस्ति ?
(ii) अस्माकं पुस्तकालयः नगरस्य कीदृशे स्थाने वर्तते ?
(iii) अस्मिन् कति पुस्तकानि सन्ति?
उत्तर:
(i) पुस्तकालयस्य
(ii) रमणीये
(iii) दशसहस्राणि
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) पुस्तकालयेषु केषां सङ्ग्रहो भवति ?
(ii) पुस्तकालयस्य किमर्थं महती भूमिका ?
(iii) तत्र प्रतिदिनं के आयान्ति ?
उत्तर:
(i) पुस्तकालयेषु विविधपुस्तकानां सङ्ग्रहों भवति ।
(ii) अस्माकं ज्ञानवर्धनाय पुस्तकालयस्य महती भूमिका वर्तते ।
(iii) अत्र विविधभाषाणां पत्र-पत्रिकादयोऽपि प्रतिदिनम् आयान्ति ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
अस्माकं पुस्तकालय: / आदर्श: पुस्तकालयः
IV. यथानिर्देशम् उत्तरत् । (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘सर्वे जनाः प्रशंसां कुर्वन्ति’ अस्मिन् वाक्ये रेखाङ्कितपदस्य विलोमपदम् अस्ति।
(क) निन्दाम्
(ख) सङ्ग्रहो
(ग) आगत्य
(घ) आङ्ग्लः
उत्तर:
(क) निन्दाम्
(ii) ‘एक: वाचनालयः’ इत्यत्र विशेषणपदं किमस्ति ?
(क) वाचनालयः
(ख) एक:
(ग) अस्ति
(घ) भवति
उत्तर:
(ख) एक:
(iii) ‘छात्राः प्रतिदिनम् आगत्य स्वाध्यायं कुर्वन्ति’ अस्मिन् वाक्ये कर्तृपदं किमस्ति ?
(क) अध्ययनम्
(ख) प्रतिदिनम्
(ग) छात्रा:
(घ) आगत्य
उत्तर:
(ग) छात्रा:
(iv) “अस्य पुस्तकालयस्य सर्वे जनाः प्रशंसां कुर्वन्ति ।” अस्मिन् वाक्ये ‘अस्य’ इति सर्वनामपदं कस्य बोधं कारयति ?
(क) नगरस्य
(ख) पुस्तकालयस्य
(ग) वाचनालयस्य
(घ) भवनस्य
उत्तर:
(ख) पुस्तकालयस्य
गद्यांश: 13
कस्मिंश्चिद् ग्रामे एकः वृद्धः कृषकः अवसत्। सः परिश्रमी, दूरदर्शी तथा सरलस्वभावः आसीत् । तस्य चत्वारः पुत्राः आसन्ं, परं ते अलसाः अभवन् । ते कृषिकार्ये पितुः सहयोगं न अकुर्वन्, न च तेषां कृषिकार्ये रुचिः आसीत् । अस्मात् कारणात् वृद्धकृषकः चिन्तितवान् । मरणासन्नावसरे वृद्धः कृषकः स्वपुत्रान् अकथयत् यत्-मम क्षेत्रेषु गुप्तं धनं वर्तते, मम मरणानन्तरं क्षेत्रान् खनित्वा सुगुप्तं धनं प्राप्नुयात्। पुत्राः एतत् श्रुत्वा प्रासीदन् । निजपितुः मृत्योः पश्चात् निजक्षेत्रान् अकर्षन्। परं सुगुप्तं धनं न लब्धम् । ते निराशाः सञ्जाताः । अन्ते निजमातुः प्रेरणया ते निजक्षेत्रेषु बीजानि अवपन् । परिणामस्वरूपं प्रभूतं धान्यम् अभवत् । तस्य विक्रयैः ते समृद्धाः धनिनः च सञ्जाताः । अन्ते च ते स्वपितुः सुगुप्तधनस्य रहस्यम् अबोधयन्।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) वृद्धः कृषकः कुत्र अवसत् ?
(ii) कृषकस्य कति पुत्राः आसन् ?
(iii) तस्य स्वभाव कीदृशः आसीत् ?
उत्तर:
(i) ग्रामे
(ii) चत्वारः
(iii) सरल
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) वृद्धः कृषकः कीदृशः आसीत् ?
(ii) मरणासन्नावसरे कृषकः स्वपुत्रान् किम् अकथयत् ?
(iii) अन्ते निजमातुः प्रेरणया ते किम् अकुर्वन् ?
उत्तर:
(i) वृद्धः कृषकः परिश्रमी, दूरदर्शी तथा सरलस्वभावः आसीत् ।
(ii) यत्-मम क्षेत्रेषु गुप्तं धनं वर्तते, मम मरणानन्तरं क्षेत्रान् खनित्वा सुगुप्तं धनं प्राप्नुयात् ।
(iii) ते निजक्षेत्रेषु बीजानि अवपन्, परिणामस्वरूपं प्रभूतं धान्यम् अभवत्।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
सुगुप्तधनस्य रहस्यम् ।
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘चत्वारः पुत्राः’ इत्यत्र विशेषणपदम् अस्ति ।
(क) चत्वारः
(ख) पुत्राः
(ग) कृषकः
(घ) वृद्धः
उत्तर:
(क) चत्वारः
(ii) ‘पुत्राः एतत् श्रुत्वा प्रासीदन्’ इत्यत्र कर्तृपदं किम् ?
(क) एतत्
(ख) पुत्राः
(ग) श्रुत्वा
(घ) प्रासीदन्
उत्तर:
(ख) पुत्राः
(iii) ‘कस्मिंश्चिद् ग्रामे एकः वृद्धः कृषकः अवसत्’ अस्मिन् वाक्ये किम् क्रियापदम् ?
(क) कृषकः
(ख) वृद्धः
(ग) अवसत्
(घ) न कोऽपि
उत्तर:
(ग) अवसत्
(iv) “मम क्षेत्रेषु गुप्तं धनं वर्तते ।” अस्मिन् वाक्ये ‘मम’ इति सर्वनामपदं कस्य कृते प्रयुक्तम् ?
(क) पुत्राणां कृते
(ख) वृद्धकृषकस्य कृते
(ग) मातुः कृते
(घ) धनस्य कृते
उत्तर:
(ख) वृद्धकृषकस्य कृते
गद्यांश: 14
कस्मिंश्चित् अरण्ये अनेके पशवः वसन्ति स्म। एकदा पशूनां राजा सिंहः रोगपीडितः अभवत् । एकं शृगालं विहाय सर्वे पशवः रोगपीडितं नृपं द्रष्टुमागताः । एकः उष्ट्रः नृपाय एतत् न्यवेदयत् यत्-अहङ्कारिणं शृगालं विहाय सर्वे भवन्तं द्रष्टुमागताः। एतच्छ्रुत्वा सिंह: क्रोधितोऽभवत् । स्वमित्रैः एतज्ज्ञात्वा शृगालः शीघ्रमेव सिंहस्य समीपे प्राप्तः । क्रोधितेन सिंहेन विलम्बेन आगमनकारणं पृष्टम् । शृगालोऽवदत्- यदहं तु सर्वप्रथममागन्तुम् ऐच्छं परं चिकित्सकात् औषधमपि आनेयमिति विचिन्त्य तत्रागच्छम्। तच्छ्रुत्वा प्रसन्नः सिंहः औषधिविषये पृष्टवान् । शृगालः अवदत्-यत्तेन औषधं तु न दत्तं परं कृपापरो भूत्वा सः चिकित्साक्रमम् उक्तवान् यत्-उष्ट्रस्य रक्तपानेनैव रोगस्य शान्तिः भविष्यति । तदा सिंहः उष्ट्रमाहूतवान् भक्त्या आगतं च तं मारयित्वा तस्य रक्तं पीतवान् । एवं स्वपिशुनतायाः दुष्फलम् उष्ट्रेण स्वयमेव प्राप्तम् ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) पशूनां राजा सिंहः कीदृशः अभवत्?
(ii) कं विहाय सर्वे पशवः नृपं द्रष्टुमागताः ?
(iii) तच्छ्रुत्वा प्रसन्नः सिंहः किं पृष्टवान्?
उत्तर:
(i) रोगपीडित:
(ii) शृगालम्
(iii) औषधिविषये
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) क्रोधितेन सिंहेन शृगालं किं पृष्टम् ?
(ii) शृगालः किम् अवदत् ?
(iii) सः चिकित्साक्रमं किम् उक्तवान्?
उत्तर:
(i) क्रोधितेन सिंहेन शृगालं विलम्बेन आगमनकारणं पृष्टम्।
(ii) यदहं तु सर्वप्रथममागन्तुम् ऐच्छं परं चिकित्सकात् औषधमपि आनेयमिति विचिन्त्य तत्रागच्छम्।
(iii) यत्-उष्ट्रस्य रक्तपानेनैव रोगस्य शान्तिः भविष्यति ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
पिशुनतायाः दुष्फलम्।
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘एक: उष्ट्रः नृपाय न्यवेदयत्” इत्यत्र कर्तृपदं किम् ?
(क) एक: उष्ट्र:
(ख) नृपाय
(ग) एतत्
(घ) यत्
उत्तर:
(क) एक: उष्ट्र:
(ii) ‘क्रोधितेन सिंहेन’ इत्यत्र विशेषणपदं किम् ?
(क) सिंहेन
(ख) क्रोधितेन
(ग) मित्रैः
(घ) सर्वे
उत्तर:
(ख) क्रोधितेन
(iii) ‘तं मारयित्वा तस्य रक्तं पीतवान्’ इत्यत्र ‘पीतवान्’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) शृगालः
(ख) नृपः
(ग) सिंहः
(घ) उष्ट्र:
उत्तर:
(ग) सिंहः
(iv) “एकं शृगालं विहाय सर्वे पशवः रोगपीडितं नृपं द्रष्टुमागताः।” अस्मिन् वाक्ये ‘पशवः’ इति पदं कीदृशी संज्ञा अस्ति?
(क) व्यक्तिवाचक संज्ञा
(ख) जातिवाचक संज्ञा
(ग) भाववाचक संज्ञा
(घ) समूहवाचक संज्ञा
उत्तर:
(ख) जातिवाचक संज्ञा
गद्यांश: 15
सते अर्थात् कल्याणाय हितं सत्यं भवति । यद् वस्तु यथा विद्यते तस्य तेन एव रूपेण कथनं लेखनं वा सत्यम् उच्यते । सत्येन एव समाजस्य स्थितिः भवति । यदि सर्वे असत्यवादिनः भवेयुः तर्हि लोकस्य स्थितिः क्षणमात्रम् अपि भवितुं न शक्नोति । एषा महिमा सत्यस्य एव अस्ति यद् वयं समाजे मनुष्येषु विश्वासं कुर्मः । अतः सत्यम् एव लोकस्य आधारः अस्ति। समाजस्य सकलः कार्यव्यवहारः विश्वासेन चलति, विश्वासस्य आधारः सत्यमेव भवति । जीवनस्य सर्वेषु क्षेत्रेषु सत्यस्य अपेक्षा विद्यते । अस्माकं सकलम् आदानं प्रदानं च सत्ये एव अवलम्बितं भवति । राजनीतिक-क्षेत्रे, सामाजिक क्षेत्रे, धार्मिक-क्षेत्रे, आध्यात्मिक-क्षेत्रे च सत्यस्य महती आवश्यकता वर्तते ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) सत्येन समाजस्य का भवति ?
(ii) सत्यं कस्य आधारः अस्ति ?
(iii) एषा महिमा कस्य अस्ति ?
उत्तर:
(i) स्थितिः
(ii) लोकस्य
(iii) सत्यस्य
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) किम् सत्यम् उच्यते ?
(ii) यदि सर्वे असत्यवादिनः भवेयुः तदा किं भवितुं न शक्नोति ?
(iii) कुत्र कस्य च महती आवश्यकता वर्तते ?
उत्तर:
(i) यद् वस्तु यथा विद्यते तस्य तेनैव रूपेण कथनं लेखनं वा सत्यम् उच्यते।
(ii) यदि सर्वे असत्यवादिनः भवेयुः तर्हि लोकस्य स्थितिः क्षणमात्रमपि भवितुं न शक्नोति ।
(iii) राजनीतिक, सामाजिक, धार्मिक एवं आध्यात्मिक क्षेत्रे सत्यस्य महती आवश्यकता वर्तते ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
सत्यम् / सत्यस्य महती आवश्यकता
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘सत्यस्य’ इति पदस्य विलोमपदं कः ?
(क) असत्यस्य
(ख) कल्याणस्य
(ग) समाजस्य
(घ) लोकस्य
उत्तर:
(क) असत्यस्य
(ii) ‘सर्वेषु क्षेत्रेषु’ इत्यत्र विशेषणपदं किम् ?
(क) मनुष्येषु
(ख) सर्वेषु
(ग) क्षेत्रेषु
(घ) कार्येषु
उत्तर:
(ख) सर्वेषु
(iii) ‘वयं समाजे मनुष्येषु विश्वासं कुर्मः’ इत्यत्र कर्तृपदं किम् ?
(क) अहं
(ख) तस्य
(ग) वयं
(घ) सते
उत्तर:
(ग) वयं
(iv) “यद् वस्तु यथा विद्यते तस्य तेन एव रूपेण कथनं लेखनं वा सत्यम् उच्यते ।” अस्मिन् वाक्ये ‘तस्य’ इति सर्वनामपदं कस्य बोधं कारयति ?
(क) सत्यस्य
(ख) वस्तुनः
(ग) समाजस्य
(घ) लोकस्य
उत्तर:
(ख) वस्तुनः
गद्यांश: 16
ये सत्यं पालयन्ति, ते सर्वोत्तमं धर्मं कुर्वन्ति । ये च सत्यं परित्यज्य असत्यं भजन्ते, ते महापातकं कुर्वन्ति । यतो असत्य भाषणेन स्वस्य हानिः नाशश्च भवतः । समाजस्य लोकस्य देशस्य च मिथ्याभाषणेन नाशः भवति । अतएव उच्यते न हि सत्यात् परो धर्मों नानृतात् पातकं परम्। सत्यस्य पालनार्थमेव महाराजो दशरथः प्रियं पुत्रं रामं वनं प्रैषयत्। राजा हरिश्चन्द्रः सत्य पालनार्थमेव सर्वाणि दुःखानि असहत। युधिष्ठिरः सत्यभाषणस्य प्रभावादेव विजयमलभत्। महात्मागान्धिमहोदयः सत्यस्यैव सदा शिक्षायददात्। भारतस्य राजचिह्नेऽपि “सत्यमेव जयते” इत्यादरेण उल्लिख्यते ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) सत्यपालनार्थम् कः रामं वनं प्रैषयत् ?
(ii) सत्यभाषणस्य प्रभावात् युधिष्ठिरः कम् अलभत् ?
(iii) ते सर्वोत्तमं किं कुर्वन्ति ?
उत्तर:
(i) दशरथ:
(ii) विजयम्
(iii) धर्मम्
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) मिथ्याभाषणेन कस्य नाशः भवति ?
(ii) के सर्वोत्तमं धर्मं कुर्वन्ति ?
(iii) अतएव उच्यते हि किम् ?
उत्तर:
(i) मिथ्याभाषणेन समाजस्य लोकस्य देशस्य च नाशः भवति ।
(ii) ये सत्यं पालयन्ति ते सर्वोत्तमं धर्मं कुर्वन्ति ।
(iii) अतएव उच्यते न हि सत्यात् परो धर्मों नानृतात् पातकं परम् ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
सत्यमेव जयते
IV. यथानिर्देशम् उत्तरत । (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘राजा हरिश्चन्द्रः सत्य पालनार्थमेव सर्वाणि दुःखानि असहत’ अस्मिन् वाक्ये किम् कर्तृपदम् ?
(क) हरिश्चन्द्रः
(ख) पालनार्थमेव
(ग) असहत
(घ) सर्वाणि
उत्तर:
(क) हरिश्चन्द्रः
(ii) ‘ते सर्वोत्तमं धर्मं कुर्वन्ति ।’ अत्र विशेषणपदं किम् ?
(क) ते
(ख) सर्वोत्तमं
(ग) धर्मं
(घ) कुर्वन्ति
उत्तर:
(ख) सर्वोत्तमं
(iii) ‘महात्मा सत्यस्यैव सदा शिक्षायददात्’ अत्र कर्तृपदं किम् अस्ति ?
(क) अददात्
(ख) सदा
(ग) महात्मा
(घ) शिक्षाम्
उत्तर:
(ग) महात्मा
(iv) “ये सत्यं पालयन्ति, ते सर्वोत्तमं धर्मं कुर्वन्ति ।” अस्मिन् वाक्ये ‘ते’ इति सर्वनामपदं केषां कृते प्रयुक्तम् ?
(क) असत्यवादिनां कृते
(ख) सत्यपालकानां कृते
(ग) पापिनां कृते
(घ) पशूनां कृते
उत्तर:
(ख) सत्यपालकानां कृते
गद्यांश: 17
काञ्चनपुरं धनदेवः नाम राजा पालयति स्म । धनबलेन एव सर्वं साधयितुं शक्यते इति चिन्तयति स्म सः । ‘धनबलं श्रेष्ठं उत बुद्धिबलम्’ इति विषये राजमन्त्रिणोः सर्वदा चर्चा भवति स्म। एकदा ताभ्यां निर्णयः कृतः यत्-परीक्षया एव धनबुद्धयोः श्रेष्ठता निश्चेतव्या इति । ततः राजा मन्त्री च एकं धनिकम् एकं मेधाविनं च आनीतवन्तौ । राजा तौ उद्दिश्य उक्तवान्–“पार्श्वराज्ये मम मित्रं शूरसेनः निवसति । एतत् पत्रं तस्मै दातव्यं भवद्भ्याम्” इति । पत्रं दत्वा तयोः गमनार्थं व्यवस्थाम् अपि कृतवान् सः । राजा शूरसेनः भटान् आहूय आज्ञापितवान्-“एतयोः शिरश्छेदः क्रियताम्” इति । भटाः तौ वध्यस्थानं नीतवन्तः। “मां त्यजन्तु कृपया । प्रत्युपकाररूपेण अहं भवद्भ्यः प्रभूतं धनं दास्यामि” इति रुदन् धनिकः उक्तवान्।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) काञ्चनपुरं किं नाम राजा पालयति स्म ?
(ii) केन एव सर्वं साधयितुं शक्यते ?
(iii) धनबलं श्रेष्ठं उत किम् ?
उत्तर:
(i) धनदेव
(ii) धनबलेन
(iii) बुद्धिबलम्
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) शूरसेनः भटान् आहूय किम् आज्ञापितवान् ?
(ii) राजा तौ उदिद्श्य किम् उक्तवान् ?
(iii) धनिकः भटेभ्यः रुदन् किम् उक्तवान्?
उत्तर:
(i) शूरसेन भटान् आज्ञापितवान्- “एतयोः शिरश्छेदः क्रियताम् ।”
(ii) पार्श्वराज्ये मम मित्रं शूरसेनः निवसति । एतत् पत्रं तस्मै दातव्यं भवद्भ्याम् इति ।
(iii) मां त्यजन्तु कृपया प्रत्युपकाररूपेण अहं भवद्भ्यः प्रभूतं धनं दास्यामि ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
‘धनबलं श्रेष्ठम् उत बुद्धिबलम्’
IV. यथानिर्देशम् उत्तरत । (निर्देशानुसार उत्तर दीजिए ।)
(i) गद्यांशे ‘सैनिक:’ इति पदस्य पर्यायपदं किम् अस्ति ?
(क) शीतः
(ख) भट:
(ग) प्रभूतम्
(घ) शिरः
उत्तर:
(ख) भट:
(ii) ‘प्रभूतं धनम्’ अनयोः विशेषणपदं किम् अस्ति ?
(क) प्रभूतम्
(ख) धनम्
(ग) पत्रम्
(घ) भटम्
उत्तर:
(क) प्रभूतम्
(iii) ‘नीतवन्तः’ इति क्रियापदस्य कर्तृपदं किम् अस्ति ?
(क) भटाः
(ख) राजा
(ग) सुबुद्धि
(घ) धनिकः
उत्तर:
(क) भटाः
(iv) “पार्श्वराज्ये मम मित्रं शूरसेनः निवसति । एतत् पत्रं तस्मै दातव्यं भवद्भ्याम्।” अस्मिन् वाक्ये ‘तस्मै’ इति सर्वनामपदं कस्य बोधं कारयति ?
(क) धनदेवस्य
(ख) शूरसेनस्य
(ग) मन्त्रिणः
(घ) धनिकस्य
उत्तर:
(ख) शूरसेनस्य
गद्यांश: 18
पुरा धाराराज्ये सिन्धुल नामकः राजा चिरं प्रजाः पर्यपालयत्। आत्मनः जरां ज्ञात्वा अनुजं महाबलं मुञ्जमवदत् -” त्वं मम पुत्रं भोजं परिपालय । अपि च यावद् असौ राज्यभारं वोढुम् अक्षमः तावत् त्वमेव राज्यं कुरु।” दिवङ्गते राजनि राज्यं शासतः मुञ्जस्य पापबुद्धिः उत्पन्ना।
सः भोजं हन्तुं निश्चित्य स्वमित्रं वत्सराजं प्राह-त्वं भुवने वरीविपिने निशायां भोजं हत्वा तस्य शिरः मह्यं देहि । वत्सराजः रात्रौ भोजं भुवनेश्वरी मन्दिरं नीत्वा अवोचत्-राज्ञा भवतः वधः आदिष्टः इति । तस्मिन् काले भोजः स्वरक्तेन भोजपत्रे एकं श्लोकम् अलिखत् । तेन श्लोकेन वैराग्यमापन्नः वत्सराजः भोजं भूमिगृहान्तरे सुरक्षितवान्। स्वयं च कृत्रिमं मस्तकं राजानं दर्शयित्वा प्राह श्रीमता यद् आदिष्टं तत् साधितम् इति । ततः भोजस्य तत्पत्रं राज्ञेऽददात्। राजा श्लोकस्यार्थं विचार्य अत्यन्तं लज्जितः सन् प्रायश्चित्तस्वरूपेण अग्नौ शरीरं दग्धुं समुद्यतः । तस्मिन् एव काले ‘भोजः जीवति’ इति रहस्यं वत्सराजः उद्घाटितवान् । तेन अतीव प्रसन्नः मुञ्जः भोजं राजसिंहासने स्थापयित्वा स्वयं पत्न्या सह तपोवनं जगाम ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए।)
(i) धाराराज्ये कः नामकः राजा प्रजाः पर्यपालयत्?
(ii) राज्यं शासतः मुञ्जस्य कीदृशी बुद्धिः उत्पन्ना?
(iii) त्वं कम् परिपालयः ?
उत्तर:
(i) सिन्धुलः
(ii) पापबुद्धिः
(iii) भोजम्
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) वत्सराजः भोजं रात्रौ भुवनेश्वरी मन्दिर नीत्वा किम् अवोचत्?
(ii) राजा सिन्धुलः अनुजं मुञ्जं किम् अवदत् ?
(iii) राजा श्लोकस्यार्थं विचार्य किं कर्तुं समुद्यतः ?
उत्तर:
(i) वत्सराज अवोचत् राज्ञा भवतः वधः आदिष्टः इति ।
(ii) त्वं मम पुत्रं भोजं परिपालय । अपि च यावत् असौ राज्यभारं वोढुम् अक्षमः तावत् त्वमेव राज्यं कुरु ।
(iii) राजा श्लोकस्यार्थं विचार्य अत्यन्तं लज्जितः सन् प्रायश्चित्तस्वरूपेण अग्नौ शरीरं दग्धुं समुद्यतः ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
भोज / मुञ्जस्य वैराग्यम्
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘यावत् असौ राज्यभारं वोढुम् अक्षमः’ अस्मिन् वाक्ये किम् क्रियापदम् ?
(क) यावत्
(ख) वोढुम्
(ग) राज्यभारं
(घ) असौ
उत्तर:
(ख) वोढुम्
(ii) ‘कृत्रिमं मस्तकं’ अनयोः विशेषणं किम् अस्ति ?
(क) कृत्रिमं
(ख) मस्तकं
(ग) वत्सराजः
(घ) अनुजः
उत्तर:
(क) कृत्रिमं
(iii) ‘पृथ्वी’ इति पदस्य पर्यायपदं अनुच्छेदे किं प्रयुक्तम् ?
(क) भवतः
(ख) शिर:
(ग) भूमि:
(घ) प्रजाः
उत्तर:
(ग) भूमि:
(iv) “अपि च यावद् असौ राज्यभारं वोढुम् अक्षमः तावत् त्वमेव राज्यं कुरु ।” अस्मिन् वाक्ये ‘असौ’ इति सर्वनामपदं कस्य बोधं कारयति ?
(क) मुञ्जस्य
(ख) सिन्धुलस्य
(ग) भोजस्य
(घ) वत्सराजस्य
उत्तर:
(ग) भोजस्य
गद्यांश: 19
विष्णुवर्धनस्य राजसभायां महाकविः भारविः राजकविः आसीत्। भारविः बाल्यकाले महता परिश्रमेण विद्याम् अर्जितवान्। तस्य विलक्षणा प्रतिभा काव्यरचनायामपि प्रवृत्ता । तस्य कीर्तिलता अल्पेनैव कालेन चतुर्दिक्षु प्रासरत् । भारवेः पिता पुत्रस्य काव्ययशसा मनसि अत्यन्तं प्रसन्नः सन्तुष्टश्चासीत्। तथापि सः वचसा भारविं कदापि न प्राशंसत्। प्रत्युत सः यदा-कदा तस्य पाण्डित्यस्य आलोचनाम् अकरोत् एकदा भारवेः पिता एकस्यां सभायां तस्य तिरस्कारं कृतवान्। सः चिन्तया रात्रौ निद्रां न लब्धवान्। गृहे इतस्ततः पर्यटन् सः रात्रौ पितुः प्रकोष्ठात् बहिरेव किञ्चित्कालं स्थितः । तदा स्वविषये मातापित्रोः वार्तालापम् अशृणोत् अस्माकं पुत्रः महाकविः महापण्डितश्च । भारवेः यशः निरन्तरं वर्धते । सः समाजे अस्माकमपि गौरवं स्थापयति, किन्तु सः इतोऽपि अधिकं कवित्वं कीर्तिं चार्जयेत् इति विचार्य सभायामद्य मया तिरस्कृता – इति ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) कस्य राजसभायां भारविः राजकविः आसीत् ?
(ii) भारविः बाल्यकाले केन विद्यां अर्जितवान् ?
(iii) महाकविः महापण्डितश्च कः ?
उत्तर:
(i) विष्णुवर्धनस्य
(ii) महता परिश्रमेण
(iii) भारविः
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) भारविः स्वविषये मातापित्रोः किं वार्तालापम् अशृणोत् ?
(ii) भारवेः पिता कथं प्रसन्नः सन्तुष्टश्चासीत्?
(iii) तस्य प्रतिभा कुत्र अपि प्रवृत्ता ?
उत्तर:
(i) भारविः अशृणोत् – अस्माकं पुत्रः महाकवि: महापण्डितश्च । भारवेः यशः निरन्तरं वर्धते, किन्तु स इतोऽपि अधिकं कवित्वं कीर्तिं चार्जयेत्।
(ii) भारवेः पिता पुत्रस्य काव्ययशसा मनसि अत्यन्तं प्रसन्नः सन्तुष्टश्चासीत् ।
(iii) तस्य विलक्षणा प्रतिभा काव्यरचनायामपि प्रवृत्ता ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए।)
उत्तर:
महाकवि: भारविः
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए।)
(i) ‘महता परिश्रमेण’ अनयोः विशेष्यपदं किम् अस्ति ?
(क) महता
(ख) परिश्रमेण
(ग) भारविः
(घ) राजकविः
उत्तर:
(ख) परिश्रमेण
(ii) ‘स: चिन्तया रात्रौ निद्रां न लब्धवान्’ अस्मिन् वाक्ये किम् क्रियापदम् ?
(क) रात्रौ
(ख) लब्धवान्
(ग) निद्रां
(घ) चिन्तया
उत्तर:
(ख) लब्धवान्
(iii) ‘अर्जितवान्’ इति क्रियापदस्य कर्तृपदं किम् अस्ति ?
(क) विष्णुवर्धन:
(ख) भारविः
(ग) कोऽपिजन:
(घ) पिता
उत्तर:
(ख) भारविः
(iv) “भारवेः पिता पुत्रस्य काव्ययशसा मनसि अत्यन्तं प्रसन्नः आसीत्, तथापि सः वचसा भारविं कदापि न प्राशंसत्।” अस्मिन् वाक्ये ‘सः’ इति सर्वनामपदं कस्य बोधं कारयति?
(क) भारवेः
(ख) भारवेः पितुः
(ग) विष्णुवर्धनस्य
(घ) यशसः
उत्तर:
(ख) भारवेः पितुः
गद्यांश: 20
बङ्ग प्रान्ते ये विद्वाँसः समाजसुधारकाः अभवन् तेषु ईश्वरचन्द्र विद्यासागरः एकतमः आसीत् । सः महता प्रयत्नेन विद्याध्ययनं अकरोत् । सः अतीव सरलः उदार हृदयः च आसीत्। निर्बलानां दीनजनानां च सः सदैव साहाय्यं करोति स्म। विद्यासागरस्य यशः श्रुत्वा एकदा कश्चित् धनिकः युवकः तस्य दर्शनाय प्रस्थितवान् । ततः पूर्वं कदापि सः विद्यासागरं न अपश्यत् । रेलयानात् अवतीर्य सः स्वपेटिका-वहनाय भारिक ! भारिक ! इति उच्चैः शब्दम् अकरोत्, किन्तु कोऽपि न आगतः । एतद् दृष्ट्वा तत्र स्थितः विद्यासागरः तम् उपगतः तथा तस्य पेटिकां करे कृत्वा तेन सह स्वगृहं गतवान् तत्र अयम् एव विद्यासागरः इति ज्ञात्वा सः युवक: भृशं लज्जितः विस्मितः च अभवत् । क्षमस्व माम् इति उक्त्वा स तस्य पादयोः अपतत्। विद्यासागरः तम् अवदत्-स्वकीयं कार्यं स्वयमेव कुरु लज्जां मा कुरु ।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) विद्यासागरः महता प्रयत्नेन किम् अकरोत् ?
(ii) कश्चित् धनिकः युवकः कस्मै प्रयोजनाय प्रस्थितवान् ?
(iii) बङ्ग प्रान्ते कीदृशाः विद्वांसः अभवन्?
उत्तर:
(i) विद्याध्ययनम्
(ii) दर्शनाय
(iii) समाजसुधारका:
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए।)
(i) विद्यासागरः युवकं समीपं गत्वा किम् अकरोत् ?
(ii) धनिकः रेलयानात् अवतीर्य किम् अकरोत् ?
(iii) कः सदैव निर्बलानां दीनजनानां साहाय्यं करोति स्म ?
उत्तर:
(i) विद्यासागरः तम् युवकम् समीपं गत्वा तस्य पेटिकां करे कृत्वा तेन सह स्वगृहं गतवान् ।
(ii) धनिकः रेलयानात् अवतीर्य स्वपेटिका – वहनाय भारिक ! भारिक! भारिक! इति उच्चैः शब्दम् अकरोत् किन्तु कोऽपि न आगतः ।
(iii) निर्बलानां दीनजनानां च ईश्वरचन्द्रः विद्यासागरः सदैव साहाय्यं करोति स्म।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
विद्यासागर:/स्वकीयं कार्यं स्वयमेव कुरु ।
IV. यथानिर्देशम् उत्तरत। (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘नीचैः’ इति पदस्य गद्यांशे किं विलोमपदं प्रयुक्तम् ?
(क) अधः
(ख) शनै:
(ग) उच्चैः
(घ) उपरि:
उत्तर:
(ग) उच्चैः
(ii) ‘कीर्ति’ इति पदस्य गद्यांशे किं पर्यायपदं प्रयुक्तम् ?
(क) यश:
(ख) सरल:
(ग) पूर्व:
(घ) धनिकः
उत्तर:
(क) यश:
(iii) ‘प्रस्थितवान्’ इति क्रियापदस्य कर्तृपदं किम् अस्ति ?
(क) युवक:
(ख) विद्यासागर:
(ग) कश्चिदन्यः
(घ) रेलयानं
उत्तर:
(क) युवक:
(iv) “एतद् दृष्ट्वा तत्र स्थितः विद्यासागरः तम् उपगतः।” अस्मिन् वाक्ये ‘तम् इति सर्वनामपदं कस्य बोधं कारयति ?
(क) भारिकस्य
(ख) धनिकस्य युवकस्य
(ग) रेलयानस्य
(घ) समाजस्य
उत्तर:
(ख) धनिकस्य युवकस्य
गद्यांश: 21
एकदा एकः काकः बुभुक्षितः आसीत् । भोजनं प्राप्तुं सः इतस्ततः अभ्रमत्। सहसा सः एकां रोटिकां प्राप्तवान्। सः एकस्य वृक्षस्य शाखायाः उपरि उपविष्टः रोटिकां खादितुं च अचिन्तयत्। तदैव एका शृगाली काकस्य पार्श्वे रोटिकां अपश्यत्। सा तां रोटिकां प्राप्तुं मनसि अचिन्तयत् । सा तस्यैव वृक्षस्य अधः अतिष्ठत् यस्य उपरि काकः उपविष्टः आसीत्। शृगाली काकम् अवदत् – भो काक! त्वम् अतीव सुन्दरः असि, तव वर्ण: मोहकः अस्ति, तव पक्षौ मनोहरौ स्तः, तव ध्वनिः अतीव मधुरा अस्ति, तव ध्वनिं श्रुत्वा मम कर्णौ तृप्तौ भवतः । स्वप्रशंसां श्रुत्वा काकः अतिप्रसन्नः अभवत्। यदैव सः ‘काँव् – काँव्’ इति ध्वनिं कर्तुम् आरभत तदा तस्य मुखात् रोटिका भूमौ अपतत्। रोटिकां प्राप्त्यर्थम् एव शृगाली तस्य प्रशंसां अकरोत् । सा शीघ्रम् एव रोटिकां गृहीत्वा तस्मात् स्थानात् पलायिता अखादत् च।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) बुभुक्षितः कः आसीत्?
(ii) काकस्य पार्श्वे रोटिकां च का अपश्यत् ?
(iii) तव वर्णः किम् अस्ति ?
उत्तर:
(i) काकः
(ii) शृगाली
(iii) मोहक
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) शृगाली काकं किम् अवदत् ?
(ii) काकः कुत्र रोटिकां खादितुं च अचिन्तयत् ?
(iii) किं श्रुत्वा काकः प्रसन्नः अभवत्?
उत्तर:
(i) शृगाली अवदत् – भो काक! त्वम् अतीव सुन्दर: असि तव वर्णः मोहकः अस्ति, तव पक्षौ मनोहरौ स्तः, तव ध्वनिः अतीव मधुरा अस्ति ।
(ii) काकः एकस्य वृक्षस्य शाखायाः उपरि उपविष्टः रोटिकां खादितुं च अचिन्तयत् ।
(iii) स्वप्रशंसां श्रुत्वा काकः अतिप्रसन्नः अभवत् ।
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (इस अनुच्छेद का उचित शीर्षक लिखिए |)
उत्तर:
चतुरा शृगाली
IV. यथानिर्देशम् उत्तरत । (निर्देशानुसार उत्तर दीजिए ।)
(i) ‘सः इतस्ततः अभ्रमत्’ अस्मिन् वाक्ये किम् क्रियापदम् ?
(क) स:
(ख) अभ्रमत्
(ग) उभौ
(घ) न कोऽपि
उत्तर:
(ख) अभ्रमत्
(ii) ‘कर्णौ’ अस्य विशेषणपदं किम् ?
(क) तृप्तौ
(ख) भूमौ
(ग) मनोहरौ
(घ) नरौ
उत्तर:
(क) तृप्तौ
(iii) ‘उपरि’ इत्यर्थे किं विलोमपदम् अनुच्छेदे प्रयुक्तम् ?
(क) निम्नः
(ख) उच्चैः
(ग) अधः
(घ) नीचैः
उत्तर:
(ग) अधः
(iv) “सा तां रोटिकां प्राप्तुं मनसि अचिन्तयत्।” अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्याः बोधं कारयति ?
(क) रोटिकायाः
(ख) शृगाल्या:
(ग) शाखायाः
(घ) काकस्य
उत्तर:
(ख) शृगाल्या:
अधोलिखितम् गद्यांशं पठित्वा उत्तराणि लिखतनिम्नलिखित –
गद्यांशों को ध्यानपूर्वक पढ़कर दिए गए प्रश्नों के उत्तर दें
गद्यांश 1
संस्कृतभाषायाम् इदं प्रसिद्धम् अस्ति-अविवेकी पक्षपाती जायते। अस्य तात्पर्यमस्ति यत् अविवेकिनः जनाः स्वजनान् एव पोषयन्ति एवम् एव श्रीहर्षः स्वमहाकाव्ये लिखति—’भवन्ति हि भव्येषु पक्षपातः’। वस्तुतः ये जनाः आत्मनां कृते भव्याः प्रियाः च भवन्ति तान् प्रति तु पक्षपातः संजायते एव। जनाः अस्याभिप्रायम् इमं गृह्णन्ति यत् स्वजातीयानां पारिवारिकाणाम् जनानां वा पक्षे स्वीकृते एव उदयः भवति भ्रष्टाचारस्य। अतः अतिप्राचीनकालाद् एव समाजे भ्रष्टाचारः प्रचलितः आसीत् । अभिज्ञानशाकुन्तलेऽपि वयं पश्यामः यद् राज्ञः श्यालः खलु आरक्षकाणां महाधिकारी आसीत् ।
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) कालिदास-विरचित-नाटकस्य नाम किम् ?
(ii) भ्रष्टाचार: कस्मात् कालात् प्रचलितः?
(iii) आरक्षकाणां महाधिकारी कः आसीत्?
उत्तर:
(i) अभिज्ञानशाकुन्तलम्
(ii) अति प्राचीनकालात्
(iii) श्याल:
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)
(i) ‘अविवेकी पक्षपाती जायते’ अस्य कि तात्पर्यम् अस्ति?
(ii) कान् प्रति तु पक्षपात: संजायते एव?
(iii) संस्कृतभाषायाम् किम् प्रसिद्ध अस्ति?
(III) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए। Write an appropriate title for this passage.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)
(i) ‘जनाः भव्याः प्रियाः च भवन्ति’ अत्र विशेष्यपदं किम्?
(क) भव्याः
(ख) प्रियाः
(ग) भवन्ति
(घ) जनाः
(ii) ‘स्वीकुर्वन्ति’ इत्यर्थे कः शब्दः प्रयुक्तः?
(क) जायन्ते
(ख) ग्रह्णन्ति
(ग) पोषयन्ति
(घ) भवन्ति
(iii) ‘विवेकिनः’ इति पदस्य कः विपर्ययः अत्र अस्ति?
(क) विवेकी
(ख) विवेकिन्
(ग) विवेकिनः
(घ) विवेकः
(iv) ‘लिखति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) स्वमहाकाव्यः
(ख) श्रीहर्षः
(ग) कालिदासः
(घ) अभिज्ञानशाकुन्तलम्
उत्तर:
(I)
(i) अभिज्ञानशाकुन्तलम्
(ii) अति प्राचीनकालात्
(iii) श्याल:
(II)
(i) अस्य तात्पर्यम् अस्ति यत् अविवेकिनः जनाः स्वजनान् एव पोषयन्ति।
(ii) वस्तुतः ये जनाः आत्मनां कृते भव्याः प्रियाः च भवन्ति तान् प्रति तु पक्षपातः संजायते एव।
(iii) संस्कृतभाषायाम् इदं प्रसिद्धम् अस्ति–अविवेकी पक्षपाती जायते।
(III) ‘अविवेकी पक्षपाती जायते’ अथवा ‘भवन्ति हि भव्येषु पक्षपात:’ अथवा ‘भ्रष्टाचारस्य कारणम् पक्षपातः’।
(IV)
(i) (घ) जनाः
(ii) (ख) ग्रह्णन्ति
(iii) (ग) विवेकिनः
(iv) (ख) श्रीहर्षः।
गद्यांश 2
महाभारते व्यासः धर्मम् शाश्वतम् अकथयत्-अतः जनैः लोभेन भयेन वा धर्मः न परित्याज्यः । महाभारतं वस्तुतः कौरवपाण्डवयोः युद्धस्य वर्णनमेव चित्रयति । प्रत्येकं वीरस्य वीरगाथा अत्र कथारूपेण वर्णिता। भगवतः श्रीकृष्णस्य सारथित्वे अर्जुनः एकाकी एव अनेकान् जयति। युद्धे पात्रयोः संवाद: यदा-कदा एकम् उपाख्यानं भवति । अस्य अंशः गीतानाम्ना अस्मिन् विश्वे प्रतिष्ठितः। दैव्यः आसुर्यः सम्पदः अपि सम्यक् कथिताः अत्र। महाभारतस्य सर्वाधिकं प्रमुखं पात्रं भीष्मः अपि वर्तते। प्रश्नाः
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)।(एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) महाभारतस्य प्रणेता कः?
(ii) महाभारतस्य कः अंशः अस्मिन् विश्वे प्रतिष्ठितः?
(iii) महाभारत कयोः युद्धस्य वर्णनमेव चित्रयति?
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer ina complete sentence-only two questions.)
(i) काः सम्पदः अत्र कथिताः?
(ii) महाभारतं वस्तुतः कस्य वर्णनमेव चित्रयति?
(iii) कः एकाकी एव अनेकान् जयति?
(III) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए। Write an appropriate title for this passage.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)
(i) ‘श्रीकृष्णस्य’ इति विशेष्यपदस्य विशेषणम् अत्र किम्?
(क) भगवानस्य
(ख) भगवतस्य
(ग) भगवतः
(घ) देवस्य
(ii) लघुकथायाः कः पर्यायः अत्र प्रयुक्तः?
(क) उपाख्यानम्
(ख) दृश्यम्
(ग) अंशः
(घ) आख्यानम्
(iii) ‘असम्यक्’ इति अस्य विपर्ययपदम् अनुच्छेदात् चित्वा लिखत।
(क) शुभम्
(ख) सम्यक्
(ग) नूनम्
(घ) प्रमुखम्
(iv) ‘अकथयत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) महाभारतः
(ख) व्यासः
(ग) धर्मः
(घ) शाश्वतः
उत्तर:
(I)
(i) महर्षिव्यासः
(ii) गीता
(iii) कौरवपाण्डवयोः
(II)
(i) दैव्यः आसुर्यः सम्पदः अत्र सम्यक् कथिताः ।
(ii) महाभारतं वस्तुतः कौरवपाण्डवयोः युद्धस्य वर्णनमेव चित्रयति।
(iii) भगवतः श्रीकृष्णस्य सारथित्वे अर्जुनः एकाकी एवं अनेकान् जयति।
(III) महाभारतस्य परिचयः।
(IV)
(i) (ग) भगवतः
(ii) (क) उपाख्यानम्
(ii) (ख) सम्यक्
(iv) (ख) व्यासः
गद्यांश 3
भारते उत्सवाः द्विविधाः सन्ति-राष्ट्रीयाः उत्सवाः अन्ये च पारम्परिकाः उत्सवाः। 1947 तमे वर्षे अगस्तमासस्य पञ्चदशदिनाङ्के अस्माकं देशः स्वतन्त्रः जातः । अतः समग्रे देशे अयम् उत्सवः आयोज्यते । एवमेव 1950 तमे वर्षे जनवरीमासस्य षड्विंशतितिथौ गणतन्त्र दिवस समारोहः भवति। एतौ अस्माकं राष्ट्रीयौ उत्सवौ। पारम्परिक-उत्सवेषु एक: विशिष्टः उत्सवः श्रावणपूर्णिमा वर्तते। एतत् दिनं भारतस्य केन्द्रशासनेन संस्कृतदिनत्वेन घोषितम् अस्ति । अतः समग्रे देशे संस्कृतज्ञाः संस्कृतोत्सवम् मानयन्ति ।
अस्मिन् दिने अस्माभिः संस्कृतकार्यक्रमेषु भागः ग्रहीतव्यः । विदुषां मेलनं, संस्कृत नाटकानां मञ्चनम्, परिचर्चा, श्लोकोच्चारणम्, संवादाः, प्रदर्शनी, इत्यादयः बहवः कार्यक्रमाः आयोजयितुं शक्यन्ते। संस्कृतम् अस्माकं देशस्य गौरवम् इति अस्माभिः सर्वदा स्मरणीयम्। संस्कृतमेव अस्माकं संस्कृतिः आश्रिता। अतएव उच्यते-भारतस्य प्रतिष्ठे द्वे-संस्कृतं संस्कृतिश्च। प्रश्ना:
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) गणतन्त्र दिवस समारोहः कदा समायोज्यते?
(ii) किं दिनं ‘संस्कृतदिवसः’ इति घोषिता?
(iii) अस्माकं राष्ट्रीय उत्सवः कति?
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)
(i) संस्कृतदिवसे अस्माभिः किं करणीयम?
(ii) अस्मिन् दिने के कार्यक्रमाः आयोजयितुं शक्यन्ते?
(iii) अस्माकं देशः कदा स्वतन्त्रः जातः?
(III) अस्य अनुच्छेदस्य उपयुक्तम् शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए। Write an appropriate title for this passage.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)
(i) ‘सम्पूर्णे’ इति अर्थे किं पदम् अत्र प्रयुक्तम् ?
(क) समस्ते
(ख) समग्रे
(ग) देशे
(घ) स्थाने
(ii) ‘द्वे’ इति पदं कस्य विशेषणम् ?
(क) प्रतिष्ठौ
(ख) प्रतिष्ठः
(ग) प्रतिष्ठम्
(घ) प्रतिष्ठे पदस्य
(iii) ‘मूर्खाणाम्’ इत्यस्य किं विपर्ययपदम् अत्र प्रयुक्तम् ?
(क) विदुषाम्
(ख) ज्ञानीनाम्
(ग) छात्राणाम्
(घ) अध्येतृणाम्
(iv) ‘अस्ति’ इति अर्थे किं पदं प्रयुक्तम्?
(क) भवति
(ख) वर्तते
(ग) मानयति
(घ) उच्यते
उत्तर:
(I)
(i) षड्विंशति तिथौ
(ii) श्रावणपूर्णिमादिनम्
(iii) द्वौ
(II)
(i) संस्कृतदिवसे अस्माभिः संस्कृतकार्यक्रमेषु भागः ग्रहीतव्यः ।
(ii) अस्मिन् दिने विदुषां मेलनं, संस्कृत नाटकानां मञ्चनम्, परिचर्चा, श्लोकोच्चारणम्, संवादाः, प्रदर्शनी, इत्यादयः बहवः कार्यक्रमाः आयोजयितुं शक्यन्ते।
(iii) 1947 तमे वर्षे अगस्तमासस्य पञ्चदश दिनांके अस्माकं देशः स्वतन्त्रः जातः।
(III) संस्कृतदिवसः/श्रावण पूर्णिमा/भारतस्य उत्सवाः/भारतस्य गौरवं संस्कृतम्।
(IV)
(i) (ख) समग्रे
(ii) (घ) प्रतिष्ठे पदस्य
(iii) (क) विदुषाम्
(iv) (ख) वर्तते
गद्यांश 4
एकदा कस्यचिद् धनिकस्य गृहे महात्मा गान्धिः प्रवचनं करोति स्म। बहवः श्रोतारः उपस्थिताः आसन्। प्रायः प्रवचनस्य प्रारम्भे महात्मा गान्धि; दीपं निर्वाप्य प्रार्थनां करोति स्म। एकदा सः पार्वे स्थितं तं धनिकं दीपस्य निर्वापणार्थं सङ्केतम् अकरोत् । धनिकः तद् अवगम्य सेवकम् आहूतवान् । यावत् सेवकः आगच्छति, तावत् दीपः निर्वापितः अभवत् ।
स्वयं महात्मा गान्धिः तं दीपं निर्वापितवान्। प्रवचने महात्मा उपादिशत्-केचन जनाः शारीरिककर्माणि निकृष्टानि मन्यन्ते। एषः भावः निन्दनीयः, स्वकार्य स्वयमेव करणीयम्। तस्मिन् एव क्षणे मृत्तिकायाः पुष्पपात्रम् अधः पतितम्। तत्क्षणमेव उत्थाय महात्मा खण्डान् उत्थापयितुं प्रयत्नशीलः जातः परन्तु तस्मादपि पूर्वं धनिकः झटिति उत्थाय तत् कार्यम् अकरोत् । एवं सः महात्मा आत्मनः उदाहरणं प्रस्तुत्य शारीरिक श्रमस्य महत्त्वं दर्शितवान् । किं वयं स्वकार्य स्वयमेव कुर्मः?
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) प्रवचनं कः करोति स्म?
(ii) केचन जनाः कानि निकृष्टकर्माणि मन्यन्ते?
(iii) कति श्रोतारः उपस्थिताः आसन्?
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer inacomplete sentence-only two questions.)
(i) प्रवचनस्य प्रारम्भे महात्मा गान्धिः किं करोति स्म?
(ii) प्रवचने महात्मा किम् उपदिशत्?
(iii) धनिकः किम् कार्यम् अकरोत्?
(III) अस्य अनुच्छेदस्य उपयुक्तम् शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए। Write an appropriate title for this passage.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)
(i) ‘उपरि’ इति अव्ययस्य किं विपर्ययपदम् अत्र प्रयुक्तम् ?
(क) नीचैः
(ख) अधः
(ग) उच्चैः
(घ) शनैः
(ii) ‘पतितम्’ इति क्रियायाः कर्तृपदम् अत्र किम्? ।
(क) पुष्पपात्रम्
(ख) पात्रम्
(ग) पुष्पम्
(घ) क्षणे
(iii) ‘श्रोतारः’ इति पदस्य किं विशेषणपदम् अत्र प्रयुक्तम् ?
(क) बहवः
(ख) उपस्थिताः
(ग) आसन्
(घ) तत्र
(iv) ‘शीघ्रम्’ इत्यर्थे किं पदप्रयुक्तम्?
(क) पार्श्वम्
(ख) झटिति
(ग) उत्थाय
(घ) जातः
उत्तर:
(I)
(i) महात्मा गान्धिः
(ii) शारीरिक-कर्माणि
(iii) बहवः
(II)
(i) प्रवचनस्य प्रारम्भे महात्मागान्धिः दीपं निर्वाप्य प्रार्थनां करोति स्म।
(ii) प्रवचने महात्मा उपादिशत्-केचन जनाः शारीरिककर्माणि निकृष्टानि मन्यन्ते । एषः भावः निन्दनीयः, स्वकार्य स्वयमेव करणीयम्।
(iii) एकम् मृत्तिकायाः पुष्पपात्रम् अधः पतितम्। तत्क्षणमेव उत्थाय महात्मा खण्डान् उत्थापायितुम् प्रयत्नशीलः जातः परन्तु तस्मादपि पूर्वः धनिकः झटिति उत्थाय तत् कार्यम् अकरोत्।
(III) शारीरिक श्रमस्य महत्त्वम्/स्वकार्यम् स्वयमेव करणीयम्।
(IV)
(i) (ख) अधः
(ii) (क) पुष्पपात्रम्
(iii) (क) बहवः
(iv) (ख) झटिति
गद्यांश 5
सूर्यः प्रात:काले पूर्वस्यां दिशायाम् उदेति। प्रात:काले सूर्यस्य प्रकाशः अन्धकारम् अपनयति। तदा प्रकृतेः शोभा अतीव रमणीया भवति। शीतलः मन्दः सुगन्धः च पवनः वहति । खगाः वृक्षेषु मधुरं कूजन्ति । उपवनेषु पुष्पाणि सरोवरेषु च कमलानि विकसन्ति । विकसितानां पुष्पाणामुपरि स्थित्वा भ्रमराः मधुरं गुञ्जन्ति । आश्रमेषु मुनयः स्नानं कृत्वा सूर्यं नमन्ति ईश्वरं च भजन्ति। ग्रामेषु कृषकाः प्रातराशं कृत्वा हलसहितान् बलीवान् नीत्वा क्षेत्राणि प्रति गच्छन्ति । जनाः उपवनेषु भ्रमणं कुर्वन्ति । छात्राः विद्यालयं गच्छन्ति। ते तत्र पाठान् पठन्ति लेखान् च लिखन्ति।
अस्माकं जीवने सूर्यस्य अत्यधिकं महत्त्वमस्ति । अस्यैव प्रकाशे सर्वः व्यवहारः प्रचलति । अस्य दिनपति-रवि-दिनमणि-आदित्य भास्कर-दिनेश-इत्यादीनि अनेकानि अभिधानानि सन्ति। गायत्रीमन्त्रः अस्यैव स्तुतिं करोति। प्रश्नाः
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) सूर्यस्य प्रकाशः कम् अपनयति?
(ii) पुष्पाणामुपरि स्थित्वा के मधुरं गुञ्जन्ति ?
(iii) छात्राः कुत्र गच्छन्ति?
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)
(i) प्रात:काले कृषकाः किं कुर्वन्ति ?
(ii) सूर्यः प्रात:काले कुत्र/कस्याम् उदेति?
(iii) मुनयः किम् कुर्वन्ति?
(III) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए। Write an appropriate title for this passage.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)
(i) सूर्यस्य पर्यायपदं लिखत।
(क) रविः
(ख) प्रकाशः
(ग) व्यवहारः
(घ) पवनः
(ii) ‘रमणीया’ इति कस्य पदस्य विशेषणम् ?
(क) भ्रमणस्य
(ख) सूर्यस्य
(ग) शोभायाः
(घ) उपवनस्य
(iii) ‘वहति’ इति क्रियायाः कर्तृपदं किम्?
(क) मन्दः
(ख) पवनः
(ग) शीतलः
(घ) सुगन्धः
(iv) प्रार्थना इत्यर्थे किं पदं प्रयुक्तम्?
(क) दिनपति
(ख) सूर्यस्य
(ग) स्तुतिः
(घ) नमन्ति
उत्तर:
(I)
(i) अन्धकारम्
(ii) भ्रमराः
(ii) विद्यालयम्
(II)
(i) प्रात:काले कृषकाः प्रातराशं कृत्वा हलसहितान् बलीवर्दान् नीत्वा क्षेत्राणि प्रति गच्छन्ति ।
(ii) सूर्यः प्रातःकाले पूर्वस्यां दिशायाम् उदेति।
(iii) आश्रमेषु मुनयः स्नानं कृत्वा सूर्यं नमन्ति ईश्वरं च भजन्ति।
(III) सूर्यस्य महत्त्वम्/प्रात:कालस्य वर्णनम्।
(IV)
(i) (क) रविः
(ii) (ग) शोभायाः
(iii) (ख) पवनः
(iv) (ख) स्तुतिः
गद्यांश 6
एक: अतिदुष्टः वानरः आसीत् । प्रतिदिनं सः यथाशक्ति वृक्षे स्थितान् पक्षिणः तुदति स्म। उपनीडं गत्वा तेषां श्रमस्य उपहासं करोति स्म। एकः पक्षी अवदत्-भो किमर्थम् उपहससि? अनुवृष्टि नीडम् एव अस्मान् रक्षति । वयं परिश्रमं कुर्मः, निर्विघ्नं च जीवामः । वानरः साट्टहासम् अवदत् ‘मूर्खाः यूयम्। अरे! योगिनां कुतः गृहम् ?’ एवं कथयित्वा तेन दुष्टेन पक्षिणाम् नीडानि भग्नानि । एकः पक्षी अवदत्-‘योगिनः प्रतिजीवम् उपकारमेव कुर्वन्ति। किम् इदम् अनुरूपम् साधुजनस्य?’इदं कार्यं कृत्वा त्वं असाधुः निर्लज्जः इव प्रतिभासि। संसारे कर्मणामेव महत्त्वं वर्तते न तु रूपस्य। उत्तमं रूपं तु धृत्वा असाधवः राक्षसाः जनान् तुदन्ति पीडयन्ति वा। तव कायम् एव तव लक्षणं वर्तते। प्रश्ना:
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) पक्षिणः कः तुदति स्म?
(ii) अनुवृष्टि किं खगान् रक्षति?
(iii) संसारे केषाम् महत्वम् अस्ति?
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)
(i) वानरः साट्टहासं किम् अवदत् ?
(ii) उत्तमं रूपं धृत्वा असाधवः किं कुर्वन्ति?
(iii) दुष्टवानरः किं करोति स्म?
(III) उपरिलिखितस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए। Write an appropriate title for this passage.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव )। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)
(i) ‘अरे! योगिनां कुतः गृहम् ‘ ? इति वाक्यस्य वक्ता कः?
(क) पक्षिणः
(ख) पक्षी
(ग) वानरः
(घ) मूर्खः
(ii) ‘हितम्’ इत्यस्य पदस्य गद्यांशे कः पर्यायः आगतः?
(क) उपकारम्
(ख) अपकारम्
(ग) संहारम्
(घ) प्रहारम्
(iii) “स्थितान्’ इति विशेषण पदस्य विशेष्यः कः?
(क) पक्षिणः
(ख) पक्षि
(ग) पक्षिणे
(घ) पक्षिणि
(iv) वानरः इतिपदस्य विशेषणपदं किम्?
(क) एकः
(ख) अतिदुष्टः
(ग) दुष्टः
(घ) तुदति
उत्तर:
(I)
(i) वानरः
(ii) नीडम्
(iii) कर्मणाम्
(II)
(i) वानरः साट्टहासम् अवदत्-‘मूर्खाः यूयम्। अरे ! योगिनां कुतः गृहम् ?’
(ii) उत्तमं रूपं त धत्वा असाधवः राक्षसाः जनान तदन्ति पीडयन्ति वा।
(iii) दुष्टवानरः प्रतिदिन वृक्षे स्थितान् पक्षिणः तुदति स्म। उपनीडम् गत्वा तेषाश्रमस्य उपहासं करोति स्म।
(III) असाधोः व्यवहारः / दुष्टः वानरः।
(IV)
(i) (ग) वानरः
(ii) (क) उपकारम्
(ii) (क) पक्षिणः
(iv) (ख) अतिदुष्टः
गद्यांश 7
कश्चित् वनवासी एकदा ग्रामम् अगच्छत् । ग्रामगतः सः तत्र यन्त्रचालितम् अरघट्टम् दृष्टवान् । अरघट्टस्य घटिकापतत् जलं क्षेत्राणि सिञ्चति स्म। यन्त्रदर्शनेन चकितः सः नगरं प्रति प्रस्थितः। तत्र आपणगतानि वस्तूनि दृष्ट्वा अचिन्तयत्-अरे! किमेतत् सर्वं मानवनिर्मितम् ? अनुपमा मानवशक्तिः । विविधा भोजनसामग्री, यन्त्रनिर्मितानि परिधानवस्त्राणि, आत्मरक्षायै शस्त्राणि, शरीरशोभायै प्रसाधनद्रव्याणि, विस्तृताः सञ्चारमार्गाः विद्युद्व्यजनानि ग्रीष्मतापहरणाय वातानुकूलनयन्त्राणि शीत निवारणाय उष्णकाणि । एतत् सर्वं दृष्ट्वा सः आश्चर्यविमूढः जातः । वृक्षमूले उपविश्य सः अवदत्-अहो कथं विज्ञानाधीनः जातः अद्यतनः मानवः ।
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) ग्रामगतः वनवासी किं दृष्टवान् ?
(ii) ग्रीष्मतापहरणाय कानि सन्ति?
(iii) एकदा वनवासी कुत्र अगच्छत्?
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही।Answer in a complete sentence-only two questions.)
(i) किम् दृष्ट्वा वनवासी आश्चर्यविमूढः जातः?
(ii) वृक्षमूले उपविश्य सः किम् अवदत्?
(iii) ग्रामगतः सः तत्र किम् दृष्ट्वान्?
(III) उपरिलिखितस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए। Write an appropriate title for this passage.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)
(i) ‘विस्तृताः सञ्चार मार्गाः’ अनयोः पदयोः विशेषणपदं किम्?
(क) सञ्चाराः
(ख) मार्गाः
(ग) सञ्चारमार्गाः
(घ) विस्तृताः
(ii) शीतनिवारणाय उष्णकानि भवन्ति? अस्मिन् वाक्ये कर्तृपदं किम्?
(क) भवन्ति
(ख) उष्णकानि
(ग) शीतानि
(घ) शीतनिवारणाय
(iii) ‘ग्रामगतः’ इति पदं कस्मै आगतम्?
(क) वनवासिने
(ख) नगरवासिने
(ग) ग्रामाय
(घ) जनाय
(iv) ‘सिञ्चतिस्म’ क्रियापदस्य कतृपदं किम्?
(क) अरघट्टम्
(ख) जलम्
(ग) क्षेत्रम्
(घ) नगरम्
उत्तर:
(I)
(i) अरघट्टम्
(ii) वातानुकूलनयन्त्राणि
(iii) ग्रामम्
(II)
(i) विविध भोजन सामग्रीम्, यन्त्रनिर्मितानि परिधानवस्त्राणि, आत्मरक्षायै शस्त्राणि, शरीर शोभायै प्रसाधनद्रव्याणि आदीनि वस्तूनि दृष्ट्वा वनवासी आश्चर्यविमूढः जातः।
(ii) वृक्षमूले उपविश्य सः अवदत्-अहो कथं विज्ञानाधीनः जातः अद्यतनः मानवः।
(iii) ग्रामगतः सः तत्र यंत्रचालितम् अरघट्टम् दृष्ट्वान् अरघटट्स्य घटिकापतत् जलं क्षेत्राणि सिञ्चति स्म।
(III) (ख) विज्ञानाधीनः अद्यतन: मानवः
(IV)
(i) (घ) विस्तृताः
(ii) (ख) उष्णकानि
(iii) (क) वनवासिने
(iv) (ख) जलम्
गद्यांश 8
अद्य वने पशु महोत्सवः अस्ति। मञ्चस्य उपरि सिंहः विराजते। आकाशे सर्वत्र मेघाः सन्ति। मेघान् दृष्ट्वा मयूराः वृक्षाणाम् अधः नृत्यन्ति। पशवः इतस्ततः भ्रमन्ति। सर्पः कोटरात् बहिः आगच्छति। सर्पात् भीताः पशवः कोलाहलं कुर्वन्ति । कोलाहलं श्रुत्वा सिंहः उच्चैः गर्जति आदिशति च-भोः। कोलाहलं मा कुरुत। शृणुत-अस्माकं जीवनं वृक्षान् विना असम्भवम्। वृक्षाः फलानि छायां च दत्त्वा अस्मान् उपकुर्वन्ति। अतः अस्माभिः वने नूनं वृक्षाः रक्षणीयाः । वृक्षाः देववत् जनान् रक्षन्ति। ते धरायाः उपरि साक्षात्देवाः भवन्ति। तेषां जन्म एव परार्थाय भवति। तान् प्रति कृतं पापम् अक्षम्यं भवति। अतः ध्यातव्यम्-‘वृक्षदेवो भव’। प्रश्नाः
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही! Answer in one word only-only two questions.)
(i) मेघाः कुत्र सन्ति?
(ii) सर्पात् भीताः के आसन् ?
(iii) अस्माभिः वने के रक्षणीया:?
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)
(i) सिंहः किम् आदिशति?
(ii) मेघान् दृष्ट्वा के कुत्र च नृत्यन्ति?
(iii) किम् ध्यातव्यम्?
(III) उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस गद्यांश का उपयुक्त शीर्षक लिखिए। Write an appropriate title for this passage.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)
(i) ‘अद्य पशुमहोत्सवः वने अस्ति।’ अस्मिन् वाक्ये क्रियापदं किम्?
(क) अस्ति
(ख) अद्य
(ग) वने
(घ) पशुमहोत्सवः
(ii) ‘अन्तः’ इत्यस्य पदस्य विपर्ययः कः?
(क) मा
(ख) बहिः
(ग) विना
(घ) नूनम्
(iii) ‘अस्मान्’ इति पदस्य प्रयोगः केभ्यः अभवत् ?
(क) पशुभ्यः
(ख) जनेभ्यः
(ग) वृक्षेभ्यः
(घ) सिंहभ्यः
(iv) ‘उपकुर्वन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सिंहाः
(ख) पशवः
(ग) वृक्षाः
(घ) मयूराः
उत्तर:
(I)
(i) आकाशे
(ii) पशवः
(iii) वृक्षाः
(II)
(i) सिंहः आदिशति-भोः ! कोलाहलं मा कुरुत। शृणुत-अस्माकं जीवनं वृक्षान् विना असम्भवम् वृक्षाः रक्षणीयाः ।
(ii) मेघान् दृष्ट्वा मयूराः वृक्षाणाम् अधः नृत्यन्ति।
(iii) अस्माभिः ध्यातव्यम्- “वृक्षदेवोभव”।
(III) वृक्षाणां महत्त्वम् / पशुमहोत्सवः।
(IV) (i)
(क) अस्ति
(i) (ख) बहिः
(ii) (क) पशुभ्यः।
(iv) (ग) वृक्षाः
गद्यांश 9
पूर्वकाले जगद्देवः नाम कश्चन राजा आसीत्। “प्रपञ्चः एव जेतव्यः। प्रभूतां सम्पत्तिं प्राप्य सुखेन जीवनं करणीयम्” इति तस्य राज्ञः इच्छा आसीत्। तत्मात् सः सर्वदा युद्धे रतः आसीत्। एकैकमपि देशं जेतुं सः प्रयतते स्म। तेन प्रभूतम ऐश्वर्यम् (धनम्) अपि सम्पादितम्। अथ कदाचित् कश्चन संन्यासी तत् समीपम् आगत्य अवदत्- “राजन्! मम तिम्रः अतीव निम्नतराः अपेक्षाः सन्ति। किं भवान् ताः पूरयितुं शक्नुयात्?” इति। “कथं न? मम ऐश्वर्यम् अपारम् वर्तते शक्तिश्च अपरिमितास्ति। भवताम् अपेक्षायाः पूरणे मम कः क्लेशः स्यात्? उच्यताम्, मया किं करणीयम्?” इति राजा सगर्वम् अवदत्। प्रश्ना:
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) नृपस्य किं नाम असीत् ?
(क) तेन
(ii) कदाचित् नृपस्य समीपम् कः आगत्य अवदत्?
(iii) राजा कथम् अवदत्
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)
(i) नृपस्य का इच्छा आसीत्?
(ii) राज्ञः का इच्छा आसीत्?
(iii) सः सर्वदा कस्मिन् रतः आसीत्?
(III) उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस गद्यांश का उपयुक्त शीर्षक लिखिए। Write an appropriate title for this passage.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव )। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)
(i) ‘तस्मात् सः सर्वदा युद्धे रतः आसीत्’। अस्मिन् वाक्ये क्रियापदं किम्?
(क) रतः
(ख) सर्वदा
(ग) युद्धे
(घ) आसीत्
(ii) ‘प्रभूतां सम्पत्तिम्’ अनयोः पदयोः विशेष्यपदं कि वर्तते?
(क) प्रभूतां
(ख) प्रभूतम्
(ग) सम्पत्तिम्
(घ) सम्पत्तिः
(iii) अनुच्छेदे ‘इच्छाः ‘ इति पदस्य कः पर्यायः आगतः?
(क) अनपेक्षाः
(ख) अपेक्षाः
(ग) कामनाः
(घ) कामाः
(iv) ‘सम्पादितम्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) तेन
(ख) अपि
(ग) प्रभूतम्
(घ) ऐश्वर्यम्
उत्तर:
(I)
(i) जगदेवः
(ii) संन्यासी
(iii) सगर्वम्
(II)
(i) नृपस्य इच्छा आसीत् – “प्रपञ्चः एव जेतव्यः। प्रभुतां सम्पत्तिं प्राप्य सुखेन जीवनं करणीयम्”।
(ii) “प्रपञ्चः एव जेतव्यः। प्रभूतां सम्पत्तिं प्राप्य सुखेन जीवनं करणीयम्” इति तस्य राज्ञः इच्छा आसीत्।
(iii) सः सर्वदा युद्धे रतः आसीत्।
(III) नृपस्य अहङ्कारम् । गर्वितः नृपः जगद्देवः।
(IV)
(i) (घ) आसीत्
(ii) (ग) सम्पत्तिम्
(iii) (ख) अपेक्षाः
(iv) (क) तेन
गद्यांश 10
कस्मिश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः स्म। अथ कदाचित्पापबुद्धिना चिन्तितम्-अहं तावन्मू| दरिद्रश्च । तदेनं धर्मबुद्धिमादाय देशान्तरं गत्वा अस्य आश्रयेण अर्थोपार्जनं कृत्वा एनापि वञ्चयित्वा सुखी भवामि इति। अथान्यस्मिन्नदिने पापबुद्धिः धर्मबुद्धिं प्राह-भो मित्र! शास्त्रेष्वेवं वर्णितम् यद् येन देशान्तरेषु बहुविधभाषावेदादि न ज्ञातं तस्य जन्म धरणीपीठे निरर्थकम् । अतः आवाम् देशान्तरं गच्छावेति ।
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word
only-only two questions.)
(i) धर्मबुद्धेः मित्रस्य किं नाम आसीत् ?
(ii) मूर्खः दरिद्रः च कः आसीत् ?
(iii) तौ कुत्र गच्छतः?
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)
(i) पापबुद्धिः कस्य आश्रयेण अर्थोपार्जनं कर्तुम् इच्छति?
(ii) अथान्यस्मिन्नदिने पापबुद्धिः धर्मबुद्धिं किं आह?
(iv) द्वे मित्रे कुत्र प्रतिवसतः स्म?
(III) अस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत। (इस गद्यांश का उपयुक्त शीर्षक लिखिए। Write an appropriate title for this passage.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)
उत्तर:
(i) ‘दुःखी’ पदस्य कः विपर्ययः अनुच्छेदे प्रयुक्तः ?
(क) सुख
(ख) दु:ख
(ग) सुखी
(घ) मुखी
(ii) अनुच्छेदे ‘सखायौ’ पदस्य कः पर्यायः आगतः?
(क) द्वे
(ख) मित्रे
(ग) सुखी
(घ) दुःखी
(iii) अन्तिमे वाक्ये ‘आवाम्’ इति कर्तृपदस्य क्रियापदं किम् लिखितम् ?
(क) आवाम्
(ख) देशान्तरं
(ग) गच्छावेति
(घ) गच्छाव
(iv) ‘प्राह’ इति क्रियापदस्य कर्तपदं किम?
(क) धर्मबुद्धि
(ख) पापबुद्धि
(ग) आवाम्
(घ) मित्र उत्तराणि
(I)
(i) पापबुद्धिः
(ii) पापबुद्धिः
(iii) देशान्तरम्
(II)
(i) पापबुद्धिः धर्मबुद्धेः आश्रयेण अर्थोपार्जनं कर्तुम् इच्छति।
(ii) अथान्यस्मिन्नदिने पापबुद्धिः धर्मबुद्धिं प्राह-भो मित्र! शास्त्रेष्वेवं वर्णितम् यद् येन देशान्तरेषु बहुविधभाषावेदादि न ज्ञातं तस्य जन्म धरणीपीठे निरर्थकम् । अतः आवाम् देशान्तरं गच्छावेति।
(iii) कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः स्म।
(III) धर्मबुद्धेः पापबुद्धश्च कथा।
(IV)
(i) (ग) सुखी
(ii) (ख) मित्रे
(iii) (घ) गच्छाव
(iv) (ख) पापबुद्धिः
गद्यांश 11
आतंकवादः आधुनिक विश्वस्य गुरुतमा समस्या अस्ति। संसारस्य प्रत्येकं देश: आतंकवादेन येन केन प्रकारेण पीडितः अस्ति। आतंकवादः विनाशस्य सा लीला या विश्वम् ग्रसितुम् तत्परा अस्ति। आतंकवादेन विश्वस्य अनेकानि क्षेत्राणि रक्तविलिप्तानि सन्ति। अनेके अनेके निर्दोषाः जनाः प्राणान् अत्यजन् । महिला: विधवाः जाताः, बालाश्च अनाथाः अभवन् । सर्वशक्तिमान् अमेरिका देशोऽपि अनेन संतप्तः अस्ति। भारतं तु आतंकवादेन अनेकै: वर्षेः पीडितः वर्तते। आतंकवादे तु ते एव जनाः सम्मिलिताः सन्ति ये स्वार्थपूर्तिम् कर्तुम् इच्छन्ति, संसारे च अशान्तेः वातावरणं द्रष्टुम् कामयन्ते । शान्तीच्छुकैः देशैः आतंकवादस्य राक्षसस्य विनाशाय मिलित्वा एव प्रयत्नाः समाधेयाः अन्यथा एषा समस्या सुरसामुखम् इव प्रतिदिनं वृद्धिं यास्यति ।
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) आतंकवादः कस्य लीला?
(ii) कीदृशैः देशैः मिलित्वा आतंकवादस्य विनाशाय प्रयत्नाः समाधेयाः?
(iii) आतंकवाद कीदृशी समस्या अस्ति?
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)
(i) आतंकवादे कीदृशाः जनाः सम्मिलिताः?
(ii) भारतं तु कथं पीडितो वर्तते?
(ii) संसारस्य प्रत्येकं देशः केन पीड़ितः अस्ति?
(III) अस्य अनुच्छेदस्य कृते उचितं शीर्षकं लिखत। (इस अनुच्छेद का उचित शीर्षक लिखिए। Write an appropriate title for this passage.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)
उत्तर:
(i) ‘शान्तेः’ इति पदस्य किं विपर्ययपदम् अत्र प्रयुक्तम् ?
(क) अशान्तेः
(ख) संसारे
(ग) ते
(घ) देशैः
(ii) ‘अनेकैः वर्षेः’ इति पदयोः विशेषणपदम् किम्?
(क) वर्षेः
(ख) अनेकैः
(ग) अनेक
(घ) वर्ष
(iii) ‘यास्यति’ इति क्रियायाः कर्तृपदं किम्?
(क) एषा
(ख) समस्या
(ग) अन्यथा
(घ) इव
(iv) ‘रक्षणाय’ इति पदस्य विपर्यपद किम् प्रयुक्तम्?
(क) विनाशाय
(ख) दोषाय
(ग) तत्पराय
(घ) प्राणाय
उत्तराणि
(I)
(i) विनाशस्य
(ii) शान्तीच्छुकैः
(iii) गुरुतमा
(II)
(i) आतंकवादे तु ते एव जनाः सम्मिलिताः सन्ति ये स्वार्थपूर्तिम् कर्तुम् इच्छन्ति, संसारे च अशान्तेः वातावरणं द्रष्टुं कामयन्ते।
(ii) भारतं तु आतंकवादेन अनेकैः वर्षेः पीडितः वर्तते।
(iii) आतंकवादिन संसारस्य प्रत्येकेदेशः येन केन प्रकारेण पीडितः अस्ति।
(III) आतंकवादस्य विनाशलीला।
(IV)
(i) (क) अशान्तेः
(ii) (ख) अनेकै:
(iii) (ख) समस्या
(iv) (क) विनाशाय
गद्यांश 12
एकस्मिन् ग्रामे एकः व्याधः वसति स्म । तस्य नाम भैरवः आसीत्। सः जीविकार्थम् पशून् हत्वा नगरे विक्रीणाति स्म। एकदा सः आखेटाय वनम् अगच्छत् । तत्र तेन एकः मृगः दृष्टः । सः तं मृगम् अमारयत्, तम् च नीत्वा गृहं प्रति अचलत् । तदैव सः मार्गे एकं सिंहम् अपश्यत् । तम् सिंहं दृष्ट्वा सः अचिन्तयत् ‘यदि एषः सिंहः अपि प्राप्तः भवेत् तर्हि अहं प्रभूतं धनं प्राप्स्यामि’। अनेन लोभेन यावत् सः सिंहः प्रति सरम् अक्षिपत् तावत् एव सिंहः अपि व्याधम् आक्राम्यत् सः व्याधः च तदा पञ्चत्वं गतौ । प्रश्ना :
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) व्याधः कुत्र वसति स्म?
(ii) सः आखेटाय कुत्र अगच्छत् ?
(iii) भैरवः कः आसीत?
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)
(i) सिंहं दृष्ट्वा व्याधः किम् अचिन्तयत् ?
(ii) व्याधः सिंहः च कथं पञ्चत्वं गतौ?
(iii) व्याधः जीविकार्थम् किं करोति स्म?
(III) अस्याः गंद्यांशस्य कृते समुचितं शीर्षकं लिखत। (इस कथा का उपयुक्त शीर्षक लिखिए। Write an appropriate title for this story.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव )। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)
(i) ‘क्रीणाति’ अस्य पदस्य कः विपर्ययः अत्र दत्तः?
(क) क्रीणीतः
(ख) क्रीणति
(ग) विक्रीणाति
(घ) विक्रीणति
(ii) अनुच्छेदे ‘अचिन्तयत्’ इति क्रियायाः कर्तृपदं किम्?
(क) तम्
(ख) सिंह
(ग) दृष्ट्वा
(घ) सः
(iii) ‘ग्रामे’ इत्यस्य विशेष्यस्य अनुच्छेदे विशेषणं किम् ?
(क) एकस्मिन्
(ख) एके
(ग) एकः
(घ) वसति स्म
(iv) ‘मृतम्’ इति अर्थे किं पदं प्रयुक्तम्?
(क) जीविकार्थम्
(ख) हतम्
(ग) पञ्चत्वम्
(घ) आक्राम्यत् उत्तराणि
(I)
(i) ग्रामे
(ii) वनम्
(iii) व्याधः
(II)
(i) सिंहं दृष्ट्वा व्याधः अचिन्तयत् ‘यदि एषः सिंहः अपि प्राप्तः भवेत् तर्हि अहं प्रभूतं धनं प्राप्स्यामि’।
(ii) यावत् सः सिंह: प्रति सरम् अक्षिपत् तावत् एव सिंहः अपि व्याधम् आक्राम्यत् सः व्याधः च तदा पञ्चत्वं गतौ।
(iii) व्याधः जीविकार्थम् पश्नहत्वा नगरे विक्रीणाति स्म।
(III) लोभस्य दुष्परिणामः।
(IV)
(i) (ग) विक्रीणाति
(ii) (घ) सः
(iii) (क) एकस्मिन्
(iv) (ग) पञ्चत्वम्
गद्यांश 13
सरसे वसन्ते ऋतौ सीताष्टमी अपि समायोज्यते। इदं पर्व अस्मान् नारीणां सम्मानं शिक्षयति। नारी संसारस्य मूलं वर्तते। सा गृहस्थाश्रमस्य जीवनशक्तिः अस्ति। नारी ‘देवी’ इति कृत्वा सम्बोध्यते। तस्याम् उच्चताया भावो वर्तते। आदिकविः वाल्मीकिः महाभागां सीताम् ‘अनुपमा’ इति कृत्वा कथयति।
वस्तुतः जगति सा अद्वितीया आसीत्, तस्याः सुशीलता, सुलक्षणता सच्चरित्रता च अनुकरणीयाः सन्ति। महादेव्याः सीतायाः पावनं जीवनवृत्तं प्रत्येक भारतीयनारीणां कृते एकम् आदर्श वर्तते तदनुकरणीयमपि अस्ति। अतः सीताष्टम्याः पर्व अन्यवीरपर्वणां जयन्तीनाम् इव अवश्यमेव आयोजनीयम् अस्ति। अनेन बालिकानां कृते शिक्षा आचरण-प्राप्तिरपि भवति। यतः नारीशिक्षा सर्वोत्तमास्ति, नारी नराणां स्रोतः इति। प्रश्ना :
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) का नराणां स्रोतः अस्ति?
(ii) सरसे वसन्त ऋतौ का समायोज्यते?
(iii) संसारस्य मूलं का अस्ति?
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)
(i) सीतायाः काः अनुकरणीयाः सन्ति?
(ii) भारतीयनारीणां कृते एकम् आदर्श कि वर्तते?
(iii) नारी कस्य जीवनशक्तिः अस्ति
(III) उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए। Write an appropriate title for this passage.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव )। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)
उत्तर:
(i) ‘नारी संसारस्य मूलं वर्तते’। अत्र कर्तृपदं किम् अस्ति?
(क) मूलं
(ख) वर्तते
(ग) नारी
(घ) संसारस्य
(ii) अनुच्छेदे ‘पवित्र’ पदस्य कः पर्यायः प्रयुक्तो वर्तते? ।
(क) दिव्यं
(ख) नित्यं
(ग) पावनं
(घ) अनुपमम्
(iii) गद्यांशे ‘निम्नतायाः’ पदस्य विपर्ययरूपे कि पदं लिखितम्?
(क) उच्चतायाः
(ख) विद्यायाः
(ग) अवस्थायाः
(घ) महादेव्याः
(iv) ‘अस्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) इदं
(ख) सा
(ग) इव
(घ) मूलं उत्तराणि
(I)
(i) नारी
(ii) सीताष्टमी
(iii) नारी
(II)
(i) सीतायाः सुशीलता, सुलक्षणता सच्चरित्रता च अनुकरणीयाः सन्ति।
(ii) महादेव्याः सीतायाः पावनं जीवनवृत्तं प्रत्येक भारतीयनारीणां कृते एकम् आदर्श वर्तते
(iii) नारी गृहस्थाश्रमस्य जीवनशक्तिः अस्ति ।
(III) सीताष्टमी महापर्व।
(IV)
(i) (ग) नारी
(ii) (ग) पावनं
(iii) (क) उच्चतायाः
(iv) (ख) सा
गद्यांश 14
बहुआयामी प्रतिभायाः धनी स्वामी श्रद्धानन्द सरस्वती महाभागानां पूर्वनाम मुंशीरामः आसीत्। सः पश्चात् “महात्मा मुंशीरामः” इति नाम्ना सम्बोध्यते स्म। तेषां महोदयानां जन्म पंजाब प्रान्तस्य तलवन इति ग्रामे फरवरी मासस्य द्वाविंशतिः, तारिकायां षट्पञ्चाशत् उत्तरे अष्टादश शताब्द्याम् ईस्वीये वर्षे अभवत्। तेषां शिक्षा-दीक्षा च वाराणसी लाहौर च नगरयो: अभवताम्। स्वामी दयानन्द सरस्वती महाभागेन सह तस्य मेलनं बरेली नगरे अभवत्।
ते तेषां सिद्धान्तेभ्यः अतीव प्रभाविताः अभवन्। पश्चात् सः लाहौर नगरस्य आर्य समाजस्य सभासदः अभवत्। सः हरिद्वार नगरे गङ्गायास्तटे कांगड़ी ग्रामे गुरुकुलस्य स्थापनाम् अकरोत्। अधुना सा एव संस्था ‘गुरुकुल कांगड़ी विश्वविद्यालयः’ इति नाम्ना प्रसिद्धा वर्तते। दिसम्बर मासस्य त्रयोविंशत्यां तारिकायां षड्विंशतिः उत्तरे एकोनविंशति शते वर्षे तस्य बलिदानम् अभवत्।
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) स्वामी श्रद्धानंद सरस्वती महाभागानां पूर्वनाम किमासीत्?
(ii) स्वामी श्रद्धानन्द सरस्वती महोदयानां बलिदानं कदा अभवत्।
(iii) बहुआयामी प्रतिभायाः धनी कः आसीत्?
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)
(i) सः कुत्र गुरुकुलस्य स्थापनाम् अकरोत्?
(ii) अधुना सा एवं संस्था केन नाम्ना प्रसिद्धा वर्तते?
(ii) तस्य बलिदानम् कदा अभवत्?
(III) उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए। Write an appropriate title for this passage.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव )। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)
उत्तर:
(i) अनुच्छेदे ‘अकरोत्’ इति क्रियापदस्य कर्तृपदं किम् अस्ति?
(क) मुंशीरामः
(ख) सः
(ग) संस्था
(घ) सा
(ii) गद्यांशे ‘पूर्वम्’ इत्यस्य पदस्य कः विपर्ययः प्रयुक्तः?
(क) पश्चात्
(ख) अधुना
(ग) अद्य
(घ) सम्प्रति
(iii) ‘सा एव संस्था’। अत्र विशेष्य पदं किम् अस्ति?
(क) एव
(ख) सा
(ग) संस्था
(घ) संस्थाः
(iv) ते इति कर्तृपदस्य क्रियापदं किम्?
(क) सभवत्
(ख) अभवन्
(ग) आसीत्
(घ) वर्तते उत्तराणि
(I)
(i) मुंशीरामः
(ii) दिसम्बर मासे
(iii) श्रद्धानन्दसरस्वती
(II)
(i) सः हरिद्वार नगरे गङ्गायास्तटे कांगड़ी ग्रामे गुरुकुलस्य स्थापनाम् अकरोत्।
(ii) अधुना सा एव संस्था ‘गुरुकुल कांगड़ी विश्वविद्यालयः’ इति नाम्ना प्रसिद्धा वर्तते।
(iii) दिसम्बर मासस्य त्रयोविंशत्यां तारिकायां षड्विंशतिः उत्तरे एकोनविंशतिः शते वर्षे तस्य बलिदानम् अभवत्।
(III) स्वामी श्रद्धानन्द सरस्वती महाभागानां जीवनम्।
(IV)
(i) (ख) सः
(ii) (क) पश्चात्
(iii) (ग) संस्था
(iv) (ख) अभवन्
गद्यांश 15
देशस्य राजधानी देहल्यां यत् संसद् भवनमस्ति तस्य मूलप्रारूपरचना श्री एड्विन् लुटियन्स् हरबर्ट बेकरः च इति एताभ्यां योजनाकाराभ्यां कृता इति श्रूयते। सप्तविंशतिः वर्षाणि अधिकम् एकोनविंशतिः शताधिके वर्षे (1927 ई.) एतस्य भवनस्य लोकार्पणं जातम्। एतादृशं भवनं कथं निर्मातव्यम् इति कल्पना ताभ्यां योजनाकाराभ्यां कथं प्राप्ता। एवमनुमीयते यत् ताभ्यां बुद्धिबलात् एव तादृशी कल्पना कृता स्यात्। तथापि श्रूयते एवं यत् “ऐहोळे’ प्रदेशस्थं मन्दिरमेव तयोः कल्पनायाः मूलं स्यात् इति। तत् मन्दिरं कर्णाटके अस्ति। चालुक्यवंशीयैः राजभिः पञ्चमे शतके इदं मन्दिरं निर्मितम्। अस्य मन्दिरस्य अधिदेवता दर्गा अस्ति। अनमीयते यत संसदभवन-निर्माणाय प्रेरणा इतः एव प्राप्ता स्यात. न स्यादपि तथापि उभयोः भवनयोः रचनायाम् साम्यं तु विशेषतः दृश्यते ननु।
प्रश्न
(I) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) श्री एड्विन् लुटियन्स् हरबर्ट बेकरः च कौ आस्ताम्?
(ii) अस्य मन्दिरस्य अधिदेवता का अस्ति?
(iii) मन्दिरं कुत्र अक्ति?
(II) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव )। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.) (i) कदा एतस्य संसद् भवनस्य लोकार्पणं जातम्?
(ii) कैः इदं मन्दिरं निर्मितम्?
(iii) मन्दिरस्य मूल प्रारूपरचना कीदृशी अस्ति?
(III) उपरिलिखितस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत। (इस गद्यांश के लिए उचित शीर्षक लिखिए। Write an appropriate title for this paragraph.)
(IV) भाषिककार्यम् (केवलं प्रश्नत्रयमेव )। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)
(i) ‘तत् मन्दिरं कर्णाटके अस्ति’। अत्र क्रियापदं किमस्ति?
(क) तत्
(ख) अस्ति
(ग) मन्दिरं
(घ) कर्णाटके
(ii) ‘तादृशी कल्पना’ अनयोः पदयोः विशेषणं किम्?
(क) कल्पना
(ख) तादृक्
(ग) तादृशी
(घ) तादृशम्
(iii) अनुच्छेदे ‘विषमता’ इत्यस्य पदस्य कः विपर्ययः लिखितः?
(क) समानता
(ख) समानः
(ग) सादृश्यम्
(घ) साम्यम्
(iv) निर्मितम् इति क्रियापदस्य कर्तृपदं किम्?
(क) चालुक्यवंशीय
(ख) राजभिः
(ग) चालुक्यवंशीयैर्राजभिः
(घ) अनुमीयते
उत्तर:
(I)
(i) योजनाकारौ
(ii) दुर्गा
(iii) कर्णाटके
(II)
(i) सप्तविंशतिः वर्षाणि अधिकं एकोन विंशतिः शताधिके वर्षे (1927 ई.) एतस्य संसद् भवनस्य लोकार्पणं जातम्।
(ii) चालुक्यवंशीयैः राजभिः पञ्चमे शतके इदं मन्दिरं निर्मितम्।
(iii) देशस्य राजधानी देहल्यां यत् संसदभवनमस्ति तस्य मूलप्रारूपरचना अस्ति।
(III) भारतीय संसद् भवनम्।
(IV)
(i) (ख) अस्ति
(ii) (ग) तादृशी
(iii) (घ) साम्यम्
(iv) (ग) चालुक्यवंशीयैर्राजभिः