Check the below Class 9 Sanskrit MCQ Questions and Chapter 10 णमो अरिहन्ताणम् MCQ based on the latest exam pattern.
णमो अरिहन्ताणम् Class 9 MCQ Questions
Class 9 Sanskrit Chapter 10 MCQ Online Test
अधोलिखितवाक्येषु पदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत
प्रश्न 1.
अरिहन्ता : मोक्षमार्ग दर्शयन्ति।” अस्मिन् वाक्ये “मोक्षमार्ग” कस्य अर्थ : ?
(क) संसारमार्ग:
(ख) मुक्तिमार्ग:
(ग) युद्धमार्ग:
(घ) व्यापारमार्गः
उत्तराणि:
(ख) मुक्तिमार्ग:
प्रश्न 2.
“ते संयमस्य उपदेशं कुर्वन्ति । ” अस्मिन् वाक्ये “संयमस्य ” कस्य अर्थ : ?
(क) लोभस्य
(ख) नियंत्रणस्य
(ग) क्रोधस्य
(घ) सुखस्य
उत्तराणि:
(ख) नियंत्रणस्य
प्रश्न 3.
“अरिहन्ताः जगतः कल्याणं कुर्वन्ति । ” अस्मिन् वाक्ये “ कल्याण” कस्य अर्थः ?
(क) दुःखम्
(ख) भयं
(ग) हितम्
(घ) क्रोधः
उत्तराणि:
(ग) हितम्
प्रश्न 4.
“ ते अहिंसायाः मार्ग दर्शयन्ति । ” अस्मिन् वाक्ये “ मार्ग ” कस्य अर्थः ?
(क) पथः
(ख) नगरम्
(ग) गृहः
(घ) पर्वतः
उत्तराणि:
(क) पथः
प्रश्न 5.
“ते संसारात् मोक्षं प्राप्नुवन्ति । ” अस्मिन् वाक्ये “संसारात् ” कस्य अर्थः ?
(क) जीवनात्
(ख) जगत:
(ग) गृहात्
(घ) वनेन
उत्तराणि:
(ख) जगत:
प्रश्न 6.
‘नैरन्तर्येण’ इत्यस्य अर्थः कः ?
(क) शनैः-शनैः
(ख) निरन्तरम
(ग) शीघ्रम्
(घ) पृथक्
उत्तराणि:
(ख) निरन्तरम
प्रश्न 7.
‘अपरिग्रहः’ इत्यस्य अर्थः कः ?
(क) अधिकसंग्रह:
(ख) दानम
(ग) आवश्यकात् अधिकं संग्रहः न करणीयः
(घ) अध्ययनम्
उत्तराणि:
(ग) आवश्यकात् अधिकं संग्रहः न करणीयः
प्रश्न 8.
‘उपवासः’ इत्यस्य अर्थः कः ?
(क) भोजनम्
(ख) निद्रा
(ग) निराहारः
(घ) भ्रमणम्
उत्तराणि:
(ग) निराहारः
प्रश्न 9.
‘प्रभाविता:’ इत्यस्य अर्थः कः ?
(क) दु:खिता:
(ख) प्रेरिताः
(ग) विस्मिताः
(घ) भयभीताः
उत्तराणि:
(ख) प्रेरिताः
प्रश्न 10.
“ ते करुणां बोधयन्ति । ” अस्मिन् वाक्ये “ करुणां” इत्यस्य अर्थः कः ?
(क) दया
(ख) क्रोधः
(ग) लोभः
(घ) अहंकारः
उत्तराणि:
(क) दया
अधोलिखित- रेखाङिकतपदानां आधृत्य प्रश्ननिर्माणं कुरुत
1. ऋषभदेवः स्वस्य विशालं साम्राज्यं स्वपुत्रेषु विभक्तवान् ।
2. ‘विनिता’ राज्यं भरताय तक्षशिलां बाहुबलये च समर्पितम् ।
3. ऋषभदेवः जीवनस्य परमसत्यम् अन्वेष्टुं प्रस्थितः ।
4. अनेके जनाः शिष्यरूपेण ऋषभदेवम् अनुसृतवन्तः।
5. सः अरण्येषु मौनेन ध्यानं अध्ययनं च करोति स्म ।
6. ऋषभदेवः भोजनपानादिकम् अपि विस्मृत्य निराहारः अभवत्।
7. अनुयायिनः वृक्षेभ्यः फलानि शाकानि चित्वा जीवनं यापयन्ति स्म ।
8. ऋषभदेवः मौनेन प्रतिगृहं भिक्षायाचनम् आरब्धवान्।
9. श्रेयांसः प्रपितामहाय इक्षुरसं दत्तवान् ।
10. ऋषभदेवः प्रयागराजे अक्षयवटवृक्षस्य अधः केवलज्ञानं प्राप्तवान्।
उत्तराणि:
1. क:,
2. कस्मै,
3. कस्य,
4. कम्,
5. केषु
6. किम् विस्मृत्य,
7. केभ्यः,
8. कुत्र,
9. किं,
10. कुत्र ।
अधोलिखित-कथां रिक्तस्थानानि पूरयित्वा पुनः लिखत
केवलज्ञानं, दीर्घकालिकः, प्रपौत्रः, बोधनार्थं, वृक्षेभ्यः,
अध्ययनं, जनाः,जीवनस्य, स्वपुत्रेषु, राजा
ऋषभदेवः प्राचीनकालस्य महान् (i) _______ आसीत्। सः स्वस्य विशालं साम्राज्यं (ii) _______ विभक्तवान् । ‘विनिता’ राज्यं भरताय, तक्षशिलां बाहुबलये च दत्त्वा सः (iii) _______ परमसत्यस्य अन्वेषण प्रस्थितः । अनेके (iv) _______ तं शिष्यरूपेण अनुसृतवन्तः। ऋषभदेवः अरण्येषु मौनेन ध्यानं (v) _______ च करोति स्म । सः भोजनपानम् अपि विस्मृत्य दीर्घकालं निराहारः अभवत् । अनुयायिनः (vi) _________ फलानि शाकानि चित्वा जीवनं यापयन्ति स्म । जनानां (vii) _________ सः मौनेन भिक्षायाचनम् आरब्धवान्। एकदा हस्तिनापुरस्य समीपे तस्य (viii) ________ श्रेयांसः तस्मै इक्षुरसं दत्तवान्। तेन ऋषभदेवस्य (ix) _______ उपवासः समाप्तः । पश्चात् सः प्रयागराजे अक्षयवटवृक्षस्य अध: (x) प्राप्तवान्। सः जैनसम्प्रदायस्य प्रथमः तीर्थङ्करः ‘आदिनाथः’ इति प्रसिद्धः अभवत्।
उत्तराणि:
ऋषभदेवः प्राचीनकालस्य महान् (i) राजा आसीत् । सः स्वस्य विशालं साम्राज्यं (ii) स्वपुत्रेषु विभक्तवान् । ‘विनिता’ राज्यं भरताय, तक्षशिलां बाहुबलये च दत्त्वा सः (iii) जीवनस्य परमसत्यस्य अन्वेषणाय प्रस्थितः। अनेके (iv) जनाः तं शिष्यरूपेण अनुसृतवन्तः । ऋषभदेवः अरण्येषु मौनेन ध्यानं (v) अध्ययनं च करोति स्म । सः भोजनपानम् अपि विस्मृत्य दीर्घकालं निराहारः अभवत् । अनुयायिनः (vi) वृक्षेभ्यः फलानि शाकानि चित्वा जीवनं यापयन्ति स्म । जनानां (vii) बोधनार्थं सः मौनेन भिक्षायाचनम् आरब्धवान्। एकदा हस्तिनापुरस्य समीपे तस्य (viii) प्रपौत्रः श्रेयांसः तस्मै इक्षुरसं दत्तवान् । तेन ऋषभदेवस्य (ix) दीर्घकालिकः उपवासः समाप्तः । पश्चात् सः प्रयागराजे अक्षयवटवृक्षस्य अधः (x) केवलज्ञानं प्राप्तवान्। सः जैनसम्प्रदायस्य प्रथमः तीर्थङ्करः ‘आदिनाथः’ इति प्रसिद्धः अभवत्।
एकपदेन उत्तरत
प्रश्न 1.
अर्हन्ताः केषां विजेतारः भवन्ति?
उत्तराणि:
इन्द्रियाणाम्
प्रश्न 2.
“ णमो” इत्यस्य भावः कः ?
उत्तराणि:
नमस्कारः
प्रश्न 3.
अरिहन्ताः कीदृशं ज्ञानं धारयन्ति ?
उत्तराणि:
केवलज्ञानम्
प्रश्न 4.
अयं मन्त्रः कस्य धर्मस्य भागः अस्ति ?
उत्तराणि:
जैनधर्मस्य