Our free Class 8 Sanskrit Deepakam Worksheet and Class 8 Sanskrit Chapter 7 मञ्जुलमञ्जूषा सुन्दरसुरभाषा Worksheet with Answers make learning easier and fun.
Class 8 Sanskrit Chapter 7 Worksheet मञ्जुलमञ्जूषा सुन्दरसुरभाषा
Class 8 Sanskrit मञ्जुलमञ्जूषा सुन्दरसुरभाषा Worksheet
मञ्जुलमञ्जूषा सुन्दरसुरभाषा Worksheet
प्रश्न 1.
निम्नलिखित – प्रश्नानाम् उत्तरम् एकपदेन लिखत ।
(नीचे लिखे प्रश्नों के उत्तर एक पद में लिखिए ।)
(क) संस्कृतकाव्यशास्त्रेषु कति रसाः विद्यन्ते ?
(ख) संस्कृतभाषायाः गौरवं कीदृशम् अस्ति ?
(ग) महाभारतस्य रचनाकार: क: ?
(घ) गीतगायनप्रतियोगिता कुत्र आयोजिता ?
(ङ) संस्कृतभाषायाः विकासः के कृतवन्तः ?
(च) का भाषा अति रमणीया अस्ति ?
प्रश्न 2.
कोष्ठकप्रदत्त-पदानां यथोचित – विभक्तिभिः रिक्तस्थानानि पूरयत ।
(कोष्ठक में दिए पदों की उचित विभक्ति द्वारा खाली स्थान भरिए ।)
(क) संस्कृतभाषा बहूनां _________ प्रापिका अस्ति । (लक्ष्य)
(ख) शब्दार्थपूर्णाः विविधाः _________ शोभन्ते । (अलङ्कार)
(ग) _________ गौरवं वर्णनातीतम् अस्ति । (संस्कृतभाषा)
(घ) विद्यालये _________ कार्यक्रमाणां योजना रचिता । (अनेक)
(ङ) संस्कृतभाषा अति _________ भाषा अस्ति । (रमणीय)
(च) संस्कृते विशिष्टाः _________ काव्यानि । (कवि)
![]()
प्रश्न 3.
प्रत्येक स्तम्भात् पदानि चित्वा वाक्यानि रचयत ।
(प्रत्येक स्तम्भ से पदों को चुनकर वाक्य बनाइए ।)

(क) ____________________
(ख) ____________________
(ग) ____________________
(घ) ____________________
(ङ) ____________________
(च) ____________________
प्रश्न 4.
विभक्त्यानुसारं पदानि पृथक्-पृथक् कुरुत।
(विभक्ति के अनुसार पदों को अलग-अलग कीजिए ।)
| भाषायै, संस्कारात्, श्रवणेन, ग्रन्थान्, ज्ञानपेटिका, वृक्षात्, मम, काव्यरचनया , प्रतियोगितायाम्, बृद्धिम्, वयम्, विश्वस्य, विद्यालये, मात्रे |
| विभक्तिः | पदम् | पदम् |
| (क) प्रथमा | ज्ञानपेटिका | |
| (ख) द्वितीया | ||
| (ग) तृतीया | ||
| (घ) चतुर्थी | ||
| (ङ) पञ्चमी | ||
| (च) षष्ठी | ||
| (छ) सप्तमी |
प्रश्न 5.
रेखांकित – पदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु ।
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए |)
(क) जनानां जीवनस्थ्य आशा सुरभाषा । ____________________
(ख) कवयः उपादेयानि काव्यानि रचितवन्तः। ____________________
(ग) कोमलपदावल्या परिपूर्णा एषा ज्ञानपेटिका । ____________________
(घ) संस्कृतभाषायाः ध्वनिश्रवणेन सुखं वर्धते। ____________________
(ङ) कवयः अस्याः सौन्दर्यं वर्धितवन्तः। ____________________
(च) संस्कृतभाषायाः विकासः मुनयः कृतवन्तः। ____________________
प्रश्न 6.
शुद्ध – कथनस्य समक्षम् ‘आम्’ अशुद्ध कथनस्य समक्षं ‘न’ इति लिखत ।
(सही कथन के सामने ‘आम्’ गलत कथन के सामने ‘न’ लिखिए।)
(क) मञ्जुलमञ्जूषा सुन्दरसुरभाषा हिन्दी भाषा ।
(ख) रामायणस्य रचनाकारः व्यासः।
(ग) निरक्षर -जनाः उपादेयानि काव्यानि रचितवन्तः ।
(घ) विद्यालये अनेकेषां कार्यक्रमाणां योजना रचिता ।
(ङ) संस्कृतभाषायाः ध्वनिश्रवणेन सुखं वर्धते।
(च) संस्कृतभाषा मृता भाषा अस्ति ।
प्रश्न 7.
उचितं मेलनं कुरुत ।
(उचित मिलान कीजिए ।)

प्रश्न 8.
‘गम्’ धातोः लट् लकारस्य रूपाणि पूरयत ।
(‘गम्’ धातु के लट् लकार के रूप भरिए ।)
| पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
| प्रथमपुरुषः | गच्छति | ||
| मध्यमपुरुष: | |||
| उत्तमपुरुष: |
प्रश्न 9.
निम्नलिखित – क्रियापदानां मूलधातुः, लकारः, पुरुषः वचनं च लिखत ।
(नीचे दिए गए क्रिया पदों की मूल धातु, लकार, पुरुष और वचन लिखिए।)

प्रश्न 10.
हिन्दीभाषायाम् अनुवादं कुरुत ।
(हिन्दी भाषा में अनुवाद कीजिए ।)
(क) अहं जानामि अद्य संस्कृतदिवसः अस्ति।
____________________
(ख) संस्कृतभाषायाः गौरवं वर्णनातीतम् अस्ति ।
____________________
(ग) किं तत्र भवती भागं ग्रहीष्यति ?
____________________
(घ) एवं संस्कृतभाषा सर्वत्र विजयते ।
____________________
(ङ) मम विद्यालये अनेकेषां कार्यक्रमाणां योजना रचिता ।
____________________
(च) संस्कृतभाषा बहूनां लक्ष्याणां प्रापिका अस्ति ।
____________________
![]()
प्रश्न 11.
अधोलिखितं श्लोकं पठित्वा तदाधारितान् प्रश्नान् उत्तरत।
(अधोलिखित श्लोक को पढ़कर उस पर आधारित प्रश्नों के उत्तर दीजिए ।)
मुनिवरविकसितकविवरविलसित-
मञ्जुलमञ्जूषा, सुन्दरसुरभाषा।
अयि मातस्तव पोषणक्षमता
मम वचनातीता, सुन्दरसुरभाषा ।।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) का भाषा देवभाषारूपेण परिचिता अस्ति? _________
(ii) संस्कृतभाषायाः किं वर्णनातीतम् अस्ति ? _________
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
संस्कृतभाषा किं किं परिपोषयति ? ____________________
III. भाषिककार्यम्। (भाषा संबंधी कार्य ।)
(i) ‘संस्कृतभाषायाः’ इति पदे का विभक्ति: ? _________
(ii) ‘त्वं’ इति पदस्य बहुवचने रूपं किम् अस्ति ? _________
(iii) ‘त्वं सुन्दरभाषा असि ।’ अत्र क्रियापदं किम् अस्ति ? _________
प्रश्न 12.
मञ्जूषातः उचितं पदं चित्वा अधोलिखितश्लोकयोः अन्वयं पूरयत । (मंजूषा से उचित पद चुनकर नीचे लिखे श्लोकों के अन्वय पूरे कीजिए । )
(क) वेदव्यास- वाल्मीकि – मुनीनां
कालिदास – बाणादिकवीनाम् ।
पौराणिक-सामान्य-जनानां
जीवनस्य आशा, सुन्दरसुरभाषा ।।
मञ्जूषा- सुन्दरसुरभाषा, सामान्यजनानां, आशा, कालिदास
अन्वयः (त्वं) वेदव्यासवाल्मीकिमुनीनां (i) _________ – बाणादिकवीनां पौराणिक- (ii) _________ जीवनस्य (iii), _________ (असि)। त्वं (iv) _________ (असि)।
(ख) श्रुतिसुखनिनदे सकलप्रमोदे
स्मृतिहितवरदे सरसविनोदे ।
गति-मति-प्रेरक-काव्यविशारदे
तव संस्कृतिरेषा, सुन्दरसुरभाषा ।।
मञ्जूषा- सुन्दरसुरभाषा, संस्कृतिः, सकलप्रमोदे, सरसविनोदे
अन्वयः हे ! श्रुतिसुखनिनदे ! (i) _________ ! स्मृतिहितवरदे! (ii) _________ गति-मति-प्रेरक- काव्यविशारदे ! तव एषा (iii) _________ (अस्ति) | ( त्वं) (iii) _________ (असि)।
प्रश्न 13.
मञ्जूषातः उचितं पदं चित्वा अधोलिखितश्लोकयोः भावार्थं पूरयत ।
(मंजूषा से उचित पद चुनकर नीचे लिखे श्लोकों के भावार्थ पूरे कीजिए।)
(क) मुनिवरविकसितकविवरविलसित-
मञ्जुलमञ्जूषा, सुन्दरसुरभाषा।
अयि मातस्तव पोषणक्षमता
मम वचनातीता, सुन्दरसुरभाषा ।।
मञ्जूषा- कृतवन्त:, कोमलपदावल्या, वर्णनातीतम्, देवभाषारूपेण
भावार्थः – संस्कृतभाषा अतीव सुन्दरभाषा (i) _________ च परिचिता अस्ति। मुनयः अस्याः संस्कृतभाषायाः विकासं (ii) _________ । एषा भाषा भूयिष्ठानां भारतीयभाषाणां तथा विश्वस्य बहूनां भाषाणां च जननी – भाषा ( स्रोतो – भाषा) गुरुभाषा (पूरक-भाषा) वा अस्ति। बहवः कवयः काव्यरचनया अस्याः सौन्दर्यं वर्धितवन्तः। (iii) _________ परिपूर्णा एषा ज्ञानपेटिका अस्ति। संस्कृतभाषा स्वपदावलिभिः अन्याः भाषाः ज्ञानं विज्ञानं च परिपोषयति। संस्कृतभाषाया: गौरवं (iv) _________ अस्ति ।
(ख) नवरस – रुचिरालङ्कृति-धारा
वेदविषय-वेदान्त-विचारा ।
वैद्य-व्योम-शास्त्रादि-विहारा
विजयते धरायां, सुन्दरसुरभाषा।।
मञ्जूषा – विजयते, वेद-उपनिषद्-वेदान्त-पुराणादीनां पृथिव्यां, नवसंख्याकाः
भावार्थः – संस्कृतकाव्यशास्त्रेषु शृङ्गार – हास्य- करुण – रौद्र – वीर – भयानक – बीभत्स – अद्भुत – शान्त-प्रभृतयः (i) _________ रुचिराः रसाः सन्ति । शब्दार्थपूर्णाः विविधाः अलङ्काराः शोभन्ते । (ii) _________ विचाराः जनान् अभिप्रेरयन्ति । चिकित्साविज्ञान – खगोलशास्त्रादिभिः सह संस्कृतभाषा (iii) _________
विहरति। एवं संस्कृतभाषा सर्वत्र (iv) _________ ।
बहुविकल्पीय प्रश्नाः
प्रश्न 1.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चिनुत ।
(दिए गए विकल्पों से सही उत्तर चुनिए ।)
(क) संस्कृत दिवसः कदा आयोज्यते ?
(i) श्रावणी – एकादश्याम्
(ii) भाद्र पूर्णिमायाम्
(iii) श्रावणी-पूर्णिमायाम्
(ख) ‘गास्यति’ इति पदः कः लकारः ?
(i) लट्
(ii) लृट्
(iii) लङ्
(ग) ‘श्रावयतु’ इति पदस्य कर्ता का ?
(i) भवती
(ii) भवत्यौ
(iii) भवत्यः
(घ) ‘भूयिष्ठानाम्’ अत्र का विभक्तिः ?
(i) सप्तमी
(ii) षष्ठी
(iii) द्वितीया
(ङ) ‘विनाशम्’ इति पदस्य विपर्ययपदं किम् ?
(i) मृत्युः
(ii) गौरवम्
(iii) विकासम्
(च) ‘रचितवन्तः’ इति पदे कः प्रत्ययः ?
(i) क्तवतु
(ii) क्त
(iii) शतृ
![]()
प्रश्न 2.
कोष्ठकात् उचितपदं चित्वा रिक्तस्थानं पूरयत ।
(कोष्ठक से सही पद को चुनकर रिक्त स्थान भरिए ।)
(क) वयं संस्कृत-शब्दार्थान् _________ । (जानीव: / जानाति / जानीमः)
(ख) एवं संस्कृतभाषा सर्वत्र _________ । (विजयेते / विजयते / विजयन्ते)
(ग) ‘सुर:’ इति पदस्य अर्थः _________अस्ति । (देव:/मनुज: / दानवः)
(घ) संस्कृतकाव्यशास्त्रेषु _________ रसाः सन्ति । (सप्त / अष्ट / नव)
(ङ) संस्कृतभाषा _________ भाषा अस्ति। (रमणीयः / रमणीयम् / रमणीया)
(च) एषा भाषा बहूनां _________ प्रापिका अस्ति । (लक्ष्याणां/लक्ष्यस्य / लक्ष्याः)