We have given detailed Class 9 Sanskrit Solutions and Class 9th Sanskrit Sharada Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः NCERT Solutions come in handy for quickly completing your homework.
Sanskrit Class 9 Chapter 9 Question Answer कृतं प्रतिकृतं भूयादेष धर्मः सनातनः
Class 9 Sanskrit Ch 9 Question Answer NCERT Solutions कृतं प्रतिकृतं भूयादेष धर्मः सनातनः
कृतं प्रतिकृतं भूयादेष धर्मः सनातनः प्रश्न उत्तर कक्षा 9
१. अधः प्रदत्तप्रश्नानाम् उत्तराणि एकपदेन लिखत ।
(नीचे दिए गए प्रश्नों के उत्तर एक पद में लिखिए।)
(क) भीमस्य जननी का?
(ख) कुन्त्या निश्चितं कः न समर्थयति ?
(ग) पाण्डवानाम् उपकर्ता क: ?
(घ) कं चिन्तयन् दुर्योधनः निद्रां न लभते ?
(ङ) पाण्डवाः कुत्र निवसन्ति स्म ?
भरतवंशप्रदीपः कः ?
(छ) कः भृशं परिदेवयते ?
उत्तर:
(क) कुन्ती
(ख) युधिष्ठिरः
(ग) ब्राह्मण:
(घ) भीमम्
(ङ) एकचक्रनगरे
(च) युधिष्ठिरः
(छ) ब्राह्मण:
२. पूर्णवाक्येन उत्तरं लिखत ।
(पूर्ण वाक्य में उत्तर लिखिए |)
(क) “भैक्षप्रदानेन” …………. इति श्लोकानुसारं सनातनः धर्मः कः ?
(ख) बकनामा दैत्यः कुत्र वसति ?
(ग) कुन्ती किं प्रतिश्रुतवती ?
(घ) भीमस्य अग्रजः कः ?
(ङ) का प्रत्यादेशं न अर्हति ?
(च) पौराः बकासुराय कथं बलिम् आहरन्ति?
(छ) क्षत्रियाणां धर्मः कः ?
उत्तर:
(क) चिरं वयं परैः भैक्षप्रदानेन उपकृताः । कृतं प्रतिकृतं भूयात्, एषः सनातनः धर्मः ।
(ख) बकनामा दैत्यः एकचक्रस्य पुरस्यादूरवर्तिनी पर्वते वसति।
(ग) कुन्ती ब्राह्मणाय स्वपुत्रेषु कोऽपि पुत्रं प्रेषयितुं प्रतिश्रुतवती । (घ) भीमस्य अग्रज : युधिष्ठिरः अस्ति ।
(ङ) मातु: आज्ञा प्रत्यादेशं न अर्हति ।
(च) पौराः बकासुराय पर्यायक्रमेण बलिम् आहरन्ति ।
(छ) नररक्षणं नाम भूमिपालानां क्षत्रियाणां धर्मः अस्ति ।
३. अधस्तात् दत्तानि वाक्यानि केन कं प्रति उक्तानि इति निर्दिशत।
(नीचे दिए गए वाक्य किसने, किसको कहे हैं, ऐसा निर्देश दीजिए।)

(i) न हि मातुराज्ञा प्रत्यादेशमर्हति
(ii) न हि खरदंष्ट्रो मृगाधिपः सहायमपेक्षते
(ii) क्षत्रियाण्या यदुचितं तदनुष्ठितम्
(iv) अपि हस्तद्वयेन भोक्ष्यसे
(v) तस्य भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम् ?
(vi) नरभक्षणं नाम मांसाशिनां राक्षसानां धर्मः
उत्तर:
केन/कया – कम् /काम् प्रति
(i) भीमेन – युधिष्ठिरं प्रति
(ii) भीमेन – अर्जुनं प्रति
(iii) भीमेन – कुन्तीं प्रति
(iv) सहदेवेन – भीमं प्रति
(v) युधिष्ठिरेण – कुन्तीं प्रति
(vi) बकेन – भीमं प्रति
![]()
४. रेखाङ्कितपदेषु सन्धिं विभज्य सन्धिनाम लिखत ।
(रेखांकित पदों में संधि का विभाजन कर संधि का नाम लिखिए |)

यथा- न चैतावत् ।
च + एतावत् (वृद्धि सन्धिः)
(क) सम्यगनुष्ठितम्।
………. + ……… (…………..)
(ख) पुरस्यादूरवर्तिनि पर्वते वसति बकनामा दैत्यः ।
………. + ……… (…………..)
(ग) श्रुतं तस्य दुरात्मनो वृत्तम् ।
………. + ……… (…………..)
(घ) भोज्यसमाहारे मानुषोऽपि तस्मै प्रेषयितव्यः ।
………. + ……… (…………..)
(ङ) मातः ! नास्त्यत्र किमप्यनुशोचितव्यम् ।
………. + ……… (…………..)
(च) क्षत्रियाण्या यदुचितं तदनुष्ठितम् ।
………. + ……… (…………..)
(छ) स खल्वेक पुत्रस्तपस्वी भृशं परिदेवयते।
………. + ……… (…………..)
(ज) कथं नु त्वया सङ्कल्पितम् ।
………. + ……… (…………..)
(झ) धर्मसङ्ग्रहोऽत्र द्रष्टव्यः ।
………. + ……… (…………..)
(ञ) मानुषभोजी स राक्षस इति श्रूयते।
………. + ……… (…………..)
उत्तर:
(क) सम्यक् + अनुष्ठितम् – (व्यञ्जन (जश्त्व) सन्धिः)
(ख) पुरस्य + अदूरवर्तिनि – (स्वरः) दीर्घसन्धिः)
(ग) दुरात्मन: + वृत्तम् – (विसर्ग: (उत्व) सन्धिः)
(घ) मानुष: + अपि – (विसर्ग: (उत्व) सन्धिः)
(ङ) न + अस्ति + अस्त्यत्र – (दीर्घः, यण्सन्धिः)
(च) यत् + उचितम् – (व्यञ्जन (जश्त्व) सन्धिः)
(छ) पुत्रः + तपस्वी – (विसर्ग (सत्व) सन्धिः)
(ज) सम् + कल्पितम् – (व्यञ्जनसन्धिः)
(झ) धर्मसङ्ग्रहः + अत्र – (विसर्ग: (उत्व) सन्धिः)
(ञ) सः + राक्षसः – (विसर्ग सन्धिः)
५. पर्यायवाचि – पदानां मेलनं कुरुत ।
(पर्यायवाची पदों का मिलान कीजिए ।)

यथा- पिता – जनक:
(क) आयोधनम् – १. ब्राह्मण: –
(ख) विप्रः – २. जननी
(ग) असुरः – ३. अग्निः
(घ) अम्ब – ४. दैत्यः
(ङ) हुताशनः – ५. युद्धम्
उत्तर:
(क) आयोधनम् – ५. युद्धम्
(ख) विप्रः – १. ब्राह्मण:
(ग) असुरः – ४. दैत्यः
(घ) अम्ब – २. जननी
(ङ) हुताशनः – ३. अग्निः
६. अधोलिखितानां पदानां विपरीतार्थक शब्दान् लिखत
(निम्नलिखित पदों के विपरीतार्थक शब्द लिखिए |)

यथा- पीवरः – कृश:
(क) उपकृतः – …………
(ख) अग्रजस्य – ………
(ग) उचितम् – ……….
(घ) हर्षः – ……….
उत्तर:
(क) अपकृतः
(ख) अनुजस्य
(ग) अनुचितम्
(घ) शोकः
७. मञ्जूषातः समुचितं विशेषणपदं चित्वा लिखत ।
(मंजूषा से उचित विशेषण पद चुनकर लिखिए |)
मञ्जूषा क्षत्रियाणी, शकटपूरं, प्रतिवेशी, खरदंष्ट्रः, जठरस्थः, कौन्तेयः, पीवरौ ।

यथा- पीवरौ बाहू
(क) ………. मृष्टान्नम्
(ख) ………. ब्राह्मण:
(ग) …….. मृगाधिपः
(घ) ……… भीमः
(ङ) ……… कुन्ती
(च) ……….. हुताशन:
उत्तर:
(क) शकटपूर
(ख) प्रतिवेशी
(ग) खरदंष्ट्रः
(घ) कौन्तेयः
(ङ) क्षत्रियाणी
(च) जठरस्थ:
![]()
८. समस्तपदानि लिखत ।
(समस्त पद लिखिए |)
यथा- मृष्टम् अन्नं शकटपूरं पूरयित्वा प्रेषणीयम् । मृष्टान्नम्
(क) वीरस्य भुजयोः बलम् आश्रित्य वयं सुखं शेमहे । – ………….
(ख) भवता धर्माणां सङ्ग्रहः द्रष्टव्यः । – ………………
(ग) नहि मातु: आज्ञा प्रत्यादेशमर्हति । – …………….
(घ) धनुः धरति इति अहम् अनुगमिष्यामि। – ……………
(ङ) नहि खरदंष्ट्रः मृगाणाम् अधिपः सहायमपेक्षते । – …………
(च) अस्य पुरस्य न दूरे वर्तते पर्वते वसति बकनामा दैत्यः ।
उत्तर:
(क) भुजबलम्
(ख) धर्मसङ्ग्रहः
(ग) मात्राज्ञा
(घ) धनुर्धरः
(ङ) मृगाधिपः
(च) अदूरवर्त
९. अधोलिखितवाक्यानाम् उचितभावैः सह सम्मेलनं कुरुत।
(निम्नलिखित वाक्यों का उचित भाव के साथ मिलान कीजिए |)

यथा प्रभूतमुपस्थितं मे भोजनम् । – हर्षः
(क) धनुर्धरोऽहमनुगमिष्यामि । – १. हास:
(ख) भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम् ? – २. निराशा
(ग) अपि हस्तद्वयेन भोक्ष्यसे? – ३. ग्लानि:
(घ) हनिष्यामि तं दुरात्मानम् । – ४. अधिकारः
(ङ) स खल्वेकपुत्रस्तपस्वी भृशं परिदेवयते। – ५. ओजः
(च) मानुषापसद, परिवेषय मे भोजनम्। – ६. धैर्यम्
उत्तर:.
(क) धनुर्धरोऽहमनुगमिष्यामि । – ६. धैर्यम्
(ख) भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम् ? – ३. ग्लानि:
(ग) अपि हस्तद्वयेन भोक्ष्यसे? – १. हास:
(घ) हनिष्यामि तं दुरात्मानम् । – ५. ओजः
(ङ) स खल्वेकपुत्रस्तपस्वी भृशं परिदेवयते। – २. निराशा
(च) मानुषापसद, परिवेषय मे भोजनम्। – ४. अधिकारः
१०. वाच्यपरिवर्तनं कुरुत ।
(वाच्य परिवर्तन कीजिए।)

कर्तृवाच्यम् – कर्मवाच्यम्
यथा- भवत्या प्रतिश्रुतम् । – ‘भवती प्रतिश्रुतवती ।’
(क) क्षत्रियाण्या अनुष्ठितम् । – …………………
(ख) भवत्या सज्जीक्रियताम्। – …………………
(ग) भवत्या उपक्षिप्तम् । – …………………
(घ) त्वया सङ्कल्पितम्। – …………………
(ङ) भवता धर्मसङ्ग्रहः द्रष्टव्यः । – …………………
(च) पौरजनैः मानुषः प्रेषयितव्यः । – …………………
उत्तर:
कर्तृवाच्य – कर्मवाच्यम्
(क) क्षत्रियाणी – अनुष्ठितवती
(ख) भवती – सज्जीकरोतु
(ग) भवती – उपक्षिप्तवता।
(घ) त्वं – सङ्ककल्पितवती
(ङ) भवान् धर्मसङ्ग्रहं – पश्येत्
(च) पौरजनाः मानुषं – प्रेषयेयुः
कविकालकृतीनां विचारः
कविः – विद्वान् एन्, रङ्गनाथशर्मा
जननम् – ७.४.१९२६, देहत्याग: २०१४
जन्मस्थानम् – नडळल्ली ग्रामः, शिवमोग्गमण्डलम्, कर्णाटकराज्यम् ।
उपाधयः – महामहोपाध्यायः, विद्यावारिधि:, व्याकरणशास्त्रप्रवीणः । राष्ट्रप्रशस्तिभाक् राज्यप्रशस्तिभाक् च ।
कृतयः – अयम् आचार्यः स्वरचित-ग्रन्थाः, अनूदित-ग्रन्थाः, व्याख्यानग्रन्थाः इति परश्शतान् लेखान् ग्रन्थान् च अलिखत् । संस्कृतभाषया – बाहुबलिविजयम्, एकचक्रम्, कुसुमाञ्जलिः, श्रीशङ्करचरितामृतम् इत्यादयः कृतयः प्रसिद्धाः ।
अयं विद्वान् व्याकरण-शास्त्रे अलङ्कारशास्त्रे अद्वैत वेदान्ते निष्णातः। बेङ्लूरुस्थे चामराजेन्द्र – संस्कृत – महाविद्यालये व्याकरण- प्राध्यापकः सन् चिरं सुरभारत्याः सेवाम् अकुरुत ।
अमरकोषः
१. असुरः असुरा दैत्य- दैतेयदनुजेन्द्रारिदानवाः ।
२. आयोधनम् युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ।
३. तनयः आत्मजस्तनयः सूनुः स्त्रियः पुत्रस्त्रियां त्वमी।
यस्तु क्रियावान् मनुजः स विद्वान्
१. अस्य रूपकस्य अभिनय-अंशान् ज्ञात्वा स्वशालायाम् अभिनयं कुरुत ।
२. अस्मिन् रूपके विद्यमानानां पात्राणां नामानि विलिख्य तेषां विषये टिप्पणीं लिखत ।
३. विद्यालयस्य ग्रन्थालयं गत्वा महाभारतस्य विविधपात्राणां विषये पठित्वा मित्रैः सह आलोचनां कुरुत ।
Class 9th Sanskrit Chapter 9 कृतं प्रतिकृतं भूयादेष धर्मः सनातनः Question Answer
संस्कृत कक्षा 9 पाठ 9 कृतं प्रतिकृतं भूयादेष धर्मः सनातनः के प्रश्न उत्तर
प्रश्न 1.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत ।
(निम्नलिखित नाट्यांशों को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए |)
नाट्यांशः 1
भीमः – मातः ! नास्त्यत्र किमप्यनुशोचितव्यम् । क्षत्रियाण्या यदुचितं तदनुष्ठितम् । युक्तोऽयं प्रतिश्रवः । श्रोत्रियोऽयं प्रतिवेशी प्रत्युपकारमर्हति। पश्य
भैक्षप्रदानेन चिरं परैरुपकृता वयम् ।
कृतं प्रतिकृतं भूयादेष धर्मः सनातनः ॥
अहमेव बकासुरमभिगमिष्यामि ।
कुन्ती – वत्स भीम! अनुरूपमभिहितं भरतवंशप्रदीपेन मम पुत्रेण । भक्ष्यभोज्यादिकं मृष्टान्नं शकटपूरं पूरयित्वा प्रेषणीयं भवति राक्षसाय। तदेतत् सज्जीक्रियतामिति प्रेरयिष्यामि ब्राह्मणकुटुम्बम्।
भीमः – अहो! प्रियं मे। सज्जीक्रियताम् । अपरमिदं प्रियमनुष्ठितं मे भवत्या । प्रभूतमुपाहरिष्यते भोजनम् ।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए ।)
- कया यदुचितं तदनुष्ठितम् ?
- बकारस्य पार्श्वे कः गन्तुम् इच्छति ?
- किं प्रभूतम् उपाहरिष्यते?
उत्तर:
- क्षत्रियाण्या
- भीम:
- भोजनम्
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- कः प्रत्युप्रकारम् अर्हति ?
- वयं कैः उपकृता?
- राक्षसाय किम् प्रेषणीयम् ?
उत्तर:
- अयं क्षत्रिय: प्रतिवेशी प्रत्युपकारमर्हति।
- वयं भैक्षप्रदानेन परैः उपकृता ।
- राक्षसाय भक्ष्यभोज्यादिकं मृष्टान्नं शकटपूरं पूरयित्वा प्रेषणीयम्।
![]()
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘अनुचितम्’ पदस्य विलोमपदं किम् नाट्यांशे प्रयुक्तम् ?
- ‘भरतवंशप्रदीपेन पुत्रेण’ अनयोः पदयोः विशेष्यपदं किमस्ति ?
अथवा
- ‘अभिगमिष्यामि’ क्रियापदस्य कर्तृपदं लिखत ।
- ‘आहार’: पदस्य किं पर्यायपदं नाट्यांशे प्रयुक्तम् ?
उत्तर:
- उचितम्
- पुत्रेण
अथवा
- अहम्
- भोजनम्
नाट्यांश: 2
कुन्ती – स खल्वेकपुत्रस्तपस्वी भृशं परिदेवयते ।
युधिष्ठिरः – ज्ञातमवशिष्टं मातः ! न खलु भवत्या अध्यवसितं समर्थये । यस्य वीरस्य भुजबलमाश्रित्य वयं सुखं शेमहे, यच्च चिन्तयन् दुर्योधनो निद्रां न लभते, तस्य भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम् ?
भीमः – धर्मं विजानता भवता धर्मसङ्ग्रहोऽत्र द्रष्टव्यः । न हि मातुराज्ञा प्रत्यादेशमर्हति।
युधिष्ठिरः – वत्स भीमसेन! बलवान् मानुषभोजी स राक्षसः इति श्रूयते ।
भीमः – ततः किम् ? राक्षसध्वंसी भीमः स्मर्यते । अलं विशङ्कया । हनिष्यामि तं दुरात्मानम्।
अर्जुनः – धनुर्धरोऽहमनुगमिष्यामि ।
भीमः – मा मैवम्। न हि खरदंष्ट्रो मृगाधिपः सहायमपेक्षते ।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए ।)
- कीदृशः पुत्रः परिदेवयते?
- कस्य वीरस्य बाहुबलेन वयं स्वपिमि ?
- भीमस्य बलेन कः निद्रां न लभते ?
उत्तर:
- तपस्वी
- भीमस्य
- दुर्योधनः
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- भवता कः द्रष्टव्यः ?
- एषः राक्षसः बलवान् मानुषभक्षी च अस्ति कः अवदत् ?
- कीदृशः भीमः स्मर्यते ?
उत्तर:
- धर्मं विजानता भवता धर्मसङ्ग्रहः दृष्टव्यः ।
- इदं कथनं युधिष्ठिरः अवदत् ।
- राक्षसध्वंसी भीमः स्मर्यते ।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘एकपुत्रस्तपस्वी’ अत्र विशेष्यपदं किमस्ति?
- ‘अत्यधिकम्’ पदस्य किं पर्यायपदं नाट्यांशे प्रयुक्तम् ?
अथवा
- ‘धनुर्धरोऽहमनुगमिष्यामि’ वाक्ये क्रियापदं किमस्ति ?
- ‘राक्षसध्वंसी भीमः स्मर्यते’ अत्र विशेषणपदं किमस्ति ?
उत्तर:
- तपस्वी
- भृशम्
अथवा
- अनुगमिष्यामि
- राक्षसध्वंसी
नाट्यांशः 3
रक्षिता साधुलोकानां वरिष्ठो बाहुशालिनाम् ।
निषूदको हिडिम्बस्य मृत्युश्चास्मि भवादृशाम् ॥
बकः – अहह! मम मित्रस्य हिडिम्बस्य हन्ता कौन्तेयो भवान् ?
भीमसेनः – कामम् ! कौन्तेयोऽस्मि भीमसेनः ।
बकः – इदमस्ति मे भागधेयम् । चिरान्विष्टो मृगः स्वयमुत्पतितो व्याघ्रगह्वरम् । श्लाघनीयोऽसि मे रिपुः ।
भीमसेनः – इदं मे स्वस्त्ययनं यन्मां श्लाघनीयं रिपुं मन्यसे । अनुवर्तस्व ते मित्रं हिडिम्बम् ।
बक: – वाचाट ! क्षत्रियडिम्भ, गृहाण शस्त्रम् । शातयामि ते दर्पम्।
भीमसेनः – अलं शस्त्रग्रहणविडम्बनेन,
त्वन्मस्तकास्थिभिदुरोऽस्ति ममैष मुष्टि: ।
(उभौ प्रहरतः। मल्लयुद्धं प्रवर्तते । हतः पतति बकः ।)
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए।)
- कस्य हन्ता कौन्तेयः अस्ति ?
- कौन्तेयः कः अस्ति?
- कः शस्त्रम् गृहाण ?
उत्तर:
- हिडिम्बस्य
- भीमसेन:
- क्षत्रियडिम्भः
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- कौ परस्परं प्रहरत: ?
- कः हतः पतति ?
- बकः श्लाघनीयः रिपुः कं मन्यते ?
उत्तर:
- उभौ परस्परं प्रहरतः ।
- बकासुरः हतः पतति ।
- बकः श्लाघनीयः रिपुः भीमं मन्यते ।
III. निर्देशानुसारम् उत्तर ।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘क्षत्रियडिम्भ’ कर्तृपदस्य क्रियापदं लिखत ।
- ‘श्लाघनीयं रिपुम्’ अत्र विशेष्यपदं किमस्ति ?
अथवा
- ‘शत्रोः’ पदस्य किं विपर्ययपदं नाट्यांशे प्रयुक्तम् ?
- ‘ते मित्रं हिडिम्बम्’ अस्मिन् वाक्ये ‘ते’ सर्वनामपदं कस्मै प्रयुक्तम् ?
उत्तर:
- गृहाण
- रिपुम्
अथवा
- मित्रस्य
- बकाय
अन्वयपूर्तिः
प्रश्न 2.
मञ्जूषात् समुचितपदानि चित्वा अधोलिखितस्य श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत ।
(मंजूषा से समुचित पद चुनकर निम्नलिखित श्लोक के अन्वय को पूर्ण करके पुनः लिखिए |)
(क) रक्षिता साधुलोकानां वरिष्ठो बाहुशालिनाम् ।
निषूदको हिडिम्बस्य मृत्युश्चास्मि भवादृशाम् ।।
अन्वयः साधुलोकानां (i) ………., बाहुशालिनां (ii) ……….., (iii) ……… निषूदकः, भवादृशाम् च (iv) …….. अस्मि ।
मञ्जूषा वरिष्ठः, रक्षिता, मृत्यु, हिडिम्बस्य ।
उत्तर:
(i) रक्षिता
(ii) वरिष्ठः
(iii) हिडिम्बस्य
(iv) मृत्यु
(ख) इमौ हि पीवरौ बाहू सहायौ सहजौ मम ।
बकं विध्वंसयिष्यामि सिंहः क्षुद्रमृगं यथा ।।
अन्वयः इमौ पीवरौ (i) …………. ‘बाहू हि मम (ii) ……… (स्तः), (अहं) सिंह: (iii) …….. यथा बकं (iv) ………. ।
मञ्जूषा सहजौ, क्षुद्रमृगं, विध्वंसयिष्यामि सहायौ ।
उत्तर:
(i) सहजौ
(ii) सहायौ
(iii) क्षुद्रमृगं
(iv) विध्वंसयिष्यामि
भावार्थपूर्तिः
प्रश्न 3.
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत ।
(मंजूषा की सहायता से रिक्त स्थानों को पूरा करके पुनः लिखिए |)
(क) भैक्षप्रदानेन चिरं परैरुपकृता वयम् ।
कृतं प्रतिकृतं भूयादेष धर्मः सनातनः ।।
भावार्थः भैक्षप्रदानेन इत्यस्य अर्थः दानं वा सहायता अस्ति चिरं (i) ……… वयम् इत्यनेन सूचितं यत् (ii) …….. ‘जीवने बहवेः जनाः अस्मान् साहाय्यं कुर्वन्ति। अतः कृत (iii) …….. भूयात् अर्थात् प्राप्तस्य उपकारस्य प्रत्युपकारः आवश्यकः एषः (iv) ……..
मञ्जूषा अस्माकं, परैरुपकृता, सिद्धान्तः, प्रतिकृतं ।
उत्तर:
(i) परैरुपकृता
(ii) अस्माकं
(iii) प्रतिकृतं
(iv) सिद्धान्त:
(ख) रक्षिता साधुलोकानां वरिष्ठो बाहुशालिनाम्।
निषूदको हिडिम्बस्य मृत्युश्चास्मि भवादृशाम् ।।
भावार्थ: भीमसेन: (i) …….. ‘गौरवपूर्णरीत्या ददन् कथयति यत्-अहं सज्जनानां रक्षकः अस्मि तथा च (ii) ……. पुरुषेषु श्रेष्ठः अस्मि । अहं हिडिम्ब (iii) ………. राक्षसस्य विनाशकः अस्मि । अतः हे राक्षस । अहं (iv) …….. सदृशानां दुष्टानां कृते मृत्युस्वरूपः अस्मि ।
मञ्जूषाः तव, स्वपरिचयं, बलशालिषु, नामकस्य ।
उत्तर:
(i) स्वपरिचयं
(ii) बलशालिषु
(iii) नामकस्य
(iv) तव
प्रश्ननिर्माणं कुरुत
प्रश्न 4.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत ।
(निम्नलिखित वाक्यों में रेखांकित पदों के आधार पर प्रश्न – निर्माण कीजिए ।)
- पाण्डवाः एकचक्रनगरे कस्यचित् ब्राह्मणस्य गृहे निवसन्ति ।
- असुरेण सह सन्धिनियमानुसारं प्रतिदिनं कश्चित् नगरवासी स्वेच्छया असुरस्य भक्ष्यं भवेत् ।
- बकासुरस्य समीपं गन्तुम् उद्युक्तः भवति।
- श्वः प्रभाते भवत्यस्य विप्रस्य पर्यायः ।
- नररक्षणं नाम भूमिपालानां क्षत्रियाणां धर्मः ।
उत्तर:
- कस्य
- केन
- कस्य
- क:
- कः
प्रसङ्गानुसारम् प्रश्नाः
प्रश्न 5.
रेखाङ्कितपदानां प्रसङ्गानुसारम् अर्थरूपं चयनं कुरुत ।
(रेखांकित पदों में प्रसंग के अनुसार अर्थरूप का चयन कीजिए ।)
(i) ओष्ठौ स्फुरतः इव अग्रजस्य ।
(क) कर्णौ
(ख) मस्तके
(ग) अधरौ
(घ) हस्तौ
उत्तर:
(ग) अधरौ
(ii) अपि हस्त द्वयेन भोक्ष्यसे ।
(क) करद्वयेन
(ख) पादद्वयेन
(ग) हस्तिद्वयेन
(घ) न कोऽपि
उत्तर:
(क) करद्वयेन
![]()
(iii) ज्ञातमवशिष्टं मातः । न खलु भवत्या अध्यवसितं समर्थये ।
(क) विनाशक
(ख) निश्चयेन
(ग) शृणु
(घ) अम्बे
उत्तर:
(घ) अम्बे
(iv) प्रभूतमुपाहारिष्यते भोजनम् ।
(क) आहारम्
(ख) मृष्टम् अन्नम्
(ग) हुतम् अशनम्
(घ) प्रलापक:
उत्तर:
(क) आहारम्
(v) पर्यायक्रमेण तस्मै बलिमाहरन्ति पौराः ।
(क) विलपति
(ख) नागरिका:
(ग) उभौ
(घ) न कोऽपि
उत्तर:
(ख) नागरिका:
(vi) बाढम्, क्षत्रियोऽस्मि ।
(क) स्थापय
(ख) स्थूलौ
(ग) प्रतिज्ञा
(घ) नूनम्
उत्तर:
(घ) नूनम्
मेलनं कुरुत
प्रश्न 6.
सुमेलितं कुरुत।
(सुमेलित कीजिए।)

सूची (अ) – सूची (ब)
(i) मल्लानां युद्धम् – (ग) मल्लयुद्धम्
(ii) प्रतिज्ञातम् – (ख) प्रतिश्रुतम्
(iii) परिवेषय – (क) स्थापय
(iv) अयोधनम् – (घ) युद्धम्
(v) अभिहितम् – (ङ) उक्तम्
कथापूर्ति कुरुतः
प्रश्न 7.
अधोलिखितानां कथां मञ्जूषायाः सहायतया पूरयित्वा पुनः लिखत ।
(निम्नलिखिति कथा को मंजूषा की सहायता से पूर्ण करके पुन: लिखिए।)
रामायणं (i) …….. चेति द्वौ प्रसिद्ध इतिहास- ग्रन्थौ । महाभारतम् (ii) …… बहवो ग्रन्थाः विरचिताः । (iii) …….. ‘महामहोपाध्यायेन श्रीरङ्गनाथशर्मणा (iv) ………. एकचक्रम् इति (v) …….. अन्यतमम्। महाभारते प्रतिपादितः बकासुरवधः अस्य (vi) ……….।
मञ्जूषा कथावस्तु, विरचितम् अवलम्ब्य, लघुरूपकम्, तेषु, महाभारतं।
उत्तर:
(i) महाभारतं
(ii) अवलम्ब्य
(iii) तेषु
(iv) विरचितम्
(v) लघुरूपकम्
(vi) कथावस्तु