By going through these Class 9 Sanskrit Notes and NCERT Class 9 Sanskrit Sharada Chapter 4 Hindi Translation Summary Explanation Notes न खलु वयस्तेजसो हेतुः students can clarify the meanings of complex texts.
Sanskrit Class 9 Chapter 4 Hindi Translation न खलु वयस्तेजसो हेतुः Summary
कक्षा 9 संस्कृत पाठ 4 हिंदी अनुवाद
Class 9 Sanskrit Chapter 4 Summary Notes न खलु वयस्तेजसो हेतुः
हमने इस देश की स्वतन्त्रता के लिए अमृत महोत्सव मनाया है। अनेक क्रान्तिवीरों ने तथा उनके परिवार जनों ने अपने प्राणों की आहूति स्वतन्त्रता के लिए दी है। उन देशभक्तों में खुदीराम बोस एक तेजस्वी बाल-क्रान्तिकारी हैं। बचपन में माता-पिता का देहावसान हो गया तथा वहन अपरूपादेवी ने खुदीराम का पालन पोषण किया। वे स्वभाव से करुणामय था।

पाठस्य – परिचय
भारतदेशस्य स्वतन्त्रतायाः अमृतमहोत्सववर्षं वयम् आचरितवन्तः । किं वयं जानीमः यत् देशाय स्वातन्त्र्यं प्रदातुं कियन्तः ज्ञाताः अज्ञाताः च क्रान्तिवीराः स्वतन्त्रतायज्ञे स्वीयपरिवारं स्वीयजीवनं च आहुतिरूपेण समर्पितवन्तः इति ? छात्राः ! ते सर्वेऽपि क्रान्तिवीराः अस्माभिः कृतज्ञताभावनया नित्यं वन्दनीयाः । खुदीरामः तेषु एव देशभक्तेषु कश्चन तेजस्वी बालक्रान्तिवीर : हुतात्मा अस्ति । क्रान्तिवीरस्य खुदीरामस्य जीवनवृत्तान्तः संक्षेपेण अत्र वर्णितः अस्ति ।
हिंदी अनुवाद
हमने भारत देश की स्वतंत्रता का अमृत महोत्सव वर्ष मनाया है। क्या हम. जानते हैं कि देश को स्वतंत्रता दिलाने के लिए कितने ज्ञात और अज्ञात क्रांतिवीरों ने स्वतंत्रता के यज्ञ में अपने परिवार और अपने जीवन को आहुति के रूप में समर्पित कर दिया ? छात्रों! वे सभी क्रांतिवीर हमारे द्वारा कृतज्ञता की भावना से नित्य वंदनीय हैं। खुदीराम (बोस) उन देशभक्तों में ही एक तेजस्वी बाल-क्रांतिवीर हुतात्मा (शहीद) हैं। क्रांतिवीर खुदीराम का जीवन-वृत्तांत संक्षेप में यहाँ वर्णित है।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी – अर्थाः
- आचरितवन्तः – सम्पादितवन्तः / कृतवन्तः – आचरण किया / मनाया
- कियन्तः – कति – कितने
- समर्पणरूपेण – अर्पितवन्तः – समर्पित किया
- जीवनवृत्तान्तः – जीवनचरित्रम् – जीवन की कहानी
- प्रदातुम् – दातुम् – देने के लिए
- आहुतिरूपेण – समर्पितवन्तः – आहुति के रूप में
- हुतात्मा – शहीद / बलिदानी – शहीद
- वर्णितः – कथितः – बताया गया है / वर्णन है
समास विग्रहः
शब्दः – विग्रहः – भेदः
भारतदेशस्य – भारतः चासौ देश: (तस्य) – कर्मधारयसमासः
अमृतमहोत्सववर्षम् – अमृतम् इव महोत्सवः (तस्य वर्षम्) – कर्मधारय तत्पुरुषः
स्वतन्त्रतायज्ञे – स्वतन्त्रतायाः यज्ञः (तस्मिन्) – षष्ठीतत्पुरुषसमासः
कृतज्ञताभावनया – कृतज्ञतायाः भावना (तया) – षष्ठीतत्पुरुषसमासः
बालक्रान्तिवीरः – बालः च असौ क्रान्तिवीरः – कर्मधारयसमासः
जीवनवृत्तान्तः – जीवनस्य वृत्तान्तः – षष्ठीतत्पुरुषसमासः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
सर्वेऽपि – सर्वे + अपि – पूर्वरूपसन्धिः
कश्चन – कः + चन – विसर्गसन्धिः (सत्व)
अत्रास्ति – अत्र + अस्ति – दीर्घसन्धिः
हुतात्मास्ति – हुतात्मा + अस्ति – दीर्घसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
आचरितवन्तः – आ + र् + क्तवतु – कृदन्तः
प्रदातुम् – प्र + दा + तुमुन् – कृदन्तः
ज्ञाताः – ज्ञा + क्त – कृदन्तः
समर्पितवन्तः – सम् + अ (ऋ) + क्तवतु – कृदन्तः
वन्दनीयाः – वन्द् + अनीयर् – कृदन्तः
वर्णितः – वर्ण् + क्त – कृदन्तः
पर्यायाः
शब्दः – पर्यायः – शब्दः
नित्यम् – सततम्, अजस्त्रम्
देश: – राष्ट्रम्
हुतात्माः – बलिदानिनः शहीदः
छात्राः – शिष्याः, विद्यार्थिनः
तेजस्वी: – ओजस्वी, दीप्तिमान्

Class 9 Sanskrit Sharada Chapter 4 Hindi Translation
Sanskrit Class 9 Chapter 1 Hindi Anuvad – कक्षा 9 संस्कृत पाठ 4 हिंदी अनुवाद
गद्यांश: 1
भारतस्य स्वतन्त्रतासङ्ग्रामे सशस्त्रान्दोलने बङ्गप्रान्तः अग्रेसरः आसीत्। तस्मिन् बङ्गप्रान्ते मेदिनीपुरनामके जनपदे मोहोबनी – ग्रामे नवाशीत्यधिक-अष्टादशशततमे वर्षे (1889) दिसम्बरमासस्य तृतीये दिनाङ्के खुदीरामस्य जन्म अभवत् । तस्य जनकस्य नाम त्रैलोक्यनाथः इति, जनन्याः नाम लक्ष्मीप्रिया देवी च आसीत् । खुदीरामस्य बाल्यकाले एव तस्य पितरौ दिवङ्गतौ। अतः तस्य अग्रजया अपरूपादेव्या एव खुदीरामस्य पालनं पोषणं च कृतम् । बाल्यकालतः एव खुदीरामः असाधारणः आसीत् । साधारणबालानाम्इ व क्रीडादिषु तस्य मनः न रमते स्म । सः देशवासिषु जायमानान् अत्याचारान् दृष्ट्वा व्यथितः भवति स्म ।
हिंदी अनुवाद
भारत के स्वतंत्रता संग्राम में सशस्त्र आंदोलन में बंगाल प्रांत अग्रणी था । उसी बंगाल प्रांत के मेदिनीपुर नामक जिले के मोहोबनी गाँव में अठारह सौ नवासी (1889) में, दिसंबर महीने की तीसरी तारीख को खुदीराम का जन्म हुआ। उनके पिता का नाम त्रैलोक्यनाथ और माता का नाम लक्ष्मीप्रिया देवी था। खुदीराम के बचपन में ही उनके माता-पिता स्वर्ग सिधार गए। अत: उनकी बड़ी बहन अपरूपादेवी ने ही खुदीराम का पालन और पोषण किया। बचपन से ही खुदीराम असाधारण थे। साधारण बच्चों की तरह खेल आदि में उनका मन नहीं लगता था। वह देशवासियों पर हो रहे अत्याचारों को देखकर व्यथित (दुःखी) होते थे।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- अग्रेसर: – अग्रणी / मुख्य: – आगे रहने वाला / प्रमुख
- जनपदे – मण्डले – जिले में
- नवाशीत्यधिक – नवाशीतिः अधिकम् – नवासी (89) से अधिक
- दिवङ्गतौ – मृतौ / स्वर्गवासिनौ – मृत्यु को प्राप्त / स्वर्गवासी
- अग्रजया – ज्येष्ठभगिन्या – बड़ी बहन के द्वारा
- असाधारणः – विलक्षणः – अनोखा / जो साधारण न हो
- रमते स्म – लीनः भवति स्म – मन लगता था
- व्यथितः – दुःखितः – दु:खी / पीडित
समास विग्रहः
शब्द: – विग्रहः – भेदः
स्वतन्त्रतासङ्ग्रामे – स्वतन्त्रतायाः सङ्ग्रामे – षष्ठीतत्पुरुषसमासः
सशस्त्रान्दोलने – शस्त्रैः सहितं आन्दोलने – बहुव्रीहिः/मध्यमपदलोपी
बङ्गप्रान्तः – बङ्गः च असौ प्रान्तः – कर्मधारयसमासः
बाल्यकाले – बाल्यस्य काले – षष्ठीतत्पुरुषसमासः
देशवासिषु – देशस्य वासिनः (तेषु) – षष्ठीतत्पुरुषसमासः
अत्याचारान् – अति + आचारान् (अतीता: आचाराः) – प्रादितत्पुरुषसमासः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
सशस्त्रान्दोलने – सशस्त्र + आन्दोलने – दीर्घसन्धिः
नवाशीत्यधिक – नवाशीति + अधिक – यण्सन्धिः
खुदीराम असाधारणः – खुदीरामोऽसाधारणः – विसर्गसन्धिः
बालानामिव – बालानाम् + इव – अनुस्वारसन्धिः
जनन्यानाम – जनन्याः + नाम – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
दृष्ट्वा – दृश् + क्त्वा – कृदन्तः
व्यथितः – व्यथ् + क्त – कृदन्तः
कृतम् – कृ + क्त – कृदन्तः
जायमानान् – जन् + शानच् – कृदन्तः
देवी – देव + डीप् – तिङ्न्त
दृष्ट्वा – दृश् + क्त्वा – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
जनन्याः – मातु:, प्रसवित्र्या:
जनकस्य – पितुः, तातस्य
व्यथितः – खिन्नः, दुःखितः
स्वतन्त्रताः – स्वाधीनता, मुक्तिः
पोषणम् – पालनम्

गद्यांश: 2
बङ्गप्रान्ते क्रान्तिवीराणां महद्भिः गुप्तगतिविधिभिः आङ्ग्लाः संत्रस्ताः आसन्। भारतस्य तात्कालिकः वायसरायः कर्जनः बङ्गप्रान्तस्य एतत् वीरत्वं दमयितुम्, उत्साहं ध्वंसयितुं, देशभक्तिं मर्दयितुं च बङ्गप्रान्तस्य पन्थाधारितं विभजनं करणीयम् इति निश्चितवान्। पञ्चाधिक- नवदशशततमे वर्षे (1905) तेन बङ्गप्रान्तः भागद्वये विभाजितः । तस्य एतया कृत्या न केवलं बङ्गप्रान्ते अपि तु सर्वस्मिन् देशे जनान्दोलनं प्रवृत्तम्। बङगभङग-आन्दोलनमिति तस्य जनान्दोलनस्य नाम । यद्यपि खुदीरामः तस्मिन् समये केवलं पञ्चदशवर्षीयः तथापि देशभक्तेः भावनया सः प्रेरितः सन् जनान्दोलने कूर्दितः । आङ्ग्लानां पारतन्त्र्य शृङ्खलातः वन्दनीयभारतमातुः मोचनं करणीयम् इत्येव सङ्कल्पः आसीत्। अतः सः नवमीं कक्षाम् अपि पूर्णां कर्तुं न शक्तवान्, यतोहि देशभक्तानां जीवनं राष्ट्राय समर्पितं भवति ।
हिंदी अनुवाद
बंगाल प्रांत में क्रांतिवीरों की महान गुप्त गतिविधियों से अंग्रेज भयभीत (स्त) थे। भारत के तत्कालीन वायसराय कर्जन ने बंगाल प्रांत की इस वीरता को दबाने के लिए, उत्साह को नष्ट करने के लिए और देशभक्ति को कुचलने के लिए बंगाल प्रांत का संप्रदाय पर आधारित विभाजन करना चाहिए – ऐसा निश्चित किया । उन्नीस सौ पाँच 1905 में उनके द्वारा बंगाल प्रांत को दो भागों में विभाजित कर दिया गया। उनके इस कार्य से न केवल बंगाल प्रांत में, बल्कि पूरे देश में जन-आंदोलन शुरू हो गया। बंग-भंग आंदोलन उसी जन आंदोलन का नाम था । यद्यपि खुदीराम उस समय केवल पंद्रह वर्ष के थे, फिर भी देशभक्ति की भावना से प्रेरित होकर वे जन-आंदोलन में कूद पड़े। अंग्रेजों की गुलामी की बेड़ियों से वंदनीय भारत माता को मुक्त कराना ही उनका संकल्प था। इसलिए वे नौवीं कक्षा भी पूरी नहीं कर सके, क्योंकि देशभक्तों का जीवन राष्ट्र के लिए समर्पित होता है।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- संत्रस्ताः – भीताः /भयभीताः – डरे हुए
- दमयितुम् – दमनं कर्तुम् – दबाने के लिए
- ध्वंसयितुम् – नाशं कर्तुम् – नष्ट करने के लिए
- पन्थाधारितम् – सम्प्रदायाधारितम् – संप्रदाय / पंथ पर आधारित
- प्रवृत्तम् – आरब्धम् – शुरू हुआ
- कूर्दित: – प्रविष्टः कूर्दति स्म – कूद पड़े (शामिल हुए)
- पारतन्त्र्यशृङ्खलातः – दासतायाः बन्धनात् – गुलामी की बेड़ियों से
- मोचनम् – मुक्तिः – आजाद कराना
समास-विग्रहः
शब्दः – विग्रहः – भेदः
बङ्गप्रान्तस्य – बङ्गः चासौ प्रान्तः (तस्य) – कर्मधारयसमासः
जन-आन्दोलनम् – जनानाम् आन्दोलनम् – षष्ठीतत्पुरुषसमासः
बङ्गभङ्ग-आन्दोलनम् – बङ्गभृङ्गस्य आन्दोलनम् – षष्ठीतत्पुरुषसमासः
पञ्चदशवर्षीयः – पञ्चदश वर्षाणि वयः यस्य सः – बहुव्रीहिसमासः
भारतमातुः – भारतम् एव माता – कर्मधारयसमासः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
यद्यपि – यदि + अपि – यणसन्धिः
इत्येव – इति + एव – यणसन्धिः
तथापि – तथा + अपि – दीर्घसन्धिः
पञ्चाधिक यतोहि – पञ्च + अधिक – दीर्घसन्धिः
यतोहि – यतः + हि – विसर्गसन्धिः (उत्व)
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
दमयितुम् – दम् + णिच् + तुमुन् – कृदन्तः
ध्वंसयितुम् – ध्वंस् + णिच् + तुमुन् – कृदन्तः
मर्दयितुम् – मृद् + णिच् + तुमुन् – कृदन्तः
निश्चितवान् – नि + चि + क्तवतु – कृदन्तः
विभाजितः – वि + भज् + क्त – कृदन्तः
प्रेरितः – प्र + र् + क्त – कृदन्तः
करणीयम् – कृ + अनीयर् – कृदन्तः
समर्पितम् – सम् + अप् + क्त – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
आङ्गलाः – वैदेशिका:
संकल्पः – दृढनिश्चयः
मोचनम् – त्यागः, मोक्षः, मुक्तिः

गद्यांश: 3
बालानां संघटनं कृत्वा सः पदयात्राम् आयोजयति स्म । तस्यां यात्रायां देशभक्तियुतानि गीतानि, वन्दे मातरम् चेत्यादयः घोषणाः भवन्ति स्म । सः पदयात्रामाध्यमेन लोकजागरणविषयकाणि पत्रकाणि जनेषु वितरति स्म। कदाचित् खुदीरामः पत्रकवितरणसमये आङ्ग्लानां हस्तगतः जातः, किन्तु सामर्थ्यसम्पन्नः खुदीरामः आङ्ग्लानां ताडनं कृत्वा ततः निरगच्छत् ।
बङ्गप्रान्त क्रान्तिवीरैः सञ्चालितानि बहूनि गुप्तमण्डलानि आङ्ग्लानां मनसि आतङ्कं जनयन्ति स्म । कस्यचित् गुप्तमण्डलस्य सञ्चालकः आसीत् सत्येन्द्रनाथः । खुदीरामः स्वमित्रेण प्रफुल्लेन सह गंत्वा सत्येन्द्रनाथेन अमिलत्। सत्येन्द्रनाथः उपादिशत् – ‘क्रान्तिकार्यं कर्तुं शरीरं वज्रसदृशं दृढं, बुद्धिः असिधारा इव तीक्ष्णा, मनः गङ्गाजलमिव निर्मलं च भवेत् इति’ ।
हिंदी अनुवाद
बच्चों का संगठन बनाकर वह (खुदीराम) पदयात्रा आयोजित करते थे । उस यात्रा में देशभक्ति से भरे गीत, वंदे मातरम् आदि घोषणा (नारे) होती थी। वह पदयात्रा के माध्यम से लोक – जागरण (जन-जागरूकता) संबंधी पत्र लोगों में बाँटते थे। एक बार खुदीराम पत्र बाँटने के समय अंग्रेजों के हाथ लग गए (पकड़े गए), किंतु सामर्थ्यशाली खुदीराम अंग्रेजों को पीटकर वहाँ से निकल भागे। बंगाल प्रांत में क्रांतिवीरों द्वारा संचालित बहुत से गुप्त मंडल अंग्रेजों के मन में आतंक पैदा करते थे । किसी गुप्त मंडल के संचालक सत्येंद्रनाथ थे। खुदीराम अपने मित्र प्रफुल्ल (चाकी) के साथ जाकर सत्येंद्रनाथ से मिले। सत्येंद्रनाथ ने उपदेश दिया— ‘क्रांतिकारी कार्य करने के लिए शरीर वज्र समान दृढ़, बुद्धि तलवार की धार की तरह तेज और मन गंगाजल के समान निर्मल होना चाहिए।’
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- आयोजयति स्म – आयोजनं करोति स्म – आयोजित करते थे
- लोकजागरणविषयकाणि – जनजागरणसम्बद्धानि – जन-जागरूकता संबंधी
- वितरति स्म – दानं करोति स्म – बाँटते थे
- हस्तगतः – बन्दी/हस्ते प्राप्तः – हाथ लगा / पकड़ा गया
- ताडनम् – प्रहारम् – पिटाई / मारना
- निरगच्छत् – बहिः गतवान् – निकल गए
- आतङ्कम् – भयम् – डर
- अमिलत् – मिलितवान् – मिले
- असिधारा इव – खड्गधारा सदृशी – तलवार की धार जैसी
समास विग्रहः
शब्दः – विग्रहः – भेदः
देशभक्तियुतानि – देशभक्त्या युतानि – तृतीयतत्पुरुषसमासः
हस्तगत: – हस्तं गतः – द्वितीयातत्पुरुषसमासः
सामर्थ्यसम्पन्नः – सामर्थ्येन सम्पन्नः – तृतीयतत्पुरुषसमासः
गुप्तमण्डलानि – गुप्तानि च तानि – कर्मधारयसमासः
वज्रसदृशम् – वज्रण सदृशम् – तृतीयतत्पुरुषसमासः
गङ्गाजलमिव – गङ्गायाः जलम् इव – उपमान पूर्वपद/ षष्ठीतत्पुरुषः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
चेत्यादयः – च + इति + आदयः – गुणयणसन्धिश्च
निरगच्छत् – निः + अगच्छत् – विसर्गसन्धि (रुत्व)
उपादिशत् – उप + आदिशत् – दीर्घ सन्धि
भवेदिति – भवेत् + इति – व्यञ्जनसन्धिः (जश्त्व)
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
कृत्वा – कृ + क्त्वा – कृदन्तः
गत्वा – गम् + क्त्वा – कृदन्तः
संचालितानि – सम् + चल् + णिच् + क्त – कृदन्तः
कर्तुम् – कृ + तुमुन् – कृदन्तः
जातः – जन् + क्त – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
हस्तः – करः, पाणिः
तीक्ष्णा – खरा, प्रखरा
बुद्धिः – मतिः, मेधा, प्रज्ञा
मित्रम् – सखा, सुहृत्

गद्यांश: 4
तस्मात् गुप्तप्रशिक्षणकेन्द्रात् द्वाभ्याम् अष्टमासात्मकं प्रशिक्षणं प्राप्तम् । भुशुण्डिसञ्चालने अपि तौ अचिरादेव प्रवीणौ सञ्जातौ। राणाप्रतापस्य चरित्रेण प्रेरितः खुदीरामः प्रतिज्ञातवान् यत् ‘यावत् भारतम् आङ्ग्लशासनात् मुक्तं न भविष्यति तावत् पादत्राणं न धरिष्यामि’ इति ।
कलकत्ता-जनपदस्य मुख्यः न्यायिकः आङ्ग्लः अधिकारी ‘किङ्ग्जफोर्ड्’ भारतीय- देशभक्तान् अतीवकठोररीत्या दण्डयति स्म। निर्दयः सः बालान् अपि न त्यजति स्म । तस्य स्थानान्तरणं यदा मुजफ्फरनगरे जातं तदा ‘सः हन्तव्यः’ इति सशस्त्रक्रान्तिवीरमण्डलेन निश्चितम्। हत्यायोजनायाः सम्पूर्णम् उत्तरदायित्वं
प्रफुल्ल-खुदीरामाभ्यां स्वीकृतम् । तस्य वधस्य सूक्ष्मा योजनापि द्वाभ्यां निर्मिता ।
हिंदी अनुवाद
उस गुप्त प्रशिक्षण केंद्र से उन दोनों (प्रफुल्ल और खुदीराम) ने आठ महीने का प्रशिक्षण प्राप्त किया। बंदूक चलाने में भी वे दोनों शीघ्र ही निपुण हो गए। राणा प्रताप के चरित्र से प्रेरित होकर खुदीराम ने प्रतिज्ञा की कि ‘जब तक भारत अंग्रेजी शासन से मुक्त नहीं होगा, तब तक मैं जूते धारण नहीं करूँगा ।’
कलकत्ता जिले का मुख्य न्यायिक अंग्रेज अधिकारी ‘किंग्सफोर्ड’ भारतीय देशभक्तों को अत्यंत कठोरता से दंडित करता था। वह निर्दयी बच्चों को भी नहीं छोड़ता था। जब उसका स्थानांतरण मुजफ्फरनगर में हुआ, तब ‘उसे मार देना चाहिए’ – ऐसा सशस्त्र क्रांतिवीर मंडल द्वारा निश्चित किया गया। हत्या की योजना का संपूर्ण उत्तरदायित्व प्रफुल्ल और खुदीराम द्वारा स्वीकार किया गया। उसकी हत्या की सूक्ष्म योजना भी उन दोनों द्वारा बनाई गई।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- प्रशिक्षणम् – शिक्षणम्/ अभ्यासः – ट्रेनिंग / अभ्यास
- भुशुण्डि सञ्चाल – आग्नेयास्त्रचालने – बंदूक चलाने में
- अचिरादेव – शीघ्रमेव – जल्द ही
- पादत्राणम् – उपानहम्/चर्मपादुका – जूते / चप्पल
- न्यायिकः – न्यायकर्ता – न्यायाधीश
- निर्दयः – दयाहीनः – दया के बिना / क्रूर
- हन्तव्यः – मारणीयः – मारने योग्य
- सूक्ष्मा – अतिविशिष्टा – बारीक / गहन
समास-विग्रहः
शब्द: – विग्रहः – भेदः
गुप्तप्रशिक्षणकेन्द्रात् – गुप्तं च तत् प्रशिक्षणकेन्द्रम् (तस्मात्) – कर्मधारयसमासः
आङ्गलशासनात् – आङ्गलानां शासनम् (तस्मात्) – षष्ठीतत्पुरुषसमासः
कलकत्ता-जनपदस्य – कलकत्ता चासौ जनपदः (तस्य) – कर्मधारयसमासः
हत्यायोजनायाः – हत्यायाः योजना (तस्याः) – षष्ठीतत्पुरुषसमासः
प्रफुल्ल-खुदीरामाभ्याम् – प्रफुल्लः च खुदीरामः च (ताभ्याम्) – इतरेतरद्वंद्वसमासः
गद्यांश: 5
अष्टाधिक-नवदशशततमवर्षस्य एप्रिलमासस्य अष्टाविंशे दिनाङ्के (28-04-1908) किङ्ग्जफोर्ड् इत्यस्य रथविशेषे
प्रफुल्ल-खुदीरामाभ्यां विस्फोटकं प्रक्षिप्तम् । महान् विस्फोटध्वनिः जातः। अग्निज्वालाः आकाशम् अस्पृशन्। ‘किङ्ग्जफोर्ड् हतः, अस्माकम् उत्तरदायित्वं पूर्णम् इति कृतार्थभावनया तौ पलायितवन्तौ, किन्तु हा धिक् ! यद्यपि सः किङ्ग्जफोर्ड् महोदयस्य रथः आसीत् तथापि तस्मिन् सः नासीदेव । केनेडीनामकस्य अधिकारिणः पत्नी पुत्री च तत्र आस्ताम् । ते मृते, किन्तु किङ्ग्जफोर्ड् रक्षितः। आरात्रि द्वौ अपि क्रान्तिवीरौ अधावताम्, किन्तु दौर्भाग्यवशात् आङ्ग्लाः आरक्षकाः तौ अगृह्णन्।
आङ्ग्लानां विरोधे कृतः प्रतीकारयत्नः व्यर्थः अभूत्। अनन्यगतिकः प्रफुल्लः भारतमातरं मनसा प्रणम्य ‘वन्दे मातरमिति’ उद्घोष्य च स्ववक्षः स्थले भुशुण्ड्या गोलिकाप्रहारं कृतवान् । वीरबालः प्रफुल्लः हौतात्म्येन अमरः जातः ।
हिंदी अनुवाद
वर्ष 1908 के अप्रैल महीने की अट्ठाइसवीं तारीख (28-04-1908) को प्रफुल्ल और खुदीराम द्वारा किंग्सफोर्ड के विशेष रथ पर बम फेंका गया। महान विस्फोट (बड़ा धमाका) हुआ। आग की लपटें आकाश को छूने लगीं। ‘किंग्सफोर्ड मारा गया’, हमारा उत्तरदायित्व पूर्ण हुआ। इस कृतार्थ भावना (सफलता के भाव) से वे दोनों वहाँ से भाग निकले, लेकिन धिक्कार है! यद्यपि वह किंग्सफोर्ड महोदय का ही रथ था, फिर भी उसमें वह नहीं था। केनेडी नामक अधिकारी की पत्नी और पुत्री वहाँ (रथ में) थीं। वे दोनों मर गईं, लेकिन किंग्सफोर्ड बच गया। पूरी रात वे दोनों क्रांतिकारी भागते रहे, लेकिन दुर्भाग्यवश अंग्रेज पुलिसकर्मियों ने उन्हें पकड़ लिया।
अंग्रेजों के विरोध में किया गया प्रतिरोध का प्रयास व्यर्थ हो गया। कोई अन्य रास्ता न देख (अनन्यगतिक) प्रफुल्ल ने मन ही मन भारत माता को प्रणाम किया और ‘वंदे मातरम्’ का उद्घोष करके अपने सीने पर बंदूक से गोली चला दी। वीर बालक प्रफुल्ल अपने बलिदान (हुतात्म्य) से अमर हो गया।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- विस्फोटकम् – अग्न्यायुधम् – बम/विस्फोटक
- प्रक्षिप्तम् – क्षिप्तम्/ताडितम् – फेंका गया
- अस्पृशन् – स्पृष्टवन्तः – स्पर्श किया / छूने लगीं
- कृतार्थभावनया – सफलभावनया – सफलता के भाव से
- आरक्षकाः – आरक्षिणः/रक्षकपुरुषाः – पुलिसकर्मी
- अनन्यगतिकः – उपायहीनः – जिसका कोई दूसरा रास्ता न हो
- हुतात्म्येन – बलिदानेन/आत्मार्पणेन – बलिदान से
- स्ववक्षःस्थले – निजहृदये – अपने सीने पर
समास-विग्रहः
शब्द: – विग्रहः – भेदः
विस्फोटध्वनिः – विस्फोटस्य ध्वनिः – षष्ठीतत्पुरुषसमासः
अग्निज्वालाः – अग्नेः ज्वालाः – षष्ठीतत्पुरुषसमासः
कृतार्थभावनया – कृतार्थस्य भावनया – षष्ठीतत्पुरुषसमासः
दौर्भाग्यवशात् – दौर्भाग्यस्य वशात् – षष्ठीतत्पुरुषसमासः
स्ववक्षःस्थले – स्वस्य वक्षःस्थले – षष्ठीतत्पुरुषसमासः
वीरबालः – वीरः च असौ बालः – कर्मधारयसमासः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
अष्टाधिक – अष्ट + अधिक – दीर्घसन्धिः
नासीदेव – न + आसीत + एव – दीर्घः जश्त्व सन्धिः च
दौर्भाग्यवशात् – दुः + भाग्य + वशात् – विसर्गसन्धिः (रुत्व)
व्यर्थोऽभूत् – व्यर्थः + अभूत् – विसर्ग (उत्व) सन्धिः
अमरो जातः – अमरः+ जातः – विसर्गसन्धिः

प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
प्रक्षिप्तम् – प्र + क्षिप् + क्त – कृदन्तः
कृतः – कृ + क्त – कृदन्तः
प्रणम्य – प्र + नम् + ल्यप् – कृदन्तः
उद्घोष्यः – उत् + घुष् + ल्यप् – कृदन्तः
जातः – जन् + क्त – कृदन्तः
पर्यायाः
शब्दः – पर्यायः
आकाशम् – गगनम्, नभः
पत्नी – भार्या, अर्धाङ्गिनी
पुत्री – सुता, तनया
हृदयम् – वक्षः, मनः
अमरः – अविनाशी, देवः
गद्यांश: 6
आङ्ग्लैः गृहीतः खुदीरामः न्यायालयं नीतः । तत्र अधिवक्तृणां प्रत्येकं प्रश्नस्य खुदीरामस्य निश्चितम् उत्तरम् आसीत् यत् ‘वन्दे मातरम्’ इति। न्यायाधीशेन निर्दयतया बालाय खुदीरामाय मृत्युदण्डः उद्घोषितः–‘उद्बन्धनम्’ इति । राष्ट्रभक्तस्य खुदीरामस्य मुखे भयं दुःखं वा नासीत् प्रत्युत प्रसन्नता, शान्तिः, तृप्तिः, तेजः च आसीत् । तत् दृष्ट्वा न्यायाधीशः आङ्ग्लाः अधिकारिणः चापि चकिताः । अष्टाधिक – नवदशशततमस्य वर्षस्य अगस्तमासस्य एकादशे दिनाङ्के (11-08-1908) बाल्ये वयसि एव देशस्य स्वातन्त्र्यार्थं खुदीरामः हुतात्मा जातः । प्रियभारतमातुः दर्शनार्थं सः हसन्, वन्दे मातरम् इति जपन् आनन्देन दिवं गतः।
हिंदी अनुवाद
अंग्रेजों द्वारा पकड़े गए खुदीराम को न्यायालय ले जाया गया। वहाँ वकीलों के प्रत्येक प्रश्न का खुदीराम का निश्चित उत्तर था- ‘वंदे मातरम्’ । न्यायाधीश ने निर्दयतापूर्वक बालक खुदीराम को मृत्युदंड सुनाया— ‘फाँसी’ । राष्ट्रभक्त खुदीराम के मुख पर न भय था और न ही दुःख, बल्कि प्रसन्नता, शांति, संतोष और तेज था । उसे देखकर न्यायाधीश और अंग्रेज अधिकारी भी चकित रह गए। वर्ष 1908 के अगस्त महीने की ग्यारहवीं तारीख (11-08-1908) को छोटी-सी आयु में ही देश की स्वतंत्रता के लिए खुदीराम शहीद (बलिदान) हो गए। प्रिय भारतमाता के दर्शन के लिए वह हँसते हुए, वंदे मातरम् का जाप करते हुए आनंदपूर्वक स्वर्ग सिधार गए।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – ‘हिन्दी-अर्थाः
- अधिवक्तृणाम् – न्यायवादिनाम्/वकीलानाम् – वकीलों का
- उद्बन्धनम् – कण्ठपाशः – फाँसी
- हुतात्मा – बलिदानी / शहीदः – शहीद / जिसने प्राणों की आहुति दी
- दिवं गतः – स्वर्गं गतः/मृतः – स्वर्ग सिधार गए
- चकिताः – विस्मिताः – हैरान/चकित
- जपन् – स्मरणं कुर्वन् – जाप करते हुए
समास-विग्रहः
शब्द: – विग्रहः – भेदः
मृत्युदण्डः – मृत्योः दण्डः – षष्ठीतत्पुरुषसमाः
राष्ट्रभक्तस्य – राष्ट्रस्य भक्तस्य – षष्ठीतत्पुरुषसमासः
भारतमातुः – भारतं एव माताः – कर्मधारयः
देशस्वातन्त्र्यार्थम् – देशस्य स्वातन्त्र्यार्थम् – षष्ठीतत्पुरुषसमासः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
चापि – च + अपि – दीर्घसन्धिः
नासीत् – न + आसीत् – दीर्घसन्धिः
अमरोः जातः – अमर: + जातः – विसर्गसन्धिः
प्रत्युत्तरम् – प्रति + उत्तरम् – यण्सन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
नीतः – नी + क्त – कृदन्तः
दृष्ट्वा – दृश् + क्त्वा – कृदन्तः
हसन् – हस् + शतृ – कृदन्तः
जपन् – जप् + शतृ – कृदन्तः
उद्घोषितः – उद् + घुष् + णिच् + क्त – कृदन्तः
गृहीतः – ग्रह् + क्त – कृदन्तः – पर्यायाः
पर्यायः
शब्द: – पर्यायः
न्यायाधीशः – न्यायकर्ता, धर्माधिकारी
मुखम् – आननम्, वदनम्
बाल्यम् – शैशवम्
स्वर्गः – दिवम्, सुरलोकः
प्रसन्नताः – हर्षः, मोदः