By going through these Class 9 Sanskrit Notes and NCERT Class 9 Sanskrit Sharada Chapter 2 Hindi Translation Summary Explanation Notes सुखस्य मूलं धर्मः धर्मस्य मूलम् अर्थः students can clarify the meanings of complex texts.
Sanskrit Class 9 Chapter 2 Hindi Translation सुखस्य मूलं धर्मः धर्मस्य मूलम् अर्थः Summary
कक्षा 9 संस्कृत पाठ 2 हिंदी अनुवाद
Class 9 Sanskrit Chapter 2 Summary Notes सुखस्य मूलं धर्मः धर्मस्य मूलम् अर्थः
यह पाठ मानव जीवन के लक्ष्यों और उनकी सफलता के आधारभूत सिद्धांतों को स्पष्ट करता है। इसमें बताया गया है कि जीवन के विभिन्न पक्ष एक-दूसरे से किस प्रकार जुड़े हुए हैं। जीवन में सच्चा सुख और शांति केवल धर्म के मार्ग पर ही चलकर ही प्राप्त की जा सकता है। धर्म का पालन करने और कर्त्तव्यों को निभाने के लिए अर्थ की आवश्यकता होती है। बिना आर्थिक स्थिरता के धार्मिक और सामाजिक कर्त्तव्यों का निर्वहन कठिन हो जाता है।
धन या संसाधनों की प्राप्ति और सुरक्षा के लिए एक सुव्यवस्थित राज्य का होना आवश्यक है। एक सफल शासन या राज्य का आधार शासक का अपनी इन्द्रियों पर नियंत्रण हैं। यदि नेतृत्व अनुशासित नहीं है। तो व्यवस्था का पतन निश्चित है।

पाठस्य परिचयः
भारतीयधर्मशास्त्रेषु अनेकाः सूक्तयः विद्यन्ते, याः मानवजीवनस्य यथार्थतत्त्वं प्रतिपादयन्ति । तेष्वेकं प्रसिद्धं सूत्ररूपं वाक्यं कौटिल्यस्य अर्थशास्त्रे अस्ति सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः ।
अस्य आशयः अस्ति यत् वास्तविकसुखस्य आधारः धर्मः, धर्मपालनस्य च आधारः अर्थः । अर्थः इत्युक्ते धनं, यत् सर्वविधस्य आजीविकाव्यवहारस्य प्रमुखं साधनम्।
जीवने धर्मः, अर्थ:, सुखम् इत्येतेषां त्रयाणां परस्परसम्बन्धः अविच्छिन्नः अस्ति । यः जनः न्यायपूर्वकम् अर्थोपार्जनं करोति सः धर्मपालनं कर्तुं समर्थः भवति, धर्मपालनेन च दीर्घकालिकं सुखं लभते ।
हिंदी अनुवाद
भारतीय धर्मशास्त्रों में अनेक सूक्तियाँ (अनमोल वचन) विद्यमान हैं, जो मानव जीवन के वास्तविक तत्त्व का प्रतिपादन (वर्णन) करती हैं। उन्हीं में से एक प्रसिद्ध सूत्र रूप वाक्य कौटिल्य के अर्थशास्त्र में है।
सुख की जड़ धर्म है और धर्म की जड़ अर्थात् धन है।
इसका आशय यह है कि वास्तविक सुख का आधार धर्म है और धर्म का पालन करने का आधार अर्थ (धन) है। ‘अर्थ’ का तात्पर्य धन से है, जो सभी प्रकार के जीविकोपार्जन (आजीविका) के व्यवहार का प्रमुख साधन है।
जीवन में धर्म, अर्थ और सुख इन तीनों का परस्पर अटूट संबंध है। जो मनुष्य न्यायपूर्वक धन का अर्जन करता है, वह धर्म का पालन करने में समर्थ होता है और धर्म के पालन से दीर्घकालिक (लंबे समय तक रहने वाला) सुख प्राप्त करता है।

शब्दार्थाः
- शब्दा: – संस्कृतार्थ – हिन्दी-अर्थाः
- विद्यन्ते – सन्ति – मौजूद हैं
- आशयः – तात्पर्यः – मतलब / अर्थ
- अविच्छिन्नः – निरन्तर: – अटूट / न टूटने वाला
- लभते – प्राप्नोति – प्राप्त करता है।
- प्रतिपादयन्ति – वर्णयन्ति – वर्णन करती हैं।
- आजीविकाआ – वृत्तिः – रोजी-रोटी / व्यवसाय
- अर्थोपार्जनम् – धनसंग्रहम् – धन कमाना
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
कौटिल्यस्यार्थशास्त्रे – कौटिल्यस्य + अर्थशास्त्रे – दीर्घ सन्धिः
मूलं अर्थ: – मूलम् + अर्थ: – अनुस्वार सन्धि
इत्युक्ते – इति + उक्ते – यण् सन्धिः
अर्थोपार्जनम् – अर्थ + उपार्जनम् – गुण सन्धि
इत्येतेषाम् – इति + एतेषाम् – यण् सन्धि
प्रकृति – प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
कर्तुम – कृ + तुमुन् – कृदन्तः
प्रसिद्धम् – प्र + सिध् + क्त – कृदन्तः
अविच्छिन्नः – अव + छिद् + क्त – कृदन्तः
पर्यायाः
शब्दः – पर्यायः
सुखम् – हर्षः, आनन्दः
जन: – मनुष्यः, मानवः, नरः
धनम् – अर्थः, वित्तम्, द्रव्यम्
प्रमुखम् – मुख्यम्, प्रधानम्
साधनम् – उपकरणम्, माध्यमम्
विशेषण – विशेष्यम्
विशेषणम् – विशेष्यम्
अनेकाः – सूक्तयः
सूत्ररूपम् – वाक्यं
अविच्छिन्नः – साधनम्
प्रमुखम् – सम्बन्धः
दीर्घकालिकम् – सुखम्
Class 9 Sanskrit Sharada Chapter 2 Hindi Translation
Sanskrit Class 9 Chapter 2 Hindi Anuvad – कक्षा 9 संस्कृत पाठ 2 हिंदी अनुवाद
गद्यांश: 1
सामान्यजीवने अन्नं, वस्त्रम्, आवासः, शिक्षा, स्वास्थ्यसेवा चेत्यादीनां मूलभूतानाम् आवश्यकतानां पूर्तये धनम् आवश्यकम्। पर्याप्तधनस्य अभावात् स्वकर्त्तव्यपालनं कठिनं भवति । स्वास्थ्यं, शिक्षा, सेवा, दानं चेत्यादीनि कार्याणि बाधितानि भवन्ति, दैनन्दिनजीवनं च असन्तुलितं भवति । अतः धर्मशास्त्रे चतुर्वर्गेषु धर्मार्थकाममोक्षेषु अर्थः अन्यतमः स्तम्भः इति गण्यते । उक्तं गरुडपुराणे
ब्राह्मे मुहूर्ते चोत्थाय धर्ममर्थं च चिन्तयेत् ।
अर्थात् दिनस्य आरम्भे धर्मार्थयोः चिन्तनम् आवश्यकम्। स्वस्थः आर्थिकव्यवहारः त्रिविधः भवति ।
न्यायपूर्णम् अर्थोपार्जनम् सन्मार्गेण एव धनार्जनं करणीयम् इति । उक्तं भगवता मनुना
सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ।
योऽर्थं शुचिर्हि सः शुचिर्न मृद्वारिशुचिः शुचिः ॥
अन्वयः
अन्वयः सर्वेषाम् शौचानां अर्थशौचम् एव परं स्मृतम् । यः अर्थे शुचिः (अस्ति), सः हि शुचि: (अस्ति), मृद्वारिशुचिः शुचि: न (भवति)
भावार्थ:
अस्मिन् श्लोके शुद्धेः महत्त्वं वर्णितम् अस्ति । संसारे अनेकाः शुद्धयः सन्ति । यथा शरीरशुद्धि, जल- शुद्धिः च । परन्तु एतेषु ‘अर्थशौचम्’ सर्वश्रेष्ठं मन्यते । यः मनुष्यः धनविषये पवित्रः अस्ति । सः एव यर्थाथरूपेण शुद्धः अस्ति। केवलं मृत्तिकया जलेन वा शरीरं प्रक्षाल्य कश्चित् शुद्धः न भवति ।
हिंदी अनुवाद
सामान्य जीवन में अन्न, वस्त्र, आवास, शिक्षा और स्वास्थ्य सेवा इत्यादि मूलभूत आवश्यकताओं की पूर्ति के लिए धन आवश्यक है। पर्याप्त धन के अभाव में अपने कर्त्तव्यों का पालन करना कठिन हो जाता है। स्वास्थ्य, शिक्षा, सेवा और दान इत्यादि कार्य बाधित हो जाते हैं अर्थात् रुक जाते हैं और दैनिक जीवन असंतुलित हो जाता है।
अतः धर्मशास्त्रों में चार वर्गों (पुरुषार्थों) – धर्म, अर्थ, काम और मोक्ष में ‘अर्थ’ (धन) को एक महत्त्वपूर्ण स्तंभ गिना (माना गया है। गरुड़ पुराण में कहा गया है
ब्रह्म मुहूर्त में उठकर धर्म और अर्थ का चिंतन करना चाहिए।
अर्थात् दिन के आरंभ में धर्म और अर्थ का चिंतन करना आवश्यक है। स्वस्थ आर्थिक व्यवहार तीन प्रकार का होता है
न्यायपूर्ण धन का अर्जन सन्मार्ग (सही रास्ते) से ही धन कमाना चाहिए । भगवान मनु ने कहा है
“सभी प्रकार की शुद्धियों में धन की शुद्धि (ईमानदारी) सबसे श्रेष्ठ मानी गई है। जो धन के संबंध में पवित्र है, वही वास्तव में शुद्ध है; केवल मिट्टी और जल से शरीर साफ कर लेने वाला शुद्ध नहीं कहलाता ।”
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- पूर्तिः – पूर्णता / प्राप्तिः – पूरा करना / प्राप्ति
- बाधितानि – अवरुद्वानि – रुकी हुई| बाधित
- अन्यतमः – मुख्यः/ श्रेष्ठः – महत्त्वपूर्ण/ प्रमुख
- उत्थाय – उत्थानं कृत्वा – उठकर
- शौचम् – शुद्धिः / पवित्रता – शुद्धता / पवित्रता
- मृद्वारिशुचिम् – मृत्तिका-जल-शुद्धिः – मिट्टी और जल से होने वाली शुद्धि

समास विग्रहः
शब्द: – विग्रहः – भेदः
सामान्यजीवने – सामान्यं चतत् जीवनम् तस्मिन् – कर्मधारयसमासः
पर्याप्तधनस्य – पर्याप्तं चतत् धनम्, तस्य – कर्मधारयसमासः
स्वकर्त्तव्यपालनम् – स्वस्य कर्त्तव्यस्य पालनम् – षष्ठीतत्पुरुषसमासः
धर्मार्थकाममोक्षेषु – धर्मः च अर्थः च कामः च मोक्षः च तेषु – इतरेतरद्वन्द्वसमासः
सन्मार्गेण – सत् च असौ मार्ग:, तेन – कर्मधारयसमासः
न्यायपूर्णम् – न्यायेन पूर्णम् – तृतीयतत्पुरुषसमासः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
चेत्यादीनाम् – च + इत्यादिनाम् – गुणसन्धिः
चोत्थाय – च + उत्थाय – गुणसन्धिः
धर्ममर्थम् – धर्मम् + अर्थम् – अनुस्वारसन्धिः
योऽर्थे – यः + अर्थे – (उत्व) विसर्गसन्धि:
सर्वेषामेव – सर्वेषाम् + एव – अनुस्वारसन्धिः
इत्यादि – इति + आदि – यणसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
मूलभूतानाम् – मूल + भू + क्त – कृदन्तः
उत्थाय – उत् + स्था + ल्यप् – कृदन्तः
करणीयम् – कृ + अनीयर् – कृदन्तः
स्मृतम् – स्मृ + क्त – कृदन्तः
करणीयम् – कृ + अनीयर् – कृदन्तः
पर्यायाः
शब्दः – पर्यायः
आवास: – गृहम्, निलयम्
आरम्भः – प्रारम्भः
शुचिः – पवित्रः शुद्धः
वारि – जलम्, नीरम्

गद्यांश: 2
अस्य आशयः यत् अनैतिकः आर्थिकव्यवहारः कदापि न करणीयः । ‘मा गृधः कस्यस्विद्धनम्’ इति उपनिषदः वाक्यं सततं मनसि निधाय स्वकौशलेन विद्यया च धनम् उपार्जनीयम् ।
औचित्यपूर्णः व्ययः आवश्यकतानुसारं व्ययः करणीयः । येन व्ययेन स्वास्थ्यलाभः विद्यार्जनम् आत्मसुरक्षा वा भवेत्, सः व्ययः अवश्यं करणीयः । आडम्बरपूर्णः प्रदर्शनकारी व्ययः अथवा विलासव्यसनाय व्ययः अपव्ययः भवति । अपव्ययः वर्जनीयः, अतः प्रत्येकं व्ययस्य लेखः स्थापनीयः, अन्ते च तेषां परिशीलनं करणीयम् ।
भविष्यदृष्ट्या सञ्चयः उपार्जितधनस्य कश्चन भागः भविष्यसुरक्षायै सञ्चयनीयः । सञ्चयस्य अभ्यासेन जनः स्वावलम्बी भवति। स्वावलम्बनं स्वाभिमानस्य मूलं वर्तते । संकटकालेऽपि स्वाभिमानिजनः अन्यजनस्य आर्थिकसहायतां नापेक्षते ।
शब्दार्थाः
- शब्दा: – संस्कृतार्थ- हिन्दी – अर्थाः
- गृधः – लोभः – लालच
- निधाय – स्थापयित्वा – रखकर
- वर्जनीयः – त्यागस्य योग्य: – त्यागने योग्य/वर्जित
- परिशीलनम् – सूक्ष्मनिरीक्षणम् अर्जितम् – गहरा अध्ययन / विश्लेषण
- उपार्जितम् – न इच्छति – इच्छा या अपेक्षा नहीं करता
समास-विग्रहः
शब्दः – विग्रहः – भेदः
अनैतिकः – न नैतिकः – नञ्तत्पुरुषसमासः
स्वास्थ्यलाभः – स्वास्थ्यस्य लाभः – षष्ठीतत्पुरुषसमासः
आत्मरक्षा – आत्मनः रक्षा – षष्ठीतत्पुरुषसमासः
उपार्जितधनस्य – उपार्जितं च तत् धनम्, तस्य – कर्मधारयसमासः
संकटकाले – संकटस्य काले – षष्ठीतत्पुरुषसमासः
आर्थिकसहायताम् – आर्थिक सहायताम् अर्थेन सम्बद्धा सहायता, ताम् – मध्यमपदलोपी / तत्पुरुषः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
कस्यस्विद्धनम् – कस्यस्वित् + धनम् – जशत्वसन्धिः
धनमुपार्जनीयम् – धनम् + उपार्जनीयम् – अनुस्वारसन्धिः
नापेक्षते – न + अपेक्षते – दीर्घसन्धिः
कालेऽपि – काले + अपि – पूर्वरूपसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
करणीयः – कृ + अनीयर् – कृदन्तः
निधाय – नि + धा + ल्यप् – कृदन्तः
उपार्जनीयम् – उप + अर्ज् + अनीयर् – कृदन्तः
स्थापनीयः – स्था + णिच् + अनीयर् – कृदन्तः
संचयनीयः – सम् + चि + अनीयर् – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
सततम् – निरन्तरम्
अन्ते – समाप्ते
मनसि – चित्ते, हृदये
सहायताम् – सहयोगम्
वर्जनीयः – वर्जितः
संकटकाले – कष्टसमये
हिंदी अनुवाद
इसका आशय यह है कि अनैतिक आर्थिक व्यवहार कभी नहीं करना चाहिए। उपनिषद के वाक्य ‘किसी दूसरे के धन का लालच मत करो’ को निरंतर मन में रखकर अपने कौशल और विद्या से धन कमाना चाहिए।
औचित्यपूर्ण व्यय (उचित खर्च) आवश्यकतानुसार खर्च करना चाहिए। जिस खर्च से स्वास्थ्य लाभ, विद्या प्राप्ति या आत्मरक्षा हो, वह खर्च अवश्य करना चाहिए। आडंबरपूर्ण ( दिखावे वाला) प्रदर्शनकारी खर्च अथवा विलासिता और व्यसनों (बुरी आदतों) पर किया गया खर्च ‘अपव्यय’ होता है। अपव्यय वर्जित है, अतः प्रत्येक खर्च का लेखा-जोखा रखना चाहिए और अंत में उनका विश्लेषण (परिशीलन) करना चाहिए।
भविष्य की दृष्टि से संचय (बचत) कमाए गए धन का कुछ भाग भविष्य की सुरक्षा के लिए बचाना चाहिए। संचय के अभ्यास से मनुष्य स्वावलंबी बनता है। स्वावलंबन ही स्वाभिमान की जड़ है। संकट के समय में भी स्वाभिमानी व्यक्ति दूसरे व्यक्ति की आर्थिक सहायता की अपेक्षा नहीं करता।

गद्यांश: 3
छात्रजीवने आर्थिकसाक्षरता
अनेकदा छात्राः मातापितृभ्यां कष्टार्जितधनस्य तुच्छकारणैः अपव्ययं कुर्वन्ति। जिह्वालालसापूर्त्यर्थं त्वरिताहारः, शीतपेयं, पुटीकृतभोजनं, तथैव व्यसनपदार्थानां सेवनं, प्रदर्शनरिपरिधानं विलासितापूर्णम् आचरणं चेत्यादि यत्र प्रभूतः अपव्ययः भवति ।
एतैः न केवलं धनहानिः, स्वास्थ्यहानिरपि जायते ।
स्वास्थ्यहानिकारणात् पुनः धनव्ययो वर्धते ।
अर्जितस्य सञ्चयः सञ्चितस्य च निवेश:
चाणक्यनीतौ उक्तम्
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स क्रमः सर्वविद्यानां धर्मस्य च धनस्य च ॥
लघु-लघुः सञ्चयोपि कालान्तरे महत्सम्पत्तिरूपेण वर्धते । यदि छात्राः प्रतिदिनम् अल्पधनस्यापि सञ्चयं कुर्वन्ति, तस्य उचितनिवेशं च कुर्वन्ति तर्हि तेषां भविष्यं सुरक्षितं भवेत् । भारतदेशे धनसञ्चयस्य सुरक्षितनिवेशस्य च कृते बहुविधा: मार्गाः सन्ति। तेषु प्रधानमन्त्री-जन-धन योजना, सुकन्या समृद्धि योजना, सार्वजनिक-भविष्य-निधिः, वरिष्ठ नागरिक-संचय योजना, किसान-विकास-पत्रं, राष्ट्रिय – संचय – प्रमाण-पत्रं, राष्ट्रिय – पेंशन योजना, नियतनिक्षेपः, आवृत्तिनिक्षेपः चेत्याद्याः प्रमुखाः सन्ति । एतासां सर्वकारीययोजनानां विषये सूचनाः लब्धुं लाभमवाप्तुं च समीपस्थवित्तागाराः पत्रालयाः वा गन्तव्याः, तत्सम्बद्धाः अधिकारिणः च प्रष्टव्याः । एतासु योजनासु न केवलं कष्टार्जितधनस्य सुरक्षा भवति अपि तु चक्रवृद्ध्यंशेन सह तद्धनं सततं वर्धमानं भवति ।

भौतिकतावादियुगस्य आकर्षणेन यूनामपव्ययः अधिको भवति येन कारणेन अस्माकम् आर्थिकस्थितिः विपन्ना भवति, किन्तु अर्थविषयकसचेतनता अस्मान् अभावात् उद्धृत्य आर्थिकसम्पन्नतां प्रति नयति । अतः बुद्धिमतां छात्राणां ध्येयं स्यात् — धनस्य उचितोपार्जनम्, व्ययस्य मर्यादा, आपत्कालीननिधिसञ्चयः, दीर्घकालीननिवेशश्च। यः एतेषाम् अनुशासनेन पालनं करोति, एव यथार्थतः धनस्य धर्मस्य च सन्तोलनं स्थापयितुं शक्नोति । यः विद्यार्थी अद्य अर्थविषये जागरूकोऽस्ति सः भविष्ये उत्तरदायी नागरिको भवति। धर्मः, अर्थः, सुखम् चेत्येतेषां सन्तोलनम् एव यथार्थजीवनस्य लक्षणम्। अत एवोक्तम्
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ।।
अन्वय (मनुष्यः) क्षणशः विद्यां कणशः च अर्थं साध्येत्) क्षणे नष्टे विद्या कुत: ? कणे नष्टे च धनं कुत: ?
भावार्थः अस्य श्लोकस्य भावार्थ : अस्ति यत् सफलजीवनाय समयस्य कणानो च महत्त्वं अनिवार्यम् वर्तते। मनुष्येण प्रत्येकं क्षणं उपयुज्य विद्यायाः अभ्यासः करणीयः । यदि वयं समयं निरर्थक यापयामः, तर्हि ज्ञानप्राप्तिः असम्भवा अस्ति तथैव अल्पं कणम् अपरिक्षित्वा धनस्य सञ्ययः करणीयः ।
हिंदी अनुवाद
छात्र जीवन में आर्थिक साक्षरता
अनेक बार छात्र माता-पिता द्वारा कठिन परिश्रम से कमाए गए धन का तुच्छ कारणों से अपव्यय करते हैं। जिह्वा (जीभ) के स्वाद को पूरा करने के लिए त्वरित आहार (फास्ट फूड), शीतल जल, डिब्बाबंद भोजन, साथ ही व्यसन वाली वस्तुओं का सेवन, दिखावटी पहनावा और विलासितापूर्ण व्यवहार आदि में बहुत अधिक अपव्यय होता है। इनसे न केवल धन की हानि होती है, बल्कि स्वास्थ्य की हानि भी होती है । स्वास्थ्य खराब होने के कारण पुनः धन का खर्च बढ़ जाता है।
कमाए हुए का संचय और संचित का निवेश चाणक्य नीति में कहा गया है
“जिस प्रकार जल की एक-एक बूँद गिरने से धीरे-धीरे घड़ा भर जाता है, वही क्रम सभी विद्याओं, धर्म और धन के संचय का है।” थोड़ा-थोड़ा संचय भी समय बीतने पर बड़ी संपत्ति के रूप में बढ़ जाता है। यदि छात्र प्रतिदिन थोड़े धन की भी बचत करते हैं और उसका उचित निवेश करते हैं, तो उनका भविष्य सुरक्षित हो जाएगा। भारत में धन संचय और सुरक्षित निवेश के लिए कई मार्ग हैं।
इनमें प्रधानमंत्री जन-धन योजना सुकन्या समृद्धि – योजना, सार्वजनिक- भविष्य निधि, वरिष्ठ नागरिक-संचय – योजना, किसान – विकास – पत्र, राष्ट्रीय-संचय-प्रमाण पत्र राष्ट्रीय पेंशन योजना, नियत – निक्षेप, आवृत्ति निक्षेप इत्यादि प्रमुख हैं । इन सरकारी योजनाओं के बारे में जानकारी प्राप्त करने और लाभ उठाने के लिए निकटतम वित्तीय संस्थानों (बैंक) अथवा डाकघर जाएँ और संबंधित अधिकारियों से संपर्क करें। इन योजनाओं में न केवल कठोरता से अर्जित धन सुरक्षित रहता है, बल्कि चक्रवृद्धि ब्याज के साथ वह निरंतर बढ़ता रहता है।
प्रधानमन्त्री – जनधनयोजना
सुकन्या समृद्धि-योजना
सार्वजनिक- भविष्य-निधिः
वरिष्ठ नागरिक – संचय योजना
किसान-विकास- पत्रम्
राष्ट्रिय-संचय-प्रमाणपत्रम्
राष्ट्रिय – पेंशन योजना
नियतनिक्षेपः
आवृत्तिनिक्षेपः
(आज के) भौतिकवादी युग के आकर्षण से युवाओं का खर्च बढ़ गया है, जिस कारण हमारी आर्थिक स्थिति दयनीय हो जाती है, लेकिन धन के प्रति जागरूकता हमें अभाव से निकालकर संपन्नता की ओर ले जाती है। अतः बुद्धिमान छात्रों का ध्येय होना चाहिए— धन का उचित अर्जन, खर्च की सीमा, आपातकालीन निधि का संचय और दीर्घकालिक निवेश । जो इन अनुशासन का पालन करता है, वही धर्म और धन में संतुलन स्थापित कर पाता है। जो विद्यार्थी आज अर्थ-विषय में जागरूक है, वही भविष्य का उत्तरदायी नागरिक बनता है।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- त्वरिताहारः – शीघ्रभोजनम् – फास्ट फूड
- कृतभोजनम् – पात्रबद्वभोजनम् – डिब्बाबंद भोजन
- प्रभूतः – अत्यधिकः – बहुत अधिक
- वित्तगारा: – कोषागाराः – बैंक
- विपन्ना – दुरावस्था / दीना – खराब / दयनीय
- चक्रवृद्ध्या – वृद्धेः उपरि वृद्धिः – चक्रवृद्धि ब्याज
समास-विग्रहः
शब्द: – विग्रहः – भेदः
कष्टार्जितधनस्य – कष्टेन अर्जितं धनम्, तस्य – तृतीयातत्पुरुषसमासः
जिह्वालालसापूर्त्यर्थम् – जिह्वायाः लालसायाः पूर्तर्थम् – षष्ठीतत्पुरुषसमासः
जलबिन्दुनिपातेन – जलानां बिन्दूनां निपातेन – षष्ठीतत्पुरुषसमासः
अल्पधनस्यापि – अल्पं च तत् धनम्, तस्य – कर्मधारयसमासः
दीर्घकालिकनिवेशः – दीर्घकाले क्रियमाणः निवेशः – मध्यमपदलोपीतत्पुरुषः
आपातकालीननिधिः – आपत्कालस्य निधिः – षष्ठीतत्पुरुषसमासः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
तथैव – तथा + एव – वृद्धि सन्धिः
चेत्यादि – च + इत्यादि – गुणसन्धिः
सञ्चयोऽपि – सञ्चयः + अपि – (उत्व) विसर्गसन्धिः
कणशश्चैव – कणशः + च + एव – विसर्गः वृद्धिःसन्धिः
जागरूकोऽस्ति – जागरूक: + अस्ति – (उत्व) विसर्गसन्धिः
चेत्येतेषाम् – च + इति + एतेषाम् – गुणसन्धिः/यणसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
लब्धुम् – लभ् + तुमुन् – कृदन्तः – कृदन्तः
अवाप्तुम् – अव + आप् + तुमुन् – कृदन्तः
प्रष्टव्याः – प्रच्छ् + तव्यत् – कृदन्तः
वर्धमानम् – वृध् + शानच् – कृदन्तः
स्थापितुम् – स्था + णिच् + तुमुन् – कृदन्तः
पर्यायाः
शब्द: – पर्यायः
मातापितृभ्याम् – पितृभ्याम्
सूचना – विज्ञप्तिः
घट: – कुम्भ:, कलश:
युवा – तरुणः
मार्गः – पन्थः, वर्त्म
सम्पत्तिः – विभवः, धनम्
विशेषण – विशेष्यम्
शब्दः – विशेषणम् – विशेषभ्
प्रभूतः अपव्ययः – प्रभूतः – अपव्ययः
सुरक्षितं भविष्यम् – सुरक्षितम् – भविष्यम्
उत्तरदायी नागरिक: – उत्तरदायी – नागरिक:
बुद्धिमतां छात्राणाम् – बुद्धिमताम् – छात्राणाम्
बहुविद्या मार्गाः – बहुविद्याः – मार्गाः

अत्र इदम् अकधेयम्
चक्रवृदध्यंशः
चक्रवृद्ध्यंशः तादृशः वृद्ध्यंशः वर्तते यस्मिन् मूलधनेन सह वृद्ध्यंशस्य उपरि अपि वृद्ध्यंशः अर्ज्यते । येन कालान्तरेण धनस्य वृद्धिः अतिशीघ्रं भवति । यथा यदि भवान् ₹ 1000 निवेशं करोति, तत्र 10% वार्षिकं वृद्ध्यंशम् अर्जयति तर्हि प्रथमवर्षस्य अन्ते भवान् आहत्य ₹ 1100 धनं प्राप्स्यति। द्वितीयवर्षे ₹ 1000 इत्यस्य स्थाने ₹ 1100 राशेः उपरि वृद्ध्यंशं प्राप्स्यति । अनेन द्वितीयवर्षस्य अन्ते भवतः राशिः आहत्य ₹ 1210 यावत् वर्धते। चक्रवृद्ध्यंशः कथं कार्यं करोति ? इति अनया सारिण्या स्पष्टं भविष्यति—

सार: निवेशितं मूलधनम् -1,000
वार्षिकः चक्रवृद्ध्यंश:-10%
दशवर्षानन्तरं धनस्य मूल्यम् – 2,593.74
निगमनम् अनेन इदं सिद्धं यत् चक्रवृद्ध्या निवेशितं धनं शीघ्रं वर्धते यतोहि निवेशकर्ता न केवलं स्वस्य मूलधनस्य अपितु अर्जितवृद्ध्यंशस्य अपि उपरि वृद्ध्यंशम् अर्जयति। दीर्घकालीनसञ्चयस्य निवेशस्य च कृते एतत् किञ्चन सुशक्तं साधनमस्ति ।
गणनाकार्यम् (छात्राः कुर्वन्तु) उपर्युक्तगणनायाः आधारेण ₹ 1000 निवेशितस्य मूलधनस्य पञ्चदशवर्षेषु विंशतिवर्षेषु वा चक्रवृद्ध्या सकलधनराशेः परिमाणं लिखत ।