Check the below Class 8 Sanskrit MCQ Chapter 4 प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 8 Sanskrit Chapter 4 Questions and Answers at LearnInsta.
प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः Class 8 MCQ Questions Sanskrit Chapter 4
पठित-अवबोधनम्
• अधोलिखितानां गद्यांशानां पठित्वा गद्यांशाधारित प्रश्नानां उत्तराणि निर्देशानुसारं लिखत ।
(निम्नलिखित गद्यांशों को पढ़कर गद्यांश पर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखिए।)
प्रश्न 1.
एकदा आचार्यहरिहरदासः सत्यवादि – वनविद्यालयस्य सर्वान् अध्यापकान् भोजनाय आमन्त्रितवान् । आमन्त्रिताः सर्वे अतिथयः हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः । बहूनि सुस्वादूनि व्यञ्जनानि कदलीपत्रेषु परिवेषितानि । हसन् गोपबन्धुरवदत् – अरे !
“भोजनस्यातिदौर्लभ्यं जीवनाय सुखप्रदम्।
तदर्थं भोजनं कुर्याः मा शरीरे दयां कुरु ।।”
एतच्छ्रुत्वा सर्वे उच्चैः हसितवन्तः । तदानीमेव बहिः कश्चन करुणध्वनिः गोपबन्धोः कर्णयोः अगुञ्जत् “मातः, मातः ! बुभुक्षितोऽस्मि, कृपया किञ्चित् भोजनं देहि । दिनत्रयात् किमपि न भुक्तम् । भोजनं देहि मातः ! भोजनं देहि । आँ आँ …” इति क्रन्दनध्वनिं श्रुत्वैव दयाविगलितहृदयः गोपबन्धुः अश्रुपूर्णनयनोऽभवत्। किमपि अविचिन्त्य झटिति स्वस्मै परिवेषितं भोजनं हस्ते गृहीत्वा बहिरागतवान् । भिक्षुकञ्च तद्भोजितवान्।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए)
- सर्वे आचार्यान् केन आमन्त्रिताः ?
- हस्तप्रक्षालनान्तरं का आसने उपविशति ?
- स्वादिष्टभोजनं कुत्र परोक्षितम् आसीत्?
- करुणध्वनिं श्रुत्वा कस्य अश्रुपूर्ण नयनोऽभवत् ?
उत्तर:
- आचार्यहरिदास:
- आचार्याः
- कदलीपत्रेषु
- गोपबन्धुः
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए)
- ‘मातः, मातः ! बुभुक्षितोऽस्मि’ – केन उक्तम् ?
- गोपबन्धुः भोजनं हस्ते गृहीत्वा कुत्र गतवान्?
उत्तर:
- ‘मात:, माता: । बुभुक्षितोऽस्मि’ भिक्षुकः उक्तम् ।
- ‘गोपबन्धुः भोजनं हस्ते गृहीत्वा’ बहिरागतवान् ।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘भोजनं देहि मात:’ रेखाङ्कित पदे का धातुरस्ति ?
- ‘भोजनं हस्ते गृहीत्वा बहिरागतवान्’ वाक्ये क्रियापदमस्ति ?
उत्तर:
- ‘दा’
- आगतवान्
![]()
IV. अधोलिखितानि उत्तराणि प्रदत्तविकल्पेभ्यः चित्वा लिखत ।
(निम्नलिखित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनकर लिखिए।)
(i) ‘एतच्छुत्वा’ पदे का प्रत्यय ?
(क) क्त्वा
(ख) त्वा
(ग) क्त्वा
(घ) क्त
उत्तर:
(ग) क्त्वा
(ii) ‘दिनत्रयात् किमपि न भुक्तम्’ रेखाङ्कितपदे का विभक्ति ?
(क) द्वितीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) पञ्चमी
उत्तर:
(घ) पञ्चमी
(iii) ‘बहिरागतवान्’ पदस्य कः सन्धि-विच्छेदः ?
(क) बहि: + आगतवान्
(ख) बहिरा + तवान्
(ग) बहिर + गतवान्
(घ) बहि + आगतवान्
उत्तर:
(क) बहि: + आगतवान्
(iv) “दयाविगलितहृदयः गोपबन्धुः अश्रुपूर्णनयानोऽभवत्” वाक्ये विशेषणपदं किमस्ति ?
(क) नयनो
(ख) अभवत्
(ग) गोपबन्धुः
(घ) दयाविगलितः
उत्तर:
(घ) दयाविगलितः
प्रश्न 2.
स्वदेशस्य भूमिभागे मम शरीरं विलीनं भवतु । देशवासिनः मम अनुसरणं कुर्वन्तु । देशस्य स्वतन्त्रतानिमित्तं यत्र यत्र प्रतिबन्धकाः गर्ताः सन्ति, ते सर्वे गर्ताः मम अस्थिभिः मांसैश्च परिपूर्णाः भवन्तु।
असौ सत्यवादि-वनविद्यालयस्य दरिद्रनारायणसेवा सङ्घस्य, सत्यवादि-मुद्रणालयस्य, समाजः इति दैनिक – वार्तापत्रस्य च प्रतिष्ठाता आसीत् । समाजः इति दिनपत्रिका शताधिकवर्षेभ्यः अधुनापि प्रतिदिनं प्रकाश्यते । समाजसेवायै देशसेवायै च तस्य असीमं त्यागमनुभवन् वैज्ञानिक: आचार्य: प्रफुल्लचन्द्ररायः गोपबन्धुम् ‘उत्कलमणिः’ इति उपाधिना सम्मानितवान् ।
“उत्कलमणिरित्याख्यः प्रसिद्धो लोकसेवकः ।
प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः ।।”
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए।)
- कः मम अनुसरणं कुर्वन्तु ?
- दैनिक – वार्तापत्रस्य कः प्रतिष्ठाता आसीत् ?
- आचार्य प्रफुल्लचन्द्ररायः गोपबन्धुं केन उपाधिना सम्मानितवान् ?
- गोपबंधुः कुत्र शिक्षकः आसीत् ?
उत्तर:
- देशवासिन:
- गोपबन्धुः
- उत्कलमणिः
- सत्यवादि-वनविद्यालयस्य
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए)
- ‘समाज:’ इति दिनपत्रिका कतिवर्षेभ्यः प्रतिदिनं प्रकाश्यते ।
- समाजसेवायै देशसेवायै च त्यागं कः अकरोत् ?
उत्तर:
- ‘समाज:’ इति दिनपत्रिका शताधिकवर्षेभ्यः प्रतिदिनं प्रकाश्यते।
- समाजसेवायै देशसेवायै च त्यागं गोपबन्धुः अकरोत् ।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए।)
- ‘मम अस्थिभिः मासैश्च परिपूर्णाः भवन्ति” वाक्ये क्रियापदं किमस्ति ?
- ‘ते सर्वे गर्ता:’ वाक्ये सर्वनामपदं किमस्ति ?
उत्तर:
- भवन्ति
- ते
![]()
IV. अधोलिखितानि उत्तराणि प्रदत्तविकल्पेभ्यः चित्वा लिखत ।
(निम्नलिखित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनकर लिखिए।)
(i) ‘स्वदेशस्य’ पदे का विभक्ति ?
(क) सम्बोधन
(ख) षष्ठी
(ग) सप्तमी
(घ) पञ्चमी
उत्तर:
(ख) षष्ठी
(ii) ‘यत्र प्रतिबन्धकाः गर्ताः सन्ति ।’ रेखाङ्कितपदे वचनमस्ति ।
(क) द्विवचनम्
(ख) एकवचनम्
(ग) बहुवचनम्
(घ) न कोऽपि
उत्तर:
(ग) बहुवचनम्
(iii) ‘आसीत् ‘ पदे कः लकारः ?
(क) लोट् लकार:
(ख) लङ् लकार:
(ग) विधिलिङ् लकार:
(घ) लृट् लकार:
उत्तर:
(ख) लङ् लकार:
(iv) ‘त्यागमनुभवन्’ पदे कः सन्धि-विच्छेदः ?
(क) त्यागम् + अनुभवन्
(ख) त्यागम + नुभवन्
(ग) त्याग + मनुभवन्
(घ) त्याग + अनुभवन्
उत्तर:
(क) त्यागम् + अनुभवन्
प्रदत्तविकल्पेभ्यः उचितं उत्तरं चिनुत ।
(दिए गए विकल्पों से सही उत्तर चुनिए ।)
(क) गोपबन्धुः कुत्र जातः आसीत्?
(i) भुवनेश्वरनगर्याम्
(ii) साक्षीगोपालसमीपे सुआण्डो-ग्रामे
(iii) कोलकातायाम्
(iv) वाराणस्याम्
उत्तर :
(ii) साक्षीगोपालसमीपे सुआण्डो-ग्रामे
(ख) गोपबन्धुः कस्य विद्यालये अध्यापकः आसीत्?
(i) विनोबा – विद्यालये
(ii) गांधी – शिक्षाश्रमे
(iii) सेवा-निकेतने
(iv) सत्यवादि-वनविद्यालये
उत्तर :
(iv) सत्यवादि-वनविद्यालये
(ग) ‘उत्कलमणिः’ इति उपाधिना कः गोपबन्धु सम्मानितवान् ?
(i) महात्मागान्धिः
(ii) रवीन्द्रनाथ ठाकुरः
(iii) आचार्यः प्रफुल्लचन्द्ररायः
(iv) बालगङ्गाधरतिलक :
उत्तर :
(iii) आचार्यः प्रफुल्लचन्द्ररायः
(घ) गोपबन्धुना कारागारे विरचितं नास्ति-
(i) आत्मप्रकाशः
(ii) गो-माहात्म्यम्
(iii) बन्दीर आत्मकथा
(iv) कारा – कविता
उत्तर :
(i) आत्मप्रकाशः
![]()
मञ्जूषातः उचितपदं चित्वा रिक्तस्थानानि पूरयत ।
(मञ्जूषा से उचित पद को चुनकर रिक्त स्थान भरिए।)
| मञ्जूषा – सुआण्डो-ग्रामे, समाज:, उत्कलमणिः, जलप्लावः, कारागारे |
(क) ओडिशायां भीषणः __________ अभवत्।
उत्तर :
जलप्लाव:
(ख) अस्य जन्म __________ अभवत्।
उत्तर :
सुआण्डो-ग्रामे
(ग) सः __________ स्थित्वा बहूनि पुस्तकानि लिखितवान् ।
उत्तर :
कारागारे
(घ) गोपबन्धुना __________ इति पत्रिकायाः प्रकाशनं कृतम्।
उत्तर :
समाजः
(ङ) सः __________ इति प्रसिद्धः आसीत् ।
उत्तर :
उत्कलमणि:
रेखाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
(रेखांकित पदों के आधार पर प्रश्न बनाइए ।)
(क) गोपबन्धुः सत्यवादि – वनविद्यालये अध्यापकः आसीत्।
उत्तर :
गोपबन्धुः कुत्र अध्यापकः आसीत् ?
(ख) सः सुआण्डो-ग्रामे जन्म लब्धवान्।
उत्तर :
सः कस्मिन् ग्रामे जन्म लब्धवान् ?
(ग).आचार्यः प्रफुल्लचन्द्ररायः गोपबन्धुम् ‘उत्कलमणिः’ इति उपाधिना सम्मानितवान् ।
उत्तर :
आचार्यः प्रफुल्लचन्द्ररायः कं ‘उत्कलमणिः’ इति उपाधिना सम्मानितवान् ?
(घ) गोपबन्धुः कारागारे निवसन् ‘बन्दीर आत्मकथा’ इत्यादीनि पुस्तकानि लिखितवान् ।
उत्तर :
गोपबन्धुः कुत्र निवसन् ‘बन्दीर आत्मकथा’ इत्यादीनि पुस्तकानि लिखितवान्?
(ङ) गोपबन्धुः जलप्लावपीडितानां सहायतां कृतवान्।
उत्तर :
गोपबन्धुः केषां सहायतां कृतवान्?
अधोलिखितान् प्रश्नान् उत्तरत।
(नीचे दिए गए प्रश्नों के उत्तर दीजिये ।)
(क) गोपबन्धुः कः आसीत्?
उत्तर :
गोपबन्धुः एकः महान देशभक्तः, समाजसेवकः, स्वतंत्रतासङ्ग्रामी च आसीत् ।
(ख) गोपबन्धोः जन्म कुत्र अभवत्?
उत्तर :
गोपबन्धोः जन्म ओडिशाराज्यस्य पुरीजनपदस्य साक्षीगोपालसमीपे सुआण्डो-ग्रामे अभवत्।
(ग) गोपबन्धुः छात्रेभ्यः किं अकरोत् ?
उत्तर :
गोपबन्धुः छात्रेभ्यः निःशुल्कं शिक्षां दत्तवान्।
(घ) गोपबन्धुना जनहिताय कानि – कानि कार्याणि कृतानि ?
उत्तर :
गोपबन्धुना सत्यवादि – वनविद्यालयस्य स्थापना, ‘समाज:’ इति दिनपत्रिकाया प्रकाशनं, दरिद्रसेवा, स्वदेशीवस्त्रप्रचारः, पुस्तकलेखनं च कृतम्।
(ङ) गोपबन्धुः ‘उत्कलमणिः’ इति उपाधिं कः प्रदत्तवान् ?
उत्तर :
आचार्यः प्रफुल्लचन्द्ररायः गोपबन्धुं ‘उत्कलमणिः’ इति उपाधिना सम्मानितवान्।
![]()
अधोलिखितानि वाक्यानि संस्कृतेन अनुवादं कुरुत ।
(नीचे दिए गए वाक्यों का संस्कृत में अनुवाद कीजिए ।)
(क) गोपबन्धु एक महान देशभक्त थे।
उत्तर :
गोपबन्धुः एकः महान: देशभक्तः आसीत्।
(ख) उनका जन्म ओडिशा में हुआ था।
उत्तर :
तस्य जन्म ओडिशाराज्ये सुआण्डो-ग्रामे अभवत् ।
(ग) उन्होंने गरीबों की सेवा की।
उत्तर :
सः दरिद्राणां सेवां अकरोत्।
(घ) वे सत्यवादी विद्यालय में पढ़ाते थे।
उत्तर :
गोपबन्धुः सत्यवादि – वनविद्यालये पाठयति स्म ।
मेलनं कुरुत। (मिलान कीजिए।)
| अ | इ |
| (क) गोपबन्धुः | (i) दैनिकपत्रिका |
| (ख) सत्यवादि-वनविद्यालयः | (ii) गोपबन्धुं ‘उत्कलमणिः ‘इति उपाधिना सम्मानितवान् |
| (ग) सुआण्डो-ग्रामः | (iii) शिक्षालयः |
| (घ) समाजः | (iv) समाजसेवकः आसीत |
| (ङ) आचार्य: प्रफुल्लचन्द्ररायः | (v) गोपबन्धोः जन्मस्थानम् |
उत्तर :
| अ | इ |
| (क) गोपबन्धुः | (iv) समाजसेवकः आसीत |
| (ख) सत्यवादि-वनविद्यालयः | (iii) शिक्षालयः |
| (ग) सुआण्डो-ग्रामः | (v) गोपबन्धोः जन्मस्थानम् |
| (घ) समाजः | (i) दैनिकपत्रिका |
| (ङ) आचार्य: प्रफुल्लचन्द्ररायः | (ii) गोपबन्धुं ‘उत्कलमणिः ‘इति उपाधिना सम्मानितवान् |
वाक्य- निर्माणं
अधोलिखितै शब्दैः वाक्य – निर्माणं कुरुत ।
(निम्नलिखित शब्दों से वाक्य – निर्माण कीजिए ।)
- प्रवाहिताः
- कदलीपत्रेषु
- अस्मि
- स्म
- मम
उत्तर:
- पशवोऽपि नदीस्रोतसा प्रवाहिताः मृताश्च।
- बहूनि सुस्वादूनि व्यञ्जनानि कदलीपत्रेषु परिवेषितानि ।
- अहं बुभुक्षितो अस्मि ।
- निरक्षरतादूरीकरणाय सः सततं यतते स्म ।
- देशवासिन: मम अनुसरणं कुर्वन्तु ।
![]()
अतिलघु उत्तरीय प्रश्नाः
प्रश्न 1.
कुत्र भयङ्करः जलप्लावः सम्भूतः ?
उत्तर:
ओडिशा – राज्सस्य केन्द्रपडा जनपदे ।
प्रश्न 2.
गोपबन्धुः केन प्रकारेण जलप्लावपीडितानां सेवां अकरोत् ?
उत्तर:
गोपबन्धुः अकुण्ठं सेवां अकरोत् ।
प्रश्न 3.
कस्मिन् काले गोपबन्धुः द्ररिद्राणां रोगिनां च सेवामकरोत् ।
उत्तर:
अध्ययनकाले गोपबन्धुः दरिद्राणां रोगिनां च सेवां करोत् ।
लघु उत्तरीय प्रश्नाः
प्रश्न 1.
उत्कलमणिरित्याख्यः प्रसिद्धौ कः ।
उत्तर:
उत्कलमणिरित्याख्यः प्रसिद्धो लोकसेवकः गोपबन्धुः ।
प्रश्न 2.
‘भोजनं देहि मात !’ केन उक्तम् ?
उत्तर:
‘भोजनं देहि मात!’ भिक्षुकः उक्तम् ।
दीर्घ उत्तरीय प्रश्नाः
प्रश्न 1.
केन तत्र महती हानिः सञ्जाता?
उत्तर:
जल्प्लावेन तत्र महती हानिः सञ्जाता ।
प्रश्न 2.
‘गोपबन्धुः’ जनमानसेषु केन प्रकारेण समादृतोऽस्ति ?
उत्तर:
‘गोपबन्धुः’ जलप्लावपीडितानाम् अकुण्ठं सेवां कृत्वा जनमानसेषु समादृतोऽस्ति ?