By going through these Class 9 Sanskrit Notes and NCERT Class 9 Sanskrit Sharada Chapter 8 Hindi Translation Summary Explanation Notes अन्नाद् आनन्दं प्रति students can clarify the meanings of complex texts.
Sanskrit Class 9 Chapter 8 Hindi Translation अन्नाद् आनन्दं प्रति Summary
कक्षा 9 संस्कृत पाठ 8 हिंदी अनुवाद
Class 9 Sanskrit Chapter 8 Summary Notes अन्नाद् आनन्दं प्रति
अन्नाद् आनन्दं प्रति पाठ तैत्तिरीयोपनिषद् के ‘भृगु-वरुण’ संवाद पर आधारित है। इसमें पिता वरुण पुत्र भृगु को तप के माध्यम से ब्रह्म को जानने का मार्ग बताते हैं। भृगु क्रमशः अन्न, प्राण, मन और विज्ञान को ब्रह्म के रूप में जानते हैं। अंततः वे अनुभव करते हैं कि आनंद ही वास्तविक ब्रह्म है, क्योंकि समस्त जीवन का लक्ष्य और आधार आनंद ही है।

पाठस्य परिचय:
संस्कृतवाङ्मये उपनिषत् – साहित्यस्य विशिष्टं महत्त्वपूर्णं च स्थानम् अस्ति । उपनिषत्सु अनेके ज्ञानप्रदाः संवादाः सन्ति । तैत्तिरीयो पनिषदि समग्रजीवनविकासाय पञ्चकोषाणां महत्त्वं पितापुत्रसंवादरूपेण वर्णितम्। तादृशज्ञानप्रदसंवादानाम् अध्ययनेन बोधनेन च वयम् आत्मविकासं कर्तुं शक्नुमः। अस्मिन् पाठे वयम् पितापुत्रयोः भृगुवरुणयोः संवादं पठिष्यामः ।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- वाङ्मये – साहित्ये – साहित्य में
- ज्ञानप्रदाः – ज्ञानदायिनः – ज्ञान देने वाले
- संवादा: – कथोपकथनानि – बातचीत / चर्चाएँ
- समग्र – सम्पूर्ण – सारा / पूरा
- वर्णितम् – प्रतिपादितम् – बताया गया है
- बोधनेन – ज्ञानेन – समझने से
समास-विग्रहः
शब्द: – विग्रहः – भेदः
उपनिषत्-साहित्यस्य – उपनिषदाम् साहित्यस्य – षष्ठीतत्पुरुष:
पञ्चकोषाणाम् – पञ्चानां कोषाणां समाहारः – द्विगुसमासः
ज्ञानप्रदाः – ज्ञानं प्रददाति इति – उपपदतत्पुरुषः
जीवनविकासाय – जीवनस्य विकासाय – षष्ठीतत्पुरुषः
पितापुत्रसंवादरूपेण – पितापुत्रसंवादस्य रूपेण – तत्पुरुषः
आत्मविकासम् – आत्मनः विंकासम् – षष्ठीतत्पुरुषः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
तैत्तिरीयोपनिषदि – तैत्तिरीय + उपनिषदि – गुणसन्धिः
पितापुत्रयोर्भृगुवरुणयोः – पितापुत्रयोः + भृगुवरुणयोः – विसर्गसन्धिः
अध्ययनेन – अधि + अयनेन – यणसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
महत्त्वम् – महत् + त्व – तद्धितः
कर्तुम् – कृ + तुमुन् – कृदन्तः
वर्णितम् – वर्ण् + क्त – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्गः
विशिष्टम् – वि
संवादा: – सम्
उपनिषद् – उप + नि
अध्ययन – अधि
विकास – वि
विशेषण – विशेष्यः
विशिष्टम्, महत्त्वपूर्णम् – स्थानम्
अस्मिन् – पाठे
अनेके, ज्ञानप्रदाः – संवादा:
विपर्ययाः
शब्द: – विपर्ययः
विशिष्टम् – साधारणम् / सामान्यम्
अनेके – एक:
ज्ञानप्रदाः – अज्ञानप्रदाः
पुत्रः – पिता
विकासम् – विनाशम्
हिंदी अनुवाद
संस्कृत वाङ्मय (साहित्य) में उपनिषद् – साहित्य का विशिष्ट और महत्त्वपूर्ण स्थान है। उपनिषदों में अनेक ज्ञानवर्धक संवाद हैं। तैत्तिरीयोपनिषद् में संपूर्ण जीवन के विकास के लिए पाँच कोषों का महत्त्व पिता-पुत्र के संवाद के रूप में वर्णित है। इस प्रकार के ज्ञानवर्धक संवादों के अध्ययन और बोध (समझ) से हम आत्मविकास कर सकते हैं। इस पाठ में हम पिता-पुत्र भृगु और वरुण का संवाद पढ़ेंगे।
Class 9 Sanskrit Sharada Chapter 8 Hindi Translation
Sanskrit Class 9 Chapter 8 Hindi Anuvad – कक्षा 9 संस्कृत पाठ 8 हिंदी अनुवाद
नाट्यांश: 1
(एकदा ब्रह्मज्ञानाय तत्पर: वरुणस्य पुत्रः भृगुः सविनयं पितरं प्रति गत्वा निवेदयति)
भृगुः – अयि भोः पितः ! अभिवादयेऽहं सादरम् । भगवन् !
ब्रह्मविषये मयि काचिद् जिज्ञासा वर्तते । किं तद् ब्रह्म येन सर्वं जगदिदं सञ्चाल्यते? कृपया उपदिशतु ।
वरुणः – पुत्र! शुभं भूयात् । ब्रह्मज्ञानाय त्वया स्वयमेव अन्वेषणं क्रियताम्। यत्नः अभ्यासश्च क्रियेताम् । तपस्तप्यताम् । तपसैव ज्ञायते ।
हिंदी अनुवाद
(एक बार ब्रह्मज्ञान के लिए उत्सुक वरुण का पुत्र भृगु विनयपूर्वक पिता के पास जाकर निवेदन करता है)
भृगु – हे पिताजी! मैं आपको सादर प्रणाम करता हूँ। हे भगवन! मेरे मन में ब्रह्म के विषय में कुछ जानने की इच्छा (जिज्ञासा) है। वह ब्रह्म क्या है, जिसके द्वारा यह सारा संसार चलाया जाता है ? कृपया उपदेश दीजिए ।
वरुण – पुत्र! तुम्हारा कल्याण हो । ब्रह्मज्ञान के लिए तुम्हें स्वयं ही खोज करनी चाहिए। प्रयत्न और अभ्यास करना चाहिए। तपस्या करनी चाहिए। तपस्या से ही (ब्रह्म को) जाना जाता है।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- तत्परः – सन्नद्धः / उत्सुकः – तैयार या उत्सुक
- सविनयम् – विनयेन सहितम् – विनम्रतापूर्वक
- गत्वा – गमनं कृत्वा – जाकर
- अभिवादये – प्रणामं करोमि – प्रणाम करता हूँ
- जिज्ञासा – ज्ञातुम् इच्छा – जानने की इच्छा
- अन्वेषणम् – शोधम् – खोज
- यत्नः – प्रयास: – कोशिश / प्रयत्न
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
अभिवादयेऽहम् – अभिवादये + अहम् – पूर्वरूपसन्धिः
जगदिदम् – जगत् + इदम् – जश्त्वसन्धिः
अभ्यासश्च – अभ्यास: + च – विसर्ग (सत्व) सन्धिः
तपस्तप्यताम् – तपः + तप्यताम् – विसर्ग (सत्व) सन्धिः
तपसैव – तपसा + एव – वृद्धिसन्धिः
समास विग्रहः
शब्दः – विग्रहः – भेदः
ब्रह्मज्ञानाय – ब्रह्मण: ज्ञानाय – षष्ठीतत्पुरुषः
सविनयम् – विनयेन सहितम् – अव्ययीभावसमासः
सादरम् – आदरेण सहितम् – अव्ययीभावसमासः
ब्रह्मविषये – ब्रह्मणः विषये – षष्ठीतत्पुरुषः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
गत्वा – गम् + क्त्वा – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्गः
निवेदयति – नि
अभिवादये – अभि
सञ्चाल्यते – सम्
उपदिशतु – उप
अन्वेषणम् – अनु
अभ्यासः – अभि
विशेषण – विशेष्यः
तत्परः – भृगुः
सर्वम् – जगत्
वरुणस्य – पुत्रः
इदम् – जगत्
काचित् – जिज्ञासा
विपर्ययाः
शब्द: – विपर्ययः
सादरम् – निरादरम्
स्वयम् – अपरः
गत्वा – आगत्वा
यत्नः – आलस्यम्
शुभम् – अशुभम्

नाट्यांश: 2
भृगुः – अस्तु तात !
(ततो भृगुः अनेकवर्षाणि तप आचरति । तपस्तप्त्वा पुनः पितरं निकषा गच्छति । पिता तं पृच्छति )
वरुणः – अयि पुत्र ! त्वया किं ज्ञातम् ?
भृगुः – भोः पितः ! अन्नं वै ब्रह्म इति ।
वरुणः – कथम् अन्नं ब्रह्मरूपेण ज्ञातम् ?
भृगुः – हे पितः! अन्नाद् एव प्राणिनः जायन्ते । अन्नेन एव प्राणिनः जीवन्ति। अन्नेनैव शरीरं बलं च वर्धेते। अतोऽन्नं ब्रह्म इति। उच्यते हि
आहारात् सर्वभूतानि सम्भवन्ति महीपते ।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥

अन्वयः
महीपते आहारात् सर्वभूतानि सम्भवन्ति आहारेण विवर्धन्ते तेन जन्तवः जीवन्ति ।
भावार्थ:
अस्मिन् संसारे सर्वे प्राणिनः आहारादेव उत्पद्यन्ते । आहारेणैव तेषां शारीरिकं वर्धनं भवति तथा च सर्वे जीवाः भोजनस्य आधारेणैव जीवितुं समर्थाः भवन्ति। अतः जीवनरक्षणाय आहारः अनिवार्यः अस्ति ।
हिंदी अनुवाद
भृगु – ठीक है पिताजी!
(उसके बाद भृगु अनेक वर्षों तक तपस्या करता है । तप कर पुनः पिता के समीप जाता है। पिता उससे पूछत हैं)
वरुण – हे पुत्र ! तुम्हारे द्वारा क्या जाना गया अर्थात् तुमने क्या ज्ञान प्राप्त किया?
भृगु – हे पिताजी! अन्न ही ब्रह्म है, ऐसा ( ैंने जाना) ।
वरुण – (तुमने) कैसे अन्न को ब्रह्म के रूप में जाना ?
भृगु – हे पिताजी! अन्न से ही प्राणी उत्पन्न होते हैं । अन्न से ही प्राणी जीवित रहते हैं । अन्न से ही शरीर और बल बढ़ता है। इसलिए अन्न ब्रह्म है जैसा कि कहा गया है। “आहार (अन्न) से ही सभी प्राणी उत्पन्न होते हैं। आहार से ही वे बढ़ते हैं और उसी (आहार) से सभी जीव जीवित रहते हैं ।”
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्था
- तात! – पितः ! – पिताजी!
- आचरति – करोति – करता है
- निकषा – समीपम् – निकट / पास
- अन्नम् – अन्नम् – अन्न
- महीपते – हे राजन् – हे पृथ्वी के स्वामी (संबोधन)
- विवर्धन्ते – वृद्धं प्राप्नुवन्ति – बढ़ते हैं / विकसित हेते हैं
- ब्रह्मा – परमात्मा / ईश्वरः – परमात्मा
- सम्भवन्ति – जायन्ते – उत्पन्न होते हैं
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
तपस्तप्त्वा – तपः + तप्त्वा – विसर्ग (सत्व) सन्धिः
अतोऽन्नम् – अतः + अन्नम् – विसर्गसन्धिः
अन्नाद् एव – अन्नात् + एव – जश्त्वसन्धिः
अन्नेनैव – अन्नेन + एव – वृद्धिसन्धिः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
तपस्तप्त्वा – तपः + तप्त्वा – विसर्ग (सत्व) सन्धिः
अतोऽन्नम् – अतः + अन्नम् – विसर्गसन्धिः
अन्नाद् एव – अन्नात् + एव – जश्त्वसन्धिः
अन्नेनैव – अन्नेन + एव – वृद्धिसन्धिः
समास-विग्रहः
शब्द: – विग्रहः – भेदः
अनेकवर्षाणि – न एकानि वर्षाणि – नञ्तत्पुरुषः
ब्रह्मरूपेण – ब्रह्मणः रूपेण – षष्ठीतत्पुरुषः
सर्वभूतान – सर्वाणि च तानि भूतानि – कर्मधारयसमासः
महीपते – महीं पाति इति सः – उपपदतत्पुरुषः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
तप्त्वा – तप् + क्त्वा – कृदन्तः
ज्ञातम् – ज्ञा + क्त – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्गः
आचरति – आ
विवर्धन्ते – वि
सम्भवन्ति – सम्
विशेषण – विशेष्यः
विशेषण – विशेष्य
अन्नं – ब्रह्म
विपर्ययाः
शब्दः – विपर्ययः
अनेके – एकः
बलम् – दौर्बल्यम्
पुनः – प्रथमवारम्
जीवन्ति – नश्यन्ति
जायन्ते – म्रियन्ते
नाट्यांश: 3
वरुणः – पुत्र! त्वया सम्यग् अवबुद्धम् । अत उच्यते- अन्नं हि भूतानां ज्येष्ठम्। तस्मात् (अन्नं) सर्वौषधम् इति उच्यते । अतः कदापि अन्नं न निन्द्यात् । अन्नं सदा ईश्वरबुद्ध्या सेवताम्। कदापि अन्नं न परिहर्तव्यम् । प्रयत्नेन अन्नं बहु कुर्वीत। सर्वदा सात्त्विकं हितकारकं च आहारं सेवताम्, परं च हे वत्स! ब्रह्म ज्ञातुम् इतोऽपि यतताम् । तपः कुरुताम् ।
भृगुः – अस्तु तात!
(पुनः भृगुः पर्वतं गत्वा बहूनि वर्षाणि तप आचरति । तपस्तप्त्वा पितुः समीपं गच्छति । आगतं पुत्रं दृष्ट्वा पिता पृच्छति )
वरुणः – हे पुत्र ! तपसा त्वया किं ज्ञातम् ?
हिंदी अनुवाद
वरुण – पुत्र ! तुमने सही समझा है। अतः कहा जाता है— अन्न ही जीवों में श्रेष्ठ है। इसलिए (अन्न को) ‘सर्वोषध’ (सभी रोगों की दवा) कहा जाता है। अतः कभी भी अन्न की निंदा नहीं करनी चाहिए। अन्न का सेवन हमेशा ईश्वर की बुद्धि से (प्रसाद मानकर) करना चाहिए। कभी भी अन्न का त्याग नहीं करना चाहिए। प्रयत्नपूर्वक अन्न की वृद्धि करनी चाहिए । हमेशा सात्विक और हितकारी आहार का सेवन करना चाहिए, लेकिन हे वत्स! ब्रह्म को जानने के लिए इससे भी अधिक प्रयत्न करो । तप करो ।
भृगु – ठीक है, पिताजी!
(पुनः भृगु पर्वत पर जाकर बहुत वर्षों तक तप करता है। तप करके पिता के पास जाता है। आए हुए पुत्र को देखकर पिता पूछते हैं)।
वरुण – हे पुत्र ! तप से तुमने क्या जाना?
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- अवबुद्धम् – ज्ञातम् – समझ लिया / जान लिया
- भूतानाम् – प्राणिनाम् – प्राणियों का / जीवों का
- ज्येष्ठम् – श्रेष्ठम् / प्रथमम् – सबसे बड़ा / श्रेष्ठ
- निन्द्यात् – तिरस्कारं कुर्यात् – निंदा करनी चाहिए
- परिहर्तव्यम् – त्यागं कर्तव्यम् – छोड़ना चाहिए / त्यागना चाहिए
- तात – पित: – पिताजी
- समीपम् – पार्श्वम् – पास में
- कुर्वीत – कुर्यात् – करना चाहिए
समास-विग्रहः
शब्द: – विग्रहः – भेदः
सर्वौषधम् – सर्वासां ओषधीनां समाहारः औषधियों का समूह – द्विगुः
ईश्वरस्य बुद्धया – ईश्वरबुद्धया – षष्ठीतत्पुरुषः
हितकारकम् – हितं करोति इति तम् – उपपदतत्पुरुषः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
इत्युच्यतेः – इति + उच्यते – यण्सन्धिः
इतोऽपिः – इतः + अपि – विसर्गसन्धिः
सर्वौषधम् – सर्व + औषधम् – वृद्धिसन्धिः
तपस्तप्त्वाः – तपः + तप्त्वा – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
अवबुद्धम् – अव् + बुध् + क्त – कृदन्तः
परिहर्तव्यम् – परि + ह् + तव्यत् – कृदन्तः
गत्वा – गम् + क्त्वा – कृदन्तः
तप्त्वा – तप् + क्त्वा – कृदन्तः
ज्ञातुम् – ज्ञा + तुमुन् – कृदन्तः
आगतम् – आ + गम् + क्त – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्गः
अवबुद्धम् – अव
परिहर्तव्यम् – परि
प्रयत्नेन – प्र
समीपम् – सम्
आगतम् – आ
विशेषण-विशेष्यः
विशेषण – विशेष्य
ज्येष्ठम् – अन्नम्
सात्त्विकम् – आहारम्
हितकारकम् – आहारम्
बहूनि – वर्षाणि
आगतं – पुत्रं
विपर्ययाः
शब्द: – विपर्यययः
ज्येष्ठम् – कनिष्ठम्
समीपम् – दूरम्
हितकारकम् – अहितकारकम्

नाट्यांश: 4
भृगुः – हे पितः ! प्राणो वै ब्रह्म इति ।
वरुणः – हे भृगो ! कथं प्राणो ब्रह्म इति ज्ञातम् ?
भृगुः – हे भगवन्!
प्राणो हि भूतानाम् आयुः । प्राणे शरीरं प्रतिष्ठितम्। प्राण एव अस्माकं जीवनम् । प्राणेन विना शरीरं क्रियाशून्यं भवति। अतः प्राणो ज्येष्ठः श्रेष्ठश्च । तस्मात् प्राणो वै ब्रह्म इति विज्ञातम् ।
वरुणः – पुत्र! त्वया सत्यम् उदीरितम् । प्राणाद् एव इमानि भूतानि जायन्ते ।
प्राणेन जातानि जीवन्ति । प्राणशक्त्या एव शारीरिकक्रियाशक्तेर्विकासो भवति । अत एव प्राणः सर्वथा रक्षणीयः। तस्मात् प्राणविकासाय प्रतिदिनं प्राणायामः कर्त्तव्यः। उक्तं हि
यावद् वायुः स्थितो देहे तावज्जीवनमुच्यते।
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत्॥
पुत्र! – भवान् तपसा प्राणतत्त्वस्य महत्त्वं ज्ञातवान्, किन्तु ब्रह्मज्ञानाय इतोऽपि कठोरं तपः कुरुताम

हिंदी अनुवाद
भृगु – हे पिता ! प्राण ही ब्रह्म है।
वरुण – हे भृगु ! तुमने यह कैसे जाना कि प्राण ब्रह्म हैं ?
भृगु – हे भगवन!
वरुण – “प्राण ही प्राणियों की आयु है । शरीर प्राण में ही स्थित है।”
प्राण ही हमारा जीवन है। प्राण के बिना शरीर क्रियाशून्य (जड़) हो जाता है। अतः प्राण ज्येष्ठ (सबसे बड़ा) और श्रेष्ठ है। इसलिए मैंने जाना कि प्राण ही ब्रह्म है।
वरुण – पुत्र ! तुमने सत्य कहा है। प्राण से ही ये सभी प्राणी उत्पन्न होते हैं। प्राण से ही उत्पन्न होकर जीवित रहते हैं। प्राणशक्ति से ही शारीरिक क्रियाशक्ति का विकास होता है। अतः प्राण की सर्वथा (हमेशा) रक्षा करनी चाहिए। इसलिए प्राणों के विकास के लिए प्रतिदिन प्राणायाम करना चाहिए, कहा गया है
“जब तक शरीर में वायु (प्राण) स्थित है, तब तक जीवन कहलाता है। शरीर से उसका (वायु का निकल जाना ही मृत्यु है। अतः वायु (प्राण) को रोकना चाहिए अर्थात् प्राणायाम द्वारा उसे नियंत्रित करना चाहिए।”
वरुण – पुत्र! तुमने तपस्या से प्राणतत्त्व का महत्त्व जान लिया है, किंतु ब्रह्मज्ञान के लिए इससे भी अधिक कठोर तप करो।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- प्रतिष्ठितम् – स्थितम् – टिका हुआ / स्थित
- क्रियाशून्यम् – निष्क्रियम् – चेतनाहीन / जड़
- उदीरितम् – कथितम्/उक्तम् – कहा गया
- जायन्ते – उत्पद्यन्ते – उत्पन्न होते हैं
- रक्षणीयः – रक्षा करणीया – रक्षा करने योग्य
- निष्क्रान्तिः – बहिर्गमनम् – बाहर निकल जाना
- निरोधयेत् – नियन्त्रणं कुर्यात् – रोकना चाहिए / वश में करना चाहिए
समास विग्रहः
शब्दः – विग्रहः – भेदः
प्राणशक्तया – प्राणानं शक्त्या – षष्ठीतत्पुरुषः
क्रियाशून्यम् – क्रियाभिः शून्यम् – तृतीयतत्पुरुषः
प्राणतत्त्वस्य – प्राणः एव तत्त्वम्, तस्य – कर्मधारयः
प्रतिदिनम् – दिनं दिनं प्रति – अव्ययीभावः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
प्राणो वै – प्राणः + वै – विसर्ग (उत्व) सन्धिः
श्रेष्ठश्च – श्रेष्ठः + च – विसर्ग (सत्व) सन्धिः
प्राणादेव – प्राणात् + एव – जश्त्वसन्धिः
तावज्जीवनम् – तावत् + जीवनम् – श्चुत्वसन्धिः
इतोऽपि – इतः + अपि – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
ज्ञातम् – ज्ञा + क्त – कृदन्तः
रक्षणीयः – रक्ष् + अनीयर् – कृदन्तः
कर्त्तव्यः – कृ + तव्यत् – कृदन्तः
ज्ञातवान् – ज्ञा + क्तवतु – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्गः
प्रतिष्ठितम् – प्रति
निष्क्रान्तिः – निस्
उदीरितम् – उत्
विशेषण-विशेष्यः
विशेषण – विशेष्य
इमानि – भूतानि
क्रियाशून्यं – शरीरं
कठोरं – तपः
विपर्ययाः
शब्दः – विपर्ययः
सत्यम् – असत्यम्
श्रेष्ठः – कनिष्ठ:
मरणम् – जीवनम्
अन्वयः
यावद् देहे वायुः स्थितः तावत् जीवनम् उच्यते तस्य निष्क्रान्ति । मरणम् तत: वायुं निरोधयेत्।
भावार्थ:
अस्य श्लोकस्य भावः अस्ति यत् शरीरस्य प्राणवायुः एव जीवनस्य आधार : अस्ति । यावत्पर्यन्तं शरीरे श्वासः प्रचलति तावत्पर्यन्तमेव मनुष्यः जीवितः कथ्यते। श्वासस्य बहिर्गमनमेव मृत्युः अस्ति । अतः स्वास्थ्यरक्षणाय आयुवृद्धये च प्रतिदिनं प्राणायामः करणीयः येन प्राणवायुः नियन्त्रितः भवेत् ।
नाट्यांश: 5
भृगुः – अस्तु पितः !
(सः पुनः बहुकालं यावद् वनं गत्वा तपश्चर्यां कुरुते । तपस्तप्त्वा प्रसन्नवदनो वरुणं निकषा प्राप्नोति, वरुणः भृगुं पृच्छति)
वरुणः – हे पुत्र! त्वया तपसा किं ज्ञातम् ?
भृगुः – हे तात! मया तपसा मनो वै ब्रह्म इति ज्ञातम् ।
वरुणः – पुत्र! कथं मनो वै ब्रह्म इति ?
भृगुः – हे पितः! मया तपसा एवम् अनुभूतं यद् अस्माकं मन एव सर्वकर्मणः प्रवर्तकम्। समस्तानि इन्द्रियाणि अपि मनसा सञ्चाल्यन्ते। मानवः मनसा एव सर्वं कार्यं सम्पादयति । मनसः सङ्कल्पाः, भावाः, विचाराश्च जायन्ते । अतो मनो वै ब्रह्म इति।
हिंदी अनुवाद
भृगु – ठीक है, पिताजी!
(वह पुन: बहुत समय तक वन में जाकर तपस्या करता है। तप करके प्रसन्न मुख वाले भृगु, वरुण के पास पहुँचता है, वरुण भृगु से पूछते हैं)
वरुण – हे पुत्र ! तुमने तपस्या से क्या जाना?
भृगु – हे पिता! मैंने तपस्या से जाना कि मन ही निश्चित रूप से ब्रह्म है।
वरुण – पुत्र ! मन ब्रह्म कैसे है?
भृगु – हे पिता ! मैंने तपस्या से ऐसा अनुभव किया कि हमारा मन ही सभी कर्मों को प्रेरित करने वाला है । समस्त इंद्रियाँ भी मन के द्वारा ही संचालित होती हैं। मानव मन से ही संपूर्ण कार्य संपन्न होता है। मन से ही संकल्प, भाव और विचार उत्पन्न होते हैं। इसलिए मन ही ब्रह्म है।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- बहुकालम् – सुदीर्घसमयम् – लंबे समय तक
- प्रसन्नवदनः – प्रफुल्लमुखः – खुश मुख वाला
- निकषा – समीपम् – पास
- प्रवर्तकम् – प्रेरणादायकम् – प्रेरणा देने वाला
- सञ्चाल्यन्ते – चालिताः भवन्ति – चलाए जाते हैं
- सम्पादयति – पूर्णं करोति – पूरा करता है
समास-विग्रहः
शब्दः – विग्रहः – भेदः
तपश्वर्याम् – तपसः चर्याम् – षष्ठीतत्पुरुषः
प्रसन्नवदनो – प्रसन्नं वदनं यस्य सः – बहुव्रीहिसमासः
सर्वकर्मणः – सर्वेषां कर्मणाम् – कर्मधारयः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
तपस्तप्त्वा – तपः + तप्त्वा – विसर्ग (सत्व) सन्धिः
तपश्चर्याम् – तपः + चर्याम् – विसर्गसन्धिः
मनोवै – मन: + वै – विसर्गसन्धिः
विचाराश्च – विचारा: + च – विसर्ग (सत्व) सन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
गत्वा – गम् + क्त्वा – कृदन्तः
तप्त्वा – तप् + क्त्वा – कृदन्तः
ज्ञातम् – ज्ञा + क्त – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्गः
प्रसन्नः – प्र
प्राप्नोति – प्र
अनुभूतम् – अनु
सञ्चाल्यन्ते – सम्
सम्पादयति – सम्
विशेषण- विशेष्यः
प्रसन्नवदनो – भृगुः (अध्याहृत)
समस्तानि – इन्द्रियाणि
बहुकालम् – समयम् (यावद्)
सर्वम् – कार्यम्
विपर्ययाः
शब्द: – विपर्ययः
प्रसन्नः – खिन्नः/ अप्रसन्नः
सर्वम् – अल्पम्
जायन्ते – म्रियन्ते

नाट्यांश: 6
वरुणः हे वत्स! त्वया सम्यग् अनुभूतं यद् मन एव सर्वमिति । अत उपनिषदि उच्यते
कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा ।
धृतिरधृतिर्हीर्धीर्भीरित्येतत् सर्वं मन एव ।।
वत्स! मानवः चिन्तनशक्त्या मननशक्त्या दृढसङ्कल्पशक्त्या च सर्वं लब्धुं शक्नोति । अतो मनसः शक्तिप्राप्तये मनः सदा सत्कर्मणा साधनीयम् । शोकादिरहितम् उत्साहयुक्तं शान्तं च करणीयम् । आहारशुद्धिश्च करणीया । किञ्च हे पुत्र ! ब्रह्मज्ञानाय इतोऽपि प्रयतस्व।
भृगुः – अस्तु श्रीमन्!
(पुनः भृगुः बहुकालं यावत् कठोरं तपः कुरुते तपः कृत्वा पितुः समीपं प्राप्नोति, पिता तं पृच्छति)
वरुणः – हे भृगो! तपसा किम् अनुभूतम् ?
भृगुः – हे पितः! मया तपसा सूक्ष्मज्ञानेन च इदं ज्ञातं यद् विज्ञानं वै ब्रह्म इति।
हिंदी अनुवाद
वरुण – हे वत्स! तुमने सही अनुभव किया है कि मन ही सब कुछ है। कहा जाता है “काम (इच्छा), संकल्प, विचिकित्सा (संदेह), श्रद्धा, अश्रद्धा, धैर्य, अधैर्य, लज्जा, बुद्धि और भय – (यह) सब कुछ मन ही है ।”
वत्स! मानव चिंतन की शक्ति से, मनन की शक्ति से और दृढ़ संकल्प की शक्ति से सब कुछ प्राप्त हो सकता है । इसलिए मन की शक्ति प्राप्त करने के लिए मन को हमेशा सत्कर्म (अच्छे कार्यों) के द्वारा साधने योग्य बनाना चाहिए। मन को शोक आदि से रहित, उत्साह से युक्त और शांत करना चाहिए। आहार की शुद्धि भी करनी चाहिए। और भी हे पुत्र! ब्रह्मज्ञान के लिए इसके बाद भी प्रयत्न करो ।
भृगु – वैसा ही हो श्रीमान !
(पुनः भृगु बहुत समय तक कठोर तप करते हैं, तप करके पिता के पास पहुँचते हैं, पिता उनसे पूछते हैं)
वरुण – हे भृगु ! तपस्या से क्या अनुभव किया?
भृगु – हे पिता ! मैंने तपस्या और सूक्ष्म ज्ञान से यह जाना कि ‘विज्ञान ही ब्रह्म है।’
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- विचिकित्सा – संशयः/सन्देहः – संदेह या शक
- धृतिः – धैर्यम् – धीरज/धैर्य
- ह्रीं – लज्जा – शर्म/संकोच
- धी: – बुद्धिः – समझ / बुद्धि
- लब्धुम् – प्राप्तुम् – प्राप्त करने के लिए
- साधनीयम् – अभ्यासयोग्यम् – वश में करने योग्य
- कञ्च – अपि च – और भी / इसके अतिरिक्त
- कामः – इच्छा – इच्छा
- श्रृद्धा – आदरः – निष्ठा
समास-विग्रहः
शब्द: – विग्रहः – भेदः
सत्कर्मणा – सत् च तत् कर्म तेन – कर्मधारयसमासः
शोकादिरहितम् – शोकादिभिः रहितम् – तृतीयतत्पुरुषः
आहारशुद्धिः – आहारस्य शुद्धिः – षष्ठीतत्पुरुषः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
श्रद्धाऽश्रद्धा – श्रद्धा + अश्रद्धा – दीर्घसन्धिः
इत्येतत् – इति + एतत् – यणसन्धिः
पुनर्भृगुः – पुनः + भृगुः – विसर्गसन्धिः
इतोऽपि – इतः + अपि – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
अनुभूतम् – अनु + भू + क्त – कृदन्तः
लब्धुम् – लभ् + तुमुन् – कृदन्तः
साधनीयम् – साध् + अनीयर् – कृदन्तः
करणीयम् – कृ + अनीयर् – कृदन्तः
कृत्वा – कृ + क्त्वा – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्गः
अनुभूतम् – अनु
प्रयत्स्व – प्र
प्राप्नोति – प्र
विशेषण – विशेष्यः
विशेषण – विशेष्य
दृढ़म् – सङ्कल्पम्
उत्साहयुक्तम् – मनः
सर्वं – मनः
कठोरं – तपः
विपर्ययाः
शब्दः – विपर्ययः
श्रद्धा – अश्रद्धा
धृतिः – अधृतिः
शान्तम् – अशान्तम्
सत्कर्म – दुष्कर्म
अन्वयः
काम:, संकल्प:, विचिकित्सा, श्रद्धा, अश्रद्धा, धृतिः, अधृतिः, ह्रीः, धीः, भीः इति एतत् सर्वं मनः एव (अस्ति) ।
भावार्थ:
काम:, सङ्प:, विचिकित्सा, श्रद्धा अश्रद्धा, धृति, अधृतिः, ह्री:, धी:, भी:- एता सर्वाः भावना: मनसः एव कार्याणि सन्ति अर्थात् मन एव एतेषां सर्वेषां भावनां मूलं कारणं च अस्ति ।
नाट्यांश: 7
वरुणः – पुत्र! किं नाम विज्ञानम् ?
भृगुः – हे भगवन्! बुद्धितत्त्वमेव विज्ञानम् ।
वरुणः – पुत्र! कथं विज्ञानं (बुद्धितत्त्वम्) ब्रह्म इति विज्ञातम् ?
भृगुः – हे पितः। बुद्धितत्त्वं विना अस्माकं बोधशक्तेः, तर्कशक्तेः, विवेकशक्तेः, निर्णयशक्तेः, स्मृतिशक्तेश्च विकासो न भवति। बुद्धिरेव सारथिरूपेण अस्मान् कर्मणि प्रवर्तयति । समग्रज्ञानं बुद्धौ एव विद्यते । अत एव विज्ञानं वै ब्रह्म इति ।
वरुणः – पुत्र! सत्यं भाषसे । अतः बौद्धिकविकासाय विज्ञानमयकोषस्य विकासः कर्त्तव्यः । तदर्थं प्रतिदिनं ध्यानं योगासनं च कर्तव्यम्। किञ्च यदि ब्रह्मणः स्वरूपं वेत्तुम् इच्छति तर्हि इतोऽपि प्रयतताम्, अन्विष्यतां च।

हिंदी अनुवाद
वरुण – पुत्र ! विज्ञान का क्या अर्थ है ?
भृगु – हे भगवन ! बुद्धि-तत्त्व ही विज्ञान है ।
वरुण – पुत्र ! तुमने कैसे जाना कि विज्ञान (बुद्धि – तत्त्व) ही ब्रह्म है?
भृगु – हे पिता ! बुद्धि-तत्त्व के बिना हमारी बोधशक्ति, तर्कशक्ति, विवेकशक्ति, निर्णयशक्ति और स्मृतिशक्ति का विकास नहीं होता । बुद्धि ही सारथी के रूप में हमें कर्मों में प्रवृत्त करती है। संपूर्ण ज्ञान बुद्धि में ही विद्यमान होता है। इसलिए विज्ञान (बुद्धि) ही निश्चित रूप से ब्रह्म है।
वरुण – पुत्र ! तुम सत्य कह रहे हो । अतः बौद्धिक विकास के लिए विज्ञानमय कोष का विकास करना चाहिए। उसके लिए प्रतिदिन ध्यान और योगासन करना चाहिए। और क्या, यदि ब्रह्म के (वास्तविक) स्वरूप को जानना चाहते हो, तो इसके लिए और भी प्रयत्न करो और खोज करो ।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- बोधशक्तिः – ज्ञानशक्तिः – समझने की शक्ति
- सारथिरूपेण – मार्गदर्शकरूपेण – सारथी के रूप में
- विद्यते – अस्ति – विद्यमान है
- भाषसे – कथयसि – बोलते हो
- अन्विष्यताम् – अन्वेषणं क्रियताम् – खोज करो
- वेत्तुम् – ज्ञातुम् – जानने के लिए
- विज्ञानम् – बुद्धिः – बुद्धि
समास-विग्रहः
शब्द: – विग्रहः – भेदः
बुद्धितत्त्वम् – बुद्धेः तत्त्वम् – षष्ठीतत्पुरुषः
सारथिरूपेण – सारथेः रूपेण – षष्ठीतत्पुरुषः
विज्ञानमयकोषस्य – विज्ञानमयः च असौ कोषः, तस्य कर्मधारयः
बौद्धिकविकासाय – बौद्धिकस्य विकासाय – कर्मधारयः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
स्मृतिशक्तोशच – स्मृतिशक्तेः + च – विसर्ग (सत्व) सन्धिः
बुद्धिरेव – बुद्धिः + एव – विसर्गसन्धिः
विज्ञानं वै – विज्ञानम् + वै – अनुस्वारसन्धिः
इतोऽपि – इतः + अपि – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
विज्ञातम् – वि + ज्ञा + क्त – कृदन्तः
कर्त्तव्यम् – कृ + तव्यत् – कृदन्तः
वेत्तुम् – विद् + तुमुन् – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्गः
विकासः – वि
प्रवर्तयति – प्र
प्रतिदिनम् – प्रति
अन्विष्यताम् – अनु
विशेषण – विशेष्यः
समग्रम् – ज्ञानम्
विपर्ययाः
शब्द: – विपर्ययः
सत्यम् – असत्यम्
विकास: – ह्रासः/पतनम्
स्मृतिः – विस्मृतिः
नाट्यांश: 8
भृगुः – अस्तु श्रीमन् !
(भृगुः पुनः बहुकालं यावत् तपश्चर्यां करोति।
तपस्तप्त्वा प्रसन्नमुखेन पितुः निकटे समुपस्थितो भवति ।)
वरुणः – भोः वत्स। तपसा त्वया कि विज्ञातम्?
भृगुः – हे भगवन्! अत्यन्तं सूक्ष्मचिन्तनेन तपसा च मया एवम् अवबुद्धम् आनन्दो वै ब्रह्म इति ।
वरुणः – हे पुत्र! कथम् आनन्दो वै ब्रह्म इति?
भृगुः – हे पितः ! अस्माकं सर्वकर्माणि आनन्दाय भवन्ति । अस्माकं कर्मणो लक्ष्यम् आनन्दप्राप्तिरेव । आनन्देन एव प्राणिनो जीवन्ति। आनन्देन रहितं जीवनं मृत्युरूपमिति । तस्मात् आनन्दो वै ब्रह्म इति ।
हिंदी अनुवाद
भृगु – वैसा ही हो श्रीमान !
(भृगु पुन: लंबे समय तक तपस्या करता है । तप करके प्रसन्न मुख के साथ पिता के पास उपस्थित होता है |)
वरुण – हे वत्स! तपस्या से तुमने क्या विशेष रूप से जाना ?
भृगु – हे भगवन्! अत्यंत सूक्ष्म चिंतन और तपस्या से मैंने यह जान लिया है कि आनंद ही निश्चित रूप से ब्रह्म है।
वरुण – पुत्र! आनंद ब्रह्म कैसे है ?
भृगु – हे पिता! हमारे सभी कार्य आनंद के लिए ही होते हैं। हमारे कर्मों का लक्ष्य आनंद की प्राप्ति ही है। आनंद से ही सभी प्राणी जीवित रहते हैं। आनंद से रहित जीवन मृत्यु के समान है। इसलिए आनंद ही ब्रह्म है।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- तपश्चर्याम् – तपः आचरणम् – तपस्या का आचरण
- प्रसन्नमुखेन – प्रफुल्लवदनेन – खुश चेहरे से
- विज्ञातम् – विशेषरूपेण ज्ञातम् – विशेष रूप से जाना
- सूक्ष्मचिन्तनेन – गम्भीरमनेन – गहरे या बारीक चिंतन से
- प्राप्तिरेव – लब्धिः एव – मिलना या प्राप्त होना ही
- मृत्युरूपमिति – मरणतुल्यम् – मृत्यु के समान
समास-विग्रहः
शब्द: – विग्रहः – भेदः
तपश्चर्याम् – तपसः चर्याम् – षष्ठीतत्पुरुषः
प्रसन्नमुखेन – प्रसन्नं मुखं यस्य सः, तेन – बहुव्रीहिसमासः
सूक्ष्मचिन्तनेन – सूक्ष्मं च तत् चिन्तनम् तेन – कर्मधारयसमासः
आनन्दप्राप्तिः – आनन्दस्य प्राप्तिः – षष्ठीतत्पुरुषः
मृत्युरूपम् – मृत्योः रूपम् – षष्ठीतत्पुरुषः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
तपस्तप्त्वा – तपः + तप्त्वा – विसर्ग: (सत्व) सन्धिः
समुपस्थितो भवति – समुपस्थितः + भवति – विसर्ग: (उत्व) सन्धिः
मयैवम् – मया + एवम् – वृद्धिसन्धिः
आनन्दो वै – आनन्दः + वै – विसर्ग (उत्व) सन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
तप्त्वा – तप् +क्त्वा – कृदन्तः
उपस्थितः – उप + स्था + क्त – कृदन्तः
विज्ञातम् – वि + ज्ञा + क्त – कृदन्तः
अवबुद्धम् – अव + बुध् + क्त – कृदन्तः
प्राप्तिः – प्र + आप् + क्तिन् – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्गः
विज्ञातम् – वि
अवबुद्धम् – अव
सम्पादयति – सम्
समुपस्थित – सम् + उप
विशेषण – विशेष्यः
सर्वाणि – कर्माणि
विपर्ययाः
शब्द: – विपर्ययः
आनन्दः – शोकः / कष्टम्
मृत्युः – जीवनम्
सहितम् – रहितम्
नाट्यांश: 9
वरुणः – हे वत्स! त्वया सत्यं प्रकटितम्। अतः आनन्दप्राप्तये प्रतिदिनं ध्यानं योगासनं च कर्त्तव्यम् । प्राणिषु दया कर्त्तव्या । परोपकारः कर्त्तव्यः । राग, द्वेष, ईर्ष्या, क्रोध, लोभः, मोहश्च हातव्याः। सर्वदा ईश्वरं सेवतां मोदतां च ।
भृगुः – अस्तु श्रीमन्! तथैव आचरामि।
वरुणः – हे पुत्र! त्वं तपसा सूक्ष्मविज्ञानेन च अन्नस्य, प्राणस्य, मनसः, विज्ञानस्य, आनन्दस्य च महत्त्वं ज्ञातवान् । एतैः पञ्चभिरेव अस्माकं पूर्णविकासो भवति, अतः एते ब्रह्मपदेन व्यवह्रियन्ते। ब्रह्मणः स्वरूपं तु ततोऽपि परे अस्ति । एतानि ब्रह्मज्ञानाय द्वाराणि सन्ति । यदि एतेषां क्रमशो विकासं करिष्यसि तर्हि ब्रह्मणः स्वरूपबोधो भविष्यति । उक्तञ्च
आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः ।
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः इति ॥
भृगुः – अस्तु श्रीमन्! अनुगृहीतोऽस्मि ।
अन्वयः
आहारशुद्धौ (सत्यां) सत्त्वशुद्धि: (भवति), सत्त्वशुद्धौ (सत्यां) ध्रुवा स्मृति: (जायते) (तथा च) स्मृतिलब्ध: (सति) सर्वग्रन्थीनां विप्रमोक्षः (भवति) इति ।
भावार्थ:
यदा आहारः शुद्धः भवति, तदा मनः शुद्धं भवति, मनसः शुद्धौ सत्यां स्मरणशक्तिः लभ्यते, तदा सर्वेषां सांसारिकबन्धनानां नाशः भवति ।
हिंदी अनुवाद
वरुण – हे वत्स! तुमने सत्य प्रकट किया है। अतः आनंद की प्राप्ति के लिए प्रतिदिन ध्यान और योगासन करना चाहिए। प्राणियों पर दया करनी चाहिए । परोपकार करना चाहिए। राग (आसक्ति), द्वेष, ईर्ष्या, क्रोध, लोभ और मोह को त्याग देना चाहिए। हमेशा ईश्वर की सेवा करो और प्रसन्न रहो ।
भृगु – ऐसा ही हो श्रीमान ! मैं वैसा ही आचरण करूँगा ।
वरुण – हे पुत्र ! तुमने तपस्या और सूक्ष्म विज्ञान से अन्न, प्राण, मन, विज्ञान और आनंद का महत्त्व जान लिया है। इन पाँचों से ही हमारा पूर्ण विकास होता है, इसलिए इन्हें ब्रह्म पद से संबोधित किया जाता है। ब्रह्म का वास्तविक स्वरूप तो इनसे भी परे है। ये (पाँचों) ब्रह्मज्ञान के द्वार (सीढ़ियाँ) हैं। यदि तुम इनका क्रमशः विकास करोगे, तो ब्रह्म के स्वरूप का ज्ञान हो जाएगा। और कहा भी गया है ” आहार की शुद्धि होने पर अन्त:करण (सत्त्व) की शुद्धि होती है । अन्तःकरण के शुद्ध होने पर स्मृति (आत्मस्मरण) निश्चल / स्थिर हो जाती है और स्मृति के प्राप्त हो जाने पर हृदय की सभी गाँठें (अज्ञान और बंधन) पूरी तरह से खुल जाती हैं।”
भृगु – ठीक है श्रीमान ! मैं अनुगृहीत हूँ (आपका आभारी हूँ) ।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- प्रकटितम् – स्पष्टीकृतम् – प्रकट किया / बताया
- हातव्याः – त्याज्याः – त्यागने योग्य
- मोदताम् – प्रसन्नः भवतु – प्रसन्न रहें
- महत्त्वम् – गौरवम् – महिमा / विशेषता
- पूर्णविकासाः – समग्रोन्नतिः – पूरा विकास
- व्यवह्रियन्ते – कथ्यन्ते / उच्यन्ते – कहे जाते हैं / व्यवहार होते हैं
- परे – श्रेष्ठतम् / परस्तात् – श्रेष्ठ / परे (बाद में)
- द्वाराणि – मार्गानि – रास्ते / प्रवेश द्वार
- क्रमशः – क्रमेण – बारी-बारी से / क्रम से
- स्वरूपबोधः – स्वरूप का ज्ञान – आत्मज्ञानम्
- अन्विष्यताम् – शोधनं क्रियताम् – खोज करनी चाहिए
- आचरामि – पालयामि – आचरण करता हूँ
- आहारशुद्धौ – भोजनस्य पवित्रतायाम् – भोजन की शुद्धि होने पर
- सत्त्वशुद्धिः – अन्तःकरणस्य निर्मलता – अन्तःकरण / मन की शुद्धि
- ध्रुवा – स्थिरा / निश्चला – स्थिर या अटल
- स्मृतिलम्भे – स्मृतेः प्राप्तौ – स्मृति प्राप्त होने पर
- विप्रमोक्षः – पूर्णमुक्तिः – पूरी तरह से खुल जाना / मुक्त होना
- सर्वग्रन्थीनाम् – सर्वेषां बन्धनानाम् – सभी हृदय की ग्रंथियों / बंधनों का
- अनुगृहीतोऽस्मि – कृतज्ञः अस्मि – मैं आभारी हूँ
समास-विग्रहः
शब्द: – विग्रहः – भेदः
आनन्दप्राप्तये – आनन्दस्य प्राप्तये – षष्ठीतत्पुरुषः
परोपकार: – परेषां उपकारः – षष्ठीतत्पुरुषः
पूर्णविकासः – पूर्णः च असौ विकासः – कर्मधारयसमासः
ब्रह्मपदेन – ब्रह्मणः पदेन – षष्ठीतत्पुरुषः
स्वरूपबोधः – स्वरूपस्य बोधः – षष्ठीतत्पुरुषः
आहारशुद्ध – आहारस्य शुद्धौ – षष्ठीतत्पुरुषः
सत्त्वशुद्धिः – सत्त्वस्य शुद्धिः – षष्ठीतत्पुरुषः
स्मृतिलम्भे – स्मृतेः लम्भः, तस्मिन् – षष्ठीतत्पुरुषः
सर्वग्रन्थीनाम् – सर्वाः च ताः ग्रन्थयः, तासाम् – कर्मधारयसमासः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
तथैव – तथा + एव – वृद्धिसन्धिः
पञ्चभिरेव – पञ्चभिः + एव – विसर्गसन्धिः
ततोऽपि – ततः + अपि – विसर्गसन्धिः
उक्तञ्च – उक्तम् + च – अनुस्वारसन्धिः
अनुगृहीतोऽस्मि – अनुगृहीतः + अस्मि – विसर्गः (उत्व) सन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
कर्त्तव्यम् – कृ + तव्यत् – कृदन्तः
कर्त्तव्या – कृ + तव्यत् (टाप्) – कृदन्तः
हातव्याः – हा + तव्यत् – कृदन्तः
ज्ञा तवान् – ज्ञा + क्तवतु – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्गः
प्रकटितम् – प्र
परोपकार: – पर
व्यवह्रियन्ते – वि + अव
प्रयत्स्व – प्र
विप्रमोक्षः – वि, प्र
अनुगृहीतः – अनु
विशेषण – विशेष्यः
सत्यम् – वचनम्
एतानि – द्वाराणि
प्रतिदिनम् – ध्यानम्
विपर्ययाः
शब्द: – विपर्ययः
परोपकार: – अपकारः
पूर्ण: – अपूर्णः
रागः – विरागः / द्वेषः
अत्र इदम् अवधेयम्
मानवः क्रमशः शरीरेण, प्राणेन, मनसा, बुद्ध्या, अध्यात्मशक्त्या च पूर्णविकासं लभते । अतः समग्रजीवनविकासाय
- अन्नमयकोष:,
- प्राणमयकोषः,
- मनोमयकोष:,
- विज्ञानमयकोष:,
- आनन्दमयकोष
इति पञ्चकोषाः शास्त्रेषु वर्णिताः । एतेषामेव महत्त्वम् अस्मिन् पाठ्यक्रमे वर्णितम्। मानवः पञ्चकोषविवेकतः समग्रं विकासं प्राप्नोति । एतेषां पञ्चकोषाणां परस्परं सम्बन्धः अस्ति । अन्नमयकोषस्य विकासं विना प्राणमयकोषस्य विकासः नैव भवितुं शक्नोति। अन्नमयकोषस्य प्राणमयकोषस्य च विकासं विना मनोमयकोषस्य विकासो न भवति । एवं क्रमेण क्रमिकविकासाय तावद् आदौ अन्नमयकोषस्य विकासाय यत्नः कर्तव्यः । ततः प्राणमयकोषस्य, मनोमयकोषस्य, विज्ञानमयकोषस्य आनन्दमयकोषस्य च विकासः कर्तव्यः । अनया क्रमिक – विकासपद्धत्या एव मानवः पूर्णतां प्राप्नोति ।