By going through these Class 9 Sanskrit Notes and NCERT Class 9 Sanskrit Sharada Chapter 5 Hindi Translation Summary Explanation Notes एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी students can clarify the meanings of complex texts.
Sanskrit Class 9 Chapter 5 Hindi Translation एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी Summary
कक्षा 9 संस्कृत पाठ 5 हिंदी अनुवाद
Class 9 Sanskrit Chapter 5 Summary Notes एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी
यह पाठ आधुनिक युग की सबसे प्रभावशाली तकनीक कृत्रिम बुद्धिमता पर आधारित है। यह पाठ बताता है कि ‘कृतकबुद्धि:’ एक ऐसी तकनीक है, जो मानव बुद्धि की तरह सोचने और निर्णय लेने की क्षमता रखती है। यह केवल एक यंत्र नहीं, बल्कि मानव बुद्धि की एक सहायक शक्ति है। इस पाठ में छात्र और अध्यापक मिलकर ‘कृतकबुद्धि:’ के बारे में चर्चा करते हैं।
पाठस्य परिचयः
आधुनिके विज्ञानयुगे यदा मानवजीवनं द्रुतगत्या परिवर्तनशीलम् अस्ति, तदा अत्र कृतकबुद्धिः प्रभावशालि – साधनरूपेण समुपस्थिता वर्तते । अत्र यन्त्राणि मानववत् चिन्तयन्ति, निर्णयं च कुर्वन्ति । अहो ! अवलोकनीयं कृतकबुद्धेः सामर्थ्यं तत्र ।
अस्मिन् पाठे ‘कृतकबुद्धिः – मानवबुद्धेः सहकरी’ इति कश्चित् वार्तालाप: प्रस्तुतः अस्ति । यत्र अध्यापकः छात्राः च मिलित्वा कृतकबुद्धेः स्वरूपम्, उपयोगक्षेत्राणि, लाभान् सीमां च अधिकृत्य चर्चां कुर्वन्ति ।
एषः पाठः न केवलं कृतकबुद्धेः विषये सूचनां प्रयच्छति अपि तु विद्यार्थिनां चिन्तन – शक्तिं विवेकं च जागरयति । एषा कृतकबुद्धिः कथं मानवहिताय उपयोगिनी भवेत् इति चिन्तनीयः विषयः ।
हिंदी अनुवाद
‘आधुनिक विज्ञान के युग में जब मानव जीवन तीव्र गति से परिवर्तनशील है, तब यहाँ ‘कृतकबुद्धि’ (कृत्रिम बुद्धिमत्ता / AI) एक प्रभावशाली साधन के रूप में उपस्थित है। यहाँ यंत्र ( मशीनें ) मनुष्यों की भाँति सोचती हैं, निर्णय लेती हैं और कार्य करती हैं। अरे! यहाँ कृतकबुद्धि की सामर्थ्य देखने योग्य है।
इस पाठ में ‘कृतकबुद्धिः मानव बुद्धि की सहायक’ नामक एक संवाद (वार्तालाप) प्रस्तुत है। जहाँ अध्यापक और छात्र मिलकर कृतकबुद्धि के स्वरूप, उपयोग के क्षेत्रों, लाभों और सीमाओं को आधार बनाकर चर्चा करते हैं। यह पाठ न केवल कृतकबुद्धि के विषय में सूचना प्रदान करता है, बल्कि विद्यार्थियों की चिंतन – शक्ति और विवेक को भी जागृत करता है। यह कृतकबुद्धि मानव कल्याण के लिए कैसे उपयोगी हो सकती है, यह एक चिंतनीय (सोचने योग्य) विषय है।

शब्दार्थाः
- शब्दा: – संस्कृतार्था: – हिन्दी-अर्था
- द्रुतगत्या – तीव्रगत्या – तेज रफ्तार से
- कृतकबुद्धिः – कृत्रिमप्रज्ञा (AI) – बनावटी / कृत्रिम बुद्धि
- निर्णयम् – निश्चयम् – फैसला/निर्णय
- अवलोकनीयम् – दर्शनीयम् – देखने योग्य
- वार्तालाप: – संवाद: – बातचीत
- अधिगत्य – आश्रित्य – आधार बनाकर / जानकर
- विवेकम् – सारासारज्ञानम् – सही-गलत का ज्ञान
समास-विग्रहः
शब्द: – विग्रहः – भेदः
विज्ञानयुगे – विज्ञानस्य युगे – षष्ठी तत्पुरुष समासः
उपयोगक्षेत्राणि – उपयोगस्य क्षेत्राणि – षष्ठी तत्पुरुष समासः
मानवजीवनम् – मानवानां जीवनम् – षष्ठीतत्पुरुषसमासः
चिन्तनशक्तिम् – चिन्तनस्य शक्तिम् – षष्ठीतत्पुरुषसमासः
साधनरूपेण कृतबुद्धिः – साधनस्य रूपेण – षष्ठी तत्पुरुष समासः
मानवहिताय – मानवानां हिताय – षष्ठीतत्पुरुषसमासः
कृतिकबुद्धिः – कृतिका च या बुद्धिः – कर्मचारय:
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
वार्तालाप: – वार्ता + आलापः – दीर्घ सन्धि
नेदेव – न + इदम् + एव – गुण, वृद्धि सन्धि
यत्राध्यापकः – यत्र + अध्यापकः – दीर्घ सन्धि
चिन्तनीयो विषयः – चिन्तनीयः + विषयः – विसर्ग सन्धि
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
उपस्थितः – उप + स्था + क्त – कृदन्तः
अवलोकनीयम् – अव + लोक् + अनीयर् – कृदन्तः
मिलित्वा – मिल् + क्त्वा – कृदन्तः
चिन्तनीयः – चिन्त् + अनीयर् – कृदन्तः
अधिकृत्य – अधि + कृ + ल्यप् – कृदन्तः
पर्याया:
शब्द: – पर्यायः
आधुनिके – नूतने, अर्वाचीने
यन्त्राणि – उपकरणानि
अध्यापक: – शिक्षकः, आचार्यः
सूचनाम् – विज्ञप्तिम्
सामर्थ्यम् – शक्तिः, प्रभावः
Class 9 Sanskrit Sharada Chapter 5 Hindi Translation
Sanskrit Class 9 Chapter 5 Hindi Anuvad – कक्षा 9 संस्कृत पाठ 5 हिंदी अनुवाद
नाट्यांश: 1
(स्थानं – विद्यालयकक्षा | अध्यापकः कक्षायां प्रविशति ।)
सर्वे छात्राः – शुभप्रभातं, गुरुवर्य !
अध्यापकः – शुभप्रभातं, प्रियच्छात्राः
यशिका – महोदय! अद्य अहम् किञ्चन चालकरहितं पटु-कारयानं दृष्टवती। अहम् आश्चर्यचकिता । किम् एतत् संभवम्?
अध्यापकः – अवश्यं यशिके ! एतत् कृतकबुद्ध्या सम्भवति ।
कात्यायनी – महोदय! केयं कृतकबुद्धिः ? अद्य वयम् अस्याः विषये ज्ञातुमिच्छामः ।
अध्यापकः – अद्यत्वे अयं बहुचर्चितः विषयः अस्ति। भवत्सु कृतकबुद्धेः विषये कोऽपि जानाति वा?
श्रेया – आचार्य ! अहं जानामि । यदा यन्त्राणि मनुष्यवत् चिन्तयन्ति, निर्णयं कुर्वन्ति, कार्यं च कुर्वन्ति, तदा तत्र कृतकबुद्धिः उपस्थिता अस्ति इति जानीमः ।
अध्यापकः – सुष्ठु ! यया अचेतनयन्त्राणि मानवबुद्धिवत् कार्यं कुर्वन्ति, सा कृतकबुद्धिः इति वैज्ञानिकाः मन्यन्ते ।
हिंदी अनुवाद
(स्थान – विद्यालय की कक्षा । अध्यापक कक्षा में प्रवेश करते हैं ।)
सभी छात्र – सुप्रभात, आदरणीय गुरु
अध्यापक – सुप्रभात प्रिय छात्रों !
यशिका – महोदय ! आज मैंने एक चालक रहित ‘स्मार्ट कार’ देखी । मैं आश्चर्यचकित हूँ। क्या यह संभव है?
अध्यापक – अवश्य यशिका! यह ‘कृतकबुद्धि’ के द्वारा संभव है।
कात्यायनी – महोदय! यह कृतकबुद्धि क्या है ? आज हम इसके विषय में जानना चाहते हैं।
अध्यापक – आजकल यह बहुत चर्चित विषय है। क्या आप में से कोई कृतबुद्धि के बारे में जानता है ?
श्रेया – आचार्य ! मैं जानती हूँ। जब मशीनें मनुष्यों की भाँति सोचती हैं, निर्णय लेती हैं और कार्य करती हैं, तब वहाँ ‘कृतकबुद्धि’ उपस्थित होती है, ऐसा (मैं) जानती हूँ । अध्यापक बहुत अच्छे ! जिसके द्वारा निर्जीव मशीनें मानव – बुद्धि की भाँति कार्य करती हैं, वैज्ञानिक उसे ही ‘कृतकबुद्धि’ मानते हैं।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- प्रविशति – अन्तः गच्छति – प्रवेश करते हैं
- चालकरहितम् – चालकहीनम् – बिना ड्राइवर के
- पटु-कारयानम् – चतुर- यानम् – चतुर या स्मार्ट कार
- ज्ञातुमिच्छामः – ज्ञानं प्राप्तुं वाञ्छामः – जानना चाहते हैं
- अद्यत्वे – अस्मिन् समये / अधुना – आजकल
- अचेतनयन्त्राणि – निर्जीवयन्त्राणि – निर्जीव या बेजान मशीनें
समास विग्रहः
शब्द: – विग्रहः – भेदः
विद्यालयकक्षा – विद्यालयस्य कक्षा – षष्ठीतत्पुरुषसमासः
चालकरहितम् – चालकेन रहितम् – तृतीयातत्पुरुषसमासः
आश्चर्यचकिता – आश्चर्येण चकिता – तृतीयतत्पुरुषसमासः
बहुचर्चितः – बह्वीः चर्चा यस्य सः – बहुव्रीहिसमासः
अचेतनयन्त्राणि – अचेतानि च तानि यन्त्राणि – कर्मधारयः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
कोsपि – कः + अपि – विसर्गसन्धिः (उत्व)
प्रियच्छात्राः – प्रियः + छात्राः – व्यंजनसन्धिः (तुक् का आगम)
अस्या विषये – अस्याः + विषये – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
दृष्टवती – दृश् + क्तवतु (स्त्रीलिङ्ग) – कृदन्तः
ज्ञातुम् – ज्ञा + तुमुन् – कृदन्तः
उपस्थिता – उप + स्था + क्त – कृदन्तः
वैज्ञानिकाः – विज्ञान + ठक् – तद्धितः
पर्यायाः
शब्दः – पर्यायः –
आचार्यः – गुरुः, शिक्षकः
अचेतनम् – जडम्, निर्जीवम्
यन्त्रम् – उपकरणम्
बुद्धिः – प्रज्ञा, मनीषा
नाट्यांश: 2
अथर्वः – आम्, चैट-जीपीटी इति नामकं संवादोपकरणमपि कृतकबुद्ध्या युक्तम् अस्ति ।
अध्यापकः – साधु! चैट – जीपीटी, सिरि, एलेक्सा, गूगल मानचित्रं, जेमिनि, मेटा- कृतकबुद्धिः, परप्लेक्सिटिचेत्यादयः अनुप्रयुक्ततन्त्रविशेषाः कृतकबुद्धियुक्ताः सन्ति ।
यशिका – अहं चैट-जीपीटी इत्यनेन अनेकेषां प्रश्नानां यथेष्टम् उत्तराणि प्राप्तवती। इदं कृतकबुद्ध्याः कारणात् एव संभवम्।
अथर्वः – मम माता ‘एलेक्सा’ नामकस्य यन्त्रस्य उपयोगं करोति । एतत् गीतं गायति, विद्युद्दीपं ज्वालयति, दैनिकसंवादं वातावरणस्थितिं च सूचयति ।
पावनी – अहो! मम माता गूगल – सहायकेन सह वार्तां करोति ।
हिंदी अनुवाद
अथर्व – हाँ, चैट – जीपीटी नामक संवाद – उपकरण भी कृत्रिम बुद्धिमत्ता से युक्त है।
अध्यापक – बहुत अच्छे ! चैट-जीपीटी, सिरी, एलेक्सा, गूगल मानचित्र, जेमिनी, मेटा – कृतकबुद्धि, परप्लेक्सिटी इत्यादि अनुप्रयोग विशेष रूप से कृत्रिम बुद्धिमत्ता से युक्त हैं।
यशिका – मैंने चैट -जीपीटी के माध्यम से अनेक प्रश्नों के इच्छानुसार उत्तर प्राप्त किए हैं। यह कृत्रिम बुद्धिमत्ता के कारण ही संभव है।
अथर्व – मेरी माता ‘एलेक्सा’ नामक यंत्र का उपयोग करती हैं। यह गीत गाता है, बिजली का बल्ब जलाता है और दैनिक संवाद तथा वातावरण की स्थिति की सूचना देता है।
पावनी – अरे वाह! मेरी माता गूगल असिस्टेंट (सहायक) के साथ बातचीत करती हैं।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः हिन्दी-अर्थाः
- कृतकबुद्धया – कृत्रिमप्रज्ञया – कृत्रिम बुद्धिमत्ता (AI) के द्वारा
- संवादोपकरणम् – वार्तालापसाधनम् – बातचीत का साधन
- अनुप्रयुक्ततन्त्रम् – प्रयोगात्मक-तकनीकी – अप्लाइड टेक्नोलॉजी (Apps)
- यथेष्टम् – इच्छायाः अनतिक्रम्य – इच्छानुसार
- विद्युद्दीपम् – विद्युद्दीपः – बिजली का बल्ब
- ज्वालयति – प्रदीप्तं करोति – जलाता है
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
संवादोपकरणम् – संवाद + उपकरणम् – गुणसन्धिः
चेत्यादयः – च + इत्यादयः – गुणसन्धिः
इत्यादयः – इति + आदयः – यणसन्धिः
इत्यनेन – इति + अनेन – यण्सन्धिः
यथेष्टम् – यथा + इष्टम् – गुणसन्धिः
समास विग्रहः
शब्द: – विग्रहः – भेदः
कृतकबुद्धिः – कृतिका च इयं – कर्मधारयसमासः
संवादोपकरणम् – संवादस्य उपकरणम् – षष्ठीतत्पुरुषसमासः
वातावरणस्थितिम् – वातावरणस्य स्थितिः – षष्ठीतत्पुरुषसमासः
दैनिकसंवादम् – दैनिकः च असौ संवादः तम् – कर्मधारयसमासः
अनेकप्रश्नानां – अनेकेषां प्रश्नानां – कर्मधारयसमासः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
युक्तम् – युज् + क्त – कृदन्तः
प्राप्तवती – प्र + आप् + क्तवतु (स्त्री.) – कृदन्तः
संवाद: – सम् + वद् + घञ् – कृदन्तः
इष्टम् – इष् + क्त – कृदन्तः
पर्यायाः
शब्दः – पर्यायः
माता – जननी, अम्बा
अनेक – बहु, नाना
साधु – सम्यक्, शोभनम्
सूचना – विज्ञप्तिः, ज्ञापनम्
बुद्धिः – मतिः, मनीषा

नाट्यांश: 3
अध्यापकः – साधु । एषा काचित् ‘बुद्धिमती’ यन्त्रप्रणाली अस्ति । किं यूयं जानीथ कृतकबुद्धेः कतिपयाः प्रमुखाः प्रकाराः सन्ति?
अक्षतः – के ते प्रकाराः मान्यवर !
अध्यापकः – ते सन्ति
सङ्कुचितकृतकबुद्धिः – जीपीटी, गूगल मानचित्रं, यू-ट्यूब् सामान्यकृतकबुद्धिः – मानवसमाना बुद्धिमत्ता (एतत् लक्ष्यं भवति)
अत्युत्कृष्टकृतक बुद्धिः—मानवात् अपि अधिका बुद्धिमती- एषा काल्पनि
सङ्कुचितकृतकबुद्धिः—जीपीटी, गूगल मानचित्रं, यू-ट्यूब् ।
सामान्यकृतकबुद्धिः- मानवसमाना बुद्धिमत्ता (एतत् लक्ष्यं भवति)।
अत्युत्कृष्टकृतकबुद्धिः– मानवात् अपि अधिका बुद्धिमती – एषा काल्पनिकी अस्ति ।
वेदः – किन्तु आचार्य ! अस्माकं बुद्धिस्तु ईश्वरेण मस्तिष्के स्थापिता अस्ति, कथम् एषा बुद्धिः यन्त्रे स्थाप्यते ?
अध्यापकः – उत्तमः प्रश्नः । प्रौद्योगिकीविशारदाः यन्त्राधिगमः, गहनाधिगमः चेति विधिना एतानि यन्त्राणि प्रशिक्षयन्ति, अनुप्रयोगाय च सज्जीकुर्वन्ति ।
हिंदी अनुवाद –
अध्यापक – बहुत अच्छे! यह कोई ‘बुद्धिमान’ यन्त्र – प्रणाली है। क्या तुम सब जानते हो कि कृत्रिम बुद्धिमत्ता के कुछ प्रमुख प्रकार हैं?
अक्षत – वे प्रकार कौन से हैं मान्यवर !
अध्यापक – वे हैं
संकुचित कृत्रिम बुद्धि – जीपीटी, गूगल मानचित्र, यू-ट्यूब।
सामान्य कृत्रिम बुद्धि – मानव के समान बुद्धिमत्ता (यह एक लक्ष्य है)
अत्युत्कृष्ट कृत्रिम बुद्धि मानव से भी अधिक बुद्धिमान — यह काल्पनिक है।
वेद – किंतु आचार्य ! हमारी बुद्धि तो ईश्वर द्वारा मस्तिष्क में स्थापित की गई है, यह बुद्धि यंत्र में कैसे स्थापित की जाती है?
अध्यापक – उत्तम प्रश्न है ! प्रौद्योगिकी विशेषज्ञ मशीन और गहन अधिगम जैसी विधियों से इन यंत्रों को प्रशिक्षित करते हैं और अनुप्रयोग के लिए तैयार करते हैं।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी – अर्थाः
- यन्त्रप्रणाली – यन्त्राणां व्यवस्था – मशीन सिस्टम
- कतिपयाः – केचन / स्वल्पाः – कुछ
- काल्पनिकी – कल्पनामयी – कल्पनिक
- प्रौद्योगिकीविशारदाः – तकनीकीदक्षाः – तकनीकी विशेषज्ञ
- यन्त्राधिगमः – यन्त्रेण शिक्षणम् – मशीन लर्निंग
- गहनाधिगमः – गम्भीरशिक्षणम् – डीप लर्निंग
- सज्जीकुर्वन्ति – सज्जां कुर्वन्ति – तैयार करते हैं।
- प्रशिक्षयन्ति – शिक्षयन्ति अभ्यासं कारयन्ति – प्रशिक्षण देते हैं
समास विग्रहः
शब्द: – विग्रहः – भेदः
यन्त्रप्रणाली – यन्त्राणां प्रणाली – षष्ठीतत्पुरुषसमासः
कृतकबुद्धिः – कृतिका बुद्धिः – कर्मधारयसमासः
मानवसमाना – मानवेन समाना – तृतीयतत्पुरुषसमासः
अत्युत्कृष्ट – अति उत्कृष्ट – प्रादितत्पुरुषसमासः
प्रौद्योगिकीविशारदाः – प्रौद्योगिक्यां विशारदाः – सप्तमीतत्पुरुषसमासः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
यन्त्राधिगमः – यन्त्र + अधिगमः – दीर्घसन्धिः
बुद्धिस्तु – बुद्धिः + तु – विसर्गसन्धिः
चेति – च + इति – गुणसन्धि:
मानवाद् अपि – मानवात् + अपि – जश्त्वसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
बुद्धिमती – बुद्धि + मतुप् (स्त्री ङीप्) – तद्धितः
स्थापिता – स्था (णिच्) + क्त + टाप् – कृदन्तः
काल्पनिकी – कल्पना + ठक् (इक्) + ङीष् – तद्धितः
पर्यायाः
शब्द: – पर्यायः
आचार्यः – गुरुः, शिक्षकः
मान्यवरः – महाशयः पूज्यः
मस्तिष्कम् – शिरः, ललायम्
ईश्वरः – परमात्मा, प्रभुः
यन्त्रम् – उपकरणम्
नाट्यांश: 4
आर्यः – यन्त्राणामपि पाठशाला अस्ति वा?
(सर्वे हसन्ति)
अध्यापकः – अस्याः यन्त्रपाठशालायाः नाम ‘डेटासेट्’ इति ! कृतकबुद्धिः यन्त्रं दत्तांश माध्यमेन शिक्षणं करोति ।
यशिका – किन्तु आचार्य! यदि अशुद्धदत्तांशः दीयते तर्हि कृतकबुद्धिः अपि त्रुटिं करोति ?
अध्यापकः – आम्! यदा प्रशिक्षणदत्तांशः पक्षपातयुक्तः भवति, तदा निष्कर्षाः अपि पक्षपातयुक्ताः भवन्ति । एषः दोषः ‘पूर्वग्रहः’ इति कथ्यते । कृतकबुद्धिः अद्यापि विकासपदे अस्ति । सेदानीं मानवीयपरिचर्या-विवेकेन सह त्रुटिरहितरूपेण ग्रहीतुं शक्यते ।
श्रेया – गुरुवर ! एषा बुद्धिः केषु स्थलेषु उपयुज्यते ?
अध्यापकः – श्रेये! तव प्रश्नः अतीव महत्त्वपूर्णः। शिक्षायां, चिकित्सायां, कृषि-क्षेत्रे, न्यायालये, सञ्चारे, वित्ते, कलासङ्गीतक्षेत्रे मनोरञ्चनादिषु क्षेत्रेषु च कृतकबुद्धिः भूरिशः उपयुज्यते ।
हिंदी अनुवाद
आर्य – क्या मशीनों की भी पाठशाला होती है ? (सभी हँसते हैं)
अध्यापक – इस मशीन – पाठशाला का नाम ‘डेटासेट्’ है! कृत्रिम बुद्धि मशीन डेटा के माध्यम से शिक्षा ग्रहण करती है।
यशिका – लेकिन आचार्य ! यदि गलत डेटा दिया जाए, तो क्या कृत्रिम बुद्धि भी गलती करती है ?
अध्यापक – हाँ! जब प्रशिक्षण डेटा पक्षपातपूर्ण होता है, तब परिणाम भी पक्षपातपूर्ण होते हैं। इस दोष को ‘पूर्वग्रह’ कहा जाता है । कृत्रिम बुद्धि अभी भी विकास के पथ पर है। अब इसे मानवीय परिचर्या (देखभाल) और विवेक के साथ त्रुटिहीन रूप में ग्रहण किया जा सकता है।
श्रेया – गुरुदेव ! इस बुद्धि का उपयोग किन स्थानों पर होता है ?
अध्यापक – श्रेया ! तुम्हारा प्रश्न बहुत महत्त्वपूर्ण है। शिक्षा, चिकित्सा, कृषि – क्षेत्र, न्यायालय, संचार, वित्त, कला-संगीत और मनोरंजन आदि क्षेत्रों में कृत्रिम बुद्धि का बहुतायत से उपयोग किया जाता है।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- यन्त्राणामपि – यन्त्राणाम् अपि – मशीनों का भी
- दत्तांशमाध्यमेन – आँकड़ानां साहाय्येन – डेटा के माध्यम से
- पक्षपातयुक्तः – भेदभावपूर्णः – पक्षपातपूर्ण
- विकासपदे – विकासमार्गे – विकास के पथ पर
- भूरिशः – अत्यधिकम् – बहुत अधिक / प्रचुर मात्रा में
- त्रुटिरहितरूपेण – दोषमुक्तप्रकारेण – बिना किसी गलती के
- चिकित्सायाम् – रोगोपचारस्य क्षेत्रे – चिकित्सा में
समास विग्रहः
शब्द: – विग्रहः – भेदः
यन्त्रपाठशालायाः – यन्त्राणां पाठशालायाः – षष्ठीतत्पुरुषसमासः
दत्तांशमाध्यमेन – दत्तांशानां माध्यमेन – षष्ठीतत्पुरुषसमासः
पक्षपातयुक्तः – पक्षपातेन युक्तः – तृतीयतत्पुरुषसमासः
त्रुटिरहितरूपेण – त्रुटिभिः रहितरूपेण – तृतीयातत्पुरुषसमासः
कलासङ्गीतक्षेत्रे – कलासङ्गीतयोः क्षेत्रे – षष्ठीतत्पुरुषसमासः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
मनोरञ्जनादिषु – मनोरञ्जन + आदिषु – दीर्घसन्धिः
अशुद्धदत्तांशो दीयते – अशुद्धदत्तांशः + दीयते – विसर्गसन्धिः
प्रश्नोऽतीव – प्रश्न: + अतीव – विसर्गसन्धिः
भूरिश उपयुज्यते – भूरिशः + उपयुज्यते – विसर्गसन्धिः
पर्यायाः
शब्दः – पर्यायः
आचार्यः – शिक्षकः, अध्यापकः, गुरुः
यन्त्रम् – उपकरणम्
अतीव: – बहु, अत्यधिकम
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
शिक्षणं – शिक्ष् + ल्युट् – कृदन्तः
ग्रहीतुं – ग्रह् + तुमुन् – कृदन्तः
नाट्यांश: 5
अथर्वः – महोदय! कृतकबुद्धिः कथं शिक्षायां साहाय्यं करोति? किं शिक्षकस्य स्थाने कृतकबुद्धिः अस्मान् पाठयिष्यति ? एतत् कथं सम्भवति ?
अध्यापकः – दीक्षा, स्वयम्, सर्वेषां कृते कृतकबुद्धि:, पी. एम्. ईविद्या, संशयनिराकरणार्थं चैट्बोट्, भाषानुवादोपकरणानि च यत्र-तत्र प्रयुज्यन्ते । एतानि कृतकबुद्ध्याधारितानि उपकरणानि सन्ति। एतेषां साहाय्येन छात्राः शिक्षकाणाम् अनुपस्थितौ अपि स्वयम् अध्येतुं शक्नुवन्ति ।
आकाशः – हा धिक्! एतेषां कारणेन मानवशिक्षकः किं प्रयोजनरहितः भविष्यति ?
हिंदी अनुवाद
अथर्व – महोदय! कृत्रिम बुद्धि (AI) शिक्षा में कैसे सहायता करती है? क्या शिक्षक के स्थान पर कृत्रिम बुद्धि हमें पढ़ाएगी ? यह कैसे संभव है?
अध्यापक – दीक्षा, स्वयं, सभी के लिए कृत्रिम बुद्धि, पी. एम. ईविद्या, संदेह दूर करने के लिए चैटबॉट और भाषा अनुवाद के उपकरण जहाँ-तहाँ उपयोग किए जाते हैं। ये सभी कृत्रिम बुद्धि पर आधारित उपकरण हैं। इनकी सहायता से छात्र शिक्षकों की अनुपस्थिति में भी स्वयं अध्ययन कर सकते हैं।
आकाश – धिक्कार है! क्या इनके कारण मानव-शिक्षक प्रयोजनहीन हो जाएँगे?
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- साहाय्यं – सहायताम् – सहायता / मदद
- पाठयिष्यति – अध्यापनं करिष्यति – पढ़ाएगी
- संशयनिराकरणार्थं – शङ्का निवारणाय – संदेह दूर करने के लिए
- प्रयुज्यन्ते – उपयुक्ताः भवन्ति – प्रयोग किए जाते हैं
- अनुपस्थितौ – अविद्यमानतायाम् – अनुपस्थिति में
- प्रयोजनरहितः – उद्देश्यहीनः/व्यर्थः – बिना किसी उपयोग के / बेकार
- अध्येतुं – पठितुम् – पढ़ने के लिए
समास विग्रहः
शब्द: – विग्रहः – भेदः
संशयननिराकरणार्थं – संशयानां निराकरणार्थं – षष्ठीतत्पुरुषसमासः
भाषा-अनुवाद उपकरणानि – भाषाणां अनुवादस्य उपकरणानि – षष्ठीतत्पुरुषसमासः
कृतकबुद्धौ – कृतकबुद्ध्याधारितानि आधारितानि – सप्तमीतत्पुरुषसमासः
प्रयोजनरहितः – प्रयोजनेन रहितः – तृतीयातत्पुरुषसमासः
मानवशिक्षक: – मानवः च असौ शिक्षक: – कर्मधारयसमासः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
भाषानुवादः – भाषा + अनुवादः – दीर्घसन्धिः
कृतकबुद्धिरस्मान् – कृतकबुद्धिः + अस्मान् – विसर्गसन्धिः (रुत्व)
पर्यायाः
शब्दः – पर्यायः
महोदयः – श्रीमान्, मान्यः
संशय: – शङ्का, भ्रमः
साहाय्यं – उपकारः, साहाय्यकम्
छात्राः – शिष्याः, विद्यार्थिनः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्यय: – भेदः
अध्येतुं – अधि + इ + तुमुन् – कृदन्तः
नाट्यांश: 6
अध्यापकः – न-न! कृतकबुद्धिः गुरुमित्रम् अस्ति, गुरुविकल्पः नास्ति । शिक्षकाणां सान्निध्ये छात्रेषु व्यक्तित्वविकासः भवति । शिक्षकाः पुस्तकीयज्ञानेन सह छात्रेषु मानवीयमूल्यबोधम् अपि जनयन्ति । ते अनुशासनं, परोपकारं, करुणां तथैव व्यवहारज्ञानं च शिक्षयन्ति । सदा स्मरणीयं यत् कृतकबुद्धिः उपकरणम् अस्ति, प्रेरणा तु मानवेभ्यः एव आगच्छति ।
वेदः – अहम् कस्मिंश्चित् चलच्चित्रे दृष्टवान् यत् यन्त्राणि मानवेभ्यः संसारम् अधिगृहणन्ति इति ।
यशिका – अपि च आचार्य! किं कृतकबुद्धिः मानवस्य स्थानं हर्तुं शक्नोति ?
अध्यापकः – एषा चिन्ता समाजे प्रगाढं जायमाना अस्ति, किन्तु अत्र बोद्धव्यं यत् कृतकबुद्धिः सहायिका अस्ति, मनुष्यस्य प्रतिस्पर्धिनी न।
आर्यः – महोदय! किं कृतकबुद्धिः चिकित्सायाम् अपि प्रयुज्यते?
हिंदी अनुवाद
अध्यापक – नहीं, नहीं! कृत्रिम बुद्धि गुरु की मित्र है, गुरु का विकल्प नहीं। शिक्षकों के सान्निध्य (साथ) में छात्रों में व्यक्तित्व का विकास होता है। शिक्षक पुस्तकीय ज्ञान के साथ-साथ छात्रों में मानवीय मूल्यों का बोध भी जागृत करते हैं। वे अनुशासन, परोपकार, करुणा और वैसे ही व्यावहारिक ज्ञान की शिक्षा देते हैं। हमेशा स्मरण (याद) रखना चाहिए कि कृत्रिम बुद्धि एक उपकरण है, प्रेरणा तो मनुष्यों से ही आती है।
वेद – मैंने किसी चलचित्र में देखा था कि मशीनें मनुष्यों से संसार ग्रहण कर (छीन) लेती हैं।
यशिका – और भी आचार्य! क्या कृत्रिम बुद्धि मनुष्य का स्थान ले सकती है?
अध्यापक – यह चिंता समाज में गहराई से व्याप्त हो रही है, किंतु यहाँ यह समझना चाहिए कि कृत्रिम बुद्धि सहायिका है, मनुष्य की प्रतिद्वंद्वी नहीं ।
आर्य – महोदय ! क्या कृत्रिम बुद्धि का प्रयोग चिकित्सा में भी होता है ?
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- गुरुविकल्पः – गुरोः स्थानपन्नः – गुरु का विकल्प
- सान्निध्ये – समीपतायाम् – निकटता या सान्निध्य में
- बोधम् – ज्ञानम् – ज्ञान / समझ
- जनयन्ति – उत्पादयन्ति – उत्पन्न करते हैं
- स्मरणीयं – ध्यानयोग्यम् – याद रखने योग्य
- चलच्चित्रे – सिनेमा-चित्रे – फिल्म में
- अधिगृह्णन्ति – वशीकुर्वन्ति – अधिकार में लेना / छीनना
- प्रतिस्पर्धिनी – विरोधिनी/प्रतियोगिनी – प्रतिद्वंद्वी / होड़ करने वाली
समास विग्रहः
शब्द: – विग्रहः – भेदः
गुरुमित्रम् – गुरोः मित्रम् – षष्ठीतत्पुरुषसमासः
व्यक्तित्वविकासः – व्यक्तित्वस्य विकासः – षष्ठीतत्पुरुषसमासः
पुस्तकी ज्ञानेन – पुस्तकीयम् च तत् ज्ञानम्, तेन – कर्मधारयसमासः
मानवीयमूल्यबोधम् – मानवीयमूल्यानां बोधम् – षष्ठीतत्पुरुषसमासः
व्यवहारज्ञानं – व्यवहारस्य ज्ञानम् – षष्ठीतत्पुरुषसमासः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
नास्ति – न + अस्ति – दीर्घसन्धिः
तथैव – तथा + एव – वृद्धिसन्धिः
कस्मिंश्चित् – कस्मिन् + चित् – श्चुत्व (व्यंजन) सन्धिः
चलच्चित्रे – चलत् + चित्रे – श्चुत्वसन्धिः
मानवेभ्य एव – मानवेभ्यः + एव – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
स्मरणीयं – स्मृ + अनीयर् – कृदन्तः
दृष्टवान् – दृश् + क्तवतु – कृदन्तः
हर्तुं – हृ + तुमुन् – कृदन्तः
जायमाना – जन् + शानच् – कृदन्तः
बोद्धव्यं – बुध् + तव्यत् – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
स्मरणीयं – ध्यातव्यम्
दृष्टवान् – अवलोकितवान्
हर्तुं – हरणाय
जायमाना – उत्पद्यमाना
बोद्धव्यं – ज्ञातव्यम्
नाट्यांश: 7
अध्यापकः – आम्! रोबोटिक्- सर्जरी, रोग-पूर्वज्ञानं, कृतकबुद्धिः रश्मिपरीक्षणविद्या, चैट कृतकबुद्धिः, औषधशुश्रूषा चेत्यादीनि तदाधारितानि चिकित्सोपकरणानि सन्ति ।
अक्षतः – किं कृषि-क्षेत्रे अपि प्रयुज्यते ?
अध्यापकः – नूनं! कृषि क्षेत्रे अपि ड्रोनमाध्यमेन बीज – वपनं, कीटनिरीक्षणं, भूमिक्षमता – चेत्यादीनां परीक्षणम् अपि यन्त्रैः भवन्ति ।
अथर्वः – गुरुदेव! अपराधशमनाय कृतकबुद्धिः कथं साहाय्यं करोति ?
अध्यापकः – मुखपरिचयप्रणाली, पूर्वानुमेय-नियन्त्रणं चेत्यादि-योजनासु कृतकबुद्धेः प्रयोगः अस्ति ।
यशिका – किं कृतकबुद्धिः काव्यमपि रचयितुं समर्था ?
अध्यापकः – अत्र भवन्तः किं चिन्तयन्ति ?
हिंदी अनुवाद
अध्यापक – हाँ! रोबोटिक सर्जरी, रोगों का पूर्व ज्ञान कृत्रिम बुद्धि, रश्मि परीक्षण विद्या, चैट – कृत्रिम बुद्धि, दवाओं की देखभाल आदि इस पर आधारित चिकित्सा के उपकरण हैं।
अक्षत – क्या कृषि क्षेत्र में भी इसका प्रयोग किया जाता है ?
अध्यापक – निश्चित रूप से ! कृषि क्षेत्र में भी ड्रोन के माध्यम से बीज बोना, कीड़ों का निरीक्षण करना, भूमि की क्षमता का परीक्षण आदि भी मशीनों द्वारा होते हैं।
अथर्व – गुरुदेव ! अपराधों को कम करने (रोकने) के लिए कृत्रिम बुद्धि कैसे सहायता करती है ?
अध्यापक – मुख पहचान प्रणाली, पूर्वानुमेय नियंत्रण आदि योजनाओं कृत्रिम बुद्धि का प्रयोग है।
यशिका – क्या कृत्रिम बुद्धि काव्य ( कविता ) रचने में भी समर्थ है ? अध्यापक यहाँ आप सभी क्या सोचते हैं ?
शब्दार्थाः
- शब्दाः – संस्कृतार्थ – हिन्दी – अर्थाः
- रोग-पूर्वज्ञानं – रोगाणां पूर्वबोधः – रोगों का पहले से पता लगाना
- औषधशुश्रूषा – औषधोपचारः/सेवा – दवाओं की देख-रेख या सेवा
- बीजवपनं – बीजारोपणम् – बीज बोना
- कीट निरीक्षणं – कीटकान् पश्यन् – कीड़ों का निरीक्षण
- अपराधशमनाय – अपराधानां नाशाय – अपराध कम करने के लिए
- मुखपरिचयप्रणाली – मुखप्रत्यभिज्ञानपद्धतिः – मुख पहचान प्रणाली
- रचयितुं – निर्माणं कर्तुम् – रचना करने के लिए
समास-विग्रहः
शब्द: – विग्रहः – भेदः
चिकित्सोपकरणानि – चिकित्सायाः उपकरणानि – षष्ठीतत्पुरुषसमासः
कृषि-क्षेत्रे – कृषेः क्षेत्रे – षष्ठीतत्पुरुषसमासः
ड्रोनमाध्यमेन – ड्रोनस्य माध्यमेन – षष्ठीतत्पुरुषसमासः
अपराधशमनाय – अपराधानां शमनाय – षष्ठीतत्पुरुषसमासः
मुखपरिचयप्रणाली – मुखपरिचयस्य प्रणाली – षष्ठीतत्पुरुषसमासः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
चेत्यादीनि – च + इत्यादीनि – गुण्सन्धिः
तदाधारितानि – तत् + आधारितानि – जश्त्व (व्यंजन) सन्धिः
चिकित्सोपकरणानि – चिकित्सा + उपकरणानि – गुण्सन्धिः
इत्यस्मात् – इति + अस्मात् – यणसन्धिः
पूर्वानुमेयनियन्त्रणं पूर्व + अनुमेय नियन्त्रणं – दीर्घसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
रचयितुं – रच् + तुमुन् – कृदन्तः
प्राप्तवान् – प्र + आप् + क्तवतु – कृदन्तः
पर्यायाः
शब्दः – पर्यायः
रचयितुं – निर्मातुम्
प्राप्तवान् – लब्धवान्
समर्था – शक्ता
प्रयुज्यते – उपयुज्यते
नूनम् – निश्चितम्
नाट्यांश: 8
वेदः – अहं चैट-जीपीटी इत्यस्मात् एनं श्लोकं प्राप्तवान् विद्युत्प्रज्ञया यन्त्राणि नित्यं वदन्ति चेतनाः । अहोरात्रं न विश्रान्ताः मानवान् धारयन्ति ते ॥
(सर्वे सोत्साहं पठन्ति, आश्चर्यं च कुर्वन्ति)
पावनी – किन्तु श्रीमन्, कृतकबुद्धि- सकाशात् समाजे महत् भयम् अपि अस्ति ।
अध्यापकः – सत्यं, भयस्य कारणमपि यथार्थम् अस्ति। अद्यत्वे कृतकबुद्धेः दुरुपयोगेन हि विभिन्नप्रकारकाः साइबर्-अपराधाः समाजषु देशेषु च चलन्ति । किं भवन्तः ‘डीप्-फेक्’ इति समस्याविषये जानन्ति ?
आकाशः – गुरुवर! तत् ‘डीप्-फेक्’ इति किमस्ति ?
अध्यापकः – ‘डीप्-फेक्’ कृतकबुद्ध्या निर्मितं मिथ्याचित्रं, दृश्यं,
ध्वनिः वा अस्ति। मिथ्यादृश्ये यत्र मुखं वाणी च मिथ्या प्रस्तूयते / उपहासाय, अनेकदा अपराधाय चापि ।
हिंदी अनुवाद
वेद – मैने चैट जीपीटी से ये श्लोक प्राप्त किया
“विद्युत प्रज्ञा (AI) के कारण मशीनें निरंतर चेतन (जीवित) जैसी बोलती हैं। वे दिन-रात बिना थके मनुष्यों का साथ देती हैं अर्थात् मनुष्यों को थामे रखती हैं । ” (सभी उत्साह के साथ पढ़ते हैं और आश्चर्य करते हैं )
पावनी – लेकिन श्रीमान, कृत्रिम बुद्धि (AI) के कारण समाज में बहुत डर भी व्याप्त है।
अध्यापक – सत्य है, डर का कारण भी यथार्थ (वास्तविक ) है । आजकल कृत्रिम बुद्धि के दुरुपयोग से विभिन्न प्रकार के साइबर अपराध समाजों और देशों में चल रहे हैं। क्या आप ‘डीप – फेक’ इस समस्या के विषय में जानते हैं? गुरुदेव! यह ‘ डीप – फेक’ क्या है?
आकाश – अध्यापक डीप-फेक कृत्रिम बुद्धि द्वारा निर्मित झूठा चित्र, दृश्य या ध्वनि है। झूठे दृश्य में जहाँ मुख और वाणी को झूठा प्रस्तुत किया जाता है— उपहास ( मजाक ) के लिए और कई बार अपराध के लिए भी ।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- विद्युत्प्रज्ञया – कृत्रिमबुद्ध्या – बिजली जैसी बुद्धि (AI) के द्वारा
- अहोरात्रं – दिवानिशम् – दिन-रात
- विश्रान्ताः – श्रान्तिं प्राप्ताः – थके हुए
- सकाशात् – कारणात्/प्रभावात् – के कारण / से
- अद्यत्वे – अस्मिन् काले – आजकल/इन दिनों
- मिथ्याचित्रं – असत्यं चित्रम् – झूठा या नकली चित्र
- उपहासाय – परिहासाय – मजाक उड़ाने के लिए
समास-विग्रहः
शब्द: – विग्रहः – भेदः
विद्युत्प्रज्ञया – विद्युत् इव प्रज्ञा, तया – कर्मधारयसमासः
अहोरात्रं – अहश्च रात्रिश्च – द्वन्द्वसमासः
समस्याविषये – समस्यायाः विषये – षष्ठीतत्पुरुषसमासः
मिथ्यादृश्ये – मिथ्या च तत् दृश्यम् तस्मिन् – कर्मधारयसमासः
सोत्साहम् – उत्साहेन सहितम् – अव्ययीभावसमासः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
सोत्साहं – स + उत्साहम् – गुणसन्धिः
भयस्यापि – भयस्य + अपि – दीर्घसन्धिः
चापि – च + अपि – दीर्घसन्धिः
किं भवन्तः – किम् + भवन्तः – अनुस्वारसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
विश्रान्ताः – वि + श्रम् + क्त – कृदन्तः
निर्मितं – निर् + मा + क्त – कृदन्तः
प्राप्तवान् – प्र + आप + क्तवतु – कृदन्तः
मिथ्या – मिथ्य + टाप् – तद्धितः
पर्यायाः
शब्दः – पर्यायः
वदन्ति – भाषन्ते
निर्मितं – रचितम्
धारयन्ति – पोषयन्ति
प्रस्तूयते – प्रदर्शय
विश्रान्ताः – श्रमिताः
चेतनाः – सजीवाः
नाट्यांश: 9
अथर्वः – अस्य निराकरणार्थम् उपायः कः ?
अध्यापकः – अस्माकं कृतकबुद्धि-साक्षरता, नैतिकतापूरितं प्रशिक्षणं, सर्वकारेण नियन्त्रणम्, आत्मनियन्त्रणं चेति विविधाः उपायाः अस्माभिः करणीयाः ।
भास्करः – अहो! ‘कृतकबुद्धिः मित्रं भवेत्, न भवेत् स्वामी’ इति वाक्यं मम मनः स्पृशति ।
वेदः – तथापि यदि कृतकबुद्धिः मनुष्यान् स्वस्ववृत्तेः निष्कासयति तर्हि कः तत्र रक्षणोपायः ?
अध्यापकः – तथाविधः सङ्कटः नापतेत् इति भारतसर्वकारेण स्किल्-इण्डिया, डिजिटल इण्डिया ई- स्किल्-इण्डिया चेत्याद्याः अनेकाः योजनाः सञ्चाल्यन्ते । एताभिः योजनाभिः प्रशिक्षिताः युवानः नवीनवृत्ती: प्राप्तुम् अर्हन्ति । वस्तुतः कृतकबुद्धिः स्वतः कस्यापि वृत्तिं न हरति, अपि तु कृतकबुद्धिप्रशिक्षितः जनः कदाचित् अप्रशिक्षितस्य जनस्य पारम्परिकवृत्तिं हरेत् ।
हिंदी अनुवाद
अथर्व – इसके निवारण (समाधान) के लिए उपाय क्या हैं?
अध्यापक – हमारी कृत्रिम बुद्धि-साक्षरता, नैतिकता से भरा प्रशिक्षण, सरकार द्वारा नियंत्रण और आत्मनियंत्रण इस तरह के विभिन्न उपाय हमें करने चाहिए।
भास्कर – अरे ! ‘कृत्रिम बुद्धि मित्र होनी चाहिए, स्वामी नहीं’ यह वाक्य मेरे मन को छूता है ।
वेद – फिर भी यदि कृत्रिम बुद्धि मनुष्यों को उनके रोजगार (आजीविका) से निकाल देती है, तो वहाँ रक्षा का क्या उपाय है?
अध्यापक – वैसी विपत्ति (संकट) न आए, इसलिए भारत सरकार द्वारा स्किल इंडिया, डिजिटल इंडिया, ई – स्किल इंडिया आदि अनेक योजनाएँ चलाई जा रही हैं। इन योजनाओं से प्रशिक्षित युवा नई आजीविका प्राप्त कर सकते हैं। वास्तव में कृत्रिम बुद्धि स्वयं किसी की आजीविका नहीं छीनती, बल्कि कृत्रिम बुद्धि में प्रशिक्षित व्यक्ति शायद अप्रशिक्षित व्यक्ति के पारंपरिक रोजगार को छीन ले ।
शब्दार्थाः
- शब्दाः – संस्कृतार्थ – हिन्दी-अर्थाः
- निराकरणार्थम् – निवारणाय – समाधान के लिए
- नैतिकतापूरितं – नीतिपूर्णम् – नैतिकता से युक्त
- स्वस्ववृत्तेः – स्वकीयाजीविकायाः – अपने-अपने रोजगार से
- निष्कासयति – बहिष्करोति – बाहर निकालता है
- रक्षणोपायः – रक्षायाः उपायः – बचाव का रास्ता
- नापतेत् – न आगच्छेत् – न आए
- नवीनवृत्तिः – नूतन-आजीविकाः – नए रोजगार/पेशा
- हरेत् – अपहरणं कुर्यात् – हरण कर ले / छीन ले
समास-विग्रहः
शब्द: – विग्रहः – भेदः
कृतकबुद्धि-साक्षरता – कृतकबुद्धेः साक्षरता – षष्ठीतत्पुरुषसमासः
आत्मनियन्त्रणं – आत्मनः नियन्त्रणम् – षष्ठीतत्पुरुषसमासः
रक्षणोपायः – रक्षणस्य उपायः – षष्ठीतत्पुरुषसमासः
भारतसर्वकारेण – भारतस्य सर्वकारेण – षष्ठीतत्पुरुषसमासः
अनेक योजनाः – अनेकाः च ताः योजना: – कर्मधारयसमासः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
चेति – च + इति – गुणसन्धिः
नापतेत् – न + आपतेत् – दीर्घसन्धिः
चेत्याद्या: – च + इति + आद्याः – गुणः यणसन्धिः
कस्यापि – कस्य + अपि – दीर्घसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृति: + प्रत्ययः – भेदः
करणीयाः – कृ + अनीयर् – कृदन्तः
प्रशिक्षितः – प्र + शिक्ष् + क्त – कृदन्तः
प्राप्तुम् – प्र + आप् + तुमुन् – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
करणीयाः – कर्त्तव्याः
प्रशिक्षितः – शिक्षितः
प्राप्तुम् – लब्धुम्
हरेत् – अपहरेत्
वृत्तेः – आजीविकायाः
नाट्यांश: 10
यशिका – गुरुवर! कृतकबुद्धि-द्वारा भविष्ये मानुषजीवनं कीदृशं भविष्यति ?
अध्यापकः यदि विवेकपूर्वकं प्रयुज्यते, तर्हि जीवनम् अधिकं सुगमं, सुरक्षितं श्रेयस्करं च भविष्यति।
श्रेया – कृतकबुद्धिः एव मानवीयबुद्धिं कार्यक्षमतां च द्विगुणितां करिष्यति इति मम मतम् । भारतीय – कृतकबुद्धिप्रभाव- सम्मेलनम्-2026 (India AI Impact Summit- 2026) इत्यत्रापि उक्तमेतम् ।
अध्यापकः – उत्तमं कथनम् ! ‘ कृतकबुद्धिः मानवबुद्धेः सहकरी’ इति वाक्यम् अस्माकं मनसि स्पष्टं स्यात् ।
सर्वे – आम्! वयं जागरूकाः नागरिकाः भवाम, सुरक्षितं जालप्रवेशं करवाम, अपि च डिजिटल – भारतं समृद्धं करवाम ।
हिंदी अनुवाद
यशिका – गुरुवर ! कृत्रिम बुद्धि के द्वारा भविष्य में मानव जीवन कैसा होगा?
अध्यापक – यदि विवेकपूर्वक प्रयोग किया जाए, तो जीवन अधिक सुगम, सुरक्षित और कल्याणकारी (श्रेष्ठ) होगा।
श्रेया – कृत्रिम बुद्धि ही मानवीय बुद्धि और कार्यक्षमता को दोगुना कर देगी, ऐसा मेरा मत है। भारतीय कृत्रिम बुद्धि प्रभाव सम्मेलन – 2026 (India AI Impact Summit – 2026) में भी यही कहा गया है।
अध्यापक – उत्तम कथन ! ‘कृत्रिम बुद्धि मानव बुद्धि की सहायिका है ‘ – यह वाक्य हमारे मन में स्पष्ट होना चाहिए ।
सभी – हाँ! हम जागरूक नागरिक बनें, सुरक्षित इंटरनेट का उपयोग करें और डिजिटल भारत को समृद्ध बनाएँ।
शब्दार्थाः
- शब्दा: – संस्कृतार्थ – हिन्दी-अर्थाः
- कीदृशं – कतिकारम् – कैसा / किस प्रकार का
- सुगमं – सरलम् – आसान / सुलभ
- श्रेयस्करं – कल्याणकारी – कल्याणकारी/ बेहतर
- द्विगुणितां – द्विवारम् – दोगुनी
- सहकरी – सहायिका – साथ देने वाली / सहायक
- समृद्धं – उन्नतम् – खुशहाल / संपन्न
- जालप्रवेशं – अन्तर्जाल-उपयोगम् – इंटरनेट का उपयोग
समास विग्रहः
शब्दः – विग्रहः – भेदः
मानुषजीवनं – मानुषाणां जीवनम् – षष्ठीतत्पुरुषसमासः
कार्यक्षमतां – कार्यस्य क्षमताम् – षष्ठीतत्पुरुषसमासः
मानवबुद्धेः – मानवस्य बुद्धेः – षष्ठीतत्पुरुषसमासः
विवेकपूर्वकं – विवेकेन पूर्वकम् – तृतीयाततत्पुरुषसमासः
जालप्रवेशं – जालस्य प्रवेशम् – षष्ठीतत्पुरुषसमासः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
इत्यत्रापि – इति + अत्र + अपि – यण्ःदीर्घसन्धिः
स्पष्टं स्यात् – स्पष्टम् + स्यात् – अनुस्वारसन्धिः
नागरिका भवामः – नागरिका: + भवामः – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः+प्रत्ययः – भेदः
उक्तम् – वच् + क्त – कृदन्तः
मतम् – मन् + क्त – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
प्रयुज्यते – उपयुज्यते
करिष्यति – विधास्यति
उक्तम् – कथितम्
करवाम – कुर्याम्
मतम् – विचार:
तन्त्रा॒न्शा:/अनुप्रयोगाः
- सिरि – Siri
- जेमिनि – Gemini
- मेटा-कृतकबुद्धिः – Meta AI
- परप्लेक्सिटि-कृतकबुद्धिः – Perplexity Al
- पटु-कारयानम् – Smart Car
- गूगल-सहायकम् – Google Assistant
- सङ्कुचितकृतकबुद्धिः – Narrow AI
- सामान्यकृतकबुद्धिः – General AI
- अत्युत्कृष्टकृतक बुद्धि – Super AI
- यन्त्राधिगमः – Machine Learning
- गहनाधिगमः – Deep Learning
- स्वयम् – SWAYAM
- सर्वेषां कृते कृतकबुद्धिः – AI for All
- पी. एम. ई-विद्या – PM e-Vidya
- मुख्यपरिचयप्रणाली – Facial Recognition system
- दीक्षा – DIKSHA
अत्र इदम् अवधेयम्
पञ्चमी विभक्तिः (अपादानकारकम्)
उपयोगः ‘कस्मात्’ ? इत्यस्य उत्तररूपेण उपयुज्यते। वियोगं, कारणम् अपसरणं च सूचयति।
प्रयोगविधानम्
(क) कारणबोधकः – मूषकः बिडालात् बिभेति ।
(ख) वियोगबोधकः-छात्रः विद्यालयात् आगतः ।
(ग) अपसरणबोधकः- दुर्जनः मूर्खतया धर्मात् भ्रष्टः ।
षष्ठी विभक्तिः (सम्बन्धः)
उपयोग:-‘कस्य’? इत्यस्य उत्तररूपेण प्रयुज्यते । सम्बन्धं, स्वामित्वम्, अंशं विषयं च दर्शयति ।
प्रयोगविधानम्
(क) सम्बन्धबोधकः- मम मित्रम् ।
(ख) स्वामित्वबोधकः-बालकस्य पुस्तकम्।
(ग) अंशबोधकः – शरीरस्य ऊर्ध्वभागे हृदयं मस्तिष्कं च स्तः ।
(घ) विषयबोधकः-फलस्य स्वादः रुचिकरः ।
सप्तमी विभक्तिः (अधिकरणकारकम्)
उपयोगः ‘कस्मिन्’? इत्यस्य उत्तररूपेण प्रयुज्यते । स्थानं, कालम् आधारं च बोधयति।
प्रयोगविधानम्
(क) स्थानबोधकः- विद्यालये पठति ।
(ख) कालबोधकः – प्रभाते सूर्यः उदेति ।
(ग) आधारबोधकः – भूमौ पादपा: रोहन्ति ।