We have given detailed Sharda Sanskrit Book Class 9 Solutions and Sanskrit Anuched Lekhan Class 9 with Answers अनुच्छेदलेखनम् come in handy for quickly completing your homework.
Anuched Lekhan in Sanskrit for Class 9
Anuched Lekhan Class 9 Sanskrit
संस्कृत में अनुच्छेद लेखन कक्षा 9
अनुच्छेद लेखन में लेखक किसी विषय या विचार को सीमित शब्दों में प्रस्तुत करता है, जिससे पाठक को विषय का सार और उद्देश्य आसानी से समझ में आ सके। एक अच्छा अनुच्छेद सुसंगत, सरल भाषा में तथा तार्किक क्रम में लिखा जाता है।
ध्यान रखने योग्य बिंदु
- अनुच्छेद में एक ही भाव या विचार प्रस्तुत करना चाहिए।
- अनुच्छेद-लेखन में विषय को तुरंत आरंभ किया जाना चाहिए। क्योंकि इसमें भूमिका या उपसंहार नहीं होता है।
- अनुच्छेद के वाक्य परस्पर संबंधित होने चाहिए। रोचकता का गुण अनुच्छेद की विशेषता है।
- अनुच्छेद की भाषा सरल, स्पष्ट और प्रभावमयी होनी चाहिए।
- अनुच्छेद में प्रस्तुत विषय का केंद्रीय भाव प्रारंभ में अथवा अंत में अवश्य देना चाहिए।
- अनुच्छेद बहुत बड़ा अथवा बहुत छोटा नहीं होना चाहिए, प्रायः संस्कृत भाषा में पाँच वाक्य पर्याप्त होते हैं।
साधितम् उदाहरणम्
• मञ्जूषायाः उचितपदैः अधोलिखितानि अनुच्छेदानि विविधं विषयम् अधिकृत्य पञ्चसंस्कृतवाक्यानि लिखत । (मंजूषा के उचित पदों से निम्नलिखित अनुच्छेदों के विभिन्न विषयों पर आधारित पाँच संस्कृत वाक्य लिखिए।)
प्रश्न 1.
मञ्जूषायां प्रदत्तशब्दानां सहायतया “ममप्रियः कविः” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा में दिए गए शब्दों की सहायता से “ममप्रियः कविः” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए।)
मञ्जूषा
कालिदासः, संस्कृतस्य, कवीनाम्, उपमाः, अद्वितीयः तं कथयन्ति कुलगुरुः, अभिज्ञानशाकुन्तलम्, प्रकृति, संस्कृतसाहित्ये, कवि, आसीत्, विद्वांसः, कालिदासस्य, प्रसिद्धाः, सन्ति, चित्रणं, अस्ति, ममप्रियः, संस्कृतकविषु ।
उत्तर:
- संस्कृतसाहित्ये कालिदासः अद्वितीयः कविः आसीत् ।
- विद्वांसः तं कवीनां कुलगुरुः कथयन्ति।
- कालिदासस्य उपमाः प्रसिद्धाः सन्ति ।
- अभिज्ञानशाकुन्तले प्रकृतिचित्रणं अद्वितीयमस्ति ।
- संस्कृतकविषु ममप्रियः कविः कालिदासः अस्ति ।
प्रश्न 2.
मञ्जूषायाः सहायतया “मातृसेवा” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा की सहायता से “मातृसेवा” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए।)
मञ्जूषा
साक्षात्, वर्णितः, श्रद्धया, वन्दना, करणीया, प्रातरुत्थान, अस्ति, एव, स, मातृचरणेषु, साक्षात्, ईश्वरः, सेवा, मातृमान्, मातृदेवोभव, मातु, नरेण, साहित्ये, माता, उपनिषत्सु, यस्य, विदुषी ।
उत्तर:
- साहित्ये माता साक्षात् ईश्वरः वर्णितः।
- मातुः सेवा नरेण श्रद्धया करणीया ।
- मातृचरणेषु प्रातरुत्थाय वन्दना करणीया।
- यस्य माता विदुषी अस्ति स एव मातृमान् अस्ति।
- उपनिषत्सु “मातृदेवोभव” इति वर्णितः।
प्रश्न 3.
मञ्जूषायाः सहायतया “दीपावली ” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा की सहायता से “दीपावली ” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
दीपावली, पर्व, दिवसे, अस्माकं लङ्का, श्रीरामः, अयोध्याम्, अमावस्यायां, अन्धकारः, दीपान, अवलिः, सर्वत्र, उल्लासः, दिने, ज्वालयन्ति, राष्ट्रियोत्सवः, विजित्य, भवति, अस्मिन् वर्तते, दूरीकर्तुं ।
उत्तर:
- ‘दीपावली’ पर्व अमावस्यायां भवति ।
- अस्मिन् दिवसे श्रीरामः लङ्कां विजित्य अयोध्यां आगतः ।
- दीपावली अस्माकं राष्ट्रियोत्सवः वर्तते।
- अस्मिन् दिने सर्वत्र उल्लासः दृश्यते ।
- जनाः अन्धकारं दूरीकर्तुं दीपान् ज्वालयन्ति ।
प्रश्न 4.
मञ्जूषायाः सहायतया “होलिकोत्सवः” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा की सहायता से ” होलिकोत्सवः ” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
होलिकोत्सवः, अन्योन्येषुरङ्गं जनाः, प्रसन्नाः, मिलन्ति, खादन्ति, वैरभावं, विस्मृत्य, आलिङ्गनम्, कुर्वन्ति, फाल्गुन- पूर्णिमावसरे, भवति, परस्परं, क्षिपन्ति, अस्मिन् इदम्, पर्व, अस्ति, पर्वाणि, नवान्नान्।
उत्तर:
- फाल्गुन- पूर्णिमावसरे होलिकोत्सवः भवति।
- जनाः परस्परं वैरभावं विस्मृत्य आलिङ्गनं कुर्वन्ति ।
- जनाः अन्योन्येषुरङ्गं क्षिपन्ति ।
- अस्मिन् पर्वणि जनाः नवान्नान् खादन्ति ।
- इदं प्रसन्नतायाः पर्वम् अस्ति ।
प्रश्न 5.
मञ्जूषायाः सहायतया “रक्षाबन्धन – पर्वः” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा की सहायता से ” रक्षाबन्धन – पर्व : ” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
रक्षाबन्धन-पर्वणि, बध्नाति, तस्यै, यच्छति, भवन्ति, भ्रात्रेः, पूर्णिमायाः, अवसरे, मन्यते, पर्व भ्राताः भगिनी, रक्षाबन्धनम्, आशीर्वादम्, उपहारम्, प्रमुदितमनाः, देशे, सर्वे, श्रावण मासस्य ।
उत्तर:
- रक्षाबन्धन-पर्वम् श्रावणमासस्य पूर्णिमायाः अवसरे मन्यते ।
- रक्षाबन्धन-पर्वणि भगिनी भ्रातरं रक्षासूत्रं बध्नाति ।
- भ्राता तस्यै उपहारं यच्छति ।
- भगिनी भ्रात्रे आशीर्वादं यच्छति ।
- सर्वे प्रमुदितमनाः भवन्ति ।
प्रश्न 6.
मञ्जूषायाः सहायतया “वृक्षारोपणम्” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा की सहायता से ” वृक्षारोपणम्” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए ।)
मञ्जूषा
महती, आवश्यकता, वातावरणं, हरितं, वृक्षाः, प्राणवायुं, अवश्यमेव, स्वच्छ, पर्यावरणाय, वृक्षैः अस्माभिः, वृक्षारोपणम्, कर्त्तव्यम्, भवति, मनुष्येभ्यः, ददति, वृक्षाणां, अस्ति, छाया, फलानि च।
उत्तर:
- स्वच्छपर्यावरणाय वृक्षाणां महती आवश्यकता अस्ति ।
- वृक्षैः वातावरणं हरितं भवति ।
- वृक्षाः मनुष्येभ्यः प्राणवायुं ददति ।
- वृक्षाः नरेभ्यः छाया, फलानि च ददति ।
- वृक्षारोपणम् अस्माभिः अवश्यमेव कर्त्तव्यम् ।
प्रश्न 7.
मञ्जूषायाः सहायतया “भारतीया सेना” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा की सहायता से ” भारतीय सेना” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
सेनायाः, उपरि, गर्वम् वर्तते, कठिनपरिस्थित्यामपि, हिमालयस्य, हिमाच्छादितेषुशिखरेषु, अहर्निशं सेवामहे, उद्घोषं, सार्थकः, सेवन्ते, कुर्वन्ति, अतः भारतीय, रक्षां ते, देशस्य, सेना, श्रेष्ठा, अस्ति, विश्वस्य, वयं, कुर्मः ।
उत्तर:
- भारतीय सेना विश्वस्य श्रेष्ठा सेना अस्ति ।
- भारतीय सेनायाः उपरि वयं गर्वं कुर्मः ।
- कठिनपरिस्थित्यामपि सैनिकाः देशस्य रक्षां कुर्वन्ति ।
- हिमालयस्य हिमाच्छादितशिखरेषु ते अहर्निशं सेवन्ते ।
- अत: ते “अहर्निशं सेवामहे” उद्घोषं सार्थकं कुर्वन्ति ।
प्रश्न 8.
मञ्जूषायाः सहायतया “सत्सङ्गतिः ” विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा की सहायता से “सत्सङ्गतिः ” विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए ।)
मञ्जूषा
सत्सङ्गत्या, सतां, सङ्गतिः, उन्नतिः, विद्वान्, मनुष्य, भवन्ति, नरः, करोति, कदापि, कुसङ्गति, जनानां, सज्जनानां सम्पर्केण, सत्सङ्गति, कथ्यते, भवति, सज्जनः, न, महत्त्व, वर्तते, जीवने ।
उत्तर:
- सतां जनानां सङ्गतिः ‘सत्सङ्गतिः’ कथ्यते ।
- सत्सङ्गत्या नरः उन्नतिं करोति ।
- सज्जनानां सम्पर्केण मनुष्यः सज्जनः भवति ।
- विद्वान् नरः कदापि कुसङ्गतिं न करोति ।
- जीवने सत्सङ्गत्याः अति महत्त्वं वर्तते।
प्रश्न 9.
मञ्जूषायाः सहायतया “मम विद्यालयः” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा की सहायता से ” मम विद्यालय:” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
सर्वश्रेष्ठ, प्राचार्यः, आदर्शविद्यालयः अनेके शिक्षकाः, विषयान्, पञ्चसहस्र, छात्रा, अस्ति, मम, अस्माकं जनपदे, अत्रत्यः, स्वविषये, सन्ति, महोदयः, व्यवहारकुशलः, अपि च, श्रेष्ठः पठन्ति, अध्यापकाः ।
उत्तर:
- मम विद्यालयः जनपदे आदर्श विद्यालयः अस्ति ।
- अत्रत्यः अनेके शिक्षकाः स्वविषये जनपदे सर्वश्रेष्ठाः सन्ति ।
- अस्माकं प्राचार्यमहोदयः अपि श्रेष्ठः, व्यवहारकुशलः च अस्ति ।
- अस्माकं विद्यालये पञ्चसहस्र छात्राः पठन्ति ।
- मम विद्यालये पञ्चाशत् अध्यापकाः सन्ति ।
प्रश्न 10.
मञ्जूषायाः सहायतया “मम प्राचार्यः” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा की सहायता से ” मम प्राचार्य:” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
मम शोभनः, एवं, मनोयोगेन, मृदुभाषी, स्पष्टवक्ता, आदर्शवान्, परीक्षापरिणामः, अध्यक्षरूपेः विलम्बेन, त्यागशीलः, अस्ति, प्राचार्यः, नागच्छन्ति, कदापि भवति, ते सर्वदा, सः, च, स्वकर्त्तव्यं, पालयति ।
उत्तर:
- मम प्राचार्य: आदर्शवान् अस्ति ।
- सः कदापि विलम्बेन नागच्छति।
- सः मृदुभाषी, त्यागशीलः स्पष्टवक्ता च अस्ति ।
- अध्यक्षरूपे सः स्वकर्त्तव्यं मनोयोगेन पालयति ।
- अस्माकं विद्यालयस्य परीक्षापरिणामः सर्वदा शोभनः एव भवति ।
अभ्यासप्रश्नाः
नवीनतम् परीक्षा पैटर्न पर आधारित प्रश्न
मञ्जूषायाः उचितपदैः अधोलिखितानि अनुच्छेदानि विविधं विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत । (मंजूषा के उचित पदों से निम्नलिखित अनुच्छेदों के विभिन्न विषयों पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
प्रश्न 1.
मञ्जूषायाः उचितपदैः “ यातायात- अव्यवस्था” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से ” यातायात – अव्यवस्था” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए।)
मञ्जूषा:
सञ्चालनं, वर्णनं, अस्मिन् इदं अव्यवस्थायाः, यातायातस्य, अस्ति, दिल्लीनगरे, मोटरयानानि, अत्यधिकानि, मार्गे, अवरोधाः, करोति, मार्गम् उभयतः, गच्छन्ति जनाः, मध्ये, विद्युतस्तम्भाः, आरक्षकः, यातायात, सन्ति, वर्णने ।
उत्तर:
- इदं यातायात-अव्यवस्थायाः वर्णनं अस्ति।
- अस्मिन् वर्णने मार्गे विद्युतस्तम्भाः सन्ति ।
- मार्गे अत्यधिकानि मोटरयानानि गच्छन्ति।
- दिल्लीनगरे मार्गस्य मध्ये अवरोधाः सन्ति ।
- यातायातस्य सञ्चालनं आरक्षकः करोति ।
प्रश्न 2.
मञ्जूषायाः उचितपदैः “नौकाचालन प्रतियोगिता” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से ” नौकाचालन – प्रतियोगिता” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए ।)
मञ्जूषा
जनाः, सर्वे, कुर्वन्ति, दक्षिणभारते, केरलप्रदेशे, अनेके जनाः, नदीतीरे, एकत्रिताः, वर्णनं, द्रष्टुं प्रसिद्धाः करतलध्वनिं, पुरस्कारान्, सन्ति, नौका, चालन- प्रतियोगितायाः, अस्ति, जना, भवति, इदं ।
उत्तर:
- इदं वर्णनं नौकाचालन – प्रतियोगितायाः अस्ति।
- दक्षिणभारते नौकाचालन – प्रतियोगिता भवति।
- केरलप्रदेशे अनेके जनाः नदीतीरे एकत्रिताः सन्ति ।
- जना: पुरस्कारान् प्राप्नुवन्ति ।
- सर्वे करतलध्वनिं कुर्वन्ति ।
प्रश्न 3.
मञ्जूषायाः उचितपदैः “शिक्षायाः महत्त्वम्” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से “शिक्षायाः महत्त्वम्” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
इदं, शिक्षायाः, अधुना, जनाः, अस्ति, पालनं, समयस्य कुर्वन्ति, करणीयम्, जनैः, समयेन, अत्र अपि ज्ञातवान्, कार्याणि, पठन्ति, वर्णनं, महत्त्वस्य, छात्राः, ध्यानेन, पाठान् मया ।
उत्तर:
- इदं वर्णनं शिक्षायाः महत्त्वस्य अस्ति ।
- छात्राः ध्यानेन कार्याणि कुर्वन्ति ।
- अधुना जना: पाठान् पठन्ति ।
- अस्माभिः अपि समयस्य महत्त्वं ज्ञातम् ।
- जनैः समयेन कार्यं करणीयम् ।
प्रश्न 4
मञ्जूषायाः उचितपदैः “सर्वशिक्षा- अभियानम्” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से “सर्वशिक्षा अभियानम् ” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए।)
मञ्जूषा
सर्वशिक्षा, अस्ति, छात्रा, बालाः, ते, संस्कृतस्य, गायन्ति, शिक्षिका, पाठान्, कथां, वर्णनं श्रावयन्ति, पुस्तकानि, पाठयति, कक्षायां, पठन्ति, श्लोकानि, इदं, अभियानस्य ।
उत्तर:
- इदं वर्णनं सर्वशिक्षा अभियानस्य अस्ति ।
- बालाः कथां श्रावयन्ति ।
- कक्षायां छात्राः पुस्तकानि पठन्ति ।
- ते संस्कृतस्य श्लोकानि गायन्ति ।
- शिक्षिका पाठान् पाठयति ।
प्रश्न 5
मञ्जूषायाः उचितपदैः “दैनिक दिनचर्या” इति विषयम् अधिकृत्य पंचवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से “दैनिक दिनचर्या” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
प्रातः काले, जनाः, उद्यानं, ध्यानं, पूजां च कुर्वन्ति, वर्णनं, प्रातराशं, कार्यालयं, विद्यालयं, सहायतां, इदं, अस्ति, जागरणं, बालकाः, प्रति, गच्छन्ति, कृत्वा, महिला, सर्वेपुरुषा ।
उत्तर:
- इदं वर्णनं दैनिक दिनचर्यायाः अस्ति।
- जना: प्रात:काले जागरणं कुर्वन्ति ।
- जनाः ध्यानं पूजां च कुर्वन्ति ।
- बालकाः प्रातराशं कृत्वा विद्यालयं गच्छन्ति ।
- सर्वेपुरुषाः महिलाः च कार्यालयं प्रति गच्छन्ति।
प्रश्न 6.
मञ्जूषायाः उचितपदैः “ग्रामस्य-वर्णनम् ” इति विषयम् अधिकृत्य पंचवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से “ग्रामस्य वर्णनम् ” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
पत्रालयः, महिला, मार्जनम्, खट्वोपरि, सन्ति, वर्णनं, कृषिकार्यं, वृक्षाः, जनाः, पुरुषाः, ग्रामस्य, इदं, अस्ति, ग्रामे, करोति, कुर्वन्ति, उपविष्टा ।
उत्तर:
- इदं वर्णनं ग्रामस्य अस्ति ।
- ग्रामे एक: पत्रालयः अस्ति ।
- महिला मार्जनं करोति ।
- ग्रामे जनाः कृषिकार्यं कुर्वन्ति ।
- पुरुषाः खट्वोपरि उपविष्टाः सन्ति ।
प्रश्न 7.
मञ्जूषायाः उचितपदैः “सन्तुलित आहारस्यमहत्त्वम्” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से “सन्तुलित आहारस्यमहत्त्वम्” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
भञ्जूषा
भोजनम्, रोटिकाः, सूप-ओदनम्, शाकाहारी जनाः, अधुना, स्वच्छ-जलम्, पुष्टं, अपि च, खादन्ति, पिबन्ति, गुणकारी, वर्णनं, इदं, सन्तुलित, शरीरं, भवति, आहारस्य, अस्ति, आहारेण ।
उत्तर:
- इदं वर्णनं सन्तुलित आहारस्य अस्ति ।
- जना: सूप ओदनं रोटिकाः च खादन्ति ।
- जना: स्वच्छ-जलम् अपि पिबन्ति ।
- शाकाहारीभोजनं गुणकारी भवति ।
- सन्तुलित आहारेण शरीरं हृष्ट-पुष्टं भवति ।
प्रश्न 8.
मञ्जूषायाः उचितपदैः“क्रीडा प्रतियोगिता” इति विषयं आधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से ” क्रीडा प्रतियोगिता” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
प्रतियोगितायाः, क्रीडकाः, धावन्ति, क्रीडन्ति, दर्शकाः, इदं कुर्वन्ति, वर्तते, इतस्ततः, क्षेत्रे, सर्वे, इच्छन्ति, विजयं, वर्णनं, उत्साहवर्धन, करतलध्वनिना।
उत्तर:
- इदं वर्णनं क्रीडा – प्रतियोगितायाः वर्तते ।
- क्रीडका: क्षेत्रे क्रीडन्ति ।
- सर्वे इतस्ततः धावन्ति ।
- सर्वे दर्शकाः करतलध्वनिना क्रीडकानाम् उत्साहवर्धनं कुर्वन्ति ।
- सर्वे विजयं इच्छन्ति ।
प्रश्न 9.
मञ्जूषायाः उचितपदैः “पुस्तकालयः” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से ” पुस्तकालय:” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
वर्णनं, अस्ति, केचन, पुस्तकानि, तूष्णीं, छात्राः, समाचारपत्राणि, अनेकानि, ग्रन्थाः, भूत्वा, स्थापिताः सन्ति, अनेके, पुस्तकालये, अत्र, पठन्ति इदं, पुस्कालयस्य, जनाः ।
उत्तर:
- इदं वर्णनं पुस्तकालयस्य अस्ति ।
- अत्र जना: पुस्तकानि पठन्ति ।
- केचन छात्राः समाचारपत्राणि पठन्ति ।
- छात्राः पुस्तकालये तूष्णीं भूत्वा पठन्ति ।
- पुस्तकालये अनेके ग्रन्थाः स्थापिताः सन्ति।
प्रश्न 10.
मञ्जूषायाः उचितपदैः “वृक्षाः अस्माकं मित्राणि” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से “वृक्षाः अस्माकं मित्राणि इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए | )
मञ्जूषा
वर्णनं, इदं, वृक्षाः, सत्पुरुषाः, परोपकाराय, उपविश्य, पथिकाः, अपि, यथा, प्राणवायुं, फलन्ति, इव, आनन्दं, छायायां भवन्ति, प्राप्नुवन्ति, यच्छन्ति, सर्वेभ्यः, अस्ति, वृक्षाणां ।
उत्तर:
- इदं वर्णनं वृक्षाणां विषये अस्ति ।
- वृक्षाः सर्वेभ्यः प्राणवायुं यच्छन्ति ।
- पथिकाः छायायां उपविश्य आनन्दं प्राप्नुवन्ति ।
- वृक्षाः सत्पुरुषाः इव भवन्ति ।
- वृक्षाः परोपकाराय फलन्ति ।
प्रश्न 11.
मञ्जूषायाः उचितपदैः “उद्यानम्” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से “उद्यानम्” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
इदं, खगानां भ्रमन्ति, विहरतः, सरोवरे, द्वे, वर्तिके, जले, जनाः, विकसन्ति, उद्यानस्य, कोलाहलं, भवति, उद्याने, वर्णनम्, प्रातःकाले, कमलानि ।
उत्तर:
- इदं वर्णनम् उद्यानस्य अस्ति।
- प्रात:काले जना: उद्याने भ्रमन्ति ।
- द्वे वर्तिके जले विहरतः ।
- खगानां कोलाहलं भवति ।
- सरोवरे कमलानि विकसन्ति ।
प्रश्न 12.
मञ्जूषायाः उचितपदैः “संस्कृतस्य महत्त्वम्” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से “संस्कृतस्य महत्त्वम्” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए ।)
मञ्जूषा
संस्कृतभाषायां, प्राचीनतमा, भाषा, महत्त्वम्, वर्णितम्, संस्कृतिश्च, संस्कृतं, अनुच्छेदे, इति, अस्मिन् विषये, सर्वविधभाषाणां, जननी, भारतस्य, प्राण, सर्वेवेदाः, धर्मग्रन्थाः सन्ति, अस्ति ।
उत्तर:
- अस्मिन् अनुच्छेदे संस्कृतस्य महत्त्वम् इति विषयं वर्णितम् अस्ति।
- संस्कृतभाषा प्राचीनतमा भाषा अस्ति ।
- संस्कृतभाषा सर्वविधभाषाणां जननी अस्ति।
- सर्वे वेदाः धर्मग्रन्थाः च संस्कृतभाषायां सन्ति ।
- संस्कृतं संस्कृतिश्च भारतस्य प्राणाः सन्ति ।
प्रश्न 13.
मञ्जूषायाः पदानि आधृत्य “स्वतन्त्रता दिवस” इति विषये पञ्चवाक्येषु एकम् अनुच्छेदं सरलसंस्कृते लिखत ।
(मंजूषा के पदों के आधार पर “स्वतन्त्रता दिवस” इस विषय पर पाँच वाक्यों का संस्कृत में एक सरल अनुच्छेद लिखिए।)
मञ्जूषा
स्वतन्त्रता, अत्र, स्वाधीनतायै, अस्माकं, स्वतन्त्र, आङ्ग्लदेशीयाः, शासनम्, अस्ति, भारत, वर्षे, अभवत्, पूर्वम्, अकुर्वन्, आन्दोलनानि, 1947 तमे ईश्वीये, अनेकानि रक्षणीया, भारतवर्षम्, प्राणप्रणेन, देशः ।
उत्तर:
- अस्माकं देशः भारतवर्षम् अस्ति ।
- भारतदेश: 1947 तमे ईश्वीये वर्षे स्वतन्त्रः अभवत्।
- आङ्ग्लदेशीयाः पूर्वम् अत्र शासनम् अकुर्वन् ।
- स्वाधीनतायै अनेकानि आन्दोलनानि अभवन्।
- स्वतन्त्रता प्राणप्रणेन रक्षणीया ।
प्रश्न 14.
मञ्जूषायाः उचितपदैः “विद्यालयस्य उत्सवः” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से “विद्यालयस्य उत्सवः” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
पारितोषिक वितरणम्, वार्षिकसमारोहः, कर्मचारिणः, व्यस्ताः, कार्येषु, सभाध्यक्षः, विद्यालये, भवति, सन्ति, छात्राः, गायन्ति, सम्बोधयति, गीतं, वर्तते, छात्रान् वर्णनं, विद्यालयस्य, इदं ।
उत्तर:
- इदं वर्णनं विद्यालयस्य वार्षिक उत्सवस्य वर्तते ।
- वार्षिकसमारोहे छात्राः गीतं गायन्ति ।
- सभाध्यक्षः छात्रान् सम्बोधयति ।
- विद्यालये पारितोषिक वितरणं भवति ।
- सर्वे छात्राः कर्मचारिणः च कार्येषु व्यस्ताः सन्ति ।
प्रश्न 15.
मञ्जूषायाः उचितपदैः “अश्वशाला” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से ” अश्वशाला” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
अश्वारोहणं, अश्वाः, जलपानाय, मार्गे, गच्छन्ति, नदीं, वहति, वृक्षाः, वर्णनं, जनाः, वेगेन, इदं, सन्ति, छात्राः, धावन्ति, तीव्रं प्रति, कुर्वन्ति, अश्वशालायाः, अस्ति।
उत्तर:
- इदं वर्णनम् अश्वशालायाः अस्ति ।
- छात्राः अश्वारोहणं कुर्वन्ति ।
- अश्वा: जलपानाय नदीं प्रति गच्छन्ति ।
- मार्गे वृक्षाः सन्ति ।
- अश्वा: तीव्र – वेगेन धावन्ति ।
प्रश्न 16.
मञ्जूषायाः उचितपदैः “गणतन्त्र दिवसः” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से “गणतन्त्र दिवस : ” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए ।)
मञ्जूषा
26 जनवरीमासे, शस्त्रप्रदर्शनम्, भारतद्वारे, राजीवचतुष्पथे, उभयतः, सैन्यस्मारके, आयोज्यते, गणतन्त्रदिवसः, भारते, सेनायाः, राष्ट्रपतिमहोदयः, जनसम्मर्दः, राजमार्गम्, अभिनन्दति, सैन्यस्मारकः।
उत्तर:
- भारते जनवरी मासस्य 26 दिनाङ्के गणतन्त्र दिवसः भवति ।
- राजीवचतुष्पथे भारतीय सेनायाः शस्त्रप्रदर्शनं भवति।
- राजमार्गम् उभयतः विशाल जनसम्मर्दः तिष्ठति ।
- “भारतद्वारे सैन्यस्मारकः अस्ति।”
- सैन्यस्मारके राष्ट्रपतिमहोदयः सर्वान् अभिनन्दति ।
प्रश्न 17.
मञ्जूषायाः उचितपदैः “पर्यावरणम्” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से “पर्यावरणम्” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
प्लास्टिकस्यूताः, प्रदूषिताः, धूमं वृक्षारोपणम्, उद्योगेभ्यः, महानगरेषु, कज्जलमलिनं, सर्वेभ्यः, मोटरवाहनानि, पर्यावरणम्, मुख्यकारकं, अपि, दूषणे, प्राणिभ्यः, पर्यावरण, नद्यः मुञ्चति ।
उत्तर:
- सर्वेभ्य: प्राणिभ्यः शुद्धं पर्यावरणम् आवश्यकम् अस्ति।
- महानगरेषु मोटरवाहनानि कज्जलमलिनं धूमं मुञ्चति ।
- उद्योगेभ्यः नद्यः प्रदूषिताः भवन्ति ।
- पर्यावरणाय ‘वृक्षारोपणम् आवश्यकम् अस्ति।
- प्लास्टिकस्यूताः अपि पर्यावरणप्रदूषणे मुख्यकारकाः सन्ति ।
प्रश्न 18.
मञ्जूषायाः उचितपदैः “महाभारतम्” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से ” महाभारतम् ” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
श्रीकृष्णः, अर्जुनः, भीमः आसन्, दुर्योधनः, भीष्मपितामहः, द्रौपदी, युद्धस्य कारणम्, कौरवाः पाण्डवाः आसीत्, महाभारते, च, भ्रातरः, कृते, ज्येष्ठः, सर्वेषां, युगपुरुषः, मध्यमः, पूजनीयः, कौरवेषु, महाभारतकाले।
उत्तर:
- महाभारतस्य युद्धं कौरवाणां पाण्डवानां च मध्ये अभवत्।
- कौरवाः, पाण्डवाः च भ्रातरः आसन्।
- कौरवेषु दुर्योधनः ज्येष्ठः आसीत्।
- भीष्मपितामहः सर्वेषां कृते पूजनीयः आसीत् ।
- श्रीकृष्णः महाभारतकाले युगपुरुषः आसीत् ।
प्रश्न 19.
मञ्जूषायाः उचितपदैः “योग” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से योग इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए ।)
मञ्जूषा
शरीरं, भ्रमणम् धावनम्, शरीरे रक्तसञ्चारः योगशीलः, स्वस्थं, साहसी, अनिवार्य, अस्ति रक्षितुं, सम्यक् रूपेण, प्राणायामः, तिष्ठति ।
उत्तर:
- शरीरस्य स्वास्थ्यं रक्षितुं योगः अनिवार्यः अस्ति ।
- प्राणायामः भ्रमणम्, धावनम्, योगाभ्यासः इति ।
- यः योग करोति तस्य शरीरे रक्तसञ्चार : सम्यक् – रूपेण भवति ।
- योगशील: मानवः साहसी भवति ।
- योगेन शरीरं स्वस्थं भवति ।
प्रश्न 20.
मञ्जूषायाः उचितपदैः “ स्वच्छता ” इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
(मंजूषा के उचित पदों से “स्वच्छता ” इस विषय पर आधारित पाँच वाक्य संस्कृत में लिखिए |)
मञ्जूषा
मनुष्याणां महत्त्वपूर्णा, शरीरेण, निजराष्ट्रस्य अस्माकं, स्वच्छताभियानस्य, बालकाः कर्त्तव्यः, प्रथमं, आरम्भं, आवश्यकी, प्रधानमन्त्री, सन्ति ।
उत्तर:
- स्वच्छता मनुष्याणां जीवने महत्त्वपूर्णा अस्ति ।
- निजशरीरेण सह निजराष्ट्रस्य स्वच्छता अपि आवश्यकी अस्ति ।
- अस्माकं प्रधानमन्त्रीनरेन्द्रमोदी स्वच्छताभियानस्य आरम्भं कृतवान्।
- अधुना बालकाः अपि स्वच्छताविषये जागरूकाः सन्ति ।
- स्वच्छता अस्माकं प्रथमं कर्त्तव्यम् अस्ति।
अनुच्छेदलेखनम्
योगिता एक छात्रा है। उसने अपनी संस्कृत पाठ्यपुस्तक में ‘दीपावलिः’ के विषय से ये वाक्य पढ़ें दीपावलीपर्व भारतीयानां प्रमुखं पर्व वर्तते। दीपावलि इत्युक्ते दीपानाम् अवलिः। अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति। जनाः अस्मिन् पर्वणि नवीनानि वस्त्राणि धारयन्ति। ते परस्परं उपहारन् अपि प्रयच्छन्तिकोचित् जनाः विस्फोटक पदर्थान प्रज्वाल्य पर्यावरणं प्रदूषयन्ति। ऊपर लिखी पंक्तियों में दीपावली के विषय में बताया गया है। किसी विषय के एक केंद्रीय भाव अथवा विचार | के आधार पर किया गया लघु निबंधात्मक चित्रण अनुच्छेद कहलाता है।
अनुच्छेदस्य सामान्याः विशेषताः
• अनुच्छेदलेखने भूमिका उपसंहारो वा न भवति।
अनुच्छेद लेखन में भूमिका या उपसंहार नहीं होता है।
• अनुच्छेदे एक एव भावः प्रस्तोतव्यः ।
अनुच्छेद में एक ही भाव प्रस्तुत करना चाहिए।
• अनुच्छेदलेखने विषयस्य सद्यः एवं आरंभ क्रियते।
अनुच्छेद लेखन में विषय तुरंत आरंभ किया जाता है।
• रोचकतागुणः अनुच्छेदस्य विशिष्टता।
रोचकता का गुण अनुच्छेद की विशेषता है।
• अनुच्छेदे प्रस्तुतविषयस्य केन्द्रीयभावः प्रारम्भे वा अन्ते वा अवश्यं दातव्यः।
अनुच्छेद में प्रस्तुत विषय का केन्द्रीय भाव आरम्भ में अथवा अन्त में अवश्य देना चाहिए।
• अस्य भाषा सरला सुबोधा च भवेत्।
इसकी भाषा सरल और सुबोध होनी चाहिए।
• अनुच्छेदः अतिविस्तृतः अति लघुः वा न स्यात् ।
अनुच्छेद बहुत बड़ा अथवा बहुत छोटा नहीं होना चाहिए।
उदाहरणम्
प्रश्न 1.
‘मम विद्यालयः’ इति विषयम् अधिकृत्य मञ्जूषातः शब्दान् चित्वा संस्कृतभाषया पञ्चवाक्यानि लिखत। | मञ्जूषा-राजधान्याम्, स्थितः, समुचिता व्यवस्था, सुयोग्याः, स्नेहेन, क्रीडाक्षेत्रम्, प्रसीदन्ति, मनोयोगेन, पाठयन्ति, मृदुस्वभावाः |
उत्तर:
- मम विद्यालयः भारतस्य राजधान्यां स्थितः अस्ति
- मम विद्यालये प्रथम कक्षायाः आरभ्य द्वादशकक्षा पर्यन्तम् शिक्षायाः समुचिता व्यवस्था वर्तते।
- मम विद्यालयस्य प्रधानाचार्यः, अध्यापकाः अध्यापिकाः च सुयोग्याः मृदुस्वभावाः च सन्ति।
- ते मनोयोगेन स्नेहेन च सर्वान् छात्रान् पाठयन्ति।
- मम विद्यालयस्य क्रीडाक्षेत्रं विशालम् अस्ति यत्र छात्राः यथासमयम् क्रीडन्ति प्रसीदन्ति च।
प्रश्न 2.
‘विद्यालयस्य क्रीडा दिवसः’ इति विषयम् अधिकृत्य मञ्जूषायाः प्रदाति नीत्या पञ्चवाक्यमितम् एकम् अनुच्छेदं रचयत मञ्जूषा-क्रीडा दिवसः, प्रमुदिताः, प्रधानाचार्यः, मार्गदर्शनं, क्रीडासु, स्वशरीराणि, पुरस्काराणि, अध्यक्षमहोदयः, ग्रहीत्वा
उत्तर:
प्रायः सर्वेष विद्यालयेष क्रीडा दिवसः भवति। अस्मिन अवसरे बालकाः बालिकाश्च प्रमदिताः सन्ति । अध्यक्षमहोदयः प्रधानाचार्यः वा छात्रेभ्यः पुरस्काराणि यच्छति । अध्यापकाः अध्यापिकाश्च क्रीडकानाम् मार्गदर्शनं कुर्वन्ति। क्रीडा दिवसे छात्राः विविधासु क्रीडासु भागं ग्रहीत्वा स्वशरीराणि स्वस्थानि कुर्वन्ति ।
प्रश्न 3.
‘भारतस्य राजधानी’ इति विषये मञ्जूषायाः सहायतया पञ्च वाक्यानि युक्तम् एकम् अनुच्छेदं लिखत
मञ्जूषा-यमुनातटे, अन्तरा, राजधानी, ऐतिहासिक-भवनानि, भारतद्वारम्, रक्तदुर्गः, दिल्ली,सर्वोच्च न्यायालयः, राष्ट्रपतिभवनम्, प्राचीना
उत्तर:
‘दिल्ली’ भारतस्य राजधानी अस्ति । इयं प्राचीना ऐतिहासिकी च नगरी यमुनातटे अस्ति। इयं नगरी उत्तरप्रदेश, हरियाणा प्रदेशं राजस्थान प्रदेशं च अन्तरा स्थिता अस्ति। अत्र अनेकानि ऐतिहासिक-भवनानि विराजन्ते। भारतं-सर्वकास्य सर्वे मुख्यालयाः अत्र एव वर्तन्ते। राष्ट्रपतिभवनम्, संसदभवनम्, भारतद्वारम्, सर्वोच्चन्यायालयः कुतुबमीनार स्मारकम्, रक्तदुर्गः, जन्तुशाला, शक्तिस्थलम्, राजघाटम्, शान्तिवनम्, बिरलामन्दिरम्, कमलदेवालयम्, मुगल-उद्यानम् इति अत्र अनेकानि दर्शनीयस्थलानि सन्ति।
प्रश्न 4.
‘मम प्रिय: अध्यापकः’ इति विषये
मञ्जूषातः पदानि नीत्वा सरल संस्कृते पञ्चवाक्यानाम् एकम् अनुच्छेदं लिखत
उत्तर:
मञ्जूषा-मुनीन्द्रः, आर्यः, मार्गदर्शनं, पाठयति, विनीतः, सभ्यः, पर्वतारोहणाय, संस्कृतं, सामान्यज्ञाने, अन्येषु विषयेषु उत्तराणि-मम प्रियः अध्यापक: ‘श्री मुनीन्द्रः आर्यः’ अस्ति। सः मां स्नेहेन संस्कृतं पाठयति। सः अन्येषु विषयेषु, विविधक्रीडासु सामान्यज्ञाने च अपि छात्राणां मार्गदर्शनं करोति। सः एकः अनुशासनप्रियः, विनीतः, सहृदयः, शिष्टः, सभ्यः विद्वान् च अस्ति। यदा-कदा सः अस्माभिः सह पर्वतारोहणाय अपि गच्छति।
प्रश्न 5.
‘मम प्रियः कविः’ इत्यस्मिन् विषये मञ्जूषायाः सहायतया सरल संस्कृते पञ्चवाक्यानि लिखत
मञ्जूषा-कालिदासः, सप्तरचनाः, श्रेष्ठ, राजसभायाः शेक्सपियरः, सुरक्षिता, विक्रमादित्यस्य, कवि:
उत्तर:
मम प्रियः कविः कालिदासः अस्ति। सः सप्तरचनाः कृतवान्। तस्य सर्वासु रचनासु अभिज्ञानशाकुन्तलम् नाटकम् श्रेष्ठ मन्यते। सः चन्द्रगुप्त विक्रमादित्यस्य राजसभायाः कविः आसीत्। अस्य सर्वासु रचनासु प्राचीनभारतीया संस्कृतिः सुरक्षिता अभवत्। असौ भारतस्य ‘शेक्सपियरः’ इति मन्यते।
प्रश्न 6.
‘पुस्तकालयः’ इति विषयमाधृत्य मञ्जूषायाः सहायतया संस्कृते पञ्चवाक्यानां निर्माणं करोतु भवान्
मञ्जूषा-पुस्तकालयः, अमूल्याः, आज्ञया, अभीष्टानि, आलयः, अध्यक्षस्य, तूष्णीम्, विद्यालयेषु, स्थातव्यम्
उत्तर:
पुस्तकानाम् आलयः इति पुस्तकालयः कथ्यते। प्रायः सर्वेषु विद्यालयेषु पुस्तकालयः भवति। पुस्तकालये अनेकानि पुस्तकानि नाना च अमूल्याः ग्रन्थाः अपि भवन्ति । छात्रा: अध्यापकाः च यथासमयं तत्र गत्वा अभीष्टानि पुस्तकानि प्राप्य पठन्ति ज्ञानं च अर्जन्ति । अस्माभिः पुस्तकालये तूष्णीम् स्थातव्यम् पुस्तकालयस्य अध्यक्षस्य च आज्ञया एव पुस्तकानि ग्रहीतव्यानि।
प्रश्न 7.
‘गङ्गा नदी’ इत्यस्मिन् विषये मञ्जूषायाः पदानि नीत्वा संस्कृते पञ्चवाक्यानि लिखत
मञ्जूषा-हिमालयात्, पवित्रा, नदी, हरिद्वारात्, सागरे, बंगप्रान्तं, शस्यश्यामलं, कृषिक्षेत्रं, धार्मिकं
उत्तर:
गङ्गा नदी भारतस्य पवित्रा नदी मन्यते। एषा उत्तरे हिमालयात् निर्गत्य पूर्वदिशि बंगप्रान्तं गत्वा सागरे मिलति। इयं भारतस्य कृषिक्षेत्रं सिञ्चति तत् शस्यश्यामलं च करोति । भारतीयाः हरिद्वारात् गङ्गाजलम् आनीय स्व-स्व गृहेषु रक्षन्ति । गङ्गायाः धार्मिकं महत्त्वम् अपि अस्ति।
प्रश्न 8.
‘मम गृहोद्यानम्’ इति विषयमुपरि मञ्जूषातः पदानि चित्वा सरल संस्कृते पञ्च वाक्यानि रचयत
मञ्जूषा-पादपान्, गृहस्य, पश्चिम भागे, पारिवारिक-सदस्याः, परिवर्धन, फलवृक्षाः स्वच्छ, तरवे, जीवन
उत्तर:
मम गृहस्य पश्चिमे भागे अस्माकं लघुद्यानम् वर्तते। वयं सर्वे पारिवारिक-सदस्याः यथाकालम् तस्य रक्षणं परिवर्धनं च कुर्मः। अत्र अनेके पुष्प-पादपाः फलवृक्षाः च सन्ति। अहम् नित्यं तत्र भ्रमामि पादपान् सिञ्चामि तत् स्वच्छम् च करोमि। अस्माभिः सर्वैः अपि पादपाः रोपणीयाः रक्षणीयाः च यतोहि ते एव अस्माकं जीवनं संरक्षन्ति । तरवे नमोऽस्त।
चित्रवर्णने ध्यातव्याः सामान्याः नियमाः
1. सर्वप्रथम चित्र को देखकर यह समझने का प्रयास करना चाहिए कि
- चित्र किससे संबंधित है? –
- चित्र से क्या जानकारी मिलती है?
- चित्र का क्या महत्व है?
2. चित्र-वर्णन की भाषा सरल और स्पष्ट होनी चाहिए।
3. वाक्य छोटे-छोटे होने चाहिए।
4. चित्र में अंतर्निहित भावों में से किसी एक ही भाव के विचार को आगे बढ़ाना चाहिए।
5. चित्र-वर्णन में संबंधित चित्र का केंद्रीय भाव वर्णन के प्रारंभ या अंत में अवश्य लिखना चाहिए।
6. प्रश्न के अंक भार एवं शब्द-सीमा को ध्यान में रखकर चित्र-वर्णन करना चाहिए।
चित्र का वर्णन मञ्जूषा में दिए गए शब्दों की सहायता से करना है तथा उन शब्दों का प्रयोग चित्र के अनुसार करना है। चित्र को ध्यान से देखकर शब्दों के लिंग, वचन और परुष में परिवर्तन किया जा सकता है।
उदाहरणम्
प्रश्न 1.
निम्न चित्रं दृष्ट्वा मञ्जूषायाः सहायतया सरल संस्कृते पञ्चवाक्यानि लिखत
(निम्न चित्र को देखकर और मञ्जूषा में दिए शब्दों की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words form the box.)

मञ्जूषा-जनान्दोलनम्, जनाः, वृक्षाः, महिलाः, गृहाणि, जयघोषम्, पृष्ठे, गृहाणि, उग्राः जनाः
उत्तर:
(i) इदं चित्रं जनान्दोलनस्य अस्ति।
(ii) जनाः जयघोषं कृत्वा आन्दोलनं कुर्वन्ति।
(iii) आन्दोलने महिलाः पुरुषाः च सन्ति।
(iv) पृष्ठे अनेकानि गृहाणि वृक्षाः च सन्ति।
(v) जनाः उग्राः भूत्वा आन्दोलनं कुर्वन्ति।
प्रश्न 2.
इदं चित्रं दृष्ट्वा मञ्जूषायां च प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि रचयत
(यह चित्र देखकर और मञ्जूषा में दिए शब्दों की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words from the box.)

मञ्जूषा-रक्तदुर्गस्य, अग्रिमे, ध्वजः, निर्मितः, रक्तः, इतस्ततः, स्मारकाः, जनाः
उत्तर:
(i) इदम् चित्रम् रक्तदुर्गस्य अस्ति।
(ii) रक्तदुर्गस्य अग्रिमे भागे भारतस्य ध्वजः शोभते।
(iii) अयम् दुर्ग: मुगलसम्राट्शाहजहाँ महोदयेन निर्मितः।
(iv) दुर्गस्य वर्णः रक्तः अस्ति।
(v) अस्मिन् स्मारके केचन जनाः इतस्ततः भ्रमन्ति।
प्रश्न 3.
इदं चित्रं दृष्ट्वा चित्रम् च आधृत्य मञ्जूषायां प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि रचयत
(यह चित्र देखकर और मञ्जूषा में दिए शब्दों की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words from the box.)

मञ्जूषा-भारतद्वारस्य, राष्ट्रपतिभवनम्, अमरजवानज्योतिः, वृक्षाः, विशालाः, चित्रे |
उत्तर:
(i) इदं चित्रं भारतद्वारस्य अस्ति।
(ii) चित्रे राष्ट्रपतिभवनम् अपि दृश्यते।
(iii) अत्र विशाला: मार्गाः सन्ति।
(iv) द्वारे एका अमरजवानज्योतिः अपि दृश्यते।
(v) चित्रे इतस्ततः वृक्षाः विराजन्ते।
प्रश्न 4.
इदं चित्रं दृष्ट्वा चित्रम् च आधृत्य मञ्जूषायां प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि रचयत
(यह चित्र देखकर और चित्र को आधार मानकर मञ्जूषा में दिए शब्दों की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words from the box.)

मञ्जूषा-महात्मागांधी, स्वतन्त्रम्, स्मरति, सत्यनिष्ठः, अभिधानेन
उत्तर:
(i) अस्मिन् चित्रे महात्मागांधी दृश्यते।
(ii) महात्मागांधी भारतं स्वतन्त्रम् अकारयत्।
(iii) सः ‘बापू’ इति अभिधानेन प्रसिद्धः अस्ति।
(iv) सः सत्यनिष्ठः, अहिंसायाः पूजकः च आसीत्।
(v) भारतदेशः तं सदा स्मरिष्यति।
प्रश्न 5.
मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनं पञ्चवाक्येषु कुरुत।
(मञ्जूषा से शब्दों को लेकर चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences taking words from the box.)

मञ्जूषा-वनस्य, वृक्षम्, अधः, हस्ते, वानरं, हस्तौ, पोटलिका, कथयति।
उत्तर:
(i) इदं वनस्य चित्रम् अस्ति।
(ii) एकः वानरः वृक्षम् उपतिष्ठति।
(iii) तस्य हस्ते एका पोटलिका वर्तते।
(iv) वृक्षस्य अधः एकः जनः तिष्ठति।
(v) जनः हस्तौ उत्थाय वानरं कथयति।
प्रश्न 6.
मञ्जूषायाः प्रदत्तानां पदानां सहायतया पञ्चवाक्येषु चित्रस्य वर्णनं कुरुत।
(मञ्जूषा के शब्दों की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-झञ्झावातस्य, चित्रं, वर्तते, पतितः, वृक्षः, ख्रीस्तीनां, श्मशानस्य, मृतजनानाम्, स्मारकाः, अनेके पादपाः, वृक्षाः, दृश्यन्ते।
उत्तर:
(i) इदं चित्रं झञ्झावातस्य वर्तते।।
(ii) चित्रं ख्रीस्तीनां श्मशानस्य प्रतीयते।
(iii) अत्र अनेकेषां-मृतजनानाम् स्मारकाः सन्ति।
(iv) एकः वृक्षः पतितः अस्ति।
(v) चित्रे अनेके पादपाः वृक्षाः च दृश्यन्ते।
प्रश्न 7.
चित्रं दृष्ट्वा मञ्जूषायां दत्तानां पदानां सहायतया सरल संस्कृते पञ्चानां वाक्यानां रचनां कुरुत।
(चित्र को देखकर मञ्जूषा के शब्दों को लेकर पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-चौराः, त्रयः, त्रयश्च, आरक्षकाः, सन्ति, कारागारस्य, चित्रम्, हस्तानि, ग्रहीताः, संविधानेन
उत्तर:
(i) इदं चित्रं कारागारस्य अस्ति।
(ii) अत्र त्रयः चौराः सन्ति।
(iii) त्रयश्च आरक्षकाः तेषां हस्तानि ग्रहीताः सन्ति।
(iv) चौराणां मुखानि कृष्णवस्त्रैः आच्छादितानि सन्ति।
(v) सर्वे चौराः संविधानेन बद्धाः सन्ति।
प्रश्न 8.
मञ्जूषायाः पदानि नीत्वा सरल संस्कृते पञ्चवाक्येषु चित्रस्य वर्णनं कुरुत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-उद्घाटनकार्यक्रमस्य, नेता, नेतारः, उद्घाटनं, भव्यं-भवनं, जनाः, तालिका वादनम्
उत्तर:
(i) इदं चित्रम् उद्घाटनकार्यक्रमस्य अस्ति।
(ii) एक: नेता उद्घाटनं करोति।
(iii) तत्र अनेके नेतारः जनाः च सन्ति।
(iv) निर्मितं भवनं भव्यं अस्ति।
(v) सर्वे जनाः तालिका वादनं कुर्वन्ति।
प्रश्न 9.
चित्रं दृष्ट्वा मञ्जूषायां च दत्तानि पदानि नीत्वा सरल संस्कृते पञ्च वाक्यानि रचयत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-महिलाम्, जन्मदिवस समारोहस्य, बालाः, केककर्तनम्, प्रसन्नाः, सन्ति, केकपदार्थ, खादयति, दृश्यन्ते ।
उत्तराणि-
(i) इदं चित्रं जन्मदिवस समारोहस्य अस्ति।
(ii) तत्र अनेके बालाः उपस्थिताः सन्ति।
(iii) एकः जनः केककर्तनं करोति।
(iv) बालिका महिला केकपदार्थ खादयति।
(v) सर्वे प्रसन्नाः सन्ति ।
प्रश्न 10.
चित्रं दष्टवा मञ्जषायाः च सहायतया सरल संस्कते पञ्च वाक्यानि लिखता
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-प्रदर्शनकक्षस्यः, स्त्रीवक्ता, अध्यापिका, ध्वनिप्रसारणयन्त्रेण, छात्रान्, छात्राः शृण्वन्ति, अवधानेन, प्रदर्शनपट्टानि
उत्तर:
(i) इदं विद्यालयस्य प्रदर्शनकक्षस्य चित्रम् अस्ति।
(ii) स्त्रीवक्ता अध्यापिका छात्रान् सम्बोधयति।
(iii) वक्ता ध्वनिप्रसारणयन्त्रेण छात्रान् उद्बोधयति।
(iv) छात्राः अवधानेन अध्यापिकां शृण्वन्ति।
(v) तत्र अनेकानि प्रदर्शनपट्टानि सन्ति।
प्रश्न 11.
निम्न चित्रं दृष्ट्वा मञ्जूषातः पदानि नीत्वा संस्कृत भाषायां पञ्चवाक्यानि रचयत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।) ।
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-वृक्षाः, जनाः, पर्यावरणं, प्रति, जागरुकान्, कुर्वन्ति, हरितं, वातावरणं, द्विचक्रिकावाहनम्
उत्तर:
(i) अस्मिन् चित्रे द्वौ जनौ द्विचक्रिकावाहनाभ्यां गच्छतः।
(ii) तत्र वातावरणं हरितं वर्तते।
(iii) तौ जनौ जनान् पर्यावरणं प्रति जागरुकान् कुर्वन्ति।
(iv) चित्रे अनेके पादपाः वृक्षाः च सन्ति।
(v) जनाः जीवनार्थं पर्यावरणं शुद्धं कुर्युः।
प्रश्न 12.
मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनम् पञ्चवाक्येषु कुरुत।
(मञ्जूषा से शब्दों को लेकर चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences taking words from the box.)

मञ्जूषा-उपवनस्य, अनेके, भ्रमन्ति, द्वारे, वृक्षाः निकषा, वाहनानि, जनाः, भ्रमणेन्, स्वास्थ्यलाभम्, प्राप्नुवन्ति ।
उत्तर:
(i) एतत् उपवनस्य चित्रम् अस्ति।
(ii) उपवनम् निकषा अनेके वृक्षाः सन्ति।
(iii) तत्र अनेके जनाः भ्रमन्ति।
(iv) उपवनस्य द्वारे अनेकानि वाहनानि तिष्ठन्ति।
(v) जनाः भ्रमणेन स्वास्थ्यलाभं प्राप्तुवन्ति।
प्रश्न 13.
इदं चित्रं दृष्ट्वा मञ्जूषायाश्च सहायतया सरल संस्कृते पञ्च वाक्यानि रचयत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-बालिकाः, बालकाः, लैपटॉप यन्त्रेण, विवरणं, जानन्ति, सहायता, अखिल भारतीय विद्यार्थी परिषद्, सदस्याः
उत्तर:
(i) अस्मिन् चित्रे अखिल भारतीय विद्यार्थी परिषदः सदस्याः दृश्यन्ते।
(ii) तेषु अनेके बालकाः बालिकाश्च सन्ति।
(iii) ते छात्राणां सहायतां कुर्वन्ति।
(iv) एका बालिका लैपटॉप यन्त्रेण विवरणं दर्शयति।
(v) अन्ये छात्राः स्व विवरणं जानन्ति।
प्रश्न 14.
मञ्जूषायाः सहायतया चित्रस्य वर्णनम् पञ्चवाक्येषु कुरुत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-उपवनस्य, बालकाः, बालिकाः, पुष्पाणि पश्यन्ति, वृक्षाः, उपनेत्रम् (चश्मा), धारितः, शिक्षकः
उत्तर:
(i) इदम् उपवनस्य चित्रम् अस्ति।
(ii) उपवने अनेके बालकाः बालिकाः च सन्ति।
(iii) ते सर्वे पुष्पाणि पश्यन्ति।
(iv) उपनेत्रं धारितः शिक्षकः छात्रं पुष्प-विषये वदति।
(v) तत्र अनेके वृक्षाः सन्ति।
प्रश्न 15.
मञ्जूषायाः शब्दानाम् सहायतया चित्रस्य वर्णनं पञ्चवाक्येषु कुरुत।
(मञ्जूषा के शब्दों की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the words from the box.)

मञ्जूषा-उपवनस्य, महिलाः, बालकः, यच्छति, पुष्पाणि, वृक्षाः, एकस्य, प्रसीदति ।
उत्तर:
(i) अत्र एकस्य उपवनस्य चित्रम् अस्ति।
(ii) तत्र अनेकाः महिलाः सन्ति।
(iii) एकः बालकः पुष्पाणि दृष्ट्वा प्रसीदति।
(iv) बालिका स्वमात्रे पुष्पं यच्छति।
(v) तत्र अनेके वृक्षाः सन्ति।