By going through these Class 9 Sanskrit Notes and NCERT Class 9 Sanskrit Sharada Chapter 9 Hindi Translation Summary Explanation Notes कृतं प्रतिकृतं भूयादेष धर्मः सनातनः students can clarify the meanings of complex texts.
Sanskrit Class 9 Chapter 9 Hindi Translation कृतं प्रतिकृतं भूयादेष धर्मः सनातनः Summary
कक्षा 9 संस्कृत पाठ 9 हिंदी अनुवाद
Class 9 Sanskrit Chapter 9 Summary Notes कृतं प्रतिकृतं भूयादेष धर्मः सनातनः
पांडव एकचक्र नगरी में किसी एक ब्राह्मण के घर छद्मवेश में रहते थे। वहाँ बकासुर नामक राक्षस का आतंक था, जिसे प्रतिदिन एक नागरिक को भोजन के साथ बलि के रूप में जाना पड़ता था। ब्राह्मण परिवार की रक्षा हेतु माता कुंती भीम को भेजने का निर्णय लेती हैं । भीम बड़ी प्रसन्नता से राक्षस का सारा भोजन स्वयं खा जाते हैं और युद्ध में हिडिंब के वध का स्मरण कराते हुए बकासुर का अंत कर देते हैं। इस प्रकार भीम ने ब्राह्मण के उपकार का बदला चुका दिया।

पाठस्य-परिचयः
रामायणं महाभारतं चेति द्वौ प्रसिद्धौ इतिहास – ग्रन्थौ । महाभारतम् अवलम्ब्य बहवो ग्रन्थाः विरचिताः । तेषु महामहोपाध्यायेन श्रीरङ्गनाथशर्मणा विरचितम् ‘एकचक्रम्’ इति लघुरूपकम् अन्यतमम्। महाभारते प्रतिपादितः बकासुरवधः अस्य कथावस्तु । अयं पाठ्य- भागः एकचक्रम् इति रूपकस्य तृतीय-चतुर्थाङ्काभ्याम् उद्धृतः ।
अङ्कद्वयस्य पूर्वकथाप्रसङ्गः
पाण्डवा: एकचक्रनगरे कस्यचित् ब्राह्मणस्य गृहे निवसन्ति । गृहस्वामिनः गृहे रोदनध्वनिं श्रुत्वा तत्र गता पाण्डवानां माता कुन्ती रोदनकारणं पृच्छति। ततः शोकाकुलेन परिवारेण सा ज्ञापिता यत् एकचक्रनगरवासिनां नातिदूरस्थितेन बकनाम्ना असुरेण सह सन्धिनियमानुसारं प्रतिदिनं कश्चित् नगरवासी स्वेच्छया असुरस्य भक्ष्यं भवेत्, तद्दिने पर्यायेण तस्यैव ब्राह्मणपरिवारस्य बलिदानस्य वारः आसीत् इति । तेषां दुःस्थितिं ज्ञात्वा स्वपुत्रेषु एकं बकासुरस्य समीपं प्रेषयामीति कुन्ती प्रतिज्ञां कृतवती ।
इमं विषयं ज्ञात्वा ब्राह्मणेन कृतस्य उपकारस्य प्रत्युपकारकालः सन्निहितः इति भावयन् भीमः मृष्टान्नः भाण्डसहितः बकासुरस्य समीपं गन्तुम् उद्युक्तः भवति।
शब्दार्थाः
शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
विरचिता: – रचिताः – रचे गए / लिखे गए
अन्यतमम् – श्रेष्ठम् – सर्वश्रेष्ठ
कथावस्तु – कथासारः – कहानी का विषय / प्लॉट
उद्घृतः – गृहीतः – लिया गया
निर्वसन्ति – वास कुर्वन्ति – रहते हैं
ज्ञापिता – सूचिता – सूचित किया / बताया
भक्ष्यम् – भोजनम् – भोजन
पर्यायेण – क्रमेण – बारी-बारी से / क्रम से
सन्निहितः – समीपस्थ: – निकट आया हुआ
मृष्टान्नः – स्वादिष्ट-भोजनम् – स्वादिष्ट भोजन (पकवान)
समास विग्रहः
शब्दः – विग्रहः – भेदः
इतिहास ग्रन्थौ – इतिहासस्य ग्रन्थौ – षष्ठीतत्पुरुषः
बकासुरवधः – बकासुरस्य वधः – कर्मधारयः
एकचक्रनगरवासिनाम् – एकचक्रनगरे वसन्ति इति तेषाम् – उपपदतत्पुरुषः
गृहस्वामी – गृहस्य स्वामी – षष्ठीतत्पुरुषः
शोकाकुलेन – शोकेन आकुलम् – तृतीयतत्पुरुषः
उपबकासुरम् – बकासुरस्य समीपम् – अव्ययीभावसमासः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
तदिने – तत् + दिने – जश्त्वसन्धिः
चेति – च + इति – गुणसन्धिः
चतुर्थाङ्काभ्याम् – चतुर्थ + अङ्काभ्याम् – दीर्घसन्धिः
वार आसीत् – वार: + आसीत् – विसर्गसन्धिः
नातिदूरस्थितेन – न + अतिदूरस्थितेन – दीर्घसन्धिः
तस्यैव – तस्य + एव – वृद्धिसन्धिः
प्रत्युपकारकालः – प्रति + उपकारकालः – यणसन्धिः
कश्चित् – कः + चित् – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्यय – भेदः
विरचितम् – वि (उपसर्ग) + रच् + क्त – कृदन्तः
श्रुत्वा – श्रु + क्त्वा – कृदन्तः
गता – गम् + क्त – कृदन्तः
ज्ञात्वा – ज्ञा + क्त्वा – कृदन्तः
कृतवती – कृ + क्तवतु – कृदन्तः
गन्तुम् – गम् + तुमुन् – कृदन्तः
पर्यायाः
शब्दः – पर्यायः
माता – जननी, अम्बा
गृहम् – सदनम्, आवासः
पुत्रः – सुतः, आत्मजः
समीपम् – पार्श्वम्, निकषा
असुरः – दानवः, राक्षसः

हिंदी अनुवाद
रामायण और महाभारत दो प्रसिद्ध इतिहास ग्रंथ हैं। महाभारत को आधार बनाकर बहुत-से ग्रंथों की रचना की गई है। उनमें महामहोपाध्याय श्री रंगनाथ शर्मा द्वारा रचित ‘एकचक्र’ नामक लघु-रूपक (नाटक) श्रेष्ठ है। महाभारत में वर्णित बकासुर वध इसकी कथा – वस्तु है। यह पाठ्य- भाग ‘एकचक्र’ रूपक के तीसरे और चौथे अंक से लिया गया है।
दो अंकों की पूर्व – कथा का प्रसंग
पांडव एकचक्र नगरी में किसी ब्राह्मण के घर में निवास करते हैं। गृहस्वामी के घर में रोने की आवाज सुनकर पांडवों की माता कुंती वहाँ जाती हैं और रोने का कारण पूछती हैं। तब शोक से व्याकुल परिवार द्वारा उन्हें बताया गया कि एकचक्र नगरी के पास ही रहने वाले बक नाम के असुर के साथ संधि के नियम के अनुसार प्रतिदिन कोई-न-कोई नगरवासी स्वेच्छा से असुर का भोजन बनता है । उस दिन उसी ब्राह्मण परिवार के बलिदान की बारी थी। उनकी दुर्दशा को जानकर कुंती ने प्रतिज्ञा की कि वे अपने पुत्रों में से एक को बकासुर के पास भेजेंगी।
इस विषय को जानकर, ‘ब्राह्मण द्वारा किए गए उपकार के बदले उपकार (प्रत्युपकार) का समय आ गया है,’ ऐसा विचार करते हुए भीम स्वादिष्ट भोजन के बर्तनों के साथ बकासुर के पास जाने के लिए तैयार होते हैं।
Class 9 Sanskrit Sharada Chapter 9 Hindi Translation
Sanskrit Class 9 Chapter 9 Hindi Anuvad – कक्षा 9 संस्कृत पाठ 9 हिंदी अनुवाद
नाट्यांश: 1
(ततः प्रविशति कुन्ती भीमसेनेन सह)
कुन्ती – पुत्र ! किञ्चित् प्रतिश्रुतं मया प्रतिवेशिने ब्राह्मणाय ।
भीमः – सम्यगनुष्ठितम्। आतिथेयः किल तत्र भवान् उपकर्ता वसति प्रदानेन ।
कुन्ती – आकर्ण्य, अस्य एकचक्रस्य पुरस्यादूरवर्तिनि पर्वते वसति बकनामा दैत्यः।
भीमः – श्रुतं तस्य दुरात्मनो वृत्तम् । पर्यायक्रमेण तस्मै बलिमाहरन्ति पौराः। कुन्ती श्वः प्रभाते भवत्यस्य विप्रस्य पर्यायः ।
भीमः – बाढम् ।
कुन्ती – न चैतावत् । मानुषभोजी स राक्षसः श्रूयते। भोज्यसमाहारे मानुषोऽपि तस्मै प्रेषयितव्यः।
तस्माद् बालकस्य पिता तपस्वी शोचति ।
भीमः – विदितमवशिष्टम् । ‘मत्पुत्रेषु कोऽपि प्रेषयिष्यत’ इति भवत्या प्रतिश्रुतम् ।
कुन्ती – (मौनमवलम्बते)
हिंदी अनुवाद
(तभी भीमसेन के साथ कुंती प्रवेश करती हैं)
कुंती – पुत्र! मैंने पास में रहने वाले ब्राह्मण को कुछ वचन दिया है अर्थात् उसके समक्ष कुछ प्रतिज्ञा की है ।
भीम – बहुत अच्छा किया। निश्चित रूप से वे (उन) आदरणीय ब्राह्मण (ने) हमें रहने के लिए स्थान (दिया है) देकर हम पर उपकार करने वाले हैं। (किया है)
कुंती – सुनो, इस एकचक्र नगरी के पास स्थित पर्वत पर बक नाम का दैत्य (असुर) रहता है।
भीम – उस दुष्ट का समाचार (मैंने) सुना है। नगरवासी बारी-बारी से उसे बलि (भोजन) अर्पित करते हैं।
कुंती – कल सुबह इस (पड़ोसी) ब्राह्मण की बारी है ।
भीम – ठीक है।
कुंती – केवल इतना ही नहीं । सुना है कि वह राक्षस मनुष्य खाने वाला अर्थात् नरभक्षी है । (प्रत्येक दिन) भोजन की सामग्री के साथ उसे एक मनुष्य भी भेजा जाता है। इसी कारण बालक का पिता अर्थात् वह (ब्राह्मण) बेचारा (तपस्वी) दु:खी है।
भीम – बाकी सब ज्ञात है। आपके द्वारा यह वचन दिया गया है कि ‘मेरे पुत्रों में से कोई एक भेजा जाएगा।’
कुंती – (मौन धारण कर लेती हैं)
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- प्रतिवेशिने – समीपवासिने – पास में रहने वालों के लिए
- सम्यगनुष्ठितम् – उचितं कृतम् – बहुत अच्छा किया
- आतिथेयः – अतिथिप्रियः – अतिथि का सत्कार करने वाला
- पुरस्यादूरवर्तिनि – नगरस्य समीपे – नगर के पास
- पर्यायक्रमेण – वारक्रमेण – बारी-बारी से
- विप्रस्य – ब्राह्मणस्य – ब्राह्मण की
- बाढम् – सत्यम / अस्तु – ठीक है / हाँ
- मानुषभोजी – नरभक्षक: – मनुष्य को खाने वाला
- तपस्वी – दीन: – बेचारा / दुःखी
- आकर्ण्य – श्रुत्वा / निशम्य – सुनकर
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
सम्यगनुष्ठितम् – सम्यक् + अनुष्ठितम् – जश्त्वसन्धिः
पुरस्यादूरवर्तिनि – पुरस्य + अदूरवर्तिनि – दीर्घसन्धिः
कोऽपि – क + अपि – विसर्ग: (उत्व) सन्धिः
मानुषोऽपि – मानुषः + अपि – विसर्ग: (उत्व) सन्धिः
चैतावत् – च + एतावत् – वृद्धिसन्धिः
दुरात्मनो वृत्तम् – दुरात्मन: + कृत्म् – विसर्गसन्धिः
समास विग्रहः
शब्दः – विग्रहः – भेदः
भीमसेनेन – भीमः एव सेन यस्य सः – बहुव्रीहिः
अदूरवर्तिनि – न दूरवर्तिनि – नञ्तत्पुरुषः
बकनामा – बकः नाम यस्य सः – बहुव्रीहिः
पर्यायक्रमेण – पर्यायस्य क्रमेण – षष्ठीतत्पुरुषः
मानुषभोजी – मानुषान् क्षयन्ति इति – उपपदतत्पुरुषः
भोज्यसमाहारे – भोज्यानां समाहारे – षष्ठीतत्पुरुषः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
प्रतिश्रुतम् – प्रति + श्रु + क्त – कृदन्तः
अनुष्ठितम् – अनु + स्था + क्त – कृदन्तः
आकर्ण्य – आ + कर्ण + ल्यप् – कृदन्तः
श्रुतम् – श्रु + क्त – कृदन्तः
प्रेषयितव्यः – प्र + इष् (णिच्) + तव्यत् – कृदन्तः
पर्यायाः
शब्दः – पर्यायः
विप्र – ब्राह्मणः
पौराः – नगरवासिनः
दैत्य – राक्षसः, असुरः
प्रभातम् – प्रातः कालः
पुरम् – नगरम्
पुत्रः – सुतः, आत्मज:

नाट्यांश: 2
भीमः मातः! नास्त्यत्र किमप्यनुशोचितव्यम् । क्षत्रियाण्या यदुचितं तदनुष्ठितम्। युक्तोऽयं प्रतिश्रवः । श्रोत्रियोऽयं प्रतिवेशी प्रत्युपकारमर्हति। पश्य
भैक्षप्रदानेन चिरं परैरुपकृता वयम् ।
कृतं प्रतिकृतं भूयादेष धर्मः सनातनः ॥
अहमेव बकासुरमभिगमिष्यामि ।
कुन्ती – वत्स भीम! अनुरूपमभिहितं भरतवंशप्रदीपेन मम पुत्रेण । भक्ष्यभोज्यादिकं मृष्टान्नं शकटपूरं पूरयित्वा प्रेषणीयं भवति राक्षसाय। तदेतत् सज्जीक्रियतामिति प्रेरयिष्यामि ब्राह्मणकुटुम्बम् ।
भीमः – अहो! प्रियं मे। सज्जीक्रियताम् । अपरमिदं प्रियमनुष्ठितं मे भवत्या । प्रभूतमुपाहरिष्यते भोजनम् ।
अन्वयः
वयम् परैः भैक्षप्रदानेन चिरम् उपकृताः । कृतं प्रतिकृतं भूयाद्, एषः सनातनः धर्मः (अस्ति) ।
भावार्थ:
भैक्षप्रदानेन इत्यस्य अर्थः दानं वा सहायता अस्ति चिरं परैरुपकृता वयम् इत्यनेन सूचितं यत् अस्माकं जीवने बहवः जनाः अस्मान् साहाय्यं कुर्वन्ति । अतः कृत प्रतिकृतं भूयात् अर्थात् प्राप्तस्य उपकारस्य प्रत्युपकारः आवश्यकः एषः सिद्धान्तः ।
हिंदी अनुवाद
भीम माता ! इसमें कुछ भी शोक (चिंता) करने योग्य नहीं है। एक क्षत्राणी के लिए जो उचित था, वही आपने किया । यह प्रतिज्ञा (वचन) उचित है। यह विद्वान पास में रहने वाले (ब्राह्मण) के प्रत्युपकार के योग्य है। देखो “भिक्षा प्रदान करके दूसरों (पड़ोसियों) द्वारा लंबे समय तक हम पर उपकार किया गया है। किए गए उपकार के बदले प्रत्युपकार करना ही सनातन धर्म है।”
मैं ही बकासुर के पास जाऊँगा।
कुंती – वत्स भीम ! भरतवंश के दीपक, मेरे पुत्र तुमने बिल्कुल उचित बात कही है। तरह-तरह के भक्ष्य – भोज्य ( खाने योग्य) स्वादिष्ट पकवानों से गाड़ी को भरकर राक्षस के पास भेजा जाना है। इसलिए यह सब तैयार किया जाए, ऐसा मैं ब्राह्मण परिवार को सूचित करती हूँ ।
भीम – अरे! यह (भोजन) मुझे प्रिय है । (सब) तैयार किया जाए। आपके द्वारा यह (मेरा) एक और प्रिय कार्य किया गया है। अब (मुझे) प्रचुर मात्रा में भोजन प्राप्त होगा ।
शब्दार्थाः
- शब्दा – संस्कृतार्थाः – हिन्दी-अर्थाः
- अनुशोचितव्यम् – शोकं करणीयम् – शोक करने योग्य
- प्रतिश्रवः – प्रतिज्ञा / वचनम् – प्रतिज्ञा / वादा
- श्रोत्रियः – वेदज्ञः/विद्वान – वेदों का ज्ञाता / विद्वान
- भैक्षम् – भिक्षा – भिक्षा
- प्रतिकृतम् – प्रत्युपकारः – बदले में किया गया उपकार
- शकटपूरम् – शकटं पूरयित्वा – गाड़ी भरकर
- प्रभूतम् – प्रचुरम् / अत्यधिकम् – बहुत सारा / प्रचुर
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
नास्त्यत्र – न + अस्ति + अत्र – दीघः यण् सन्धिः
यदुचितम् युक्तोऽयम् – यत् + उचितम् – जश्त्वसन्धिः
युक्तः + अयम् – विसर्गः (उत्व) सन्धिः – श्रोत्रियोऽयम्
श्रोत्रियः + अयम् – विसर्ग: (उत्व) सन्धिः
परैरुपकृता – परै: + उपकृता – विसर्गः (रूत्व) सन्धिः
भूया – भूयात् + एष – जश्त्वसन्धिः
समास विग्रहः
शब्दः – विग्रहः – भेदः
भैक्षप्रदानेन – भैक्षस्य प्रदानेन – षष्ठीतत्पुरुषः
भरतवंशप्रदीपेन – भरतवंशस्य प्रदीपेन – षष्ठीतत्पुरुषः
ब्राह्मणकुटुम्बम् – ब्राह्मणस्य कुटुम्बम् – षष्ठीतत्पुरुषः
सनातनधर्मः – सनातनः च असौ धर्मः – कर्मधारयः
शंकटपूरम् – शकटेन पूरम् – तृतीयतत्पुरुषः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
अनुशोचितव्यम् – अनु + शुच् + तव्यत् – कृदन्तः
अनुष्ठितम् – अनु + स्था + क्त – कृदन्तः
उपकृता – उप + कृ + क्त – कृदन्तः
नाट्यांश: 3
(ततः प्रविशन्ति युधिष्ठिरादयः)
युधिष्ठिरः – (विलोक्य) अये ! हर्षेण उत्फुल्लाक्ष इव वत्सो भीमः ।
भीमः – प्रभूतमुपस्थितं मे भोजनम् ।
अर्जुनः – स्थाने खलु प्रहर्षः औदरिकस्य ।
नकुलः – ओष्ठौ स्फुरतः इवाग्रजस्य ।
भीमः – पश्यत, बाहू अपि स्फुरतः ।
सहदेवः – अपि हस्तद्वयेन भोक्ष्यसे ?
भीमः – तदपि भविष्यति। न केवलं भोजनमुपस्थितम्, आयोधनमपि ।
युधिष्ठिरः – आयोधनमिति, केन ?
भीमः – बकासुरेण ।
युधिष्ठिरः – अम्ब! किमिदानीमुपक्षिप्तम् ?
कुन्ती – पुत्रकाः! बकासुरस्य भोजनपरिकल्पनं जानीथ पौराणाम् । तदिदानीं पर्यायपतितं प्रतिवेशिनो ब्राह्मणस्य ।
युधिष्ठिरः – ततस्तत: ?
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- उत्फुल्लाक्षः – विकसित नेत्रः – खिली हुई आँखों वाला
- औदरिकस्य – उदरम् एव प्रयोजनं यस्य उदरम्भरः – अधिक खाने वाले का
- स्फुरतः – कम्पनं कुरुतः – कंपन करते हुए
- अग्रजस्य – ज्येष्ठभ्रातुः – बड़े भाई का
- आयोधनम् – युद्धम् – युद्ध
- उपक्षेप्तम् – प्रस्तुतम् – प्रस्तुत किया / कहा गया
- पर्यायपतितम् – वारप्राप्तम् – बारी आई हुई
- प्रतिवेशिनः – समीपवासिनः – पास में रहने वाले
हिंदी अनुवाद
(तभी युधिष्ठिर आदि प्रवेश करते हैं)
युधिष्ठिर – (देखकर) अरे ! वत्स भीम की आँखें तो हर्ष (खुशी) से खिली हुई-सी लग रही हैं।
भीम – मेरे लिए प्रचुर (बहुत सारा) भोजन उपस्थित है।
अर्जुन – भोजन- प्रेमी के लिए इस समय खुश होना तो स्वाभाविक ही है।
नकुल – बड़े भाई (अग्रज) के होंठ कंपित हो रहे हैं।
भीम – देखो, भुजाएँ भी फड़क रही हैं।
सहदेव – क्या तुम दोनों हाथों से खाओगे?
भीम – वह भी होगा। न केवल (मेरे लिए) भोजन उपस्थित है, बल्कि युद्ध भी।
युधिष्ठिर – युद्ध, किसके साथ?
भीम – बकासुर के साथ।
युधिष्ठिर – माता ! यह अभी क्या प्रस्ताव रखा गया है ?
कुंती – पुत्रों! (तुम) नगरवासियों द्वारा बकासुर के लिए की जाने वाली भोजन की व्यवस्था के बारे में तो जानते ही हो। अब वह बारी पास में रहने वाले ब्राह्मण के हिस्से आई है।
युधिष्ठिर – उसके बाद ?
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
वत्सो भीमः – वत्सः + भीमः – विसर्ग: (उत्व) सन्धिः
इवाग्रजस्य – इव + अग्रजस्य – दीर्घसन्धिः
तदपि – तत् + अपि – जश्त्वसन्धिः
तदिदानीम् – तत् + इदानीम् – जश्त्वसन्धिः
ततस्ततः – ततः + ततः – सत्वसन्धिः
समास विग्रहः
शब्दः – विग्रहः – भेदः
उत्फुल्लाक्षः – उत्फुल्ले अक्षिणी यस्य सः – बहुव्रीहिसमासः
हस्तद्वयेन – हस्तयोः द्वयेन – षष्ठीतत्पुरुषः
बकासुरस्य – बकः च असौ असुरः, तस्य – कर्मधारयः
भोजनपरिकल्पनम् – भोजनस्य परिकल्पनम् – षष्ठीतत्पुरुषः
पर्यायपतितम् – पर्याये पतितम् – सप्तमीतत्पुरुषः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
विलोक्य – वि + लोक् + ल्यप् – कृदन्तः
उपस्थितम् – उप + स्था + क्त – कृदन्तः
उपक्षिप्तम् – उप + क्षिप् + क्त – कृदन्तः
पर्यायाः
शब्दः – पर्यायः
हर्षेण – प्रसन्नतया / प्रमोदेन
बाहुः – हस्तः, करः
भोजनम् – आहारः, अशनम्
अम्बः – माता, जननी
ओष्ठौ – अधरौ
पौराणाम् – नगरवासिनाम्

नाट्यांश: 4
कुन्ती – स खल्वेकपुत्रस्तपस्वी भृशं परिदेवयते ।
युधिष्ठिरः – ज्ञातमवशिष्टं मातः ! न खलु भवत्या अध्यवसितं समर्थये। यस्य वीरस्य भुजबलमाश्रित्य वयं सुखं शेमहे, यच्च चिन्तयन् दुर्योधनो निद्रां न लभते, तस्य भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम् ?
भीमः – धर्मं विजानता भवता धर्मसङ्ग्रहोऽत्र द्रष्टव्यः । न हि मातुराज्ञा प्रत्यादेशमर्हति।
युधिष्ठिरः – वत्स भीमसेन ! बलवान् मानुषभोजी स राक्षसः इति श्रूयते।
भीमः – ततः किम्? राक्षसध्वंसी भीमः स्मर्यते । अलं विशङ्कया । हनिष्यामि तं दुरात्मानम्।
अर्जुनः – धनुर्धरोऽहमनुगमिष्यामि ।
भीमः – मा मैवम्। न हि खरदंष्ट्रो मृगाधिपः सहायमपेक्षते ।
हिंदी अनुवाद
कुंती – वह तपस्वी निश्चित रूप से (अपने इकलौते पुत्र के लिए) अत्यधिक विलाप कर रहा है।
युधिष्ठिर – माता! मुझे ज्ञात हो गया है। मैं आपके निश्चय का समर्थन नहीं करता हूँ। जिस वीर (भीम) के बाहुबल के आश्रय में हम सुख से सोते हैं और जिसके बारे में सोचकर दुर्योधन को नींद नहीं आती, उस भीम को भेजने का संकल्प आपने कैसे कर लिया?
भीम – धर्म को जानने वाले आपके द्वारा यहाँ ‘धर्म- संग्रह’ देखा जाना चाहिए। माता की आज्ञा तिरस्कार के योग्य नहीं होती।
युधिष्ठिर – वत्स भीमसेन! सुना है कि वह राक्षस बहुत बलवान और नरभक्षी है।
भीम – तो क्या हुआ? राक्षसों का विनाश करने वाले भीम को याद किया जाता है। शंका मत कीजिए। मैं उस दुरात्मा को मार डालूँगा।
अर्जुन – मैं धनुर्धारी (बनकर) भी आपके पीछे-पीछे चलूँगा।
भीम – नहीं, ऐसा मत कहो। तीखे दाँतों वाला सिंह कभी सहायक की अपेक्षा नहीं करता।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- भृशम् – अत्यधिकम् – बहुत अधिक
- परिदेवयते – विलापम् करोति – विलाप करता है
- अध्यवसितम् – निश्चयम्/ संकल्पम् – निश्चय / संकल्प
- शेमहे – शयनं कुर्मः – सोते हैं
- प्रत्यादेशम् – निराकरणम्/ अस्वीकारम् – तिरस्कार / मना करना
- मृगाधिपः – सिंह: – सिंह (जंगल का राजा)
- खरदंष्ट्रो – तीक्ष्णदन्तः – तीखे दाँतों वाला
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
खल्वेकपुत्रः – खलु + एकपुत्रः – यणसन्धिः
धर्मसङ्ग्रहोऽत्र – धर्मसङ्ग्रहः + अत्र – विसर्ग (उत्व) सन्धिः
धनुर्धरोऽहम् – धनुर्धरः + अहम् – विसर्ग (उत्व) सन्धिः
मैवम् – मा + एवम् – वृद्धिसन्धिः
स राक्षसः – सः + राक्षसः – विसर्गस्य लोपः
समास-विग्रहः
शब्द: – विग्रहः – भेदः
एकपुत्रः – एकः च असौ पुत्रः – कर्मधारयसमासः
बाहुबलम् – बाह्वोः बलम् – षष्ठीतत्पुरुषः
धर्मसङ्ग्रहः – धर्मस्य सङ्ग्रहः – षष्ठीतत्पुरुषः
मानुषभोजी – मानुषान् भक्षयति इति – उपपदतत्पुरुषः
राक्षसध्वंसी – राक्षसानां ध्वंसी – षष्ठीतत्पुरुषः
मृगाधिपः – मृगाणाम् अधिपः – षष्ठीतत्पुरुषः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
ज्ञातम् – ज्ञा + क्त – कृदन्तः
आश्रित्य – आ + श्रि + ल्यप् – कृदन्तः
विजानता – वि + ज्ञा + शतृ – कृदन्तः
द्रष्टव्यः – दृश् + तव्यत् – कृदन्तः
पर्यायाः
शब्दः – पर्यायः
माता – जननी, अम्बा
निद्रा – प्रमीला, शयनम्
सिंह: – मृगेन्द्रः, मृगाधिपः
सहायम् – सहयोगम्, सहकारम्
पुत्रः – सुतः, तनयः
नाट्यांश: 5
इमौ हि पीवरौ बाहू सहायौ सहजौ मम ।
बकं विध्वंसयिष्यामि सिंहः क्षुद्रमृर्ग यथा ॥
(ततः सर्वैरनुज्ञातः बकं हन्तुकामः भीमः प्रस्थितः)
(ततः प्रविशति भक्ष्य – भोज्यादिक – भाण्ड-प – पूरित – शकटेन सह)
बकः – मानुषापसद, परिवेषय में भोजनम् ।
भीमः – सर्वं परिवेषितं मदीय- जठरस्थाय भगवते हुताशनाय । त्वां धर्मदूषणं हन्तुम् आगतोऽहम्।
बकः – कथं, कः खलु अधर्मः मया सेवितः ? (सहासमुदरं परिमृजन्) भीमः नरभक्षणम्।
बकः – नरभक्षणं नाम मांसाशिनां राक्षसानां धर्मः ।
भीमः – नररक्षणं नाम भूमिपालानां क्षत्रियाणां धर्मः ।
बकः – क्षत्रियोऽसि?
भीमः – बाढम्, क्षत्रियोऽस्मि ।
अन्वयः
इमौ पीवरौ सहजौ बाहू हि मम सहायौ (स्तः), (अहं) सिंह: क्षुद्रमृर्ग यथा बकं विध्वंसयिष्यामि ।
भावार्थ:
अस्य श्लोकस्य भावः अस्ति यत् भीमः स्वशक्तौ पूर्णविश्वासं प्रकटयति । सः कथयति यत् तस्य पीवरौ बाहू एव तस्य प्रकृत्या प्राप्तौ सहायकौ स्तः । सः बकासुरं प्रति तुच्छभावनां रक्षति यथा सिंहः मृगं प्रति । सः युद्धे बकासुरस्य विनाशं सुनिश्चितं मन्यते ।
हिंदी अनुवाद
भीम – “ये मेरी दो बलिष्ठ भुजाएँ ही मेरी स्वाभाविक सहायक हैं। मैं बक (राक्षस) का वैसे ही विनाश कर दूँगा, जैसे सिंह किसी छोटे मृग का करता है।”
(उसके बाद सभी से आज्ञा लेकर भीम बक को मारने की इच्छा से प्रस्थान करते हैं) (तत्पश्चात् भोजन आदि के बर्तनों से भरी गाड़ी के साथ प्रवेश करते हैं)
बक – अरे नीच मनुष्य, मुझे भोजन परोसो ।
भीम – सारा भोजन तो मेरे जठर (पेट) में स्थित भगवान अग्निदेव को परोस दिया गया है। मैं तुझे, जो धर्म का कलंक है, मारने आया हूँ।
बक – कैसे, भला मैंने कौन – सा अधर्म किया है ?
(अट्टहास करते हुए)
भीम – नरभक्षण (मनुष्यों को खाना) ।
बक – नरभक्षण तो मांस खाने वाले राक्षसों का धर्म है।
भीम – और नररक्षण (मनुष्यों की रक्षा) भूमि का पालन करने वाले क्षत्रियों का धर्म है।
बक – (क्या) तुम क्षत्रिय हो ?
भीम – हाँ, मैं क्षत्रिय हूँ ।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- पीवरौ – स्थूल / बलिष्ठौ – मोटे या बलिष्ठ (भुजाएँ)
- विध्वंसयिष्यामि – विनाशं करिष्यामि – नष्ट कर दूँगा
- क्षुद्रमृगम् – लघुहरिणम् – छोटा हिरण
- भाण्डपूरि – पात्रैः पूर्णम् – बर्तनों से भरा हुआ
- हुताशनाय – अग्नये – अग्निदेव के लिए
- सहासमुदरं – हास्येन सह उदरम् – हँसते हुए पेट को
- नररक्षणम् – मानवानां रक्षा – मनुष्यों की रक्षा
समास-विग्रहः
शब्द: – विग्रहः – भेदः
क्षुद्रमृगम् – क्षुद्रः च असौ मृगः, तम् – कर्मधारयसमासः
हन्तुकामः – हन्तुं कामः यस्य सः – बहुव्रीहिसमासः
जठरस्थाय – जठरे तिष्ठति इति, तस्मै – उपपदतत्पुरुषः
धर्मदूषणम् – धर्मस्य दूषणम् – षष्ठीतत्पुरुषः
नरभक्षणम् – नराणां भक्षणम् – षष्ठीतत्पुरुषः
अधर्मः – न धर्म: – नञ्तत्पुरुषः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
आगतोऽहम् – आगतः + अहम् – विसर्ग: (उत्व) सन्धिः
क्षत्रियोऽसि – क्षत्रियः + असि – विसर्ग: (उत्व) सन्धिः
क्षत्रियोऽस्मि क्षत्रियः + अस्मि – विसर्ग: (उत्व) सन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
अनुज्ञातः – अनु + ज्ञा + क्त – कृदन्तः
हन्तुम् – हन् + तुमुन् – कृदन्तः
प्रस्थितः – प्र + स्था + क्त – कृदन्तः
परिमृजन् – परि + मृज् + शतृ – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्गः
विध्वंसयिष्यामि – वि
परिवेषय – परि
प्रस्थितः – प्र
परिमृजन् – परि
विशेषण – विशेष्यः
भूमिपालानां – क्षत्रियाणाम्
पीवरौ – बाहू
भगवते – हुताशनाय
मांसशितानां – राक्षसानाम्
विपर्ययाः
शब्दः – विपर्ययः
अधर्मः – धर्मः
रक्षणम् – भक्षणम्
प्रवेशः – प्रस्थानम्

नाट्यांश: 6
रक्षिता साधुलोकानां वरिष्ठो बाहुशालिनाम् ।
निषूदको हिडिम्बस्य मृत्युश्चास्मि भवादृशाम् ॥
बकः – अहह! मम मित्रस्य हिडिम्बस्य हन्ता कौन्तेयो भवान् ?
भीमसेनः – कामम् ! कौन्तेयोऽस्मि भीमसेनः ।
बक: – इदमस्ति मे भागधेयम् । चिरान्विष्टो मृगः स्वयमुत्पतितो व्याघ्रगह्वरम्। श्लाघनीयोऽसि मे रिपुः ।
भीमसेनः – इदं में स्वस्त्ययनं यन्मां श्लाघनीयं रिपुं मन्यसे। अनुवर्तस्व ते मित्रं हिडिम्बम् ।
बकः – वाचाट! क्षत्रियडिम्भ, गृहाण शस्त्रम् । शातयामि ते दर्पम् ।
भीमसेनः – अलं शस्त्रग्रहणविडम्बनेन त्वन्मस्तकास्थिभिदुरोऽस्ति ममैष मुष्टिः ।
(उभौ प्रहरतः। मल्लयुद्धं प्रवर्तते । हतः पतति बकः ।)
अन्वयः
साधुलोकानां रक्षिताः, बाहुशालिनां वरिष्ठः, हिडिम्बस्य निषूदकः, भवादृशाम् च मृत्यु अस्मि ।
भावार्थ:
भीमसेनः स्वपरिचयं गौरवपूर्णरीत्या ददन् कथयति यत्- अहं सज्जनानां रक्षकः अस्मि तथा च बलशालिषु पुरुषेषु श्रेष्ठः अस्मि । अहं हिडिम्ब नामकस्य राक्षसस्य विनाशकः अस्मि । अतः हे राक्षस । अहं तव सदृशानां दुष्टानां कृते मृत्युस्वरूपः अस्मि ।
हिंदी अनुवाद
“मैं सज्जनों का रक्षक हूँ और भुजाधारियों (शक्तिशालियों) में श्रेष्ठ हूँ। मैं हिडिंब का वध करने वाला हूँ और तुम जैसे (दुष्टों) के लिए साक्षात् मृत्यु हूँ।”
बक – अरे! तो क्या तुम मेरे मित्र हिडिंब के हंता (वध करने वाले) कुंतीपुत्र हैं ?
भीमसेन – हाँ! मैं कुंतीपुत्र भीमसेन हूँ ।
बक – यह तो मेरा सौभाग्य है । बहुत समय से जो हिरन ढूँढ रहा था, वह स्वयं चलकर बाघ की गुफा में आ गया है। तुम मेरे द्वारा प्रशंसनीय शत्रु हो ।
भीमसेन – यह तो मेरा सौभाग्य है कि तुम मुझे प्रशंसनीय शत्रु मानते हो । अब अपने मित्र हिडिंब के पास चले जाओ अर्थात् मृत्यु को प्राप्त हो जाओ।
बक – अरे वाचाल! क्षत्रिय-बालक, शस्त्र उठाओ। मैं तुम्हारा घमंड तोड़ देता हूँ।
भीमसेन – शस्त्र ग्रहण के इस दिखावे की आवश्यकता नहीं है, मेरी यह मुष्टि (मुक्का) ही तुम्हारे मस्तक की अस्थियों (हड्डियों) को तोड़ने के लिए पर्याप्त है।
(दोनों प्रहार करते हैं। मल्ल – युद्ध शुरू होता है। बक मरकर गिर जाता है |)
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- साधुलोकानाम् – सज्जनानाम् – सज्जन लोगों का
- वरिष्ठः – श्रेष्ठः – सबसे श्रेष्ठ
- बाहुशालिनाम् – बलशालिनाम् – शक्तिशाली लोगों का
- भागधेयम् – सौभाग्यम् – भाग्य/सौभाग्य
- व्याघ्रगह्वरम् – व्याघ्रगुहाम् – बाघ की गुफा
- शलाघनीयः – प्रशंसनीयः – प्रशंसा के योग्य
- शातयामि – विनाशयामि – नष्ट करता हूँ / चूर करता हूँ
- विडम्बनेन – प्रपञ्चेन / आडम्बरेण – दिखावे या ढोंग से
- भिदुरो – भेदनकर्ता – तोड़ने वाला
- मल्लयुद्धं – मल्लानां युद्धम् – पहलवानों का युद्ध
समास-विग्रहः
शब्दः – विग्रहः – भेदः
साधुलोकानाम् – साधवः च ते लोका:, तेषाम् – कर्मधारयसमासः
बाहुशालिनाम् – बाहुभिः शालिनः तेषाम् – तृतीयतत्पुरुषः
व्याघ्रगह्वरम् – व्याघ्रस्य गह्वरम् – षष्ठीतत्पुरुषः
क्षत्रियडिम्भः – क्षत्रियः च असौ डिम्भः – कर्मधारयसमासः
शस्त्रग्रहणम् – शस्त्रस्य ग्रहणम् – षष्ठीतत्पुरुषः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
वरिष्ठो बाहु – वरिष्ठ: + बाहु – विसर्ग: (उत्व) सन्धिः
मृत्युश्चास्मि – मृत्यु: + च + अस्मि – विसर्ग: (सत्व) दीर्घसन्धिः च
कौन्तेयोऽसि – कौन्तेयः + असि – विसर्गसन्धिः
स्वस्त्ययनं – स्वस्ति + अयनम् – यण्सन्धिः
भिदुरोऽस्ति – भिदुरः+अस्ति – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
रक्षिता – रक्ष् + क्त + टाप् – कृदन्तः
अन्विष्टोः – अनु + विश् + क्त – कृदन्तः
हन्ता – हन् + तृच् – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्गः
अन्विष्टो – अनु
अनुवर्तस्व – अनु
विडम्बनेन – वि
विशेषण – विशेष्यः
वरिष्ठो – भीमसेनः
अन्विष्टः – मृगः
शलाघनीयः – रिपुः
विपर्ययाः
शब्दः – विपर्ययः
रक्षक: – भक्षकः
हन्ता – रक्षक:
रिपुः – मित्रम्
अत्र इदम् अवधेयम्
श्लोकानां भावार्थ:
- वयं नागरिकैः बहुकालं भिक्षा प्रदानेन पोषिताः। उपकृतमेतत् प्रत्युपकृतं भवेत् इति एषः शाश्वतः धर्मः।
- एतौ हि पुष्टौ, भुजौ, मम सहजातौ उपकारकौ । सिंह: तुच्छ वन्यप्राणिनमिव, अहं, बकनामानम् असुरं विनाशयिष्यामि ।