We have given detailed Deepakam Class 6 Solutions and Unseen Passage Apathit Gadyansh in Sanskrit with Answers Class 6 come in handy for quickly completing your homework.
संस्कृत अपठित गद्यांश कक्षा 6
Sanskrit Unseen Passage for Class 6 – Apathit Gadyansh Sanskrit Class 6
Apathit Gadyansh in Sanskrit for Class 6
अधोलिखितम् अनुच्छेदान् पठित्वा प्रदत्त-प्रश्नानाम् उत्तराणि लिखत- (नीचे दिए गए अनुच्छेदों को पढ़कर दिए गए प्रश्नों के उत्तर लिखिए- Read the following paragraphs and answer the questions.)
1. पितामही शयन-कक्षे गच्छति। सा ईश्वरं स्मरति। तत्पश्चात् सा शयनं करोति। प्रातः सा पञ्चवादने उत्तिष्ठति। सा स्नानं करोति। स्नानस्य पश्चात् सा देवस्य पूजनं करोति। सा भक्ति-गानं गायति। सा सूर्यम् नमति। सा वदति-‘सूर्याय नमः।’ सूर्यः संसाराय जीवनं ददाति, अतः सः पूज्यः अस्ति।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए। Answer in one word.)
(क) पितामही कुत्र गच्छति? ………………….
(ख) सा कदा उत्तिष्ठति? ………………….
(ग) सा कं नमति? ………………….
(घ) कः संसाराय जीवनं ददाति? ………………….
उत्तर:
(क) शयन कक्षे
(ख) पञ्चवादने
(ग) सूर्यम्
(घ) सूर्यः
II. पूर्णवाक्येन उत्तरत। (संपूर्ण वाक्य में उत्तर दीजिए। Answer in sentences.)
(क) सूर्यः किमर्थं पूज्यः अस्ति? ।
(ख) पितामही कदा पूजनम् करोति?
उत्तर:
(क) सूर्यः संसाराय जीवनं ददाति, अतः सः पूज्यः अस्ति।
(ख) पितामही प्रातः स्नानस्य पश्चात् देवस्य पूजनं करोति।
III. भाषाकार्यम्-निर्देशानुसार उत्तरत। (भाषाकार्य-निर्देशानुसार उत्तर दीजिए। Answer as per directions.)
(क) ‘स्नानम्’ इति अस्य समविभक्तिपदम् (कर्मकारकम्) लिखत। यथा
ईश्वरम् (i) ………….. (ii) ………….. (ii) ………….. (iv) …………..
उत्तर:
(i) शयनम्
(ii) स्नानम्
(iii) पूजनम्
(iv) सूर्यम् अथवा जीवनम्।
(ख) ‘गच्छति’ इति सम-पुरुष-वचन-क्रियापदं लिखत। यथा
भजति (i) ………. (ii) ………….. (iii) …………….(iv) …………..
उत्तर:
(i) करोति
(ii) नमति
(iii) वदति
(iv) ददाति अथवा अस्ति।
(ग) ‘सूर्याय नमः’ इति प्रयोगम् अनुसृत्य रिक्तस्थानानि पूरयत। यथा
गणेशाय (गणेश) नमः (i) ………….. (अध्यापक) (ii) ……….. (पितामह) नमः।
उत्तर:
(i) अध्यापकाय
(ii) पितामहाय
2. राहुल: जंतुशालाम् गच्छति। सः जनकेन सह गच्छति। तत्र सः सिंहम् पश्यति। सिंहः उच्चैः गर्जति। ततः सः मयूरं पश्यति। मयूरः उपवने शोभनं नृत्यति। सः वृक्षे वानरं दृष्ट्वां भयभीतः अस्ति। वानरः कदलीफलं खादति। एकः अन्यः वानरः अपि तत्र कूर्दति। जंतुशालायाम् अनेके मृगाः सन्ति। राहुलः सर्वान् मृगान् पश्यति प्रसन्नः च भवति। ततः सः गृहम् आगच्छति।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए। Answer in one word.)
(क) राहुलः कुत्र गच्छति?
(ख) स: केन सह गच्छति?
(ग) क: उच्चैः गर्जति?
(घ) वानरः किम् खादति?
उत्तर:
(क) जंतुशालाम्
(ख) जनकेन
(ग) सिंहः
(घ) कदलीफलम्
II. पूर्णवाक्येन उत्तरत। (संपूर्ण वाक्य में उत्तर दीजिए। Answer in sentences.)
(क) मयूरः किं करोति?
(ख) राहुलः कदा भयभीतः अस्ति?
उत्तर:
(क) मयूरः उपवने शोभनं नृत्यति।
(ख) राहुलः वृक्षे वानरं दृष्ट्वा भयभीतः अस्ति।
III. भाषाकार्यम् निर्देशानुसार उत्तरत। (भाषाकार्य-निर्देशानुसार उत्तर दीजिए। Answer as per directions.)
(क)
- आता है – खादति
- कूदता है – गच्छति
- जाता है – पश्यति
- खाता है – आगच्छति
- देखता है – कूर्दति
उत्तर:
- आता है – आगच्छति
- कूदता है – कूर्दति
- जाता है – गच्छति
- खाता है – खादति
- देखता है – पश्यति
(ख)
- उपवनम् – मृग:
- बहव: – खादति
- पशुः – उद्यानम्
- गेहम् – अनेके
- भक्षयति – गृहम्
उत्तर:
- उपवनम् – उद्यानम्
- बहवः – अनेके
- पशुः – मृग:
- गेहम् – गृहम्
- भक्षयति – खादति
2. कर्तृपदम् बहुवचने परिवर्तय वाक्यं पुनः लिखत।
यथा- सः सिंहम् पश्यति – ते सिंहम् पश्यन्ति।
- सिंहः उच्चैः गर्जति।
- वानरः अपि तत्र कूर्दति।
उत्तर:
- सिंहाः उच्चैः गर्जन्ति।
- वानराः अपि तत्र कूर्दन्ति।
3. यथानिर्देशनम् रिक्तस्थानपूर्ति कुरुत।
- उपवने ………… (द्विवचन) ………… (बहुवचन)
- कदलीफलम् ………… (द्विवचन) ………… (बहुवचन)
- भवति ………… (द्विवचन) ………… (बहुवचन)
- अस्ति …………. (द्विवचन) ………… (बहुवचन)
उत्तर:
- उपवनयोः, उपवनेषु
- कदलीफले, कदलीफलानि
- भवतः, भवन्ति
- स्तः, सन्ति।
3. ऋषि: वाल्मीकिः महाकविः आसीत्। सः रामायणम् अरचयत्। वाल्मीकिः आदिकविः मन्यते। रामायणम् आदिकाव्यम् अस्ति। रामायणे श्रीरामस्य कथा अस्ति। श्रीरामः स्वजनकस्य दशरथस्य आज्ञाम् अपालयत्। सः सीतालक्ष्मणभ्यां सह वने अवसत्। सः रावणम् अमारयत्। रामराज्ये सर्वे धर्मस्य मार्गेण चलन्ति स्म। श्रीरामः आदर्शः पुत्रः आदर्शः राजा च आसीत्। तस्य राज्ये जनाः सुखिनः आसन्।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए। Answer in one word.)
(क) कः ऋषि महाकविः आसीत्?
(ख) किम् आदिकाव्यम् अस्ति?
(ग) रामायणे कस्य कथा अस्ति?
(घ) रामः सीतालक्ष्मणांभ्याम् सह कुत्र अवसत्?
उत्तर:
(क) वाल्मीकिः
(ख) रामायणम्
(ग) श्रीरामस्य
(घ) वने
II. पूर्णवाक्येन उत्तरत। (संपूर्ण वाक्य में उत्तर दीजिए। Answer in sentences.)
(क) रामराज्ये सर्वे कथं चलन्ति स्म? ।
(ख) श्रीरामः काम् अपालयत्?
उत्तर:
(क) रामराज्ये सर्वे धर्मस्य मार्गेण चलन्ति स्म।
(ख) श्रीरामः स्वजनकस्य दशरथस्य आज्ञा अपालयत्।
III. भाषाकार्यम्-यथानिर्देशम् उत्तरत। (भाषाकार्य-निर्देशानुसार उत्तर दीजिए। Answer as per directions.)
(क)
- अस्ति – धातुः – …………. लकार: – …………. पुरुषः वचनम्
- मार्गेण – …………. विभक्ति – …………. वचनम्
- कथा – …………. (द्विवचन) – …………. (बहुवचन)
- मार्गेण – …………. (द्विवचन) – …………. (बहुवचन)
उत्तर:
- अस्, लट्, प्रथमः, एक
- तृतीया एक
- कथे, कथाः
- मार्गाभ्याम्, मार्ग:
(ख) यथा- आसीत् – अस्ति
- अरचयत् – ………….
- अपालयत् – ………….
उत्तर:
- रचयति
- पालयति
(ग) यथा- आसीत् – अस् धातुः
- अवसत् – धातुः ………….
- अपालयत् – धातुः ………….
उत्तर:
- वस्
- पाल्
(घ) कर्तृपदं बहुवचने परिवर्त्य वाक्यं पुनः लिखत।
स: रावणम् मारयति स्म। ………………..
उत्तर:
ते रावणं मारयन्ति स्म।
Unseen Passage in Sanskrit for Class 6
Class 6 Sanskrit Apathit Gadyansh
4. अद्य विद्यालये अवकाशः अस्ति। राघवः पाठं न पठति। सः दूरदर्शनेन क्रिकेट प्रतियोगितां पश्यति। राघवस्य मित्रं रोहणः अपि विद्यालय-कार्यम् न करोति। रोहणः पुत्तलिका खेलं द्रष्टुम् गच्छति। सः मित्रैः सह खेलम् पश्यति। पुत्तलिका खेल: अतीव रोचकः अस्ति। पुत्तलिकाः नृत्यन्ति। सूत्रधारः खेलं करोति। खेलं दृष्ट्वा सर्वे प्रमुदिताः सन्ति।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए। Answer in one word.)
(क) अवकाशः कुत्र अस्ति?
(ख) क: पाठं न पठति?
(ग) रोहणः कस्य मित्रम्?
(घ) रोहणः किं न करोति?
उत्तर:
(क) विद्यालये
(ख) राघवः
(ग) राघवस्य
(घ) विद्यालय-कार्यम्
II. पूर्णवाक्येन उत्तरत। (संपूर्ण वाक्य में उत्तर दीजिए। Answer in sentences.)
(क) रोहण: किमर्थं गच्छति?
(ख) सूत्रधारः किं करोति, पुत्तलिकाः च किं कुर्वन्ति?
उत्तर:
(क) रोहणः पुत्तलिका खेलं द्रष्टुम् गच्छति।
(ख) सूत्रधारः खेलं करोति, पुत्तालिकाः च नृत्यन्ति।
III. भाषाकार्यम्-निर्देशानुसार उत्तरत। (भाषाकार्य-निर्देशानुसार उत्तर दीजिए। Answer as per Directions.)
(क) पुत्तलिकाखेलः’ इति पदस्य किं विशेषणम् अत्र प्रयुक्तम्?
(i) अतीव
(ii) रोचकः
(iii) अस्ति
उत्तर:
(i) रोचकः
(ख) रोहण: पुत्तलिकाखेलं द्रष्टुम् गच्छति’ इति वाक्ये ‘गच्छति’ इति क्रियापदस्य
प्रश्न 1.
कः कर्ता?
(i) रोहणः
(ii) पुत्तलिकाखेलम्
(iii) दुष्टुम्
उत्तर:
रोहणः
प्रश्न 2.
किम्-कर्मपदम्?
(i) पुत्तलिका खेलम्
(i) द्रष्टुम्
उत्तर:
पुत्तलिकाखेलम्
प्रश्न 3.
संस्कृतेन लिखत –
(i) देखता है – …………।
(ii) देखकर – …………।
(iii) देखने के लिए – …………।
उत्तर:
(i) पश्यति
(ii) दृष्ट्वा
(iii) द्रष्टुम्
प्रश्न 4.
(क) सः ‘मित्रैः सह खेलम् पश्यति’। इति वाक्यं बहुवचने परिवर्तय पुनः लिखत।
उत्तर:
ते मित्रैः सह खेलान् पश्यन्ति।
(ख) “पुत्तलिकाः नृत्यन्ति’ इति वाक्यम् एकवचने परिवर्त्य लिखत।
उत्तर:
पुत्तलिका नृत्यति।