By going through these Class 9 Sanskrit Notes and NCERT Class 9 Sanskrit Sharada Chapter 7 Hindi Translation Summary Explanation Notes उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् students can clarify the meanings of complex texts.
Sanskrit Class 9 Chapter 7 Hindi Translation उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् Summary
कक्षा 9 संस्कृत पाठ 7 हिंदी अनुवाद
Class 9 Sanskrit Chapter 7 Summary Notes उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्
पापबुद्धि और धर्मबुद्धि नामक दो मित्रों ने विदेश जाकर धन कमाया। घर लौटते समय पापबुद्धि ने छल से सारा धन अकेले हड़पने के लिए उसे जंगल में छिपा दिया और बाद में स्वयं चुरा लिया। उसने चोरी का दोष धर्मबुद्धि पर मढ़ा और साक्ष्य के लिए अपने पिता को वृक्ष की खोह (कोटर) में छिपा दिया। चतुर धर्मबुद्धि ने वृक्ष में आग लगा दी, जिससे सच बाहर आ गया। अंततः पापबुद्धि को दंड मिला।

पाठस्य – परिचय:
पुत्र – मातः ! पश्यतु, अद्य अहं मार्गे पतितं धनं प्राप्तवान् । एतेन धनेन बहूनि क्रीडनकानि क्रीणामि।
माता – न हि पुत्र! एतत् अन्यस्य श्रमार्जितं धनमस्ति तस्मै एव प्रत्यर्पणीयम् । अन्यस्य धनं तृणम् इव गणनीयम् ।
पुत्र – मातः ! अन्यस्य धनं तृणम् इव कथं भवति ?
माता – एहि पुत्र! अहं तुभ्यं पञ्चतन्त्रस्य काञ्चन कथां श्रावयामि यया त्वं स्वप्रश्नस्य उत्तरं प्राप्तुं शक्नोषि ।
पुत्र – मातः! तर्हि कृपया सत्वरं श्रावयतु ।
हिंदी अनुवाद
पुत्र – माता ! देखो, आज मुझे रास्ते में गिरा हुआ धन मिला है। इस धन से मैं बहुत सारे खिलौने खरीदूँगा ।
माता – नहीं पुत्र ! यह अन्य द्वारा श्रम से अर्जित धन है अर्थात् किसी और की मेहनत से कमाया हुआ धन है, उसे ही (यह धन) लौटा देना चाहिए। दूसरे के धन को तिनके (घास) के समान समझना चाहिए।
पुत्र – माता ! दूसरे का धन तिनके के समान कैसे होता है ?
माता – आओ पुत्र ! मैं तुम्हें पंचतंत्र की एक ऐसी कथा (कहानी) सुनाती हूँ, जिससे तुम अपने प्रश्न का उत्तर प्राप्त कर सकोगे।
पुत्र – माता! तो फिर कृपया जल्दी सुनाइए ।
शब्दार्था:
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- मार्गे – पथि – रास्ते में
- श्रमार्जितम् – परिश्रमेण प्राप्तम् – मेहनत से कमाया हुआ
- तृणम् – घासम् – तिनका / घास
- श्रावयामि – श्रवणं करोमि – सुनाती हूँ
- प्रत्यर्पणीयम् – प्रति-दातव्यम् – वापस लौटा देना चाहिए
- सत्वरम् – शीघ्रम् – जल्दी / तुरंत
समास विग्रहः
शब्दः – विग्रहः – भेदः
श्रमार्जितम् – श्रमेण अर्जितम् – तृतीया तत्पुरुष समास
पञ्चतन्त्रस्य – पञ्चानां तन्त्राणां समाहारः – द्विगु समास
स्वप्रश्नस्य – स्वस्य प्रश्नस्य – षष्ठी तत्पुरुष समास
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
श्रमार्जितम् – श्रम + अर्जितम् – दीर्घसन्धिः
उत्तरं प्राप्तुम् – उत्तरम् + प्राप्तुम् – अनुस्वारससन्धिः
प्रत्यर्पणीयम् – प्रति + अर्पणीयम् – यणसन्धिः
एतदन्यस्य – एतत् + अन्यस्य – जशत्वसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
प्राप्तवान् – प्र + आप् + क्तवतु – कृदन्तः
गणनीयम् – गण् + अनीयर् – कृदन्तः
प्रत्यर्पणीयम् – प्रति + अ + अनीयर् – कृदन्तः
प्राप्तुम् – प्र + आप् + तुमुन् – कृदन्तः
उपसर्गकार्यम्
उपसर्ग: – शब्दः
प्र – प्राप्तवान्
प्रति – प्रत्यर्पणीयम्
उप – उपायम्
विशेषण – विशेष्यः
विशेषण – विशेष्य
पतितं – धनं
श्रमार्जितं – धनम्
बहूनि – क्रीडनकानि
काञ्चन – कथाम्
विपर्ययाः
शब्दः. – विपर्ययः
उपायम् – अपायम्
उत्तरम् – प्रश्नम्
सत्वरम् – मन्दम् / शनैः

Class 9 Sanskrit Sharada Chapter 7 Hindi Translation
Sanskrit Class 9 Chapter 7 Hindi Anuvad – कक्षा 9 संस्कृत पाठ 7 हिंदी अनुवाद
नाट्यांश: 1
कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः स्म । अथ कदाचित्पापबुद्धिना चिन्तितं यदहं तावान्मूर्खो दरिद्रतया पीडितश्च। अत एनं धर्मबुद्धिं स्वीकृत्य अन्यं देशं गच्छामि, तत्र अस्य आश्रयणेन धनं सम्पादयामि, अनन्तरम् एनमपि वञ्चयित्वा सुखी भवामि इति। अथान्यस्मिन् अहनि धर्मबुद्धिमुपेत्याह
पापबुद्धिः – भो मित्र ! यदा भवान् वृद्धः भवति तदा ‘बाल्ये यौवने वा मया एवं कृतम्’ इति वक्तुं योग्यं किं कार्यं स्मरति ? भवता अन्यः देशः न दृष्टः एव चेत् भवतः शिशून् अन्यदेशसम्बन्धे कां कथां वदिष्यति ? उक्तमेव
हिंदी अनुवाद
किसी देश में धर्मबुद्धि और पापबुद्धि (नाम के) दो मित्र रहते थे। एक बार पापबुद्धि ने सोचा कि मैं तो मूर्ख और गरीबी से पीड़ित हूँ। इसलिए इस धर्मबुद्धि को साथ लेकर दूसरे देश जाता हूँ, वहाँ इसके आश्रय (सहारे) से धन कमाऊँगा और बाद में इसे भी ठग कर (धोखा देकर) सुखी हो जाऊँगा ।
फिर किसी दूसरे दिन वह धर्मबुद्धि के पास जाकर बोला
पापबुद्धि – ‘हे मित्र ! जब तुम वृद्ध हो जाओगे, तब ‘बचपन अथवा यौवन में मैंने यह किया’ ऐसा कहने योग्य आप किस कार्य को याद करेंगे। यदि तुमने दूसरा देश देखा ही नहीं, तो तुम अपने बच्चों को दूसरे देश के संबंध में क्या कहानी सुनाओगे ? जैसा कि कहा गया है
शब्दार्थाः
- शब्दा: – संस्कृतार्थः – हिन्दी-अर्थाः
- प्रतिवसतः स्म – निवसतः स्म – रहते थे
- दरिद्रतया – निर्धनतया – गरीबी के कारण
- सम्पादयामि – आर्जयामि – कमाता हूँ / प्राप्त करता हूँ
- वञ्चयित्वा – छलयित्वा – ठग कर / धोखा देकर
- अहनि – दिवसे – दिन में
- उपेत्य – समीपं गत्वा – पास जाकर
- बाल्ये – बाल्यकाले – बचपन में
समास विग्रहः
शब्द: – विग्रहः – भेदः
धर्मबुद्धिः – धर्मे बुद्धिः यस्य सः – बहुव्रीहि समास
पापबुद्धिः – पापे बुद्धिः यस्य सः – बहुव्रीहि समास
अन्यदेश: – अन्यः च असो देश: – कर्मधारय समास
देशसम्बन्धे – देशस्य सम्बन्धे – षष्ठी तत्पुरुष समास
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
कस्मिंश्चिदेशे – कस्मिन् + चित् + देशे – व्यञ्जनसन्धिः
पापबुद्धिश्च – पापबुद्धिः + च – विसर्ग (सत्व) सन्धिः
यदाहं – यदा + अहम् – दीर्घसन्धिः
तावान्मूर्खो – तावात् + मूर्खो – व्यञ्जनसन्धिः
अथान्यस्मिन् – अथ + अन्यस्मिन् – दीर्घ संधि
धर्मबुद्धिमुपेत्याह – धर्मबुद्धिम् + उपेत्य आह – गुणसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
चिन्तितम् – चिन्त् + क्त – कृदन्तः
स्वीकृत्य – स्व + कृ + ल्यप् – कृदन्तः
वञ्चयित्वा – वञ्च् + क्त्वा – कृदन्तः
वक्तुम् – वच् + तुमुंन् – कृदन्तः
कृतम् – कृ + क्त – कृदन्तः
उक्तम् – वच् + क्त – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्ग:
प्रतिवसतः – प्रति
सुखी – सु
उपेत्य – उप
विशेषण – विशेष्यः
द्वे – मित्रे
अन्यम् – देशम्
अन्यस्मिन् – अहनि
योग्यं – कार्य
विपर्ययाः
शब्दः – विपर्ययः
धर्मबुद्धिः – पापबुद्धिः
मूर्ख – विद्वान् / प्राज्ञः
वृद्धः – युवा / बालकः
आश्रयणेन – अनाश्रयणेन
नाट्यांश: 2
देशान्तरेषु बहुविधभाषावेषादि येन न ज्ञातम् ।
भ्रमता धरणीपीठे तस्य फलं जन्मनो व्यर्थम् ॥
एवमेव
विद्यां वित्तं शिल्पं तावन्नाप्नोति मानवः सम्यक्।
यावद् व्रजति न भूमौ देशाद्देशान्तरं हृष्टः ॥
अतः आवां देशान्तरं गत्वा धनम् अर्जयित्वा आगच्छाव इति । अथ तस्य तद्वचनमाकर्ण्य प्रहृष्टमनाः धर्मबुद्धिः आह— “अस्तु तावत् गुरुजनाज्ञया गच्छावः।” (ततस्तौ गुरुजनानामनुमतिं प्राप्य शुभेऽहनि देशान्तरं प्रस्थितौ । पापबुद्धिः धर्मबुद्धेः प्रभावेण प्रभूतं धनं सम्पादितवान्)
पापबुद्धिः – मित्र! आवाभ्यामिदानीं प्रचुरं धनमुपार्जितम्। अत्रागत्य वर्षाणि व्यतीतानि, सर्वं धनं स्वीकृत्य स्वग्रामं गच्छावः ।
अन्वयः
येन धरणी पीठे भ्रमता देशान्तरेषु बहुविधभाषा वेषादि न ज्ञातम्, तस्य जन्मनः फलं व्यर्थम् (भवति)।
भावार्थ:
अस्य श्लोकस्य भावः अस्ति यत् यदि कश्चित् मनुष्यः पृथिव्यां भ्रमणं कृत्वा अन्यान्यदेशानां विविधाः भाषाः, वेशभूषाः, परंपरा: च न जानाति, तर्हि तस्य जीवनं निष्फलम् अस्ति । वास्तविकं ज्ञानं तु पर्यटनेन अनुभवेन च एव प्राप्यते।
अन्वयः
मानव तावत् विद्यां वित्तं शिल्पं सम्यक् न अप्राप्नोति यावत् हृष्टः भूमौ देशाद् देशान्तरं न प्रजति ।
भावार्थ:
अत्र कविः कथयति यत् मनुष्यः तावत्पर्यन्तं विद्यां धनं, कलाकौशलं च पूर्णरूपेण प्राप्तुं न शक्नोति यावत् सः प्रसन्नचित्तेन देश – विदेशस्य यात्रां न करोति । देशाटनं मनुष्यस्य बुद्धेः विकासं करोति तथा च तस्मै नूतन-अवसरान् ददाति ।
हिंदी अनुवाद
“जिसने दूसरे देशों में अनेक प्रकार की भाषाओं और वेशभूषा आदि को नहीं जाना, इस पृथ्वी तल पर घूमते हुए उस मनुष्य के जन्म का फल व्यर्थ ही है।”
“मनुष्य तब तक विद्या, धन और कौशल (शिल्प) को पूरी तरह से प्राप्त नहीं कर पाता, जब तक वह प्रसन्नतापूर्वक पृथ्वी पर एक देश से दूसरे देश की यात्रा नहीं करता ।”
इसलिए हम दोनों दूसरे देश जाकर धन कमाकर लौटते हैं। तब उसके इन वचनों को सुनकर प्रसन्न मन वाले धर्मबुद्धि ने कहा – “ठीक है, तो गुरुजनों की आज्ञा लेकर चलते हैं।” (इसके बाद उन दोनों ने गुरुजनों की अनुमति प्राप्त की और शुभदिन पर दूसरे देश की ओर प्रस्थान किया। पापबुद्धि ने धर्मबुद्धि के प्रभाव से बहुत सारा धन अर्जित किया ।)
पापबुद्धि – मित्र ! अब हम दोनों ने पर्याप्त धन अर्जित (कमा) कर लिया है। यहाँ आए हुए कई वर्ष बीत गए हैं, अतः सारा धन लेकर अपने गाँव चलते हैं।
शब्दार्थाः
- शब्दा: – संस्कृतार्थ – हिन्दी-अर्थाः
- व्रजति – गच्छति – जाता है
- धरणीपीठे – पृथ्वीतले – पृथ्वी के तल पर
- वित्तम् – धनम् – धन / दौलत
- शिल्पम् – कौशलम् – कला / हुनर
- सम्यक् – उचितरूपेण – अच्छी तरह से
- प्रहृष्टमनाः – प्रसन्नचित्तः – प्रसन्न मन वाला
- प्रभूतम् – प्रचुरम् / अत्यधिकम् – बहुत सारा
- व्यतीतानि – गतानि – बीत गए
समास विग्रहः
शब्दः – विग्रहः – भेदः
गुरुजनाज्ञया – गुरुजनानाम् आज्ञया – षष्ठीतत्पुरुषसमासः
प्रहृष्टमनाः – प्रहृष्टं मनः यस्य सः – बहुव्रीहिसमासः
स्वग्रामम् – स्वस्य ग्रामम् – षष्ठीतत्पुरुषसमासः
प्रभूतधनम् – प्रभूतं च तत् धनम् – कर्मधारयः समासः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
तावन्नाप्नोति – तावत् + न + आप्नोति – दीर्घसन्धिः
तद्वचनम् – तत् + वचनम् – जशत्व
शुभेऽहनि – शुभे + अहनि – पूर्वरूपसन्धिः
जन्मनोव्यथम् – जन्मन: + व्यर्थम् – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
ज्ञातम् – ज्ञा + क्त – कृदन्तः
भ्रमता – भ्रम् + शतृ – कृदन्तः
आकर्ण्य – आ + कर्ण् + ल्यप् – कृदन्तः
अर्जयित्वा – अर्ज् + क्त्वा – कृदन्तः
सम्पादितवान् – सम् + पद् + णिच् + क्तवतु – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्गः
प्रहृष्टमनाः – प्र
सम्पादितवान् – सम्
आगच्छाव – आ
प्रस्थितौ – प्र
आमत्य – आ
विशेषण – विशेष्यः
व्यतातानि – वर्षाणि
प्रभूतम् / प्रचुरं – धनम्
हृष्ट: – मानवः
सर्वम् – धनम्
प्रहृष्टमनाः – धर्मबुद्धिः
विपर्ययाः
शब्दाः – विपर्ययः
ज्ञातम् – अज्ञातम्
शुभः – अशुभः
व्यर्थम् – सार्थकम्
आगत्य – गत्वा
आप्नोति – त्यजति

नाट्यांश: 3
धर्मबुद्धिः – अथ किम् । तथैवास्तु।
(यदा तौ स्वनगरसमीपमागतवन्तौ तदा)
पापबुद्धिः – भद्र! एतत् सर्वं धनं गृहं प्रति नेतुं न उचितम्। अतः एतद् धनमत्रैव गहनारण्ये कुत्रापि भूमौ निक्षिप्य किञ्चिन्मात्रमादाय गृहं प्रविशावः ।
धर्मबुद्धिः – सत्यमेवाभिहितं भवता, तथैव कुर्वः । यथा द्वाभ्यां चिन्तितं तथैव भूमिं खनित्वा तत्रैव धनं निक्षिप्य स्वगृहं गतवन्तौ। अन्यस्मिन्नहनि पापबुद्धिः निशीथे अटव्यां गत्वा तत्सर्वं वित्तं समादाय गर्तं पूरयित्वा स्वभवनं गतवान्।
हिंदी अनुवाद
धर्मबुद्धि – हाँ क्यों नहीं। वैसा ही हो ।
(जब वे दोनों अपने नगर के समीप पहुँच गए तब)
पापबुद्धि – हे भद्र (मित्र) ! इस सारे धन को घर ले जाना उचित नहीं है। इसलिए इस धन को यहीं इसी सघन वन में कहीं भूमि में गाड़कर (छिपाकर), थोड़ा-सा धन लेकर घर में प्रवेश करते हैं।
धर्मबुद्धि – तुम्हारे द्वारा सत्य ही कहा गया है, वैसा ही करते हैं। जैसा दोनों ने सोचा था, वैसा ही भूमि को खोदकर वहीं धन गाड़कर (वे दोनों) अपने घर चले गए। दूसरे दिन पापबुद्धि ने आधी रात को वन में जाकर वह सारा धन निकाल लिया और गड्ढे को भरकर अपने घर चला गया।
शब्दार्थाः
- शब्दा: – संस्कृतार्थ – हिन्दी-अर्थाः
- गहनारण्ये – विरलविपिने – घने जंगल में
- निक्षिप्य – स्थापयित्वा – रखकर / गाड़कर
- अभिहितं – कथितम् – कहा गया
- खनित्वा – अवदारणम् कृत्वा – खोदकर
- निशीथे – अर्धरात्रौ – आधी रात में
- अटव्यां – वने – जंगल / कानन में
- वित्तं – धनम् – धन/दौलत
समास विग्रहः
शब्दः – विग्रहः – भेदः
स्वनगरसमीपम् – स्वस्य नगरस्य समीपम् – षष्ठी तत्पुरुष
गहनारण्ये – गहने अरण्ये – कर्मधारय
पापबुद्धिः – पापबुद्धिः यस्य सः – बहुव्रीहि
धर्मबुद्धिः – धर्म बुद्धिः यस्य सः – बहुव्रीहि
स्वभवनम् – स्वस्य भवनम् – षष्ठी तत्पुरुष
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः – रुत्वसन्धिः
पापबुद्धिर्निशीथे – पाबुद्धिः + निशीथे – वृद्धिसन्धिः च
तथैवास्तु – तथा + एव + अस्तु
अत्रैव – अत्र + एव – वृद्धिदीर्घसन्धिः
एत एतद् – अतः + एतत् – जशत्वसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
आगतवन्तौ – आ + गम् + क्तवतु – कृदन्तः
नेतुम् – नी + तुमुन् – कृदन्तः
निक्षिप्य – नि + क्षिप् + ल्यप् – कृदन्तः
आदाय – आ + दा + ल्यप् – कृदन्तः
खनित्वा – खन्ं + क्त्वा – कृदन्तः
गतवान् – गम् + क्तवतु – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्गः
आगतवन्तौ – आ
प्रविशावः – प्र
निक्षिप्य – नि
अभिहितं – अभि
समादाय – सम् + आ
विशेषण – विशेष्यः
एतत् / सर्वं – धनम्
तत् / सर्वं – वित्तं
गहन – अरण्ये
अन्यस्मिन् – अहनि
विपर्ययाः
शब्दः – विपर्ययः
उचितम् – अनुचितम्
पापबुद्धिः – धर्मबुद्धिः
सत्यम् – असत्यम् / मिथ्या
प्रविशावः – निर्गच्छावः
निशीथे – दिवा / दिवसे

नाट्यांश: 4
(अथ कतिचिद्दिनानन्तरम्)
पापबुद्धिः – सखे! मम कुटुम्बे बहवः जनाः सन्ति, धनाभावात् कष्टम् अनुभवामि। अतः तत्र गत्वा किञ्चिन्मात्रं धनमानयावः।
धर्मबुद्धिः – अस्तु मित्र ! गच्छावः ।
(अथ द्वावपि गत्वा तत्स्थानं यावत् खनतः तावद्रिक्तं भाण्डं दृष्टवन्तौ। अत्रान्तरे पापबुद्धिः शिरस्ताडयन् उक्तवान्)
पापबुद्धिः – भोः धर्मबुद्धे ! त्वयैवापहृतम् एतद्धनं, नान्येनं। तत्प्रयच्छ मे तदर्धम्। अन्यथा अहं राजकुले निवेदयिष्यामि।
धर्मबुद्धिः – भोः दुरात्मन्! मा मैवं वद । धर्मबुद्धिः खल्वहम्। नैतत् चौरकर्म करोमि ।
मातृवत्परदारेषु परद्रव्येषु लोष्ठवत्।
आत्मवत्सर्वभूतेषु वीक्षन्ते धर्मबुद्धयः ॥
अन्वयः
ये (मानवाः) परदारेषु मातृवत्, परद्रव्येषु लोष्ठवत्, सर्वभूतेषु च आत्मवत् वीक्षन्ते, ते एव ‘धर्मबुद्धयः ‘ भवन्ति ।
भावार्थ: – यः पुरुषः परस्त्री मातेव मन्यते, परधनं लोष्ठवत् तुच्छं मन्यते तथा च सर्वप्राणनिः आत्मवत् पश्यति स एव धार्मिकबुद्धिमान् जनः कथ्यते ।
हिंदी अनुवाद
(कुछ दिनों के बाद)
पापबुद्धि – मित्र ! मेरे परिवार में बहुत-से लोग हैं, धन के अभाव के कारण मैं कष्ट अनुभव कर रहा हूँ। इसलिए वहाँ चलकर थोड़ा-सा धन ले आते हैं।
धर्मबुद्धि – ठीक है मित्र ! चलते हैं।
(इसके बाद दोनों ने जाकर उस स्थान को जैसे ही खोदा, वैसे ही बर्तन को खाली देखा। इसी बीच पापबुद्धि ने सिर पीटते हुए कहा)
पापबुद्धि – अरे धर्मबुद्धि ! यह धन तुम्हारे द्वारा ही चुराया गया है, किसी और के द्वारा नहीं। इसलिए मुझे उसका आधा हिस्सा दो, अन्यथा मैं राजदरबार में शिकायत करूँगा ।
धर्मबुद्धि – अरे दुष्ट ! ऐसा मत बोलो। मैं तो धर्मबुद्धि हूँ। मैं यह चोरी का काम नहीं करता ।
“जो दूसरों की स्त्रियों को माता के समान, दूसरों के धन को मिट्टी के ढेले (पत्थर) के समान और सभी प्राणियों को अपने समान देखते हैं, वही वास्तव में ‘धर्मबुद्धि’ (सच्चे धर्मात्मा) होते हैं।”
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- धनाभावात् – धनस्य न्यूनतायाः – धन की कमी से
- रिक्तं – शून्यम् – खाली
- भाण्डं – पात्रम् – बर्तन
- शिरस्ताडयन् – मस्तकं पीटयन् – सिर पीटते हुए
- अपहृतम् – चोरितम् – चुराया गया
- लोष्ठवत् – मृत्तिकाखण्डवत् – मिट्टी के ढेले के समान
- वीक्षन्ते – पश्यन्ति – देखते हैं
समास विग्रहः
शब्द: – विग्रहः – भेदः
धनाभावात् – धनस्य अभावात् – षष्ठी तत्पुरुष
राजकुले – राज्ञः कुले – षष्ठी तत्पुरुष
चौरेकर्म – चौरस्य कर्म – षष्ठी तत्पुरुष
परदारेषु – परेषां दारेषु – षष्ठी तत्पुरुष
परद्रव्येषु – परेषां द्रव्येषु – षष्ठी तत्पुरुष
धर्मबुद्धयः – धर्मा बुद्धिः येषां ते – बहुव्रीहि
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
द्वावपि – द्वौ + अपि – अयादिसन्धिः
त्वयैवापहृतम् – त्वया + एव + अपहृतम् – वृद्धि एवं दीर्घसन्धिः
खल्वहम् – खलु + अहम् – यण्सन्धिः
मैवं – मा + एवम् – वृद्धिसन्धिः
नान्येन – न + अन्येन – दीर्घसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
गत्वा – गम् + क्त्वा – कृदन्तः
आगत – आ + गम् + क्त – कृदन्तः
दृष्टवन्तौ – दृश् + क्तवतु – कृदन्तः
ताडयन् – ताड् + शतृ – कृदन्तः
उक्तवान् – वच् + क्तवतु – कृदन्तः
अपहृतम् – अप + ह् + क्त – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्गः
अनुभवामि – अनु
अपहृतम् – अप
निवेदयिष्यामि – नि
वीक्षन्ते – वि
विशेषण – विशेष्यः
बहवः – जना:
एतत् – धनं
रिक्तं – भाण्डं
विपर्ययाः
शब्दः – विपर्ययः
बहवः – अल्पाः / स्वल्पाः
दुरात्मन् – महात्मा / पुण्यात्मन्
रिक्तं – पूर्णम्

नाट्यांश: 5
(एवं द्वावपि विवदमानौ धर्माधिकारिणं निकषा गतौ)
धर्माधिकारी – ननु न कोऽपि साक्षी युवाभ्यामन्यतरस्य चौरकर्मणः । अतः यत्र मानुषप्रमाणम् अनुपलब्धं तत्र वनदेवता एव न्यायनिर्णयं करिष्यति। अतः प्रातःकाले युवामस्माभिः सह तत्र वनप्रदेशं गच्छतम् । तत्रैव निर्णयः भविष्यति । (अत्रान्तरे पापबुद्धिः गृहं गत्वा स्वजनकं प्रबोधितवान्) पापबुद्धिः तात! मया धर्मबुद्धेः प्रभूतः अर्थः चोरितः । भवान् यदि मदुक्तप्रकारेण वदति तर्हि तद्धनं मयि स्थिरं तिष्ठति, अन्यथास्माकं प्राणैः सह यास्यति ।
हिंदी अनुवाद – (इस प्रकार वे दोनों विवाद करते हुए न्यायाधीश के पास गए।) धर्माधिकारी (न्यायाधीश) निश्चय ही, तुम दोनों में से किसी एक के द्वारा किए गए इस चोरी के कार्य का कोई साक्षी (गवाह) नहीं है। इसलिए, जहाँ मानवीय प्रमाण उपलब्ध नहीं है, वहाँ वनदेवता ही न्याय का निर्णय करेंगे। अतः प्रातःकाल तुम दोनों हमारे साथ उस वन प्रदेश में चलो। वहीं निर्णय होगा।
(इसी बीच पापबुद्धि घर जाकर अपने पिता को समझाता है अर्थात् उकसाता है) ।
पापबुद्धि – पिताजी! मेरे द्वारा धर्मबुद्धि का बहुत सारा धन चुराया गया है। यदि आप मेरे कहे अनुसार बोलते हैं, तो वह
शब्दार्थाः
- शब्दा: – संस्कृतार्थ – हिन्दी-अर्थाः
- विवदमानौ – कलहं कुर्वन्तौ – विवाद करते हुए
- निकषा – समीपम् – निकट / पास
- साक्षी – साक्ष्यदाता – गवाह
- अनुपलब्धं – न प्राप्तम् – प्राप्त न होना
- तात – जनक / पिता – पिताजी
- प्रभूतः – प्रचुरः / अत्यधिकः – बहुत सारा
- मदुक्तप्रकारेण – मम कथनानुसारम् – मेरे कहे अनुसार
समास विग्रहः
शब्द: – विग्रहः – भेदः
धर्माधिकारी – धर्मस्य अधिकारी – षष्ठीतत्पुरुषः
चौरकर्मणः – चौरस्य कर्मणः – षष्ठीतत्पुरुषः
मानुषप्रमाणम् – मानुषाणां प्रमाणम् – षष्ठीतत्पुरुषः
वनदेवता – वनस्य देवता – षष्ठीतत्पुरुषः
वनप्रदेशम् – वनस्य प्रदेशम् – षष्ठीतत्पुरुषः
मदुक्तप्रकारेण – मया उक्तः प्रकारः, तेन – तृतीयतत्पुरुषः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
कोऽपि – कः + अपि – विसर्ग (उत्व) सन्धिः
तत्रैव – तत्र + एव – वृद्धिसन्धिः
अन्यथास्माकं – अन्यथा + अस्माकं – दीर्घसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
विवदमानौ – वि + वद् + शानच् – कृदन्तः
गतौ – गम् + क्त – कृदन्तः
प्रबोधितवान् – प्र + बुध् + णिच् + क्तवतु – कृदन्तः
चोरितः – चुर् + क्त – कृदन्तः
स्थितं – स्था + क्त – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्गः
विवदमानौ – वि
अनुपलब्धं – अनु + उप
प्रबोधितवान् – प्र
प्रकार – प्र
विशेषण – विशेष्यः
प्रभूतः – अर्थः
तत् – धनम्
विपर्ययाः
शब्दः – विपर्ययः
प्रातःकाले – सायङ्काले – स्थिरं – अस्थिरं / चञ्चलम्
अनुपलब्धं – उपलब्धम् – गच्छतम् – आगच्छतम्

नाट्यांश: 6
पिता – वत्स! द्रुतं वद, अहं किं करवाणि येन तद्द्द्रव्यं स्थिरं तिष्ठेत्।
पापबुद्धिः – तात! अस्ति वनप्रदेशे महाशमी नाम वृक्षः। तस्मिन् महाकोटरम् अस्ति। तत्र भवान्साम्प्रतमेव प्रविशतु । ततः प्रभाते यदाहं सत्यश्रावणाय निवेदयामि, तदा भवता वक्तव्यं यद् धर्मबुद्धिः चौर इति । (तथा कृते, प्रातःकाले स्नात्वा पापबुद्धिः धर्मबुद्धिना धर्माधिकारिणा च सह न्यायार्थं बनदेवतायाः समीपमुपागतः । अन्येऽपि सामाजिकाः तद्द्रष्टुमागताः)
पापबुद्धिः – आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च।
अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम्॥
भगवति वनदेवते! आवयोर्मध्ये यः चौरः त्वं कथय ।
पिता शमीकोटरस्थः – भोः ! शृणुत, शृणुत । धर्मबुद्धिना हृतम् एतद्धनम्।
(तद् आकर्ण्य ते सर्वे जनाः विस्मयेन उत्फुल्ललोचनाः सञ्जाताः)
सर्वे जनाः – धनापहरणदोषहेतोः शास्त्रविहितप्रकारेण धर्मबुद्धये दण्डः दातव्यः।
अन्वयः
आदित्य-चन्द्रौ, अनिलः, अनल:, द्यौः, भूमि:, आप:, हृदयम्, यमः, अहः, रात्रि:, उभे संध्ये च (एते सर्वे) नरस्य वृत्तम् (आचरणं) जानन्ति।
भावार्थ:
आदित्यः, चन्द्रमा, वायुः अग्निः आकाशः, भूमिः, जलम्, हृदयम्, यमः दिनं, रात्रिः तथा संध्याकाल द्वयम् – एते सर्वे अपि मनुष्यस्य व्यवहारं, आचरणं च सम्यक् जानन्ति, धर्मः एव मनुष्यस्य वृत्तं निश्चितं करोति ।
हिंदी अनुवाद
पिता – पुत्र ! जल्दी बताओ, मैं क्या करूँ जिससे वह धन (हमारे पास) स्थिर रहे?
पापबुद्धि – पिताजी! वन प्रदेश में ‘महाशमी’ नाम का एक वृक्ष है। उसमें एक बहुत बड़ा खोखला (छिद्र) है। आप अभी उसमें प्रवेश कर जाएँ। फिर सुबह जब मैं सत्य सुनने के लिए निवेदन करूँगा, तब आपके द्वारा यह कहना चाहिए कि धर्मबुद्धि चोर है।
(वैसा ही करने पर, प्रात:काल स्नान करके पापबुद्धि, धर्मबुद्धि और न्यायाधीश के साथ न्याय के लिए वनदेवता के समीप आया। अन्य सामाजिक (नगरवासी) लोग भी उसे देखने आए।)
पापबुद्धि – “सूर्य, चंद्रमा, वायु, अग्नि, आकाश, पृथ्वी, जल, हृदय, यमराज, दिन, रात और दोनों संध्याएँ — ये सभी मनुष्य के आचरण (कर्मों) को जानते हैं।”
हे भगवती वनदेवता! हम दोनों के बीच में अर्थात् हम दोनों में से जो चोर हो, उसे आप बताओ।
शमी के कोटर – अरे! सुनो, सुनो। धर्मबुद्धि के द्वारा यह धन में स्थित पिता चुराया गया है।
(यह सुनकर वे सभी लोग आश्चर्य से खुली आँखों वाले (आश्चर्यचकित ) हो गए । )
सभी लोग – धन चुराने के दोष के कारण शास्त्र में बताए गए तरीके से धर्मबुद्धि को दंड देना चाहिए।
शब्दार्थाः-
- शब्दा: – संस्कृतार्थ – हिन्दी-अर्थाः
- द्यौः – आकाश: – आकाश
- द्रुतं – शीघ्रम् – जल्दी / शीघ्र
- महाकोटरम् – विशालं छिद्रम् – बड़ा खोखला (वृक्ष का छिद्र)
- साम्प्रतमेव – इदानीमेव – अभी इसी समय
- सत्यश्रावणाय – सत्यं श्रोतुम् – सत्य सुनाने / सुनने के लिए
- वक्तव्यं – कथनीयम् – कहना चाहिए
- आकर्ण्य – श्रुत्वा – सुनकर
- उत्फुल्ललोचनाः – विकसितनेत्राः – आश्चर्य से खुली आँखों वाले
समास-विग्रहः
शब्दः – विग्रहः – भेदः
वनप्रदेशे – वनस्य प्रदेशे – षष्ठीतत्पुरुषः
महाशमी – महती च असौ शमी – कर्मधारयः
महाकोटरम् – महत् च तत् कोटरम् – कर्मधारयः
शमीकोटरस्थः – शमीकोटरे स्थितः – सप्तमीतत्पुरुषः
धनापहरणदोषहेतोः – धनस्य अपहरणस्य दोषः, तस्य हेतोः – षष्ठीतत्पुरुषः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
अनिलोऽनलश्च – अनिलः + अनलः + च – विसर्गः श्चुत्वसन्धिः च
अन्येऽपि – अन्ये + अपि – पूर्वरूपसन्धिः
यमश्च – यमः + च – विसर्गसन्धिः
जना विस्मयेन – जना: + विस्मयेन – विसर्गलोपः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
स्नात्वा – स्ना + क्त्वा – कृदन्तः
वक्तव्यं – वच् + तव्यत् – कृदन्तः
आकर्ण्य – आ + कर्ण् + ल्यप् – कृदन्तः
सज्जाताः – सम् + जन् + क्त – कृदन्तः
दातव्यः – दा + तव्यत् – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्गः
प्रविशतु – प्र
उपागतः – उप + आ
निवेदयामि – नि
अपहरण – अप
विशेषण – विशेष्यः
तद् – द्रव्यम्
सर्वे – जनाः
उत्फुल्ललोचनाः – जनाः
विपर्ययाः
शब्दः – विपर्ययः
द्रुतं – शनै:
सत्यम् – असत्यम्
स्थिरं – अस्थिरं / चञ्चलं
प्रातःकाले – सायङ्काले
नाट्यांश: 7
धर्मबुद्धिः – इदं मिथ्याभाषितमस्ति । नाहं चोरितवान्। अहम् एतत् शमीकोटरं वह्निभोज्यद्रव्यैः परिवेष्ट्य वह्निना प्रज्वालयामि (तथा करोति) (अथ ज्वलति तस्मिन् शमीकोटरे अर्धदग्धशरीरः स्फुटितेक्षणः करुणं विलपन् पापबुद्धिपिता बहिरागतः) ततश्च
जनाः – (साश्चर्यम्) भौः! किमिदम् ? किमिदम् ?
पिता पापबुद्धेः – एतत् सर्वमपि पापबुद्धेः चेष्टितम्। (इत्युक्त्वा मृतः)
धर्माधिकारी – एष पापबुद्धिः दण्डनीयः
(राजपुरुषाः नियमानुसारं पापबुद्धिं दण्डितवन्तः धर्मबुद्धिं प्रशंसितवन्तः च)
सर्वे जनाः – भो धर्मबुद्धे ! त्वया सम्यक् कृतम्। पापबुद्धेः व्यर्थपाण्डित्यात् पिता वह्निना घातितः। अतः साधूक्तम्-
उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्।
अन्वयः
प्राज्ञः (बुद्धिमान्) उपायं चिन्तयेत तथा च अपायं (हानिं) अपि चिन्तयेत् ।
भावार्थ:
अस्य श्लोकस्य अर्थः अस्ति यत् कस्यापि कार्यस्य सिद्धये केवलं योजना (उपायः) पर्याप्तं नास्ति । बुद्धिमान् मनुष्यः कार्यस्य दुष्परिणामान् अपि पूर्वमेव विचारयेत् अन्यथा सः पापबुद्धिः इव कष्टं प्राप्नोति ।
हिंदी अनुवाद
धर्मबुद्धि यह झूठ बोला गया है। मैंने चोरी नहीं की है। मैं इस शमी वृक्ष के छिद्र को आग से जलाए जाने योग्य वस्तुओं से ढककर आग जलाता हूँ। (वैसा ही करता है) (तब जलते हुए उस शमी वृक्ष के छिद्र से आधे जले शरीर वाला, फटी आँखों वाला और करुण विलाप करता हुआ पापबुद्धि का पिता बाहर आया ।)
लोग – तत्पश्चात्
(आश्चर्य के साथ) अरे! यह क्या है ? यह क्या है?
पापबुद्धि – यह सब पापबुद्धि की ही करतूत है।
के पिता – (ऐसा कहकर वह मर गया ।)
न्यायाधीश – यह पापबुद्धि दंड देने योग्य है
(राजपुरुषों ने नियमानुसार पापबुद्धि को दंडित किया और धर्मबुद्धि की प्रशंसा की ।)
सभी लोग – हे धर्मबुद्धि ! तुमने बहुत अच्छा किया। पापबुद्धि की व्यर्थ की चतुराई (दुष्टता) के कारण उसका पिता आग में मारा गया। अतः ठीक ही कहा गया है बुद्धिमान व्यक्ति को उपाय सोचना चाहिए, साथ ही उसे आने वाली समस्या (अपाय) के बारे में भी सोचना चाहिए।
शब्दार्थाः
- शब्दाः – संस्कृतार्थः – हिन्दी-अर्थाः
- स्फुटितेक्षण: – स्फुटिते इक्षणे यस्य सः – नष्ट हुई आँखे वाला
- परिवेष्ट्य – आवृत्य – घेरकर
- वह्रिना – अग्निद्वारा – आग के द्वारा
- प्रज्वालयामि – अग्निं ज्वालयति – अग्नि को जलाता हूँ।
समास विग्रहः
शब्दः – विग्रहः – भेदः
शमीकोटरम् – शम्याः कोटरम् – षष्ठी तत्पुरुषः
अर्धदग्धशरीरः – अर्धं दग्धं शरीरं यस्य सः – बहुव्रीहिः
राजपुरुषाः – राज्ञः पुरुषाः – षष्ठीतत्पुरुष
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
साधूक्तम् – साधु +उक्तम् – दीर्घसन्धिः
नाहं – न + अहं – दीर्घसन्धिः
बहिरागतः – बहिः + आगतः – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
परिवेष्ट्य – परि + वेष्ट् + ल्यप् – कृदन्तः
दण्डनीयः – दण्ड् + अनीयर् – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्गः
प्रविशावः – प्र
समादाय – सम् + आ
अभिहितम् – अभि
प्रज्वालयामि – प्र
विशेषण – विशेष्यः
एतत् – शमीकोटरम्
व्यर्थ – पाण्डित्यात्
विपर्ययाः
शब्दः – विपर्ययः
सत्यम् – मिथ्या / असत्यम्
उपायम् – अपायम्

अत्र इदम् अवधेयम्
नित्यबहुवचनान्तशब्दाः
संस्कृतभाषायाम् अनेकेशब्दाः नित्यबहुवचनान्ताः भवन्ति । यथा-
- आपः – (Water),
- दाराः – (Wife).,
- लाजा: – (Puffed Rice),
- अक्षतानि – (Rice-grains),
- गृहा: – (Wife / House),
- प्राणा: – (Life – force),
- असवः – (Life-force),
- वर्षाः – (Rain), समा:) (Rain),
- सिकता: – (Sand),
- कति – (How many),
- यति – (As many),
- तति – (So many),
त्रि – आरभ्य संख्या: (यथा त्रयः/तिस्त्र:/त्रीणि, चत्वार: चतस्त्र:/ चत्वारि, पञ्च, षट् इत्यादयः)।
अत एव आदित्यचन्द्रावनिल” इति पाठगते श्लोके अनिलः, अनलः, द्यौः, भूमिः इति शब्दा: एकवचने विद्यन्ते, परन्तु आपः इति शब्दः बहुवचने ।
विशेषणानि विशेष्याणि च
प्रहृष्टमनाः पापबुद्धिः – अत्र पापबुद्धिः विशेष्यपदम् प्रहृष्टमनाः विशेषणं च भवति। विशेषण-विशेष्याणां मध्ये लिङ्ग – विभक्ति – वचनसम्बन्धोऽस्ति । यथा-
नूतनं भवनम् – नूतनः विद्यालय: (लिङ्ग सम्बन्धः)
चतुरः बालः – चतुराः बालाः – (वचन सम्बन्धः)
बुद्धिमती गृहिणी – बुद्धिमत्या गृहिण्या (विभक्ति सम्बन्धः)
सर्वनामशब्दाः अपि विशेषणानि भवन्ति ।
यथा- पाठे – एतेन धनेन, एनं धर्मबुद्धिम्, य: चौर:, तस्मिन् वृक्षे, का कथाम्, एतत् चौरकर्म ।
एतेषाम् अपि विशेष्यपदेन सह लिङ्ग – विभक्ति – वचन सम्बन्धः अस्ति ।
यथा—
एषः पिता – एषा माता – एतत् मित्रम्
कः समर्थः ? – का चतुरा ? – किम् उत्तमम् ?