We have given detailed NCERT Class 8 Sanskrit Deepakam Solutions and and Samvad Lekhan in Sanskrit for Class 8 संवाद लेखन come in handy for quickly completing your homework.
Samvad Purti in Sanskrit Class 8 – Sanskrit Samvad Lekhan Class 8
संस्कृत में संवाद लेखन Class 8
Samvad Lekhan in Sanskrit for Class 8
1. अधोलिखितं संवादम् मञ्जूषायाः पंक्तिसहायतया पूरयत-
एकदा कोऽपि नागरिकः नौकया नदीपारं गच्छति स्म । सः आकाशं दृष्ट्वा नाविकं पृच्छति-
नागरिकः – भोः नागरिक! नक्षत्रविद्यां जानासि किम् ?
नाविकः- ………(i)…………….
नागरिकः- (हसन्) मूर्ख ! तव जीवनस्य चतुर्थाशः नष्ट: । किम् गणितं पठितवान्।
नाविकः- ………(ii)……………
नागरिकः- अरे! तव जीवनस्य अर्धं व्यर्थं जातम् ।
(वृक्षपङ्कती दृष्ट्वा ) वृक्षविज्ञानं जानासि ?
नाविकः- ……….(iii)…………….
नागरिकः- हन्त! तव जीवनस्य त्रिचतुर्थाशः व्यर्थः गतः।
नाविकः:- ……..(iv)………………..
नागरिकः – भोः! एषा नौका तु दोलायते । जलमपि प्रविशति । किं करोमि । तरणं न जानामि ।
नाविकः- ……..(v)………………..
मञ्जूषा-
- गणनाम् एव जानामि, न तु गणितम् ।
- भो! कथम् वृक्षविज्ञानं जानामि । कथम् अपि नौकां चालयामि उदरम् च पूरयामि ।
- नहि, अहम् तु प्रतिदिनं तारकाणि दृष्ट्वा नमामि ।
- तरणं न जानासि किल? तर्हि नूनं तव सम्पूर्णम् एव जीवनम् नष्टम्।
- पश्यतु, प्रबलः वायुप्रकोपः उत्पन्नः। अहम् तु कूर्दित्वा तरामि ।
उत्तर:
(i) नहि, अहम् तु प्रतिदिनं तारकाणि दृष्ट्वा नमामि ।
(ii) गणनाम् एव जानामि, न तु गणितम् ।
(iii) भोः! कथम् वृक्षविज्ञानं जानामि । कथम् अपि नौकां चालयामि उदरम् च पूरयामि ।
(iv) पश्यतु, प्रबल: वायुप्रकोप : उत्पन्नः । अहम् तु कूर्दित्वा तरामि।
(v) तरणं न जानासि किल? तर्हि नूनं तव सम्पूर्णम् एव जीवनम् नष्टम्।
2. अधोलिखितं संवादम् मञ्जूषायाः पंक्तिसहायतया पूरयत-
ऋचा- प्रियसखि तान्ये! किमर्थं व्याकुला असि ?
तान्या- ……..(i)………………..
ऋचा- एवम्! किं तव माता अपि गृहे नास्ति ?
तान्या- ……..(ii)………………..
ऋचा- तर्हि त्वम् मया सह मम गृहे भोजनं कुरु । पश्चात् आवां चिकित्सालयं गमिष्यावः ।
तान्या- ……..(iii)………………..
ऋचा- शृणु। मम पिता अपि तस्मिन् एव चिकित्सालये चिकित्सकः अस्ति ।
तान्या- ……..(iv)………………..
ऋचा- इदानीं सः भोजनाय गृहम् आगमिष्यति। त्वं तत्रैव तेन सह वार्तां कुरु ।
तान्या- ……..(v)………………..
ऋचा- आम् अवश्यमेव। सः अतीव सहृदयः चिकित्सकः अस्ति । सः कथयति – परोपकारः कर्त्तव्यः प्राणैः अपि धनैः अपि च।
मञ्जूषा-
- भोजनं न इच्छामि। मम माता प्रातः एव भोजनं सिद्धम् कृत्वा गता।
- अहं चिकित्सालये तेन सह वार्तां करिष्यामि ।
- मम माता अपि सेवार्थं चिकित्सालयं गता ।
- मम पिता अतीव रुग्णः, सर्वकारीचिकित्सालये प्रवेशितः ।
- किं सः गृहे मम वार्तां श्रोष्यति ?
उत्तर:
(i) मम पिता अतीव रुग्ण:, सर्वकारीचिकित्सालये प्रवेशितः ।
(ii) मम माता अपि सेवार्थं चिकित्सालयं गता ।
(iii) भोजनं न इच्छामि । मम माता प्रातः एव भोजनं सिद्धम् कृत्वा गता।
(iv) अहं चिकित्सालये तेन सह वार्तां करिष्यामि।
(v) किं सः गृहे मम वार्तां श्रोष्यति ?
3. मञ्जूषातः उचितानि पदानि चित्वा अधोलिखितं संवादं पूरयत-
शिक्षिका – छात्रा: ! किं भवन्तः किञ्चित् प्रष्टुम् ………(i)……..?
छात्रा:- महोदये! विद्यालयस्य वार्षिकोत्सवे ……(ii)……… गीतं गातुम् इच्छामः ।
शिक्षिका- ……(iii)……. ! गीतम् किम् अस्ति ? किं ……(iv)…….. अपि आवश्यकता अस्ति?
छात्रा:- महोदये! …..(v)……. यदि सन्ति, शोभनम्।
शिक्षिका – अत्युत्तमम्, तर्हि गायनस्य अभ्यासं कुरुत ।
मञ्जूषा-वाद्ययन्त्राणि, शोभनम्, वाद्ययन्त्राणाम्, वयम्, इच्छन्ति
उत्तर:
(i) इच्छन्ति
(ii) वयम्
(iii) शोभनम्
(iv) वाद्ययन्त्राणाम्
(v) वाद्ययन्त्राणि
4. मञ्जूषायाः सहायतया अधोलिखितं संवादं पूरयत-
अंशुमान:- भवान् षड्वादने एव सज्जीभूय कुत्र गच्छति?
समर्थ:- अहम् …..(i)………
अंशुमान:- अद्य तु अवकाशः । विद्यालये किं करिष्यसि ?
समर्थ:- तत्र गत्वा वार्षिकोत्सवाय ध्वजादिभिः ……(ii)………करिष्यामि ।
अंशुमान:- किम् अन्ये छात्राः अपि कार्यनियुक्ताः सन्ति?
समर्थ:- आम् …..(iii)………सन्ति।
अंशुमान:- तेभ्यः किं किं कार्यं दत्तम् ?
समर्थ:- केचित् ….(iv)……… आयोजनं करिष्यन्ति । केचित् मुख्यातिथेः आगमने …..(v)……. करिष्यन्ति ।
अंशुमानः- शोभनम्। अहम् अपि त्वया सह श्वः तव विद्यालयं गमिष्यामि।
मञ्जूषा-स्वागतम्, विद्यालयसज्जां, कार्यनियुक्ताः, विद्यालयं गच्छामि, सांस्कृतिककार्यक्रमस्य
उत्तर:
(i) विद्यालयं गच्छामि
(ii) विद्यालयसज्जां
(iii) कार्यनियुक्ताः
(iv) सांस्कृतिककार्यक्रमस्य
(v) स्वागतम्
5. द्वयोः मित्रयोः संवादं मञ्जूषातः उचितं पदं चित्वा पूरयत।
अवयानः- भोः मित्र! किम् त्वम् जानासि स्वतन्त्रतादिवसः कदा भवति ?
ईशान :- आम्। …….(i)…………….।
अवयानः- स्वतन्त्रतादिवसः किमर्थम् मान्यते ?
ईशान :- ….(ii)……………… ।
अवयानः- स्वतन्त्रतादिवसस्य मुख्य: समारोहः कुत्र
भवति ?
ईशान:- ….(iii)……………… ।
अवयानः- रक्तदुर्गे भारतस्य ध्वजारोहणं कः करोति ?
ईशानः- ….(iv)……………… ।
अवयानः- किम् अस्मिन् अवसरे तव विद्यालये अपि ध्वजारोहणस्य समारोह: भविष्यति ?
ईशान :- आम्। अहम् अपि ……..(v)……… एकं गीतं गास्यामि ।
मञ्जूषा-अस्मिन् अवसरे, भारतस्य प्रधानमन्त्री, अगस्तमासस्य पञ्चदशतिथौ ? अस्मिन् दिने भारतवर्षः स्वतन्त्रः अभवत्, रक्तदुर्गे ।
उत्तर:
(i) अगस्तमासस्य पञ्चदशतिथौ ।
(ii) अस्मिन् दिने भारतवर्षः स्वतन्त्रः अवभत्।
(iii) रक्तदुर्गे
(iv) भारतस्य प्रधानमन्त्री
(v) अस्मिन् अवसरे
Class 8 Sanskrit Samvad Lekhan
अभ्यासकार्यम्
1. अधोलिखितं संवादं मञ्जूषाप्रदत्तपंक्तिसहायतया पूरयित्वा पुनः लिखत-
नवीनः- भो प्रवीण! भवान् कथम् ईदृशः महान् जात:?
प्रवीणः – ……(i)………..।
नवीनः – भोः! कथम् मूर्खाणां कृपया भवान् बुद्धिमान् जात:?
प्रवीणः …………. (ii)……………………।
नवीनः – एवम्! परेषाम् अनुभवात् शिक्षां गृहीत्वा भवान् बुद्धिमान् जातः किम्?
प्रवीणः ……..(iii)…………।
नवीनः – कः तावत् मूर्खः?
प्रवीणः ……..(iv)…………।
नवीनः – कः तावत् मूर्खतमः?
प्रवीण: ……..(v)…………।
मञ्जूषा-
- सत्यम्। यः परेषाम् अनुभवात् शिक्षते सः एव बुद्धिमान् ।
- यः न अन्यस्य न चापि आत्मनः अनुभवात् शिक्षते।
- यः परस्य अनुभवात् न शिक्षते, पुनः आमूलात् प्रयत्नं करोति ।
- मूर्खाणां कृपया एव।
- आम्। अहं मूर्खेः कृतानि कार्याणि अपश्यम् तानि च अत्यज्यम् ।
उत्तर:
(i) मूर्खाणां कृपया एव ।
(ii) आम्। अहं मूर्खेः कृतानि कार्याणि अपश्यम् तानि च अत्यज्यम्।
(iii) सत्यम्। यः परेषाम् अनुभवात् शिक्षते सः एव बुद्धिमान्।
(iv) यः परस्य अनुभवात् न शिक्षते, पुनः आमूलात् प्रयत्नं करोति ।
(v) यः न अन्यस्य न चापि आत्मनः अनुभवात् शिक्षते ।
2. मञ्जूषातः उचितपंक्तिं चित्वा संवादं पूरयत-
श्रीकान्तः – नीरज ! मम पितृमहोदयाः ह्यः विदेशात् प्रत्यागताः ।
नीरज:- (i) ………………… ।
श्रीकान्तः- एक: अतीव मूल्यवान् उपहारः ।
नीरज:- (ii) ………………… ।
श्रीकान्तः – नहि ! ततोऽपि अधिकं मूल्यवान् कर्त्तव्यबोधः ।
नीरज: – ………..(iii) ………………… |
श्रीकान्तः- एषः बोधः यत् अस्माभिः देशस्य निन्दनं त्यक्त्वा तदर्थं कर्तव्यं पालनीयम् ।
नीरज:- ……..(iv)……………..
श्रीकान्तः – तत्र विदेशेषु जनाः स्वदेशं न निन्दन्ति, निन्दां श्रोतुम् अपि न शक्नुवन्ति । सर्वथा देशहिताय एव कार्यं कुर्वन्ति ।
नीरज:- ……..(v)……………..
श्रीकान्तः – आम् ! यदि वयं सर्वे मिलित्वा देशं प्रति जागरूकाः भवामः, तर्हि भारतं विश्वे अग्रगण्यं भविष्यति इत्यत्र नास्ति सन्देहः ।
मञ्जूषा
- कर्त्तव्यबोधः इति किम् ? नावगच्छामि।
- किमपि स्वर्णं हीरकं वा ?
- सत्यम्। वयं भारतीयाः केवलं निन्दामः । स्वयं किमपि न कुर्मः ।
- शोभनम्। ततः तेन किम् आनीतम् ?
- नूनम् अमूल्यः अयम् उपहारः । देशं प्रति कर्त्तव्यबोधं बिना जीवनमेव निरर्थकम्।
उत्तर:
(i) शोभनम् । ततः तेन किम् आनीतम् ?
(ii) किपपि स्वर्णं हीरकं वा ?
(iii) कर्त्तव्यबोध: इति किम्? नावगच्छामि।
(iv) नूनम् अमूल्यः अयम् उपहारः । देशं प्रति कर्त्तव्यबोधं विना जीवनमेव निरर्थकम्।
(v) सत्यम्। वयं भारतीयाः केवलं निन्दामः। स्वयं किमपि न कुर्मः ।
3. अधोलिखितं संवादं मञ्जूषायाः पंक्तिसहायतया पूरयत-
कासपीड़ितः रुग्ण:- भो चिकित्सक ! मह्यम् औषधम् यच्छ परम् अहम् दधिसेवनं त्यक्तुम् न शक्नोमि ।
चिकित्सकः – ………….(i)…………
रुग्णः – किं सत्यम् इदम्? ते गुणाः के?
चिकित्सकः – ………(ii)………
रुग्ण: – दधिसेवनेन सह चौराणां कः सम्बन्ध: ?
चिकित्सकः – ………(iii)………
रुग्णः – कः तावत् अन्यः गुणः ?
चिकित्सकः – ………(iv)………
रुग्णः – तत्कथम्?
चिकित्सकः – ………(v)………
रुग्णः – सम्यग् बोधितः। पथ्यं विना औषधम् निरर्थकम् ।
मञ्जूषा
- कुक्कुराः तं न दशन्ति ।
- कासरोगी यदि दधि सेवते, तस्य गृहं चौराः न प्रविशन्ति ।
- चिन्ता मा अस्तु । दधिसेवने बहवः गुणाः ।
- अतिदुर्बलः सः दण्डेन चलति । कुक्कुराः दूरात् एव पलायन्ते ।
- दधिसेवी कासरोगी सर्वा रात्रि कासति एव जागर्ति, कुतः चौरभयम् ।
उत्तर:
(i) चिन्ता मा अस्तु । दधिसेवने बहवः गुणाः ।
(ii) कासरोगी यदि दधि सेवते, तस्य गृहं चौरा: न प्रविशन्ति ।
(iii) दधिसेवी कासरोगी सर्वा रात्रि कासति एव जागर्ति, कुतः चौरभयम् ।
(iv) कुक्कुराः तं न दशन्ति ।
(v) अतिदुर्बलः सः दण्डेन चलति । कुक्कुरा: दूरात् एव पलायन्ते।
4. अधोलिखितं संवादं मञ्जूषाप्रदत्तपंक्तिसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत-
वैद्य: – कथय वत्स! किं कष्टम् अस्ति ?
रुग्ण: – भोः वैद्यमहोदय! (i)…….
वैद्यः – कुत्र वर्तते वेदना ?
रुग्ण: – (आमाशयं स्पृशन्) (ii)………
वैद्य: – ह्यः किं किं भक्षितमासीत्?
रुग्णः – (iii)………….
वैद्यः – पश्यतु, क्षुधानुसारम् एव भक्षणीयम्। अतिभोजनं सर्वथा रोगजनकम् एव ।
रुग्ण: – (iv)………..
वैद्यः – एताः चतस्त्र: गोलिकाः स्वीकरोतु । उष्णजलेन एका एका गोलिका प्रातः सायं सेवनीया ।
रुग्णः – (v)………….
वैद्यः – न किमपि । केवलम् दुग्धम्। उष्णजलमेव च पातव्यम्। महर्षिः चरकः कथयति- जीर्णे अश्नीयात्।
रुग्णः – यथा आदिशसि तथा करिष्ये ।
मञ्जूषा-
- इदानीं तु औषधं प्रयच्छतु। इतः परं कदापि अतिभोजनं न करिष्ये ।
- भोजने किं स्वीकुर्याम् ।
- अत्रैव मम उदरे।
- महती वेदना वर्तते।
- ह्यः एकस्मिन् विवाहभोजं गत्वा बहूनि मिष्ठान्नानि खादितवान् ।
उत्तर:
(i) महती वेदना वर्तते ।
(ii) अत्रैव मम उदरे ।
(iii) ह्यः एकस्मिन् विवाहभोजं गत्वा बहूनि मिष्टान्नानि खादितवान् ।
(iv) इदानीं तु औषधं प्रयच्छतु । इतः परं कदापि अतिभोजनं न करिष्ये ।
(v) भोजनं किं स्वीकुर्याम् ।
संवाद-पूर्तिः
मञ्जूषायाम् दत्तानाम् पदानां सहायतया अधोदत्तान् संवादान् पूरयत-(मञ्जूषा में दिए गए शब्दों की सहायता से नीचे दिए गए संवाद को पूरे कीजिए-)
उदाहरणम्-
प्रश्न 1.
अभिनवः – मित्र, किं त्वम् ______________ पश्यसि ?
अरुणः – नहि, अहम् त्वया सह ______________ वार्ता करोमि।।
अभिनवः – अलम् ______________। किं त्वम् क्रिकेट्-प्रतियोगिताम् अपश्य:?
अरुणः – आम्, अहम् ______________ एव पश्यामि।
अभिनवः – अद्य खेलः अतीव ______________ वर्तते । कस्य ______________ भविष्यति, भारतस्य वा ______________ वा?
अरुणः विजयः कस्य भविष्यति इति कोऽपि न जानाति । अहं तु ______________ आनन्दम् अनुभवामि ।
पाकिस्तानस्य, विजयः, खेलस्य, दूरदर्शनम्, दूरभाषेण, उपहासेन, क्रिकेट्-खेलम्, रोचकः।
उत्तरम्:
दूरदर्शनम्, दूरभाषेण, उपहासेन, क्रिकेट-खेलम्, रोचकः, विजय:, पाकिस्तानस्य, खेलस्य।
प्रश्न 2.
माता ______________ त्वम् कुत्र गच्छसि ?
पुत्रः – मातः, अहम् ______________ गच्छामि।
माता – किं तव ______________ सम्पूर्णम् अस्ति ?
पुत्रः – यदा अहम् क्रीडाक्षेत्रात् आगमिष्यामि तदा ______________|
माता – प्रतिदिनं तु गृहकार्यम् ______________ खेलसि।
पुत्रः – मातः, अद्य ______________ अस्ति।
माता – पश्य, तव ______________ सुनीलः आगच्छति।
पुत्रः – ______________ अहम्।
करिष्यामि, मित्रम्, पुत्र, कृत्वा, क्रीडाक्षेत्रम्, गृहकार्यं, गच्छामि, क्रिकेट्-प्रतियोगिता।
उत्तरम्:
पुत्र, क्रीडाक्षेत्रम्, गृहकार्यम्, करिष्यामि, कृत्वा, क्रिकेट प्रतियोगिता मित्रम्, गच्छामि।
प्रश्न 3.
पुत्री – मातः, अभिमन्युः कः आसीत् ?
माता – ______________ अर्जुनस्य पुत्रः आसीत्।
पुत्री – ______________ कः आसीत् ?
माता – भीष्मः कौरवानां पाण्डवानां च ______________ आसीत्।
पुत्री – पितामहः कः भवति ?
माता – जनकस्य ______________ पितामहः भवति ।
पुत्री – ______________ किम् श्री आर्यवीरः तव भ्राता?
माता – आम्, मम ______________ तव मातुलः।
पुत्री – लवकुशौ रामस्य ______________ आस्ताम् ?
माता – ______________ रामस्य ______________ आस्ताम्।
कौ, मातः, पितामहः, भ्राता, जनकः, लवकुशौ, भीष्मः, पुत्रौ, अभिमन्युः।
उत्तरम्:
अभिमन्युः, भीष्मः, पितामहः, जनकः, मातः, भ्राता, कौ, लवकुशौ, पुत्रौ।
प्रश्न 4.
अध्यापकः – सुधीर, त्वम् किम् इच्छसि ?
सुधीरः – श्रीमन्, अहम् सेवम् खादितुम् ______________|
अध्यापकः – राधिके, तुभ्यं किं ______________?
राधिका – ______________ नारङ्गम् रोचते ।
सुदीपः। – मम कदलीफलम् ______________ अस्ति ।
अध्यापकः – शोभने, तव किं प्रियम् ?
शोभना – ______________ नारिकेलम् प्रियम्।
अध्यापकः – ______________ तु ______________ राजा। एतत् ______________ प्रियम्।
फलानाम्, मह्यम्, मम, आम्रम्, इच्छामि, सर्वेषाम्, रोचते, प्रियम्।।
उत्तरम्:
इच्छामि, रोचते, मह्यम्, प्रियम्, मम, आम्रम्, फलानाम्, सर्वेषाम्।
प्रश्न 5.
प्रथमः – भवान् कुतः आगतः?
द्वितीयः – अहम् अमेरिका-देशात ______________|
प्रथमः – किं ______________ भवान्?
द्वितीयः – आम्, दिल्ली विश्वविद्यालये ______________ छात्रः अहम्। भारतस्य इतिहासे मे महती ______________।
प्रथमः – आः शोभनम्। अहम् अत्र ______________ आगतः। श्व: ______________ दर्शनाय गमिष्यामि।
द्वितीयः – ______________ दर्शनाय मम उत्सुकता अस्ति।
प्रथमः – तर्हि दिल्लीदर्शनाय मया सह ______________ भवान्|
द्वितीयः – बाढ़म्।
दिल्लीनगरस्य, छात्रः, आगतः, आगच्छतु, पाटलिपुत्रात्, इतिहासस्य, ऐतिहासिक-स्थलानाम्, रुचिः।
उत्तरम्:
आगतः, छात्रः, इतिहासस्य, रुचिः, पाटलिपुत्रात्, दिल्लीनगरस्य, ऐतिहासिक-स्थालानां, आगच्छतु