By going through these Class 9 Sanskrit Notes and NCERT Class 9 Sanskrit Sharada Chapter 3 Hindi Translation Summary Explanation Notes आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः students can clarify the meanings of complex texts.
Sanskrit Class 9 Chapter 3 Hindi Translation आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः Summary
कक्षा 9 संस्कृत पाठ 3 हिंदी अनुवाद
Class 9 Sanskrit Chapter 3 Summary Notes आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः
इस पाठ में कहा गया है कि पंडित वह होता है जो सभी प्राणियों को अपने समान समझता है। वह सबके प्रति समान भाव, दया, नम्रता तथा करुणा रखता हो। हमें अपने जीवन में अच्छे संस्कार अपनाने चाहिए और सभी के साथ प्रेम तथा समानता का व्यवहार करना चाहिए।

पाठस्य परिचयः
भारतदेश: बहूनां ब्रह्मर्षीणां महात्मनां च भूमिः । तेषां चरित्राणि सकलस्य विश्वस्य कृते प्रेरणास्पदम् । तेषां चरित्रेषु प्रतिपदं भूतदया, समता, क्षमा, अहिंसा, करुणा, ऋजुता, बन्धुता चेत्यादीनि जीवनमूल्यानि प्राप्यन्ते । महाराष्ट्रस्य प्रसिद्धः महात्मा नामदेवमहाराजः स्वीयव्यवहारेण करुणायाः महान्तम् आदर्शम् उपस्थंपितवान्। सः सर्वात्मकस्य ईश्वरस्य न केवलं सङ्कीर्तनं कृतवान् अपि तु सर्वेषु जीवेषु सः भगवन्तं दृष्टवान् । नामदेवमहाराजस्य जीवनस्य काचित् शिक्षाप्रदा घटना अत्र प्रदर्शिता अस्ति यां पठित्वा अस्माकं जीवनं परिवर्तितं भवेत् ।
हिंदी अनुवाद
भारत देश बहुत-से ब्रह्मर्षियों और महात्माओं की भूमि है। उनका चरित्र संपूर्ण विश्व के लिए प्रेरणास्पद है। उनके चरित्रों में कदम-कदम पर (प्रत्येक पद पर ) प्राणी मात्र पर दया, समानता, क्षमा, अहिंसा, करुणा, सरलता और भाईचारा जैसे जीवन मूल्य प्राप्त होते हैं। महाराष्ट्र के प्रसिद्ध महात्मा नामदेव महाराज ने अपने व्यवहार से करुणा का एक महान आदर्श प्रस्तुत किया। उन्होंने न केवल ईश्वर का संकीर्तन (भजन) किया, बल्कि सभी जीवों में भगवान के दर्शन किए। नामदेव महाराज के जीवन की कोई शिक्षाप्रद घटना यहाँ दिखाई गई है, जिसे पढ़कर हमारा जीवन परिवर्तित हो जाए।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- ब्रह्मर्षीणाम् – ब्रह्मज्ञानिनां ऋषीणाम् – ब्रह्मर्षियों का
- ऋजुता – सरलता – सादगी / सीधापन
- प्रतिपदम् – पदे पदे – कदम-कदम पर
- प्रेरणास्पदम् – प्रेरणायाः स्थानम् – प्रेरणा का केंद्र / प्रेरणादायी
- बन्धुता – भ्रातृत्वम् – भाईचारा
- स्वीयव्यवहारेण – निजव्यवहारेण – अपने व्यवहार से
समास-विग्रहः
शब्द: – विग्रहः – भेदः
महात्मनां – महान् च असौ आत्मा तेषां – बहुव्रीहिः
जीवनमूल्यानि – जीवनस्य मूल्यानि – षष्ठीतत्पुरुषसमासः
भूतदया – भूतेषु दया – सप्तमीतत्पुरुषसमासः
सर्वात्मकस्य – सर्वः आत्मा यस्य सः, (तस्य) – बहुव्रीहिसमासः
शिक्षाप्रदा – शिक्षां प्रददाति इति – उपपदतत्पुरुषसमासः
नामदेवमहाराजः – नामदेवः च असौ महाराजः – कर्मधारयसमासः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
चेत्यादीनि – च + इत्यादिनी – गुणसन्धिः
ब्रह्मर्षीणाम् – ब्रह्म + ऋषीणाम् – गुणसन्धिः
प्रेरणास्पदम् – प्रेरणा + आस्पदम् – दीर्घसन्धिः
प्रदर्शितोऽस्ति – प्रदर्शितः + अस्ति – उत्व (विसर्गसन्धिः)
योऽर्थे – यः + अर्थ: – उत्व (विसर्गसन्धिः)
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
उपस्थापितवान् – उप + स्था + क्तवतु – कृदन्तः
पठित्वा – पठ् + क्त्वा – कृदन्तः
परिवर्तितम् – परि + वृत् + णिच् + क्त – कृदन्तः
बन्धुता – बन्धु + तल् – तद्धितः
दृष्टवान् – दृश् + क्तवतु – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
भूमिः – धरा, वसुधा, पृथ्वी
सकलस्य – पूर्णस्य, समस्तस्य प्राणेषु
विश्वस्य – जगतः, संसारस्य
जीवेषु – प्राणेषु
ईश्वरस्य – भगवतः, परमात्मनः
विशेषण – विशेष्यम्:
शब्दः – विशेषणम् – विशेष्यम्
बहुनाम् ब्रह्मर्षीणाम् – बहुनाम् – ब्रह्मर्षीणाम्
सकलस्य विश्वस्य – सकलस्य – विश्वस्य
प्रसिद्धः महात्मा – प्रसिद्धः – महात्मा
महान्तम् आदर्शम् – महान्तम् – आदर्शम्
काचित् घटना – काचित् – घटना
Class 9 Sanskrit Sharada Chapter 3 Hindi Translation
Sanskrit Class 9 Chapter 3 Hindi Anuvad – कक्षा 9 संस्कृत पाठ 3 हिंदी अनुवाद
नाट्यांश: 1
कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ । तत्र क्रीडावेलायां कञ्चन शुनकं दृष्टवन्तौ । तं दृष्ट्वा पाषाणखण्डं हस्ते स्वीकृत्य तं मारयितुं धावितवन्तौ । शुनकः भयेन आक्रोशं कुर्वन् वेगेन धावितवान्। तत् दृष्ट्वा कपिलः माधवी च उच्चैः हसितवन्तौ । मातामही तं प्रसङ्गं दूरात् दृष्टवती, तौ आहूतवती च ।
हिंदी अनुवाद
कपिल और माधवी छुट्टियों के समय में मामा के घर गए। वहाँ खेलते समय (उन्होंने) एक कुत्ते को देखा। उसे देखकर, हाथ में पत्थर का टुकड़ा लेकर (वे) उसे मारने के लिए दौड़ पड़े। कुत्ता डर के कारण चिल्लाता हुआ तेज़ी से भागा। यह देखकर कपिल और माधवी ज़ोर-ज़ोर से हँसने लगे। नानी ने उस घटना को दूर से देखा और उन दोनों को बुलाया।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- अवकाशकाले – विश्रान्तिसमये – छुट्टियों के समय में
- मातुलगृहम् – मातुलस्य आवासम् – मामा का घर
- शुनकम् – कुक्कुरम् – कुत्ता
- पाषाणखण्डम् – प्रस्तरखण्डम् – पत्थर का टुकड़ा
- आक्रोशम् – रुदनम् /चीत्कारम् – चिल्लाना / रोना
- मातामह – मातुः माता – नानी
समास-विग्रहः
शब्द: – विग्रहः – भेदः
अवकाशकाले – अवकाशस्य काले: – षष्ठीतत्पुरुषसमासः
मातुलगृहम् – मातुलस्य गृहम् – षष्ठीतत्पुरुषसमासः
क्रीडावेलायाम् – क्रीडायाः वेलायाम् – षष्ठीतत्पुरुषसमासः
पाषाणखण्डम् – पाषाणस्य खण्डम् – षष्ठीतत्पुरुषसमासः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
चेत्यादीनि – च + इत्यादिनी – गुणसन्धिः
तत्रागतौ – तत्र + आगतौ – दीर्घसन्धिः
तौ + आहूतवती – तावहूतवती – अयादिसन्धिः
उच्चैर्हसितवन्तौ – उच्चैः + हसितवन्तौ – विसर्गसन्धिः (रुत्व)
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
गतवन्तौ – गम् + क्तवतु – कृदन्तः
दृष्टवन्तौ – दृश् + क्तवतु – कृदन्तः
दृष्ट्वा – दृश् + क्त्वा – कृदन्तः
मारयितुम् – मृ + णिच् + तुमुन् – कृदन्तः
धावितवन्तौ – धाव् + क्तवतु – कृदन्तः
कुर्वन् – कृ + शतृ – कृदन्तः
आहूतवती – आ + ह्वे (हेव) + क्तवतु – कृदन्तः (स्त्रीलिंग)
पर्यायाः
शब्दः – पर्यायः
हस्ते – करे, पाणि:
उच्चैः – तारस्वरेण
वेगेन – द्रुतगत्या, क्षिप्रम्
शुनकः – कुक्कुर:
दृष्ट्वा – अवलोक्य, वीक्ष्य
विशेषण – विशेष्यः
शब्द – विशेषण – विशेष्य
कञ्चन शुनकम् – कञ्चन – शुनकम्
तम् प्रसङ्गम् – तम् – प्रसङ्गम्

नाट्यांश: 2
मातामही – भोः कपिल ! माधवि ! किं कुरुतः ?
कपिलः – मातामहि! पश्यतु किल । सः शुनकः आवयोः क्रीडायां मध्ये-मध्ये प्रविश्य आवां पीडयति स्म । अतः आवां तं सम्यक् दण्डितवन्तौ। (पुनः उच्चैः हसितवन्तौ)
मातामही – वत्सौ, अधुना क्रीडया अलम् । कथां श्रोतुम् इच्छतः वा?
उभावपि – मातामह्याः कथा ! रोचते मे कथा …… रोचते मे मातामही । (मातामहीम् आलिङ्गितवन्तौ)
मातामही – उपविशताम्, सावधानेन शृणुतां च। अस्माकं भारतभूमिः अनेकेषां नररत्नानां, ब्रह्मर्षीणां, राजर्षीणां च प्रसवित्री । बहवः सत्पुरुषाः स्वीयकर्तृत्वेन जन्म सार्थकं कृतवन्तः। किं भवन्तौ महात्मानं नामदेवं जानीतः ?
हिंदी अनुवाद
नानी – अरे कपिल ! माधवी ! (तुम दोनों) क्या कर रहे हो ? नानी जी! देखिए तो सही।
कपिल – वह कुत्ता हमारे खेल के बीच-बीच में आकर (घुसकर) हमें परेशान कर रहा था । इसलिए हम दोनों ने उसे अच्छी तरह दंडित किया है।
(दोनों फिर से जोर से हँसने लगते हैं)
नानी – बच्चों, अब खेल बहुत हुआ (बस करो)। क्या तुम कहानी सुनना चाहते हो ?
दोनों – नानी की कहानी ! मुझे कहानी अच्छी लगती है … मुझे नानी अच्छी लगती हैं।
(दोनों नानी को गले लगा लेते हैं)
नानी – बैठ जाओ और ध्यान से सुनो। हमारी भारत-भ – भूमि अनेक नर-रत्नों (महापुरुषों), ब्रह्मर्षियों और राजर्षियों की जननी है। बहुत-से सत्पुरुषों ने अपने कर्मों से जन्म को सार्थक किया है। क्या तुम दोनों महात्मा नामदेव को जानते हो ?
शब्दार्थाः
- शब्दाः – संस्कतार्थाः – हिन्दी-अर्थाः
- शुनकः – कुक्कुरः – कुत्ता
- पीडयति स्म – कष्टं ददाति स्म – परेशान कर रहा था
- अलम् – पर्याप्तम्/मा – बस/पर्याप्त/मत
- श्रोतुम् – आकर्णयितुम् – सुनने के लिए
- रोचते – प्रियं भवति – अच्छा लगता है
- आलङ्गितवन्तौ – परिष्वक्तवन्तौ – गले लगाया
- प्रसवित्री – जननी / माता – जन्म देने वाली
- सार्थकम् – धन्यम्/सफलम् – सफल या उद्देश्यपूर्ण
समास विग्रहः
शब्दः – विग्रहः – भेदः
भारतभूमिः – भारतस्य भूमिः – षष्ठीतत्पुरुषसमासः
नररत्नानाम् – नराः इव रत्नानि (तेषाम्) – कर्मधारयसमासः
सत्पुरुषाः – सन्तः च ते पुरुषाः – कर्मधारयसमासः
राजर्षीणाम् – राजानः च ते ऋषयः (तेषाम्) – कर्मधारयसमासः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
उभावपि – उभौ + अपि – अयादिसन्धिः
पुनरुच्चैः – पुन: + उच्चैः – विसर्गसन्धिः (रुत्व)
राजर्षीणाम् – राजा + ऋषीणाम् – गुणसन्धिः
चेति – च + इति – गुणसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
प्रविश्य – प्र + विश् + ल्यप् – कृदन्तः
दण्डितवन्तौ – दण्ड् + क्तवतु – कृदन्तः
हसितवन्तौ – हस् + क्तवतु – कृदन्तः
श्रोतुम् – श्रु + तुमुन् – कृदन्तः
कृतवन्तः – कृ + क्तवतु – कृदन्तः
पर्यायाः
शब्दः – पर्यायः
प्रसवित्री – माता, जननी
सारमेयः – फलवत्, सफलम्
अधुना – इदानीम्, सम्प्रति
नाट्यांश: 3
माधवी – आम्! अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति । अपि सत्यम् ?
मातामही – आम्! तस्यैव पुण्यश्लोकस्य पाण्डुरङ्गमित्रस्य नामदेवमहाराजस्य एषा कथा । नामदेवः न केवलं पाण्डुरङ्गस्य प्रियभक्तः अपि तु प्रियमित्रमपि । देवः नामदेवं परितः भवति स्म।
माधवी – किं सत्यमेव नामदेवस्य मित्रम् आसीत् पाण्डुरङ्गः?
कपिलः – किं देवेन सह अपि मित्रता सम्भवति ?
मातामही – आम् वत्सौ! देवः पाण्डुरङ्गः नामदेवस्य प्रियसुहृदासीत्। नामदेवः प्रतिदिनं पाण्डुरङ्गस्य नैवेद्यं समर्प्य, तं भोजयित्वा ततः परमेव अन्नं सेवते स्म । तस्य गुरुः आसीत् विसोबा। विसोबा तम् अध्यापितवान् यत् ‘ईश्वरः न केवलं मन्दिरे भवति, अपि तु सर्वेषु भूतेषु तस्य निवासो भवति । अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु’ इति ।
हिंदी अनुवाद
माधवी हाँ! मैंने भी सुना है कि उनके कीर्तन में स्वयं भगवान पांडुरंग ने नृत्य किया था (क्या) यह सत्य है ?
नानी – हाँ! उसी पुण्य श्लोक (महान) पांडुरंग के मित्र नामदेव महाराज की एक कथा है। नामदेव न केवल पांडुरंग के प्रिय भक्त हैं, बल्कि उनके प्रिय मित्र भी हैं। भगवान नामरे के चारो ओर रहते थे।
माधवी – क्या सच में नामदेव के मित्र पांडुरंग थे ?
कपिल – क्या भगवान के साथ भी मित्रता संभव है?
नानी – हाँ! पुत्र भगवान पांडुरंग, नामदेव के अत्यंत प्रिय मित्र थे। नामदेव प्रतिदिन पांडुरंग को नैवेद्य (भगवान को चढ़ाया गया भोजन अर्थात् प्रसाद) अर्पित करते थे, उन्हें भोजन कराने के बाद ही अन्न का सेवन करते थे। उनके गुरु विसोबा थे। विसोबा ने ही उन्हें शिक्षा दी थी कि ‘ईश्वर न केवल मंदिर में होते हैं, बल्कि सभी प्राणियों में उनका निवास होता है। इसलिए उस सर्वव्यापी ईश्वर का पूजन करो।’
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- श्रुतवती – श्रवणम् अकरोत् – सुना है
- सत्यं – यथार्थम् – सच
- पुण्यश्लोकस्य – पुण्यः श्लोकः (चरितं) यस्य सः तस्य – महान/पुण्यात्मा
- कथा – आख्यानम् – कहानी
- केवलम् – मात्रम् – केवल
- प्रियभक्तः – प्रियः भक्तः – प्रिय भक्त
- प्रियसुहृद् प्रियः – प्रियः मित्र – प्रिय मित्र
- मित्रम् – सखा – दोस्त
- सम्भवति – शक्यते – संभव है
- प्रतिदिनम् – दिनं दिनं – रोज
- नैवेद्यम् – देवाय अर्पितं भोजनम् – भगवान को चढ़ाया गया भोजन
- समर्प्य – अर्पयित्वा – अर्पित करके
- गुरु – शिक्षक: – गुरु
- अध्यापितवान् – शिक्षितवान् – पढ़ाया
समास-विग्रहः
शब्दः – विग्रहः – भेदः
पुण्यश्लोकस्य – पुण्यः श्लोकः यस्य सः तस्य – बहुव्रीहिः
प्रियभक्तः – प्रियः चासौ भक्तः – कर्मधारयः
प्रियसुहृद् – प्रियः चासौ सुहृत् – कर्मधारयः
प्रतिदिनम् – दिनं दिनं प्रति – अव्ययीभावः
परमन्नम् – परमम् च तत् अन्नम् – कर्मधारयः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
तस्यैव – तस्य + एव – वृद्धिसन्धिः
नामदेवेन – नामदेवः + न – विसर्गसन्धिः
प्रियभक्तोऽपि – प्रियः + भक्तः – विसर्गसन्धिः
अतस्तस्य – अतः + तस्य – सत्वसन्धिः
गुरुरासीत् – गुरुः + आसीत् – विसर्गसन्धि
पर्यायाः
शब्दः – पर्यायाः
देवः – ईश्वरः, भगवान्
कथा – आख्यानं, वृत्तांत
अन्न – भोजनम्, खाद्यं
मित्रम् – सखा, सुहृदं
गुरु – आचार्यः, शिक्षकः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
श्रुतवती – श्रु + क्तवतु – कृदन्तः
समर्प्य – सम् + अप् + ल्यप् – कृदन्तः
कृतवान् – कृ + क्तवतु – कृदन्तः
मित्रता – मित्र + तल् – तद्धितः

नाट्यांश: 4
कपिलः – मातामहि! किं सत्यमेव ईश्वरः सर्वेषु भूतेषु निवसति ?
मातामही – आम्, शृणु वत्स ! नामदेवः प्रतिदिनम् अतीव श्रद्धया, निष्ठया, भक्त्या च नैवेद्यस्थालिकाम् आदाय मन्दिरं गच्छति स्म। एकदा सः नैवेद्यस्थालिकां गृहीत्वा विग्रहस्य पुरतः स्थापितवान्। नेत्रे निमील्य प्रार्थनां कृतवान्
नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ।
ईप्सितं मे वरं देहि परत्र च परां गतिम् ॥
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
मन्त्रम् उच्चार्य श्रद्धया प्रणम्य सः नेत्रे उद्घाटितवान्। अहो आश्चर्यम् ! पुरतः स्थितायां स्थालिकायां रोटिका नासीत्।
अन्वयः
हे देवः ! (इदं) नैवेद्यं ग्रह्यातां में भक्तिं हि अचलां कुरु मे इप्सितं वरं देहि, परत्र च परां गतिं (देहि) शर्कराखण्डखाद्यानि दधिक्षीरं घृतानि, भक्ष्यं भोजनं च आहारं (इदं) नैवेद्यं प्रतिगृह्यताम्
भावार्थ:
हे देव! यथा भक्तया समर्पितं नैवेद्यं अङ्गीकुरु मम मनसि स्वचरणौ प्रति अचलां भक्तिं प्रयच्छ मह्यं भक्त्या इच्छितं वरदानं दत्त्वा परलोकं अपि मध्यं परां गतिं देहि । अहं शर्करां दधि, दुग्धं तथा धृतादिभिः निर्मितनानाविधं भक्ष्य-भीज्यं आहाररूपेण तुभ्यं समर्पयामि । कृपया तत् प्रतिगृह्यताम् ।
हिंदी अनुवाद
कपिल – नानी जी! क्या सच में ईश्वर सभी प्राणियों में रहते हैं ?
नानी – हाँ, सुनो पुत्र ! नामदेव प्रतिदिन अत्यंत श्रद्धा, और भक्ति के साथ नैवेद्य (भोग) की थाली लेकर मंदिर जाते थे। एक बार उन्होंने नैवेद्य की थाली लेकर मूर्ति के सामने रखी। (उन्होंने) आँखें मूँदकर (बंद करके) प्रार्थना की।
“हे देव! नैवेद्य ग्रहण कीजिए और मेरी भक्ति को अचल (स्थिर) कीजिए। मुझे मनचाहा वरदान दीजिए और परलोक में परम गति प्रदान कीजिए। शक्कर के टुकड़े, खाद्य पदार्थ, दही, दूध और घी – इस भक्ष्य और भोज्य आहाररूपी नैवेद्य को स्वीकार कीजिए ।” मंत्र का उच्चारण करके और श्रद्धा से प्रणाम करके उन्होंने आँखें खोलीं।
अरे आश्चर्य ! सामने रखी थाली में रोटी नहीं थी ।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- भूतेषु – प्राणिषु – प्राणियों में
- सर्वात्मकस्य – सर्वव्यापिनः – सब में व्याप्त / सर्वव्यापी
- नैवेद्यस्थालिकाम् – उपहारपात्रम् – भोग (प्रसाद) की थाली
- आदाय – गृहीत्वा – लेकर
- विग्रहस्य – मूर्तेः – मूर्ति के – मूँदकर/बंद करके
- निमील्य – बदध्वा
- ईप्सितम् – इच्छितम् – चाहा हुआ / इच्छित
- परत्र – परलोके – परलोक में
- शर्कराखण्ड – सिताखण्ड – शक्कर के टुकड़े
- उद्घाटितवान् – उद्घाटितं कृतवान् – खोलीं
समास-विग्रहः
शब्द: – विग्रहः – भेदः
सर्वात्मकस्य – सर्वः आत्मा यस्य सः तस्य – बहुव्रीहिसमासः
नैवेद्यस्थालिकाम् – नैवेद्यस्य स्थालिकाम् – षष्ठीतत्पुरुषसमासः
शर्कराखण्ड – शर्करायाः खण्डानि – षष्ठीतत्पुरुषसमासः
दधिक्षीरघृतानि – दधि च क्षीरं च घृतं च – इतरेतरद्वन्द्वसमासः
भक्ष्यभोज्यम् – भक्ष्यं च भोज्यं च तेषां समाहारः – समाहारद्वन्द्वसमासः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
निवासो भवति – निवासः + भवति – विसर्गसन्धिः
सत्यमेव – सत्यम् + एव – अनुस्वारसन्धिः
ह्यचलाम् – हि + अचलाम् – यण्सन्धिः
नासीत् – न + आसीत् – दीर्घसन्धिः
अतीव – अति + इव – दीर्घसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
आदाय – आ + दा + ल्यप् – कृदन्तः
गृहीत्वा – ग्रह + क्त्वा – कृदन्तः
स्थापितवान् – स्था + णिच् + क्तवतु – कृदन्तः
कृतवान् – कृ + क्तवतु – कृदन्तः
निमील्य – नि + मिल् + ल्यप् – कृदन्तः
प्रणम्य – प्र + नम् + ल्यप् – कृदन्तः
उद्घाटितवान् – उत् + घट् + क्तवतु – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
ईश्वरः – देव:, परमात्मा, प्रभुः
नेत्रे – नयने, लोचने, चक्षुषी
पुरतः – अग्रे, सम्मुखे
भक्तिम् – सेवाम्, अनुरागाम्
आहारम् – भोजनम्

नाट्यांश: 5
माधवी – पाण्डुरङ्गः आगत्य भक्षितवान् किल?
मातामही – न हि । कश्चन बुभुक्षितः शुनकः आगत्य रोटिकां मुखे गृहीत्वा धावितवान्।
कपिलः – धिक् शुनकम् ! मातामहि ! पश्यतु, शुनकाः दुष्टाः एव भवन्ति ।
माधवी – सत्यं भ्रातः । नामदेवस्य कियत् दुःखं जातं स्यात् खलु !
मातामही – पुत्रकौ, शृणुताम् । नामदेवः शुनकस्य पृष्ठे अनुधावितवान् । जानीतः किमर्थं कथं च ?
हिंदी अनुवाद
माधवी – क्या पांडुरंग (भगवान विट्ठल) ने आकर भोजन कर लिया ?
नानी – नहीं। कोई भूखा कुत्ता आया और मुँह में रोटी दबाकर भाग गया।
कपिल – धिक्कार है उस कुत्ते को ! नानी जी ! देखो, कुत्ते दुष्ट ही होते हैं।
माधवी – सच कहा भाई! नामदेव को कितना दुःख हुआ होगा न !
नानी – बच्चों, सुनो। नामदेव (उस) कुत्ते के पीछे-पीछे दौड़े। जानते हो किसलिए और कैसे ?
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- पाण्डुरङ्गः – विट्ठलदेवः – भगवान विट्ठल (विष्णु का रूप)
- भक्षितवान् – खादितवान् – खा लिया
- बुभुक्षितः – क्षुधितः – भूखा
- रोटिकाम् – पोलिकाम् – रोटी को
- धिक् – निर्भर्त्सने – धिक्कार है
- दुष्टाः – खलाः/दुर्जनाः – बुरे / दुष्ट
- कियत् – कियन्मात्रम् – कितना
- अनुधावितवान् – पश्चात् धावितवान् – पीछे दौड़ा
समास-विग्रहः
शब्द: – विग्रहः – भेदः
पाण्डुरङ्गः – पाण्डुरः अङ्गः यस्य सः – बहुव्रीहिसमासः
नामदेवः – नाम्ना देवः – तृतीयातत्पुरुषसमासः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
कश्चन – कः + चन – विसर्गसन्धिः (सत्व)
पृष्ठेऽनुधावितवान् – पृष्ठे + अनुधावितवान् – पूर्वरूपसन्धिः
जातं स्यात् – जातम् + स्यात् – अनुस्वारसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृति + प्रत्ययः – भेदः
आगत्य – आ + गम् + ल्यप् – कृदन्तः
भक्षितवान् – भक्ष् + क्तवतु – कृदन्तः
गृहीत्वा – ग्रह + क्त्वा – कृदन्तः
धावितवान् – धाव् + क्तवतु – कृदन्तः
ज्ञातम् – ज्ञा + क्त – कृदन्तः
अनुधावितवान् – अनु + धाव् + क्तवतु – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
भ्रातः – सोदरः, अनुजः / अग्रजः
शुनकः – कुक्कुरः, सारमेयः
सत्यम् – तथ्यम्, ऋतम्
दुःखम् – कष्टम्, व्यथा
पुत्रकौ – बालकौ, वत्सौ

नाट्यांश: 6
कपिलः – क्रोधेन लगुडम् आदाय शुनकं ताडयितुं धावितवान् स्यात् ! माधवी दण्डयितुं पाषाणखण्डम् आदाय धावितवान् स्यात्! सत्यं किल मातामहि !
मातामही – न हि बालौ ! नामदेवः कोपेन न धावितवान्, प्रत्युत सः करुणया धावितवान्। न लगुडं, न पाषाणखण्डम्, अपि तु घृतपात्रं धृत्वा।
उभावपि – (साश्चर्यम् उच्चैः) किं घृतपात्रम् आधृत्य ?
मातामही – आम्! घृतपात्रम् आधृत्य एव।
उभौ – किन्तु किमर्थम् ?
मातामही – जातौ, शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान् खलु। महात्मनः नामदेवस्य चिन्ता आसीत् यत् यदि शुनकः शुष्करोटिकां खादेत् तर्हि तस्य उदरवेदना भवेत् इति । अतः तस्य पीडा मा भवतु इति चिन्तयन् घृतपात्रम् आदाय— ‘हे देव! शुष्कां रोटिकां मा खादतु, घृतम् अपि स्वीकरोतु’ इति वदन् अनुधावितवान् सः । (उभौ परस्परं पश्यतः। अपराधभावनया तयोः मुखे म्लाने आस्ताम् ।)
हिंदी अनुवाद
कपिल – (शायद वे) क्रोध में डंडा लेकर कुत्ते को पीटने के लिए दौड़े होंगे !
माधवी – दंड देने के लिए पत्थर का टुकड़ा लेकर दौड़े होंगे ! सत्य है न नानी जी!
नानी – नहीं बच्चों ! नामदेव क्रोध से नहीं दौड़े थे, बल्कि वे तो करुणा (दया) के कारण दौड़े थे। न डंडा लेकर, न पत्थर का टुकड़ा लेकर, बल्कि वे तो घी का पात्र (कटोरा) पकड़कर दौड़े थे।
दोनों – (आश्चर्य के साथ जोर से) क्या घी का पात्र लेकर ?
नानी – हाँ! घी का पात्र लेकर ही ।
दोनों – लेकिन क्यों ?
नानी – बच्चों, कुत्ता सूखी रोटी छीनकर भाग गया था न । महात्मा नामदेव को चिंता हुई कि यदि कुत्ता सूखी रोटी खाएगा, तो उसके पेट में दर्द हो जाएगा। इसलिए उसे पीड़ा न हो, यह चिन्ता / करते हुये घी का पात्र लेकर ‘हे देव ! सूखी रोटी मत खाओ, घी भी स्वीकार करो’ ऐसा बोलते हुए वे (नामदेव) उसके पीछे दौड़े।
(दोनों एक-दूसरे को देखते हैं। अपराधबोध के कारण उन दोनों के चेहरे मुरझा गए ।)
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- लगुडम् – दण्डम् – डंडा
- पाषाणखण्डम् – प्रस्तरखण्डम् – पत्थर का टुकड़ा
- प्रत्युत – अपि तु – बल्कि
- धृत्वा – गृहीत्वा – पकड़कर / धारण करके
- शुष्करोटिकाम् – शुष्कपालिकाम् – सूखी रोटी को
- अपहृत्य – बलात् नीत्वा – छीनकर / हरण करके
- उदरवेदना – कुक्षिपीडा – पेट का दर्द
- चिन्तयन् – चिन्तां कुर्वन् – सोचते हुए
समास-विग्रहः
शब्द: – विग्रहः – भेदः
पाषाणखण्डम् – पाषाणस्य खण्डम् – षष्ठीतत्पुरुषसमासः
घृतपात्रम् – घृतस्य पात्रम् – षष्ठीतत्पुरुषसमासः
शुष्करोटिकाम् – शुष्का च या रोटिका (ताम्) – कर्मधारयसमासः
उदरवेदना – उदरस्य वेदना – षष्ठीतत्पुरुषसमासः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
चिन्तासीत् – चिन्ता + आसीत् – दीर्घसन्धिः
साश्चर्यम् – स + आश्चर्यम् – दीर्घसन्धिः
किमर्थम् – किम् + अर्थम् – अनुस्वारसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
आदाय – आ + दा + ल्यप् – कृदन्तः
ताडयितुम् – तड् + तुमुन् – कृदन्तः
दण्डयितुम् – दण्ड् + तुमुन् – कृदन्तः
धृत्वा – धृ + क्त्वा – कृदन्तः
आधृत्य – आ + धृं + ल्यप् – कृदन्तः
अपहृत्य – अप + ह् + ल्यप् – कृदन्तः
चिन्तयन् – चिन्त् + शतृ – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
क्रोधेन – कोपेन, अमर्षेण
करुणया – दयया, अनुकम्पया
बालौ – शिशूः, पुत्रकौ
पीडा – व्यथा, कष्टम्, वेदना
आसीत् – अभवत्

नाट्यांश: 7
मातामही – धावन् शुनकः अदृश्यः जातः । तस्य स्थाने पाण्डुरङ्गः आविर्भूतः। स नामदेवम् उक्तवान् “वत्स नामदेव ! उत्तीर्णः भवान् परीक्षाम्। ‘ईश्वरः सर्वेषु भूतेषु निवसति’ इति गुरूपदेशं न केवलं भवान् श्रुतवान् अपि तु अनुपालितवान्। सुतरां धन्यो भवान् ।”
कपिलः – मातामहि! अहं प्रमादं कृतवान् । अकारणं हि शुनकं ताडितवान्। इतः पूर्वमपि बहुवारं जीवान् पीडितवान्। अद्य अहं ज्ञातवान् यत् सर्वेषु जीवेषु ईश्वरः निवसति, अतः कमपि न पीडयिष्यामि इति ।
माधवी – मातामहि! क्षाम्यतु माम् । अहमपि कदापि कस्यापि पीडां न जनयिष्यामि ।
मातामही – चिरञ्जीविनौ ! मां निकषा आगच्छताम् । (आलिङ्गनं कृत्वा) अस्माकं कायेन वाचा मनसा वा कस्यापि पीडा न भवेत्। तथैव कस्यापि या कापि पीडा स्यात् तां निवारयितुं प्रयतामहे इति सङ्कल्पं कुर्मः । इदमस्तु अस्माकं ध्येयम्
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ।
हिंदी अनुवाद
नानी – दौड़ता हुआ कुत्ता अदृश्य हो गया। उसके स्थान पर पांडुरंग (भगवान विट्ठल) प्रकट हुए। उन्होंने नामदेव से कहा-‘वत्स नामदेव ! आप परीक्षा में उत्तीर्ण (सफल) हुए । ‘ईश्वर सभी प्राणियों में निवास करते हैं’ गुरु के उपदेश को न केवल आपने सुना, बल्कि उसका पालन भी किया। आप पूरी तरह से धन्य हैं।”
कपिल – नानी जी! मैंने गलती (प्रमाद) की। मैंने बिना किसी कारण के ही कुत्ते को मारा। इससे पहले भी मैंने कई बार जीवों को परेशान किया है। आज मुझे ज्ञात हुआ है कि सभी जीवों में ईश्वर निवास करते हैं, इसलिए (अब से) मैं किसी को भी कष्ट नहीं पहुँचाऊँगा ।
माधवी – नानी जी ! मुझे क्षमा करें। मैं भी कभी किसी को पीड़ा (दुःख) नहीं दूँगी।
नानी – चिरंजीवी रहो! मेरे पास आओ। (गले लगाकर) हमारे शरीर, वाणी या मन से किसी को भी कष्ट न हो। वैसे ही, यदि किसी को कोई भी पीड़ा हो, तो उसे दूर करने का हम प्रयास करें— ऐसा संकल्प करते हैं। यही हमारा ध्येय (लक्ष्य) होना चाहिए।
“जो सभी प्राणियों को अपने समान (आत्मीय) देखता है, वही वास्तव में पंडित (ज्ञानी) है।”
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- वदन् – कथयन् – बोलते हुए
- परस्परम् – अन्योन्यम् – एक-दूसरे को
- अपराधभावनया – दोषबोधेन – अपराध की भावना से
- म्लाने – मलिनम् / हर्षहीनम् – मुरझाए हुए / उदास
- अदृश्यः – लुप्तः/तिरोहितः – ओझल / जो दिखाई न दे
- आविर्भूतः – प्रकटितः – प्रकट हुए
- उत्तीर्णः – सफल: – सफल/पास
- अनुपालितवान् – पालितवान् – पालन किया
- सुतराम् – अत्यधिकम् – भली-भाँति / अत्यधिक
- प्रमादम् – अनवधानताम् / त्रुटिम् – गलती / भूल
- अकारणम् – कारणं विना – बिना कारण के
- क्षाम्यतु – क्षमां करोतु – क्षमा करें
- निकषा – समीपम् – निकट/पास
- कायेन – शरीरेण – शरीर से
- वाचा – वाण्या – वाणी से
- निवारयितुम् – दूरीकर्तुम् – दूर करने के लिए
- प्रयतामहे – प्रयत्नं कुर्मः – प्रयत्न करते हैं
- ध्वेयम् – लक्ष्यम् – उद्देश्य / लक्ष्य
- आत्मवत् – स्ववत् – अपने समान
समास-विग्रहः
शब्द: – विग्रहः – भेदः
अपराधभावनया – अपराधस्य भावना (तया) – षष्ठीतत्पुरुषसमासः
गुरूपदेशम् – गुरोः उपदेश: – षष्ठीतत्पुरुषसमासः
पाण्डुरङ्गः – पाण्डुरः अङ्गः यस्य सः – बहुव्रीहिसमासः
अकारणम् – न कारणम् – नञ्तत्पुरुषसमासः
चिरञ्जीविनौ – चिरं जीवतः तौ – उपपदतत्पुरुषसमासः
सर्वभूतेषु – सर्वेषु भूतेषु – कर्मधारयसमासः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
गुरूपदेशम् – गुरु + उपदेशम् – दीर्घसन्धिः
कदापि – कदा + अपि – दीर्घसन्धिः
स नामदेवम् – सः + नामदेवम् विसर्गसन्धिः
तथैव – तथा + एव – वृद्धिसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
ताडितवान् – तड् + क्तवतु – कृदन्तः
ज्ञातवान् – ज्ञा + क्तवतु – कृदन्तः
आलिङ्गनम् – आ + लिङ्ग + ल्युट् – कृदन्तः
निवारयितुम् – नि + वृ + णिच् + तुमुन् – कृदन्तः
पर्यायाः
शब्दः – पर्यायः
वत्स – पुत्रः, बालकः
ईश्वर – प्रभुः, परमात्मा
श्रुतवान् – आकर्णितवान्
धन्यः – पुण्यवान्, कृतार्थः
वाचा – वाण्या, गिरया
पीडा – व्यथा, कष्टम्
पण्डितः – विद्वान्, बुधः, ज्ञानी
निकषा – अन्तरा, समया, समीपम्

अत्र इदम् अवधेयम्
उपपदविभक्तयः
उप इत्यस्य अर्थः सामीप्यम् इति । समीपस्थं पदम् आश्रित्य जायमाना विभक्तिः उपपदविभक्तिः इति कथ्यते ।
(क) ‘प्रति’ इति शब्दस्य अर्थः आभिमुख्यम् इति । प्रति – शब्दयोगे द्वितीया विभक्तिः भवति । अतः प्रति शब्दयोगे मन्दिर इति शब्दस्य द्वितीया ।
यथा- नामदेवः प्रतिदिनं मन्दिरं प्रति गच्छति स्म ।
बालः सदा मातरं प्रति धावति ।
(ख) ‘विना’ इति पदस्य योगे द्वितीया, तृतीया पञ्चमी चेति विभक्तयः भवन्ति ।
यथा-अहं कारणं विना शुनकं ताडितवान् ।
अहं कारणेन विना शुनकं ताडितवान् ।
अहं कारणात् विना शुनकं ताडितवान् ।
(ग) ‘धिक्’ इति शब्दः निन्दावाचकः । धिक् इति शब्दस्य योगे द्वितीया विभक्तिः भवति ।
यथा- धिक् शुनकम्।,
धिक् दुर्जनम्।
(घ) ‘निकषा’ इति शब्दस्य अर्थः समीपम् इति । निकषा इति शब्दस्य योगे द्वितीया विभक्तिः भवति ।
यथा— कपिलः मातामहीं निकषा आगतवान् ।
केशवस्य गृहं पाठशालां निकषा अस्ति ।
(ङ) ‘परित:’ इति शब्दस्य अर्थः परिवृत्य / सर्वस्मिन् पार्श्व इति । परितः इति शब्दयोगे द्वितीया विभक्तिः भवति ।
यथा- देवं परितः भक्ताः सन्ति ।
शिक्षकं परितः छात्राः भवन्ति ।
(च) ‘सह, साकं, सार्धं समम्’ इति शब्दानां योगे तृतीया विभक्तिः भवति ।
यथा- माधवी कपिलेन सह भ्रमति ।
जनकेन सह पुत्री क्रीडति ।
त्वं मित्रेण साकं धावसि ।
सः पित्रा सार्धम् आगच्छति ।
रामः लक्ष्मणेन समं वनं गच्छति ।
अहम् अनुजेन साकं ग्रामं गच्छामि ।
(छ) ‘अलम्’ इति शब्दस्य योगेऽपि तृतीया विभक्तिः भवति ।
यथा-अलं क्रीडया।
अलं विस्तरेण ।
अलम् आलस्येन।
अलं कलहेन ।
अलं क्रोधेन ।