By going through these Class 9 Sanskrit Notes and NCERT Class 9 Sanskrit Sharada Chapter 6 Hindi Translation Summary Explanation Notes मनःपूतं समाचरेत् students can clarify the meanings of complex texts.
Sanskrit Class 9 Chapter 6 Hindi Translation मनःपूतं समाचरेत् Summary
कक्षा 9 संस्कृत पाठ 6 हिंदी अनुवाद
Class 9 Sanskrit Chapter 6 Summary Notes मनःपूतं समाचरेत्
यह पाठ हमें सिखाता है कि जीवन में कोई भी कार्य पवित्र मन और पूर्ण विवेक के साथ करना चाहिए। इसमें धर्म के दस लक्षणों, जैसे धैर्य, क्षमा और सत्य को अपनाने पर बल दिया गया है। आलस्य को त्यागकर परिश्रम करने और श्रेष्ठ व्यक्तियों के मार्गदर्शन में चलने से ही मनुष्य को सफलता प्राप्त होती है। अतः सदा शुद्ध अंत:करण से विचार करके उत्तम आचरण करना ही जीवन का मूल आधार है।

पाठस्य – परिचयः
अध्यापिका – प्रियच्छात्राः ! वदन्तु, किमपि कार्यं करणीयम् अस्ति चेत् आदौ किम् आवश्यकम् ?
छात्र: – आचार्ये! विचिन्त्य कार्यकरणम्।
छात्र: – उचितविधिना कार्यकरणम्।
छात्राः – पूर्णमनसा कार्यकरणम्।
अध्यापिका – सर्वे उचितमेव वदन्ति । अधुना विचारयन्तु, यदि मनः एव मलिनं स्यात्, उद्देश्यम् एव अनुचितं स्यात्, तर्हि किमपि कार्यं सम्यक् कथं भवेत्?
छात्र: – एवं चेत् तस्य कार्यस्य फलम् अपि दूषितम् एव स्यात् ।
अध्यापिका – अत एव अस्माभिः सर्वाणि कार्याणि पवित्रेण मनसा करणीयानि । एतदेव शिक्षयति प्रस्तुतः पाठः ‘मनः पूतं समाचरेत्’ इति ।
छात्र: – आचार्ये! अस्मिन् पाठे विविधेभ्यः ग्रन्थेभ्य: सुभाषितानि सङ्कलितानि दृश्यन्ते । किम् एतानि सुभाषितानि वर्तमानसमये अपि उपयोगीनि सन्ति?
अध्यापिका – भवन्तः स्वयमेव चिन्तयन्तु ।
छात्राः – अहं वदामि आचार्ये। एतानि सुभाषितानि न केवलं पठनाय अपितु जीवने आचरणाय सन्ति ।
अध्यापिका – सम्यक् उक्तम् । आयान्तु, वयं सुभाषितानि पठामः जीवने च आचरामः ।
हिंदी अनुवाद
अध्यापिका प्रिय छात्रों! बोलिए, यदि कोई कार्य करना हो, तो सर्वप्रथम क्या आवश्यक है ?
छात्र – आचार्या ! सोच-समझकर कार्य करना ।
छात्र – उचित विधि (तरीके) से कार्य करना ।
छात्र – पूर्ण मन (एकाग्रता) से कार्य करना ।
अध्यापिका – सभी सही कह रहे हैं। अब विचार कीजिए, यदि मन ही अपवित्र (मलिन) हो और उद्देश्य ही अनुचित हो, तो कोई भी कार्य ठीक से कैसे हो सकता है ?
छात्र – और यदि ऐसा है, तो उस कार्य का फल भी दूषित ही होगा।
अध्यापिका – इसलिए हमें सभी कार्य पवित्र मन से करने चाहिए। यही शिक्षा (बात) प्रस्तुत पाठ ‘मन से पवित्र आचरण करना चाहिए’ सिखाता है।
छात्र: – आचार्या! इस पाठ में विभिन्न ग्रंथों से सुभाषित (सुंदर वचन) संकलित दिखाई देते हैं। क्या ये सुभाषित वर्तमान समय में भी उपयोगी हैं?
अध्यापिका – आप स्वयं ही विचार करें।
छात्रा – मैं बताती हूँ आचार्या ! ये सुभाषित न केवल पढ़ने के लिए हैं, बल्कि जीवन में आचरण करने (अपनाने) के लिए हैं।
अध्यापिका – सही कहा । आइए, हम सब सुभाषित पढ़ते हैं और जीवन में उनका आचरण करते हैं।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- समाचरेत् – आचरणं कुर्यात् – आचरण करना चाहिए
- विचिन्त्य – विचारं कृत्वा – सोच-समझकर
- मलिनम् – अपवित्रम्/अशुद्धम् – मैला या गंदा
- सम्यक् – उचितम्/सम्यक् रूपेण – अच्छी तरह से / ठीक से
- दूषितम् – दोषयुक्तम् – खराब या दूषित
- पवित्रेण – शुद्धेन – शुद्ध या पवित्र
- विविधेभ्यः – भिन्नेभ्यः – विभिन्न / अलग-अलग
- सुभाषित – सुष्ठु भाषितानि – सुंदर वचन/अनमोल वचन
- सङ्कलितानि – एकत्रित – इकट्ठा किए हुए
- उपयोगीनि – लाभप्रदानि – काम आने वाले/उपयोगी
- आचरणाय – पालनाय – व्यवहार में लाने के लिए
- आयान्तु – आगच्छन्तु – आइए
संधि-विच्छेदः
शब्द: – विच्छेदः – भेदः
विविधेभ्योग्रन्थेभ्यः – विविधेभ्यः + ग्रन्थेभ्यः – विसर्गसन्धिः
एतदेव – एतत् + एव – (जश्त्व) व्यञ्जनसन्धिः
अत एव – अतः + एव – विसर्गसन्धिः
सम्यगुक्तम् – सम्यक् + उक्तम् – जशत्वसन्धिः
नापि – न + अपि – दीर्घसन्धिः
मन एव – मनः + एव – विसर्गसन्धिः
समास विग्रहः
शब्दः – विग्रहः – भेदः
प्रियछात्राः – प्रियाः च ते छात्राः – कर्मधारयसमासः
पूर्णमनसा – पूर्णं च तत् मनः तेन – कर्मधारयसमासः
वर्तमानसमये – वर्तमानः च असौ समयः तस्मिन् – कर्मधारयसमासः
कार्यकरणम् – कार्यस्य करणम् – षष्ठी तत्पुरुषः
अनुचितम् – न उचितम् – नञ् तत्पुरुषः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
करणीयम् – कृ + अनीयर् – कृदन्तः
विचिन्त्य – वि + चिन्त् + ल्यप् – कृदन्तः
आचरणाय – आ + चर् + ल्युट् – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
मनः – चित्तम्, हृदयम्
अधुना – इदानीम्, सम्प्रति
कार्यम् – कर्म, कृत्यम्
पवित्रम् – शुद्धम्, पावनम्
आचार्याः – शिक्षिका, उपदेशिका
ग्रन्थाः – पुस्तकानि शास्त्रानि
समय: – कालः, वेला
वदामि – कथयामि, ब्रवीमि

Class 9 Sanskrit Sharada Chapter 6 Hindi Translation
Sanskrit Class 9 Chapter 6 Hindi Anuvad – कक्षा 9 संस्कृत पाठ 6 हिंदी अनुवाद
श्लोक : 1
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेत् वाचं मनः पूतं समाचरेत्।।1।। (मनुस्मृति: 6.46)
अन्वयः
दृष्टिपूतं पादं न्यसेत्, वस्त्रपूतं जलं पिबेत्, सत्यपूतां वाचं वदेत्, मनः पूतं समाचरेत्।
भावार्थ:
अस्य श्लोकस्य भावः अस्ति यत् मानवेन स्वजीवने सर्वदा सावधानी शुचिता च पालनीया । मार्गं सम्यक् दृष्ट्वा एव चरणं स्थापनीयम् येन कस्यापि जीवस्य हिंसा न भवेत् मार्गे च बाधा न आगच्छेत् । सदा वस्त्रेण शोधितं शुद्धं जलं पातव्यम् । मनुष्येण सर्वदा सत्येन शुद्धं मधुरं च वाणीं वक्तव्यम्। अन्ते यत् कार्यं मनसा पवित्रं भवति, यस्मिन् कार्ये च अन्तरात्मा सन्तुष्यति, तदेव आचरणं करणीयम् । संक्षेपेण, अस्माकं दृष्टिः, आहारः, वाणी, व्यवहारः च सर्वदा पवित्राः भवेयुः ।
हिंदी अनुवाद
दृष्टि से पवित्र करके (अच्छी तरह देख-भालकर) कदम रखना चाहिए, वस्त्र से छानकर (शुद्ध करके) जल पीना चाहिए, सत्य से पवित्र करके (सत्य से युक्त) वाणी बोलनी चाहिए और मन से पवित्र करके (सोच-समझकर और शुद्ध अंत:करण से) आचरण करना चाहिए।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्था
- दृष्टिपूतम् – दृष्ट्या पवित्रम् – दृष्टि से पवित्र (देखकर)
- न्यसेत् – स्थापयेत् – रखना चाहिए
- पादम् – चरणम् – पैर / कदम
- वस्त्रपूतम् – वस्त्रेण शोधितम् – कपड़े से छना हुआ
- पिबेत् – पानं कुर्यात् – पीना चाहिए
- वाचम् – वाणीम् – वाणी / वचन
- समाचरेत् – आचरणं कुर्यात् – आचरण करना चाहिए
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
न्यसेत् – नि + असेत् – यणसन्धिः
वदेवाचम् – वदेत् + वाचम् – जश्त्वसन्धिः
जलं पिबेत् – जलम् + पिबेत् – अनुस्वारसन्धिः
समास विग्रहः
शब्दः – विग्रहः – भेदः
दृष्टिपूतम् – दृष्ट्या पूतम् – तृतीयतत्पुरुषसमासः
वस्त्रपूतम् – वस्त्रेण पूतम् – तृतीयातत्पुरुषसमासः
सत्यपूताम् – सत्येन पूताम् – तृतीयतत्पुरुषसमासः
मनःपूतम् – मनसा पूतम् – तृतीयातत्पुरुषसमासः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
पूतम् – पू + क्त – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
पादः – चरण, पदम्
जलम् – नीरम्, तोयम्, वारि
वाचम् – वाणीम्, भाषाम्
श्लोक : 2
धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ।। 2 ।। (मनुस्मृति: – 6.12)
अन्वयः
धृतिः, क्षमा, दम:, अस्तेयं शौचम्, इन्द्रियनिग्रहः, धीः, विद्या, सत्यम्, अक्रोधः (च इति) दशकं धर्मलक्षणं (भवति) ।
भावार्थ:
अस्य श्लोकस्य भावः अस्ति यत् धर्मः केवलं बाह्यपूजा पद्धतिः नास्ति, अपितु मानवीयगुणानां समूहः अस्ति। मनुस्मृतौ धर्मस्य दश प्रमुखाणि लक्षणानि (गुणाः) वर्णितानि सन्तिः
- धृतिः प्रतिकूलपरिस्थितौ अपि धैर्यधारणम्।
- क्षमाः सामर्थ्ये सति अपि अपराधिनां क्षमाकरणम् ।
- दमः स्वमनसः उपरि नियन्त्रणम्।
- अस्तेयम् चौर्यकार्यं न करणीयम् (अन्यस्य वस्तूनि विना अनुमतिं न ग्रहणम्) ।
- शौचम् शरीरस्य अन्तः बाह्यं च पवित्रता ।
- इन्द्रियनिग्रहः ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च वशीकरणम् ।
- धीः बुद्धेः सदुपयोगः विवेकशीलता च।
- विद्याः आत्मज्ञानस्य अथवा सत्यज्ञानस्य प्राप्तिः ।
- सत्यम् मनसा वाचा कर्मणा च सत्यस्य पालनम्।
- अक्रोधः क्रोधस्य त्यागः शान्तिः च।
हिंदी अनुवाद
धैर्य, क्षमा, मन पर नियंत्रण, चोरी न करना, शुद्धि (बाहरी और आंतरिक स्वच्छता), इंद्रियों को वश में रखना, बुद्धि, विद्या, सत्य और क्रोध न करना — ये दस धर्म के लक्षण हैं।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी – अर्थाः
- धृतिः – धैर्यम् – धैर्य / धीरज
- दमः – मनसः दमनम् – मन पर काबू
- अस्तेयम् – चौराभावः – चोरी न करना
- शौचम् – पवित्रता – स्वच्छता / शुद्धि
- इन्द्रियनिग्रहः – इन्द्रियाणां वशीकरणम् – इंद्रियों को वश में करना
- धी: – बुद्धिः – बुद्धि
- अक्रोधः – क्रोधाभावः – क्रोध न करना
- दशकम् – दश अवयवाः – दस (संख्या)
संधि-विच्छेदः
शब्द: – विच्छेदः – भेदः – उत्व (विसर्ग) सन्धिः
दमोऽस्तेयम् – दमः + अस्तेयम् – विसर्गसन्धिः
धीर्विद्या – धीः + विद्या – विसर्ग सन्धिः
सत्यक्रोधो दशकं – सत्यक्रोधः + दशकम् – विसर्गसन्धिः
समास विग्रहः
शब्दः – विग्रहः – भेदः
अस्तेयम् – न स्तेयम् इति – नञ्तत्पुरुषसमासः
इन्द्रियनिग्रहः – इन्द्रियाणां निग्रहः – षष्ठीतत्पुरुषसमासः
अक्रोधः – न क्रोधः इति – नञ्तत्पुरुषसमासः
धर्मलक्षणम् – धर्मस्य लक्षणम् – षष्ठीतत्पुरुषसमासः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
धृतिः – धृ + क्तिन् – कृदन्तः
इन्द्रियः – इन्द्र + इय – तद्धितः
विद्या – विद् + क्यप् + टाप् – कृदन्तः
पर्यायाः
शब्दः – पर्यायः
क्षमाः – तितिक्षा, सहनशीलता
धी: – मति, प्रज्ञा, बुद्धिः
सत्यम् – तथ्यम्, ऋतम्

श्लोक : 3
यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ।। 3 ।। (श्रीमद्भगवद्गीता – 3.21)
अन्वयः
श्रेष्ठः यत् यत् आचरति इतर: जनः तत् तत् एव (आचरति) । सः यत् प्रमाणं कुरुते, लोकः तत् अनुवर्तते ।
भावार्थ:
अस्य श्लोकस्य भावार्थः अस्ति यत् समाजे ये पुरुषाः श्रेष्ठाः, गुणवन्तः, उच्चपदेषु च आसीनाः सन्ति, तेषाम् आचरणस्य समाजस्य अन्येषां जनानां च उपरि महान् प्रभावः भवति ।
श्रेष्ठः पुरुषः यथा यथा आचरणं करोति, सामान्यजनाः अपि तस्यैव अनुकरणं कुर्वन्ति । सः महापुरुषः स्वकर्मणा यत् किमपि आदर्शं (प्रमाणं) प्रस्थापयति, समस्तः संसारः तमेव मार्गं स्वीकरोति । अतः समाजस्य नेतृत्वं कुर्वद्भिः जनैः सर्वदा उच्चादर्शाः प्रस्तुतव्याः, यतः समाजस्य भविष्यं तेषाम् आचरणे एव निर्भरं भवति ।
हिंदी अनुवाद
श्रेष्ठ पुरुष (महापुरुष) जैसा – जैसा आचरण करता है, अन्य सामान्य लोग भी वैसा-वैसा ही आचरण करते हैं। वह (श्रेष्ठ पुरुष) जो कुछ प्रमाण (आदर्श) प्रस्तुत कर देता है, समस्त संसार उसी का अनुसरण करने लगता है।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- यद्यत् – यत् यत् – जो-जो / जैसा-जैसा
- आचरति – व्यवहारं करोति – आचरण करता है।
- श्रेष्ठः – उत्तमः पुरुषः – महान व्यक्ति
- इतरः – अन्यः / साधारणः – दूसरा / सामान्य
- प्रमाणम् – आदर्शम् / साक्ष्यम् – प्रमाण/ मिसाल
- अनुवर्तते – अनुसरणम् करोति – पीछे चलता है / अनुसरण करता है
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
यद्यदाचरति – यत् + यत् + आचरति – जश्त्वसन्धिः
तत्तदेवेतरः – तत्तत् + एव + इतर: – जश्त्व गुणसन्धिः च
लोकस्तद् – लोक + तत् – सत्व (विसर्ग) सन्धिः
तदनुवर्तते – तत् + अनुवर्तते – जशत्व सन्धिः
समास विग्रहः
शब्दः – विग्रहः – भेदः
इतरजनः – इतर: च असौ जनः – कर्मधारयसमासः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
श्रेष्ठः – प्रशस्य + इष्ठन् – तद्धितः (तुलनाबोधक)
पर्यायाः
शब्दः – पर्यायः
श्रेष्ठः – प्रधान:, मुख्यः, महान्
जनः – मनुजः, नरः,
लोक: – जगत्, संसार
प्रमाणम्ः – मर्यादा, आदर्श:
श्लोक : 4
अभ्यासेन क्रियाः सर्वाः अभ्यासात् सकलाः कलाः।
अभ्यासाद् ध्यानमौनादि किमभ्यासस्य दुष्करम् ।।4।। (सुभाषितरत्नभाण्डागारः)
अन्वयः
सर्वाः क्रियाः अभ्यासेन (सिध्यन्ति) । सकलाः कला: अभ्यासात् (सिध्यन्ति)। ध्यानमौनादि (अपि) अभ्यासात् (सिध्यति) । अभ्यासस्य दुष्करं किम् (अस्ति) ?
भावार्थ:
अस्य श्लोकस्य मुख्यः भावः अस्ति यत् जीवने अभ्यासेन किमपि असाध्यं नास्ति। लोके यत् किमपि कार्यं भवतु, तत् पुनः – पुनः प्रयत्नेन अर्थात् अभ्यासेन एव पूर्णतां गच्छति ।
जगतः सर्वाः क्रियाः अभ्यासेन एव सफलाः भवन्ति । संगीत – चित्रकलाद्याः सकलाः कलाः अपि निरन्तरं अभ्यासं विना न सिध्यन्ति । न केवलं भौतिकानि कार्याणि, अपितु आध्यात्मिकं ध्यानं, मनसः नियन्त्रणं मौनपालनं च अपि कठिनसाधना: अभ्यासात् एव सुलभाः भवन्ति । अतः श्लोककारः कथयति यत् अभ्यासस्य कृते संसारे किमपि कार्यं कठिनं नास्ति । यः मनुष्यः दृढनिश्चयेन अभ्यासं करोति सः असम्भवं कार्यम् अपि सम्भवं कर्तुं शक्नोति ।
हिंदी अनुवाद
निरंतर अभ्यास से सभी क्रियाएँ सिद्ध होती हैं, अभ्यास से ही समस्त कलाएँ सीखी जाती हैं। अभ्यास से ही ध्यान और मौन आदि सिद्ध होते हैं; वास्तव में अभ्यास के लिए कुछ भी कठिन (असंभव) नहीं है।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- अभ्यासेन – पुनः पुनः करणेन – बार-बार करने से (अभ्यास से)
- सर्वाः – सम्पूर्णाः – सभी / समस्त
- सकलाः – निखिलाः – संपूर्ण समस्त
- दुष्करम् – कठिनम् / असाध्यम् – बहुत कठिन/मुश्किल
- मौनम् – वाक्संयमः – चुप रहना / वाणी का संयम
- क्रियाः – कार्याणि – कार्य/गतिविधियाँ
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
अभ्यासाद्ध्यानम् – अभ्यासात् + ध्यानम् – जश्त्वसन्धिः
ध्यानमौनादि – ध्यानमौन + आदि – दीर्घसन्धिः
सर्वा अभ्यासात् – सर्वाः + अभ्यासात् – विसर्गस्य लोपः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
अभ्यासाद्ध्यानम् – अभ्यासात् + ध्यानम् – जश्त्वसन्धिः
ध्यानमौनादि – ध्यानमौन + आदि – दीर्घसन्धिः
सर्वा अभ्यासात् – सर्वाः + अभ्यासात् – विसर्गस्य लोपः
समास विग्रहः
शब्दः – विग्रहः – भेदः
सकलाः – कलया सह वर्तते याः ताः – बहुव्रीहिसमासः
दुष्करम् – दुःखेन कर्तुं शक्यम् – प्रादितत्पुरुषसमासः
सकलकलाः – सकलाः च याः कलाः – कर्मधारयः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
अभ्यासः – अभि + आ + अस् + घञ् – कृदन्तः
क्रिया: – कृ + शप् + टाप् – कृदन्तः
दुष्करम् – दुस् + कृ + खल् – कृदन्तः
पर्यायाः
शब्दः – पर्यायः
अभ्यासः – पुनरावृत्तिः, अनुशीलनम्
सकलाः – सर्वाः, अशेषतः
कला: – शिल्पानि, नैपुण्यानि
दुष्करम् – असाध्यम्, कष्टसाध्यम्

श्लोक: 5
प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारम्भ चोत्तमजनाः न परित्यजन्ति ।। 5 ।। (नीतिशतकम् — 27)
अन्वयः
नीचैः विघ्नभयेन (कार्यं) न प्रारभ्यते खलु । मध्याः (कार्यं) प्रारभ्य विघ्नविहताः (कार्यात्) विरमन्ति । उत्तमजना: (कार्यं) प्रारभ्य विघ्नैः पुनः पुनः अपि प्रतिहन्यमाना: (कार्यं) न परित्यजन्ति ।
भावार्थ:
अस्मिन् श्लोके जनानाः वयः भेदाः वर्णिताः सन्ति, ये जनाः विघ्नभयात् कार्यं न आरभन्ते, ते नीचजनाः कथ्यन्ते, ये जनाः कार्यं आरभ्य विघ्नैः पीडिता सन्तः विरमन्ति । ते मध्यमजनाः भवन्ति, परन्तु ये जनाः पुनः-पुनः प्रतिहन्य मानाः अपि कार्यं न परित्यजन्ति, ते उत्तमजनाः सन्ति ।
हिंदी अनुवाद
अधम (नीच) श्रेणी के लोग विघ्नों के डर से कार्य को शुरू ही नहीं करते हैं। मध्यम श्रेणी के लोग कार्य शुरू तो कर देते हैं, लेकिन विघ्न आने पर बीच में ही छोड़ देते हैं, किंतु उत्तम श्रेणी के लोग विघ्नों के बार-बार आने पर भी, एक बार शुरू किए गए कार्य को (सफलता मिलने तक) कभी नहीं छोड़ते हैं।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः हिन्दी-अर्थाः
- प्रारभ्यते – कार्यस्य आरम्भः – शुरू किया जाता है
- विघ्नभयेन – बाधायाः भीत्या – बाधाओं के डर से
- नीचैः – अधमजनैः – निम्न श्रेणी के लोगों द्वारा
- विघ्नविहता – बाधा पीडिता – बाधाओं से दुःखी / रुका हुआ
- विरमन्ति – कार्यं त्यजन्ति – रुक जाते हैं/छोड़ देते हैं
- प्रतिहन्यमानाः – ताडिताः / बाधिताः – चोट खाए हुए / बाधित होने पर
- परित्यजन्ति – पूर्णतः त्यजन्ति – त्यागते हैं
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
पुनरपि – पुनः + अपि – विसर्गसन्धिः
चोत्तमजनाः – च + उत्तमजनाः – गुणसन्धिः
प्रारभ्यते – प्र + आरभ्यते – दीर्घसन्धिः
समास विग्रहः
शब्दः – विग्रहः – भेदः
विघ्नभयेन – विघ्नात् भयेन – पञ्चमीतत्पुरुषसमासः
विघ्नविहता – विघ्नैः विहताः – तृतीयातत्पुरुषसमासः
उत्तमजनाः – उत्तमाः च ते जनाः – कर्मधारयसमासः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
प्रारभ्य – प्र + आ + रभ् + ल्यप् – कृदन्तः
विहताः – वि + हन् +क्त – कृदन्तः
प्रतिहन्यमानाः – प्रति + हन् + शानच् – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
विघ्नः – अन्तरायः, बाधा, संकटम्
उत्तमः – श्रेष्ठः प्रवरः
नीचः – अधमः, पामरः
पुनः – भूयः, वारंवारम्
श्लोक: 6
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ।।6।। (पञ्चतन्त्रम्—मित्रभेदः – 141)
अन्वयः
लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति दैवेन देयम् इति (तु) कापुरुषाः वदन्ति, दैवं निहत्य पौरुषं कुरु, यत्ने कृते यदि ( कार्यं) न सिध्यति, (तर्हि ) अत्र कः दोषः (स्यात्) ?
भावार्थ:
अस्य श्लोकस्य भावः अस्ति यत् सफलतायै पुरुषार्थः (परिश्रमः) अनिवार्यः अस्ति । धनदेवी लक्ष्मीः अपि तमेव वीरं प्राप्नोति यः उद्योगी अस्ति। केवलं भीरवः आलसिनः च जनाः एव कथयन्ति यत् सर्वं भाग्येन प्राप्यते। अतः मनुष्येण भाग्यस्य चिन्तां विहाय पूर्णशक्तया परिश्रमः करणीय्ः। यदि कठोरपरिश्रमे कृते सत्यपि सफलता न लभ्यते, तर्हि तत्र कश्चित् दोषः नास्ति, यतः अस्माकं कर्त्तव्यं केवलं प्रयत्नः एव अस्ति ।
हिंदी अनुवाद
परिश्रमी और सिंह के समान पराक्रमी पुरुष के पास ही लक्ष्मी (सफलता और सम्पत्ति) स्वयं आती है। ‘भाग्य से ही मिलता है’, ऐसा तो कायर (डरपोक) लोग कहते हैं । अतः भाग्य पर निर्भरता को त्यागकर अपनी पूरी शक्ति से पुरुषार्थ (मेहनत) करो। यदि ईमानदारी से प्रयत्न करने के बाद भी कार्य सफल न हो, तो उसमें तुम्हारा कोई दोष नहीं है (क्योंकि तुमने अपना कर्त्तव्य पूर्ण किया) ।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- उद्योगिनम् – परिश्रमशीलम् – उद्यमी / परिश्रमी व्यक्ति को
- उपैति – प्राप्नोति / गच्छति – प्राप्त होती है / पास आती है
- दैवेन – भाग्येन – भाग्य के द्वारा
- कापुरुषाः – कातराः / अक्षमाः – कायर या डरपोक लोग
- निहत्य – दूरीकृत्य / त्यक्त्वा – त्यागकर / नष्ट करके
- पौरुषम् – पुरुषार्थम्/श्रमम् – पराक्रम / मेहनत
- सिध्यति – सफलं भवति – सफल होता है
- दैवम् – विधिः / भाग्यम्, देवस्य इदम् – भाग्य
- यत्ने – श्रमे – यत्न में
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
दैवं निहत्य – दैवम् + निहत्य – अनुस्वारसन्धिः
कोऽत्र – कः + अत्र – उत्व (विसर्ग) सन्धिः
पुरुषसिंहमुपैति – पुरुषसिंहम् + उपैति – व्यञ्जनसन्धिः
लक्ष्मीदैवेन – लक्ष्मी: + दैवेन – रुत्वसन्धिः
समास-विग्रहः
शब्द: – विग्रहः – भेदः
पुरुषसिंहम् – पुरुषः सिंहः इव – उपमितकर्मधारयसमासः
कापुरुषाः – कुत्सिताः पुरुषाः – प्रादि (कु) तत्पुरुषसमासः
आत्मशक्त्या – आत्मनः शक्त्या – षष्ठीतत्पुरुषसमासः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
उद्योगिनम् – उद्योग + इनि – तद्धितः
देयम् – दा + यत् – कृदन्तः
निहत्य – नि + हन् + ल्यप् – कृदन्तः
कृ – कृ + क्त – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
लक्ष्मीः – श्रीः, रमा, विष्णुप्रिया
दैवम् – भाग्यम्, नियतिः
पौरुषम् – उद्यमः, प्रयत्नः, श्रमः
दोष: – त्रुटि:, अपवादः
श्लोक: 7
पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् ।
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः ।। 7।। (मालविकाग्निमित्रम्-1.2)
अन्वयः
पुराणम् इति सर्वं साधु न (वर्तते), काव्यं नवम् इति अवद्यं न (वर्तते), सन्त: परीक्ष्य अन्यतरत् भजन्ते, मूढः परप्रत्ययनेयबुद्धिः (भवति)।
भावार्थ:
अस्य भावः अस्ति यत् केवलं पुरातनत्वात् किमपि वस्तु श्रेष्ठं न भवति, न च नूतनत्वात् किमपि काव्यं निन्दनीयं भवति । विद्वांसः स्वविवेकन परीक्ष्य श्रेष्ठं वस्तु गृह्णन्ति, परन्तु अज्ञानाः अन्येषां विचारेण एव भ्रमन्ति।
हिंदी अनुवाद
कोई भी वस्तु केवल पुरानी होने मात्र से अच्छी (सही) नहीं हो जाती और न ही कोई काव्य केवल नया होने के कारण बुरा (त्याज्य) हो जाता है। विद्वान लोग अपनी बुद्धि से परखकर ( परीक्षा करके) ही दोनों में से श्रेष्ठ को स्वीकार करते हैं, जबकि मूर्ख व्यक्ति दूसरों की बुद्धि या बहकावे पर निर्भर रहता है।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्था
- पुराणम् – प्राचीनम् – पुराना / प्राचीन
- साधु – सम्यक् / श्रेष्ठम् – अच्छा / उत्तम
- अवद्यम् – निन्दनीयम् / त्याज्यम् – निंदनीय / बुरा
- सन्तः – विद्वांसः / सज्जनाः – विद्वान / श्रेष्ठ पुरुष
- अन्यतरत् – द्वयोः एकम् – दोनों में से एक
- भजन्ते – गृणन्ति / भज – स्वीकार करते हैं / आश्रय लेते हैं
- मूढः – अज्ञानी / मूर्खः – मूर्ख व्यक्ति
- परप्रत्ययनेयबुद्धिः – परबुद्धया चालितः – दूसरों के विश्वास पर चलने वाली बुद्धि
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
पुराणमित्येव – पुराणम् + इति + एव – व्यञ्जन संयोग यण् सन्धिः च
चापि – च + अपि – दीर्घसन्धिः
नवमित्यवद्यम् – नवम् + इति + अवद्यम् – व्यञ्जनः संयोग यण् सन्धिः च
परीक्ष्यान्यतरत् – परीक्ष्य + अन्यतरत् – दीर्घसन्धिः
समास विग्रहः
शब्द: – विग्रहः – भेदः
परप्रत्ययनेयबुद्धिः – परेषां प्रत्ययेन नेया बुद्धिः यस्य सः – बहुव्रीहिसमासः
अवद्यम् – न वद्यम् इति – नञ् तत्पुरुषसमासः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
परीक्ष्य – परि + ईक्ष् + ल्यप् – कृदन्तः
नेय – नी + यत् – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
साधुः – भद्रम्, सुष्ठु
मूढः – बालिशः, अज्ञः
सन्तः – सज्जनाः, सुधियः
काव्यम् – पद्यम्, कृतिः
श्लोक : 8
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ।।8।। (किरातार्जुनीयम् – 2.30)
अन्वयः
पुराणम् इति सर्वं साधु न (वर्तते), काव्यं नवम् इति अवद्यं न (वर्तते), सन्त: परीक्ष्य अन्यतरत् भजन्ते, मूढः परप्रत्ययनेयबुद्धिः (भवति)।
भावार्थ:
अस्य भावः अस्ति यत् केवलं पुरातनत्वात् किमपि वस्तु श्रेष्ठं न भवति, न च नूतनत्वात् किमपि काव्यं निन्दनीयं भवति । विद्वांसः स्वविवेकन परीक्ष्य श्रेष्ठं वस्तु गृह्णन्ति, परन्तु अज्ञानाः अन्येषां विचारेण एव भ्रमन्ति।
हिंदी अनुवाद
कोई भी वस्तु केवल पुरानी होने मात्र से अच्छी (सही) नहीं हो जाती और न ही कोई काव्य केवल नया होने के कारण बुरा (त्याज्य) हो जाता है। विद्वान लोग अपनी बुद्धि से परखकर (परीक्षा करके) ही दोनों में से श्रेष्ठ को स्वीकार करते हैं, जबकि मूर्ख व्यक्ति दूसरों की बुद्धि या बहकावे पर निर्भर रहता है।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- सहसा – अकस्मात् – अचानक / बिना सोचे
- विदधीत – कुर्यात् – करना चाहिए
- अविवेक: – अज्ञानम् – बिना विचार के (विवेकहीनता)
- परमापदाम् – महतीनां विपत्तीनाम् – बड़ी विपत्तियों का
- विमृश्यकारिणम् – विचार्य कार्यं कुर्वन्तम् – सोच-समझकर कार्य करने वाले को
- वृणते – वरणं कुर्वन्ति – वरण करती हैं/चुनती हैं
- सम्पदः – धन-धान्यादयः – धन-दौलत/ संपत्तियाँ
- गुणलुब्धाः – गुणानाम् अभिलाषिणः, गुणेषु लुब्धा – गुण को चाहने वाले
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
परमापदाम् – परम + आपदाम् – दीर्घसन्धिः
स्वयमेव – स्वयम् + एव – व्यञ्जनसंयोगः
समास विग्रहः
शब्दः – विग्रहः – भेदः
अविवेक: – न विवेक: इति – नञ् तत्पुरुषसमासः
विमृश्यकारिणम् – विमृश्य कार्यं करोति यः तम् – उपपदतत्पुरुषसमासः
गुणलुब्धाः – गुणेषु लुब्धाः – सप्तमीतत्पुरुषसमासः
परमापदाम् – परमाः च ताः आपदः, तासाम् – कर्मधारयसमासः