By going through these Class 9 Sanskrit Notes and NCERT Class 9 Sanskrit Sharada Chapter 10 Hindi Translation Summary Explanation Notes णमो अरिहन्ताणम् students can clarify the meanings of complex texts.
Sanskrit Class 9 Chapter 10 Hindi Translation णमो अरिहन्ताणम् Summary
कक्षा 9 संस्कृत पाठ 10 हिंदी अनुवाद
Class 9 Sanskrit Chapter 10 Summary Notes णमो अरिहन्ताणम्
महाराज नाभि के पुत्र ऋषभदेव ने दुर्भिक्ष के समय जनता को कृषि और जीवन – कौशल सिखाकर स्वावलंबी बनाया। एक नर्तकी की मृत्यु देख उन्होंने संसार की अनित्यता को समझा और वैराग्य धारण कर लिया। वे जैन धर्म के प्रथम तीर्थंकर ‘आदिनाथ’ कहलाए। उन्होंने अहिंसा, अपरिग्रह और त्रिरत्न (सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक्चारित्र) जैसे कल्याणकारी सिद्धांतों का प्रतिपादन किया।

Class 9 Sanskrit Sharada Chapter 10 Hindi Translation
Sanskrit Class 9 Chapter 10 Hindi Anuvad – कक्षा 9 संस्कृत पाठ 10 हिंदी अनुवाद
गद्यांश: 1
आसीत् युगानाम् आरम्भे प्रजानां प्रियः नाभिनामकः कश्चन महाराजः। सः राजनीतौ युद्धतन्त्रे प्रशासनादिषु च समर्थः । तस्य पत्नी मरुदेवी बुद्धिमती करुणाशालिनी च । तयोः एवं प्रियपुत्रः ऋषभः । ऋषभः सर्वगुणसम्पन्नः, अधीतविद्यः, राजनीतिज्ञश्च आसीत् । यौवनेन विलसन्तं तं राजकुमारं वीक्ष्य नाभिः तस्मै राज्यभारं समर्पयितुम् अचिन्तयत् ।
अथैकदा समाजे दुर्भिक्षादयः समस्याः समुदभवन्। जनेषु परस्परं विद्वेषादयः भावनाः आविरभवन् । तदा नाभिः ‘अयं कालः ऋषभस्य राजनीतेः परीक्षार्थं सुयोग्यः’ इति मन्यमानः तस्मै राज्यं समर्पितवान् । ऋषभः यदा राजा अभवत् तदा सः आदौ जनानां समस्या: काः, दुर्भिक्षस्य कारणं किं, जनेषु कुतः परस्परं विद्वेषः, समस्यानां समाधानोपायाः के इत्यादिषु विषयेषु चिन्तनं कृतवान् ।
हिंदी अनुवाद
युगों के आरंभ में प्रजा के प्रिय ‘नाभि’ नाम के कोई महाराज थे। वे राजनीति, युद्ध कला और प्रशासन आदि में समर्थ थे। उनकी पत्नी मरुदेवी बुद्धिमान और करुणावान थीं। उन दोनों का ही प्रिय पुत्र ऋषभ था। ऋषभ सभी गुणों से संपन्न, शिक्षित और राजनीतिज्ञ था। युवावस्था से सुशोभित उस राजकुमार को देखकर नाभि ने उसे राज्य का भार सौंपने के बारे में सोचा।
फिर एक बार समाज में अकाल आदि समस्याएँ उत्पन्न हुईं। लोगों में परस्पर द्वेष आदि की भावनाएँ प्रकट होने लगीं। तब नाभि ने ‘यह समय ऋषभ की राजनीति की परीक्षा के लिए श्रेष्ठ है’ ऐसा मानते हुए उसे राज्य सौंप दिया। जब ऋषभ राजा बना, तब उसने सबसे पहले लोगों की समस्याएँ क्या हैं, अकाल का कारण क्या है, लोगों में क्यों परस्पर द्वेष है, और समस्याओं के समाधान के उपाय क्या हैं इत्यादि विषयों पर उन्होंने चिंतन किया।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्था
- अचिन्तयत् – चिन्तितवान् – विचार किया
- आरम्भे – प्रारम्भे – शुरुआत में
- वीक्ष्य – दृष्ट्वा – देखकर
- राजनीतौ – राजधर्मे – राजनीति में
- विद्वेषः – वैरम् – द्वेष
- अधीतविद्यः – शिक्षितः – जिसने शिक्षा प्राप्त कर ली हो
- समर्पयितुम् – दातुम् – सौंपने के लिए
- राजनीतौ – राजधर्मे – राजनीति में
- दुर्भिक्षादयः – अकालसदृशाः – अकाल आदि
- आविरभवन् – प्रकटाः अभवन् – प्रकट हुए / पैदा हुए
- ब्राह्मीलिपिः मध्यपदलोपी – ब्राह्मीनाम्नी लिपि: – ब्राह्मी लिपि
- समाधानोपायाः – निवारणमार्गाः – समाधान के उपाय
- करुणाशालिनी – दयायुक्ता – दयालु
समास विग्रहः
शब्द: – विग्रहः – भेदः
नाभिनामकः – नाभिः इति नाम यस्य सः – बहुव्रीहिसमासः
सर्वगुणसम्पन्नः – सर्वैः गुणैः सम्पन्नः – तृतीयतत्पुरुषः
राज्यभारम् – राज्यस्य भारम् – षष्ठीतत्पुरुषः
करुणाशालिनी – करुणया शालिनी – तृतीयतत्पुरुषः
राजकुमारम् – राज्ञः कुमारम् – षष्ठीतत्पुरुषः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
अथैकदा – अथ + एकदा – वृद्धिसन्धिः
विद्वेषादयः – विद्वेष + आदयः – दीर्घसन्धिः
प्रशासनादिषु – प्रशासन + आदिषु – दीर्घसन्धिः
तयोरेव – तयोः + एव – विसर्ग: (रुत्व) सन्धिः
नाभिस्तस्मै – नाभिः + तस्मै – विसर्ग: (सत्व) सन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
वीक्ष्य: – वि + ईक्ष् +ल्यप् – कृदन्तः
समर्पयितुम् – सम् + ऋ + णिच् + तुमुन् – कृदन्तः
मन्यमानः – मन् + शानच् – कृदन्तः
समर्पितवान् – सम् + अप् + क्तवतु – कृदन्तः
बुद्धिमती – बुद्धि + मतुप् (स्त्रीलिंग – ङीप्) – तद्धितः
उपसर्गकार्यम्
शब्दः – उपसर्गः
प्रशासनम् – प्र
सम्पन्नः – सम्
विद्वेषः – वि
विशेषण-विशेष्यम्
विशेषणम् – विशेष्यम्
प्रियः – महाराजः
बुद्धिमती – मरुदेवी
करुणाशालिनी – मरुदेवी
सर्वगुणसम्पन्नः – ऋषभः
सुयोग्यः – काल:
विपर्ययाः
शब्दः – विपर्ययः
आरम्भे – अन्ते
समर्थ: – असमर्थः
बुद्धिमती – मूर्खाः
विद्वेषः – सद्भावः / प्रेमः
सुयोग्यः – अयोग्यः

गद्यांश: 2
तेन काचित् स्पष्टकल्पना प्राप्ता यत् जनानाम् आलस्यं, कृषिकार्ये न्यूनता, प्रजासु उत्पादनक्षमतायाः अभावः चेत्येतादृश्यः मूलसमस्याः सन्ति इति । अतः सः मूलसमस्यानां परिष्काराय जनानां सुखमय जीवनाय च विविधाः योजनाः रचितवान् । विशेषरूपेण कृषिकार्यं, विविधपदार्थैः भोजननिर्माणं, तन्तुभिः वस्त्रनिर्माणं, गवाम् अश्वादीनां पशूनां पालनं चेत्यादीनि जीवन-कौशलानि प्रशिक्षितवान् । काष्ठैः धातुभिः शिलाभिः च गृहोपयोगिनां वस्तूनां निर्माणं, पात्रनिर्माणं, गृहनिर्माणं, नगरनिर्माणादिकं च प्रशिक्षितवान् । तेन क्रमशः जनाः सक्रियाः अभवन् जीवनपद्धतिं च परिवर्तितवन्तः । क्रमशः जनानाम् आर्थिकस्थितिः अपि सुदृढा जाता । जनाः स्वयमेव गृहाणां विविधभोज्यपदार्थानां नित्योपयोगिवस्तूनां च निर्माणं कर्तुम् आरब्धवन्तः। कृषिकार्याणि अपि प्रचुरतया आरब्धानि । तेन जनानां समस्याः स्वयमेव परिहृताः, राज्यं पुनः सुभिक्षं चाभवत् ।
प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥
अन्वयः
राज्ञः सुखं प्रजासुखे च हितं प्रजानां हिते राज्ञः आत्मप्रियं हितं न तु प्रजानां प्रियं हितम् ।
भावार्थ:
अस्य श्लोकस्य भावः अस्ति यत् एकः आदर्श: नृपः (राजा) सर्वदा स्वप्रजानां कल्याणाय एव कार्यं करोति । राज्ञः वैयक्तिकं सुखं किमपि न भवति, अपितु यदा प्रजा सुखी भवति तदा एव राजा अपि सुखम् अनुभवति । राज्ञः तत् कार्यं हितकरं नास्ति यत् केवलं तस्मै रोचते, अपितु तदेव कार्यं वास्तविकं हितकरं मन्यते येन प्रजानां प्रियं भवति । संक्षेपेण, प्रजानां प्रसन्नता एव राज्ञः सफलतायाः मापदण्डः ।
हिंदी अनुवाद
उससे उन्हें कुछ स्पष्ट विचार प्राप्त हुए कि लोगों का आलस्य, कृषि कार्य में कमी और प्रजा में उत्पादन क्षमता का अभाव; यही मूल समस्याएँ हैं । अतः उन्होंने मूल समस्याओं के सुधार (परिष्कार) के लिए और लोगों के सुखमय जीवन के लिए विभिन्न योजनाएँ बनाईं।
विशेष रूप से कृषि कार्य, विभिन्न पदार्थों से भोजन बनाना, धागों से वस्त्र बनाना, गायों और घोड़ों आदि पशुओं का पालन करना जैसे जीवन कौशल सिखाए। लकड़ी, धातु और पत्थरों (शिलाओ) से घरेलू उपयोग की वस्तुओं का निर्माण, बर्तनों का निर्माण, घर का निर्माण और नगर निर्माण आदि सिखाया। उससे धीरे-धीरे लोग सक्रिय हुए और उन्होंने अपनी जीवन पद्धति बदल ली। क्रमशः लोगों की आर्थिक स्थिति भी बहुत मजबूत हो गई। लोग स्वयं ही घरों का, विभिन्न खाद्य पदार्थों का और नित्य उपयोग की वस्तुओं का निर्माण करने लगे। कृषि कार्य भी प्रचुर मात्रा में शुरू हुए। उससे लोगों की समस्याएँ स्वयं ही दूर हो गईं और राज्य पुनः संपन्न हो गया।
प्रजा के सुख में राजा का सुख होता है। प्रजा के हित में राजा का हित होता है। राजा का अपना कोई प्रिय हित नहीं होता। प्रजा के हित में ही उसका हित होता है।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- आलस्यम् – प्रमादः – आलस्य
- उत्पादनक्षमता – उत्पादनस्य क्षमता – उत्पादन की क्षमता
- समाधानोपायाः – निराकरणस्य मार्गः – समाधान के उपाय
- न्यूनता – अल्पता / न्यूनत्वम् – कमी
- परिष्काराय – संशोधनाय / शुद्धये – सुधार के लिए
- तन्तुभिः – सूत्र: – धागों से
- कौशलानि – निपुणताः – हुनर / कौशल
- काष्ठैः – दारुभिः – लकड़ियों से
- पात्रनिर्माणम् – भाण्डरचना – बर्तन बनाना
- सुदृढ़ा – अतीव प्रबला – बहुत मजबूत
- प्रचुरतया – बाहुल्येन – प्रचुर मात्रा में / बहुत अधिक
- परिहृताः – निवारिताः – दूर हो गईं
- सुभिक्षम् – सुकालः /सम्पन्नम् – सुकाल / जहाँ अन्न की कमी न हो
- आत्मप्रियम् – स्वस्य प्रियम् – स्वयं को प्यारा लगने वाला
- प्रजानाम् – जनानाम् – प्रजाओं का
- नित्योपयोगिवस्तूनाम् – प्रतिदिनोपयोगिनां वस्तूनाम् – नित्य उपयोग की वस्तुओं के
समास विग्रहः
शब्दः – विग्रहः – भेदः
मूलसमस्याः – मूला: च ताः समस्याः – कर्मधारयः
भोजननिर्माणम् – भोजनस्य निर्माणम् – षष्ठीतत्पुरुषः
जीवनकौशलानि – जीवनस्य कौशलानि – षष्ठीतत्पुरुषः
आर्थिक स्थितिः – आर्थिकी स्थितिः – कर्मधारयः
प्रजासुखे – प्रजानां सुखे – षष्ठीतत्पुरुषः
आत्मप्रियं – आत्मनः प्रियम् – षष्ठीतत्पुरुषः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
चेत्येतादृश्यः – च + इति + एतादृश्यः – गुणः वृद्धिसन्धिः च
अश्वादीनां – अश्व + आदीनां – दीर्घसन्धिः
नगरनिर्माणादिकं – नगरनिर्माण + आदिकं – दीर्घसन्धिः
चाभवत् – च + अभवत् – दीर्घसन्धिः
नात्मप्रियं – न + आत्मप्रियं – दीर्घसन्धिः
क्रमशोजानानम् – क्रमशः + जनानाम् – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
कृतवान् – कृ + क्तवतु – कृदन्तः
प्राप्ता – प्र + आप् + क्त (टाप्) – कृदन्तः
रचितवान् – रच् + क्तवतु – कृदन्तः
परिवर्तितवन्तः – परि + वृत्त + णिच् + क्तवतु – कृदन्तः
कर्तुम् – कृ + तुमुन् – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्गः
समाधान – सम् + आ
परिष्कारः – परि
प्रशिक्षितवान् – प्र
अभावः – अ
उत्पादनम् – उत्
विशेषण – विशेष्यम्
विविधाः – योजना:
गृहोपयोगिनाम् – वस्तूनां
सक्रिया: – जनाः
सुदृढ़ा – आर्थिक स्थितिः
विपर्ययाः
शब्दः – विपर्ययः
हितम् – अहितम्
सक्रियाः – निष्क्रियाः
न्यूनता – प्रचुरता

गद्यांश: 3
ऋषभः जनानां जीवने शान्तिं सुरक्षां न्यायिकव्यवस्थां च पुनः सुदृढां कृतवान्। एवम् ऋषभस्य दक्षशासनेन कौशलेन च विनितानाम्नः नगरस्य निर्माणम् अभवत्। समाजस्य उत्कर्षेण सः जनानां मनस्सु सुप्रतिष्ठितं स्थानं प्राप्तवान् । अतः तं प्रजाः प्रेम्णा राजा ऋषभदेवः इति कथयन्ति स्म । ऋषभदेवः समाजस्य उत्कर्षेण सह साम्राज्यस्यापि विस्तारं कृतवान् । एतादृशस्य महाराजस्य पुत्राः अपि शौर्येण पराक्रमेण बुद्धिबलेन च विश्वप्रसिद्धाः आसन्। तादृशेषु शते पुत्रेषु विशेषरूपेण भरतः बाहुबलिः च अत्यन्तं सुविख्यातौ। तथैव ऋषभस्य पुत्रीषु ब्राह्मी सुन्दरी चेति द्वे कन्ये अपि गणितादिषु शास्त्रेषु प्रवीणे प्रसिद्धे च आस्ताम्।
हिंदी अनुवाद
ऋषभ ने लोगों के जीवन में शांति, सुरक्षा और न्यायिक व्यवस्था को पुनः सुदृढ़ किया। इस प्रकार ऋषभ के कुशल शासन और निपुणता से विनिता नामक नगर का निर्माण हुआ। समाज के उत्थान (उन्नति) से उन्होंने लोगों के मनों में अत्यंत प्रतिष्ठित स्थान प्राप्त किया । इसलिए प्रजा उन्हें प्रेम से राजा ऋषभदेव कहती थी। ऋषभदेव ने समाज के उत्कर्ष के साथ-साथ साम्राज्य का भी विस्तार किया। ऐसे महाराज के पुत्र भी शौर्य, पराक्रम और बुद्धिबल के कारण विश्व प्रसिद्ध थे । उन सौ पुत्रों में विशेष रूप से भरत और बाहुबली अत्यंत विख्यात थे। उसी प्रकार ऋषभ की पुत्रियों में ब्राह्मी और सुंदरी; ये दो कन्याएँ भी गणित आदि शास्त्रों में प्रवीण और प्रसिद्ध थीं।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्था:
- न्याय व्यवस्था – न्यायसम्बन्धिनी व्यवस्था – न्यायिकव्यवस्था
- सुदृढां – अतीव प्रबलाम् – अत्यंत मजबूत
- दक्षशासनेन – चतुरप्रशासनेन – कुशल शासन से
- कौशलेन – निपुणता – हुनर / निपुणता से
- उत्कर्षेण – उन्नत्या – उन्नति / उत्थान से
- सुप्रतिष्ठितम् – सुस्थापितम् – अच्छी तरह स्थापित
- कथयन्ति स्म – वदन्ति स्म – कहते थे
- विश्वप्रसिद्धाः – जगति विख्याता – संसार में प्रसिद्ध
- शते – शतसंख्याके – सौ (की संख्या) में
- सुविख्यात – अतीव प्रसिद्धौ – बहुत अधिक प्रसिद्ध
- कन्ये – पुत्र्यौ – दो पुत्रियाँ / कन्याएँ
- प्रवीणे – कुशले / निपुणे – कुशल / होशियार
- आस्ताम् – अभवताम् – थीं
समास विग्रहः
शब्द: – विग्रहः – भेदः
न्यायिकव्यवस्थां – न्यायिक व्यवस्थां – कर्मधारयः
विनितानाम्नः – विनिता इति नाम यस्य सः – बहुव्रीहिः
बुद्धिबलेन – बुद्धेः बलेन – षष्ठीतत्पुरुषः
विश्वप्रसिद्धाः – विश्वे प्रसिद्धाः – सप्तमीतत्पुरुषः
ऋषभदेवः – ऋषभः एव देवः – कर्मधारयः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
साम्राज्यस्यापि – साम्राज्यस्य + अपि – दीर्घसन्धिः
तथैव – तथा + एव – वृद्धिसन्धिः
चेति – च + इति – गुणसन्धिः
गणितादिषु – गणित + आदिषु – दीर्घसन्धिः
बाहुबलिश्च – बाहुबलि च – सत्वसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
कृतवान् – कृ + क्तवतु – कृदन्तः
प्राप्तवान् – प्र + आप + क्तवतु – कृदन्तः
विस्तारं – वि + स्तृ + घञ् – कृदन्तः
सुविख्यात – सु + वि + ख्या + क्त – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्गः
सुप्रतिष्ठितम् – सु + प्रति
विस्तारं – वि
प्रसिद्धाः – प्र
अत्यन्तं – अति
प्रवीणे – प्र
विशेषण – विशेष्यम्
विशेषणम् – विशेष्यम्
विश्वप्रसिद्धाः – पुत्राः
द्वे – कन्ये
सुविख्यातौ – भरत – बाहुबली
राजा – ऋषभदेवः
सुप्रतिष्ठितम् – स्थानम्
विपर्ययाः
शब्दः – विपर्ययः
शान्तिं – अशान्तिं
सुरक्षां – असुरक्षां
उत्कर्षेण – अपकर्षेण
पुत्राः – पुत्र्यः
प्रसिद्धाः – अप्रसिद्धाः

गद्यांश: 4
जैनसम्प्रदायानुगुणं ‘ब्राह्मीलिप्या :’ विकासः ब्राह्मीद्वारैव कृता इति श्रूयते । तस्यामेव लिप्यां शिलालेखाः उपलभ्यन्ते एवं सर्वोन्मुखसमृद्ध्या ऋषभदेवः जीवने प्राप्तानन्दः परमसुखी च आसीत्, परं को वा जानाति विधिलिखितम् । ऋषभदेवस्यापि जीवने काचित् तादृशी घटना संवृत्ता यया तस्य जीवनमेव परिवर्तितम्। उच्यते हि
दैवाधीनं जगत्सर्वं जन्मकर्मशुभावहम्।
संयोगश्च वियोगश्च न च दैवात्परं बलम् ॥
अन्वयः
सर्वं जगत्, जन्म-कर्म – शुभावहम् (च), संयोगः वियोग: च देवाधीनम् (अस्ति)। दैवात् परं बलम् न च (अस्ति)।
भावार्थ:
अस्मिन् संसारे सर्वं वस्तुजातं दैवाधीनं अस्ति । मनुष्यस्य जन्मः, तस्य कर्माणि शुभाशुमानि फलानि च भाग्येनेव निर्धारीयन्ते । लोके यः संयोगः अथवा वियोगः भवति। तत् सर्वं प्रारब्धस्य खेलम् अस्ति। संसारे दैवात् श्रेष्ठं किमपि बलं नास्ति ।
हिंदी अनुवाद
जैन संप्रदाय के अनुसार ‘ब्राह्मी लिपि’ का विकास ब्राह्मी (ऋषभदेव की (पुत्री) द्वारा किया गया था, ऐसा सुना जाता है। उसी लिपि में शिलालेख प्राप्त होते हैं। इस प्रकार चहुँमुखी समृद्धि के साथ ऋषभदेव जीवन में आनंद प्राप्त करने वाले और परम सुखी थे, परंतु भाग्य के लिखे को कौन जानता है। ऋषभदेव के जीवन में भी कोई ऐसी घटना घटी, जिससे उनका जीवन ही बदल गया। कहा गया है
“यह संपूर्ण जगत, जन्म, कर्म और शुभ-अशुभ फल सब भाग्य के ही अधीन है। संयोग और वियोग (मिलना और बिछड़ना) भी उसी के हाथ में है; वास्तव में भाग्य से बढ़कर कोई दूसरा बल नहीं है ।”
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- ब्राह्मीलिपिः – ब्राह्मीनाम्नीलिपिः – ब्राह्मी लिपि
- जैनसम्प्रदायानुगुणं जैनमतानुसारम् जैन संप्रदाय के अनुसार
- श्रूयते – आकर्णयते – सुना जाता है
- शिलालेखाः – पाषाणलेखाः – पत्थरों पर लिखे लेख
- सर्वोन्मुखसमृद्धया – चतुर्दिक्षु सम्पन्नतया – चहुँमुखी समृद्धि से
- प्राप्तनन्दः – प्राप्तसन्तोष: – आनंद प्राप्त करने वाले
- विधिलिखितम् – भाग्यलेखम् – भाग्य का लिखा
- संवृत्ता – जाता / घटिता – हुई / घटित हुई
- दैवाधीनम् – भाग्यायत्तम् – भाग्य के अधीन
- शुभावहम् – कल्याणप्रदम् – शुभ फल देने वाला
- संयोगः – मेलनम् – संयोग
- वियोग: – विरहः – बिछड़ना
समास विग्रहः
शब्द: – विग्रहः – भेदः
जैनसम्प्रदायानुगुणं – जैनसम्प्रदायस्य अनुगुणम् – षष्ठीतत्पुरुषः
शिलालेख: – शिलायां लिखितः लेख: – सप्तमीतत्पुरुषः
सर्वोन्मुखम् – सर्वतः मुखं यस्य तत् – बहुव्रीहिसमासः
विधिलिखितम् – विधिना लिखितम् – तृतीयतत्पुरुषः
देवाधीनम् – देवानाम् अधीनम् – षष्ठीतत्पुरुषः
सन्धि-विच्छेदः
शब्दः – विच्छेदः
ब्राह्मीद्वारैर्व – ब्राह्मीद्वारैः + एव – विसर्गसन्धिः
कृत इति – कृतः + इति – विसर्ग: (लोप) सन्धिः
प्राप्तानन्दः – प्राप्त + आनन्दः – दीर्घसन्धिः
को वा – कः + वा – विसर्ग: (उत्व) सन्धिः
ऋषभदेवस्यापि – ऋषभदेवस्य + अपि – दीर्घसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
विकासः – वि + कास् + घञ् – कृदन्तः
प्राप्त – प्र + आप् + क्त – कृदन्तः
संवृत्ता – सम् + वृत् + क्त + टाप् – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्ग:
विकास: – वि
वियोग: – वि
उपलब्धन्ते – उप
विशेषण – विशेष्यम्
विशेषणम् – विशेष्यम्
तस्याम् – लिप्यां
सर्वं – जगत्
परमसुखी – ऋषभदेवः
विपर्ययाः
शब्द: – विपर्ययः
सुखी – दुःखी
प्राप्तम् – अप्राप्तम्
संयोगः – वियोग:
शुभम् – अशुभम्
परं – अपरम्
गद्यांश: 5
एकदा ऋषभदेवः राजप्रासादे नृत्यकलाप्रदर्शनम् आयोजितवान्। तत्र आगता काचित् नर्तकी नृत्यकलां प्रदर्शयन्ती सहसा भूमौ पतित्वा मृता। अनया घटनया ऋषभदेवस्य मनः सहसा विक्षुब्धम् अभवत्। कथं काचित् आरोग्यवती स्त्री सहसा मरणं प्राप्तवती, किं नाम जीवनम्, कथं जीवनीयम्, इत्यादयः अनेके प्रश्नाः तस्य बुद्धौ आविरभवन्। इह संसारे किमपि शाश्वतं नास्ति, इदं सुखं स्थायि नास्ति इति विचिन्त्य स्थिरसुखस्य प्राप्त्यर्थं सः सर्वमपि परित्यज्य भिक्षुरूपेण प्रस्थितवान्। स्वस्य विशालं साम्राज्यं स्वपुत्रेषु विभक्तवान्। विशेषतया ‘विनिता’ राज्यं भरताय तक्षशिलां बाहुबलये च समर्प्य जीवनस्य परमसत्यम् अन्वेष्टुं प्रस्थितोऽयं महामुनिः ।
हिंदी अनुवाद
एक बार ऋषभदेव ने राजमहल में नृत्यकला के प्रदर्शन का आयोजन किया। वहाँ आई हुई कोई नर्तकी नृत्यकला का प्रदर्शन करते हुए अचानक भूमि पर गिरकर मर गई। इस घटना से ऋषभदेव का मन अचानक व्याकुल हो गया। कैसे कोई स्वस्थ स्त्री अचानक मृत्यु को प्राप्त हो गई, जीवन वास्तव में क्या है, कैसे जीना चाहिए इत्यादि अनेक प्रश्न उनकी बुद्धि में उत्पन्न होने लगे। इस संसार में कुछ भी शाश्वत (स्थिर) नहीं है, यह सुख स्थायी नहीं है ऐसा सोचकर स्थायी सुख की प्राप्ति के लिए वह सब कुछ त्यागकर भिक्षु के रूप में निकल पड़े। उन्होंने अपना विशाल साम्राज्य अपने पुत्रों में बाँट दिया। मुख्य रूप से ‘विनीता’ राज्य भरत को और तक्षशिला बाहुबली को सौंपकर जीवन के परम सत्य को खोजने के लिए यह महामुनि निकल पड़े।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- राजप्रासादे – राजभवने – राजमहल में
- सहसा – अकस्मात् – अचानक
- विक्षुब्धम् – उद्विग्नम् / व्याकुलम् – व्याकुल / अशांत
- आरोग्यवती – स्वस्थ – शरीरा – स्वस्थ / निरोगी
- आविर्भवन् – उत्पन्नम् / अभवन् – प्रकट हुए / उत्पन्न हुए
- शाश्वतम् विचिन्त्य – नित्यम् – सदा रहने वाला
- विचिन्त्य – ध्यात्वा / चिन्तनं कृत्वा – सोचकर
- प्रस्थितवान् – गतवान – प्रस्थान किया / चल दिए
- विभक्तवान् – विभक्तं कृतवान् – बाँट दिया
- परित्यज्य – त्यक्त्वा – त्यागकर
- अन्वेष्टुम् – अन्वेषणं कर्तुम् – खोजने के लिए
समास विग्रहः
शब्द: – विग्रहः – भेदः
राजप्रासादे – राज्ञः प्रासादे – षष्ठीतत्पुरुषः
नृत्यकला – नृत्यस्य कला – षष्ठीतत्पुरुषः
स्थिरसुखस्य – स्थिरं च तत् सुखम् तस्य – कर्मधारयः
भिक्षुरूपेण – भिक्षोः रूपेण – षष्ठीतत्पुरुषः
परमसत्यम् – परमं च तत् सत्यम् – कर्मधारयः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
इत्यादयः – इति + आदयः – यणसन्धिः
नास्ति – न + अस्ति – दीर्घसन्धिः
प्रस्थितोऽयम् – प्रस्थितः + अयम् – विसर्ग (उत्व) सन्धिः
इत्यादयोऽनेके – इत्यादयः + अनेके – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
आयोजितवान् – आ + युज् + क्तवतु – कृदन्तः
आगता – आ + गम् + क्त + टाप् – कृदन्तः
मृता – मृ + क्त – कृदन्तः
विचिन्त्य – वि + चिन्त् + ल्यप् – कृदन्तः
समर्पित – सम् + अप् + क्त – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्गः
आयोजितवान् – आ
प्रस्थितवान् – प्र
विचिन्त्य – वि
विभक्तवान् – वि
अन्वेष्टुम् – अनु
विशेषण – विशेष्यम्
विशेषणम् – विशेष्यम्
काचित् – नर्तकी
आरोग्यवती – स्त्री
अनेके – प्रश्ना:
विशालं – साम्राज्यम्
अयम् – महामुनिः
विपर्ययाः
शब्द: – विपर्ययः
एकदा – सदा
भूमौ – आकाशे
मृता – जीविता
शाश्वतम् – नश्वरम्
सुखम् – दुःखम्
विशालम् – लघु / सूक्ष्मम्

गद्यांश: 6
तम् अनेके जनाः शिष्यरूपेण अनुसृतवन्तः । ऋषभदेवः तदारभ्य अरण्येषु मौनेन ध्यानं निरन्तरम् अध्ययनं च करोति स्म । सः अध्ययने गभीरध्याने च तथा लीनः भवति स्म येन सः भोजनपानादिकमपि विस्मृत्य बहुकालं यावत् स्वाभाविकरूपेण निराहारम् अकरोत्, परं तस्य अनुयायिनः तथा निराहारं स्थातुं कष्टम् अनुभवन्ति स्म, किन्तु ते ऋषभदेवं त्यक्त्वा गन्तुमपि न इच्छन्ति स्म । ते अरण्ये विद्यमानेभ्यः वृक्षेभ्यः फलानि शाकानि वा चित्वा जीवनं यापयन्ति स्म ।
हिंदी अनुवाद
अनेक लोगों ने शिष्य के रूप में उनका (ऋषभदेव का) अनुसरण किया। ऋषभदेव ने तब से वनों में मौन रहकर ध्यान और निरंतर अध्ययन करना शुरू कर दिया। वे अध्ययन और गहरे ध्यान में लीन हो जाते थे कि भोजन – पानी आदि को भी भूलकर लंबे समय तक स्वाभाविक रूप से निराहार (बिना भोजन के) रहते थे, किंतु उनके अनुयायी त्रेसा निराहार रहने में कष्ट अनुभव करते थे, किंतु वे ऋषभदेव को छोड़कर जाना भी नहीं चाहते थे। वे वन में विद्यमान वृक्षों से फल अथवा सब्जियाँ चुनकर अपना जीवन व्यतीत करते थे।
शब्दार्थाः
- शब्दाः – संस्कृतार्थाः – हिन्दी-अर्थाः
- अनुसृतवन्तः – अनुकरणं कृतवन्तः – पीछे चले / अनुसरण किया
- तदारभ्य – तस्मात् कालात् – तब से लेकर
- अरण्येषु – वनेषु – जंगलों में
- गभीरध्याने – गहनचिन्तने – गहरे ध्यान में
- विस्मृत्य – विस्मरणं कृत्वा – भूलकर
- निराहारम् – भोजनरहितम् – बिना भोजन के
- अनुयायिनः – अनुगामिनः – पीछे चलने वाले (चेले)
- विद्यमानेभ्यः – उपस्थितेभ्यः – मौजूद / उपस्थित
- चित्वा – संगृह्य – चुनकर / इकट्ठा करके
- यापयन्ति स्म – व्यतीतं कुर्वन्ति स्म – बिताते थे
समास-विग्रहः
शब्दः – विग्रहः – भेदः
शिष्यरूपेण – शिष्यस्य रूपेण – षष्ठीतत्पुरुषः
निराहारम् – निर्गतः आहार: यस्मात् सः – बहुव्रीहिः
स्वाभाविकरूपेण – स्वाभाविकं च तत् रूपं तेन – कर्मधारयः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
तदारभ्यः – तत् + आरभ्यः – व्यञ्जन (जश्त्व) सन्धिः
भोजनपानादिकम् – भोजनपान + आदिकम् – दीर्घसन्धिः
गन्तुमपि – गन्तुम् + अपि – व्यञ्जनसन्धिः
स अध्ययने – सः + अध्ययने – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
अनुसृतवन्तः – अनु + सृ + क्तवतु – कृदन्तः
आरभ्यः – आ + रभ् + ल्यप् – कृदन्तः
विस्मृत्य – वि + स्मृ + ल्यप् – कृदन्तः
गन्तुम् – गम् + तुमुन् – कृदन्तः
चित्वा – चि + क्त्वा – कृदन्तः
स्थातुम् – स्था + तुमुन् – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्गः
अनुसृतवन्तः – अनु
आरभ्यः – आ
निरन्तरम् – नि
विस्मृत्य – वि
अनुभवन्ति – अनु
विशेषण-विशेष्यम्
विशेषणम् – विशेष्यम्
अनेके – जना:
निरन्तरं – ध्यानम्
विद्यमानेभ्यः – वृक्षेभ्यः
विपर्ययाः
शब्दः – विपर्ययः
शिष्य: – गुरुः
मौनेन – कोलाहलेन
निरन्तरम् – कदाचित्
विस्मृत्य – स्मृत्वा
निराहारम् – साहारम्
कष्टम् – सुखम्

गद्यांश: 7
कदाचित् तेषाम् एतादृशं व्यवहारं दृष्ट्वा जैनसन्यासिनः वृक्षेभ्यः फलानि शाकानि वा न चिनुयुः इति बोधनार्थं स्वयं भिक्षार्थं प्रस्थितः। अनुयायिनः अपि तस्य आचरणेन प्रभाविताः सन्तः भिक्षार्थं गताः । ग्रामेषु प्रतिगृहं गत्वा भिक्षां प्राप्य जीवनं निर्वर्तयन्ति स्म, परम् ऋषभः पूर्वं भोजनार्थं मौनेन भिक्षायाचनं करणीयमिति मौनेन प्रतिगृहं भिक्षायाचनम् आरब्धवान् परं तत्रत्याः जनाः तेषां प्रियं महाराजं दृष्ट्वा भिक्षायां किं दातव्यमिति सम्भ्रान्ताः सन्तः तस्मै आभरणानि अनर्घवस्तूनि च यच्छन्ति स्म, परं भिक्षायां भोजनपदार्थः देयः इति न केनापि चिन्तितम्। फलतः ऋषभदेवस्य दिने दिने सकष्टम् उपवासः करणीयः आपतितम्। कदाचित् ऋषभदेवः भोज्यपदार्थानाम् अभावे चतुःशतं दिनानि नैरन्तर्येण उपवासं कृतवान्।
हिंदी अनुवाद
कभी उनके इस प्रकार के व्यवहार को देखकर जैन संन्यासियों को वृक्षों से फल अथवा सब्जियाँ नहीं चुननी चाहिए, यह समझाने के लिए वे स्वयं भिक्षा के लिए निकल पड़े। अनुयायी भी उनके आचरण से प्रभावित होकर भिक्षा के लिए गए। गाँवों में घर-घर जाकर भिक्षा प्राप्त करके वे अपना जीवन निर्वाह करने लगे, परंतु ऋषभदेव ने पहले भोजन के लिए मौन रहकर भिक्षा माँगनी चाहिए, ऐसा विचार कर मौन रहकर घर-घर भिक्षा माँगना शुरू किया, परंतु वहाँ के लोग अपने प्रिय महाराज को देखकर भिक्षा में क्या देना चाहिए, इस उलझन में पड़कर उन्हें आभूषण और बहुमूल्य वस्तुएँ देने लगे, परंतु भिक्षा में भोज्य पदार्थ देना चाहिए, ऐसा किसी ने भी नहीं सोचा। परिणामस्वरूप ऋषभदेव को दिन-प्रतिदिन कष्ट के साथ उपवास करना पड़ा। कभी ऋषभदेव ने भोज्य पदार्थों के अभाव में निरंतर चार सौ दिनों तक उपवास किया।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- बोधनार्थम् – ज्ञानं कारयितुम् – समझाने / बोध कराने के लिए
- प्रतिगृहम् – गृहं गृहम् – घर-घर
- निर्वर्तयन्ति स्म – निर्वाहं कुर्वन्ति स्म – बिताते थे / निर्वाह करते थे
- भिक्षायाचनम् – भिक्षायाः प्रार्थना – भिक्षा माँगना
- तत्रत्याः – तत्र स्थिताः – वहाँ के (निवासी)
- सम्भ्रान्ताः – व्याकुलाः / भ्रमिताः – भ्रमित / उलझन में पड़े हुए
- अनर्घवस्तूनि – बहुमूल्यवस्तूनि – बहुमूल्य वस्तुएँ
- फलतः – परिणामतः – परिणामस्वरूप
- नैरन्तर्येण – विच्छेदं विना – निरंतरता से
- भिक्षार्थम् – याच्ञायै – भिक्षा के लिए
समास विग्रहः
शब्दः – विग्रहः – भेदः
जैनसन्यासिनः – जैना: च ते सन्यासिनः – कर्मधारयः
प्रतिगृहम् – गृहं गृहं प्रति – अव्ययीभावः
भिक्षायाचनम् – भिक्षायाः याचनम् – षष्ठीतत्पुरुषः
भोजनपदार्थः – भोजनस्य पदार्थ: – षष्ठीतत्पुरुषः
अनर्घवस्तूनि – न अर्थवस्तूनि – नञ्तत्पुरुषः
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
प्रस्थितोऽयम् – प्रस्थितः + अयम् – विसर्ग (उत्व) सन्धिः
पर्यटनावसरे – पर्यटन + अवसरे – दीर्घसन्धिः
जनास्तेषाम् – जनाः + तेषाम् – सत्वसन्धिः
देय इति – देयः + इति – विसर्गस्य लोपः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
दृष्ट्वा – दृश् + क्त्वा – कृदन्तः
प्राप्य – प्र + आप् + ल्यप् – कृदन्तः
आरब्धवान् – आ + रभ् + क्तवतु – कृदन्तः
गताः – गम् + क्त – कृदन्तः
दातव्यम् – दा + तव्यत् – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्गः
प्रस्थितः – प्र
प्रतिगृहम् – प्रति
प्रभावित – प्र
आरब्धवान् – आ
उपवासः – उप
विशेषण – विशेष्यम्
विशेषणम्-विशेष्यम्
विशेषणम् – विशेष्यम्
एतादृशं – व्यवहारं
पूर्वं – भोजनार्थम्
प्रियं – महाराजं
तत्रात्याः – जनाः
सम्भ्रान्ताः – सन्तः (जनाः)
विपर्ययाः
शब्दः – विपर्ययः
कदाचित् – सर्वदा
देयः – अदेयः
प्रियम् – अप्रियम्
दिनानि – रात्र्यः
अभावः – सद्भावः / प्रचुरता
प्राप्य – दत्त्वा
प्रभाविताः – अप्रभाविताः

गद्यांश: 8
एकदा पर्यटनावसरे सः हस्तिनापुरस्य समीपे स्थितस्य इक्षुक्षेत्रस्य पार्श्वमार्गात् गच्छति स्म । तच्च इक्षुक्षेत्रं तस्यैव प्रपौत्रस्य श्रेयांसस्य आसीत्। सः श्रेयांसः प्रपितामहाय पानार्थम् इक्षुरसं दत्तवान्। अनेन ऋषभदेवस्य दीर्घकालिकः उपवासः समाप्तः । तच्च वैशाखमासस्य अक्षयतृतीया-दिनम् आसीत्। अतः जैनसम्प्रदाये ‘वर्षतपपारणामहोत्सव:’ अधुनापि गुजराते पदलिप्तपुरम् (पालीताणा ) उत्तरप्रदेशे हस्तिनापुरं चेत्यादिषु पवित्रतीर्थेषु आचर्यते। अत्र त्रयोदशमासानां वैकल्पिकदिनेषु उपवासं कुर्वन्ति । अन्ते अक्षयतृतीयादिने इक्षुरसेन उपवासस्य समापनं कुर्वन्ति ।
हिंदी अनुवाद
एक बार भ्रमण के अवसर पर वे हस्तिनापुर के पास में स्थित गन्ने के खेत के बगल वाले रास्ते से जा रहे थे। वह गन्ने का खेत उन्हीं के प्रपौत्र श्रेयांस का था। उस श्रेयांस ने अपने परदादा को पीने के लिए गन्ने का रस दिया। इससे ऋषभदेव का दीर्घकालिक उपवास समाप्त हुआ। वह वैशाख मास की अक्षय तृतीया का दिन था । इसलिए जैन संप्रदाय में ‘वर्षीतप पारणा महोत्सव’ आज भी गुजरात के पदलिप्तपुर (पालीताना) उत्तर प्रदेश के हस्तिनापुर इत्यादि पवित्र तीर्थों में मनाया जाता है। यहाँ (लोग) तेरह महीनों तक वैकल्पिक दिनों (एक दिन छोड़कर एक दिन) में उपवास करते हैं। अंत में अक्षय तृतीया के दिन गन्ने के रस से उपवास का समापन करते हैं।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्था
- पर्यटनावसरे – भ्रमणसमये – भ्रमण के अवसर पर
- इक्षुक्षेत्रस्य – इक्षूणां क्षेत्रस्य – गन्ने के खेत का
- पार्श्वमार्गात् – समीपस्थमार्गात् – पास के रास्ते से
- प्रपौत्रस्य – पौत्रस्य पुत्रस्य – प्रपौत्र (पोते का पुत्र)
- उपवासः – निराहारव्रतम् – उपवास
- पानार्थम् – पानाय – पीने के लिए
- इक्षुरसम् – इक्षोः रसम् – गन्ने का रस
- प्रपितामहाय – पितामहस्य पित्रे – परदादा के लिए
- अधुनापि – अस्मिन् समये अपि – आज भी / अब भी
- आचर्यते – पाल्यते / अनुष्ठीयते – मनाया जाता है / आचरण किया जाता है।
- वैकल्पिकदिनेषु – एकान्तरदिनेषु – एक दिन छोड़कर (वैकल्पिक) दिनों में
- समापनम् – अन्त्यम् / पूर्तिम् – समाप्ति / पूर्ण करना
समास विग्रहः
शब्दः – विग्रहः – भेदः
इक्षुक्षेत्रस्य – इक्षूणां क्षेत्रस्य – षष्ठीतत्पुरुषः
पार्श्वमार्गात् – पार्श्वे मार्गात् – सप्तमीतत्पुरुषः
इक्षुरसम् – इक्षोः रसम् – षष्ठीतत्पुरुषः
दीर्घकालिकः – दीर्घः कालः यस्य सः – बहुव्रीहिः
पवित्रतीर्थेषु – पवित्राणि तीर्थानि तेषु – कर्मधारय
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
तच्च – तत् + च – व्यञ्जन (श्चुत्व) सन्धिः
तस्यैव – तस्य + एव – वृद्धिसन्धिः
चेत्यादिषु – च + इत्यादिषु – गुणसन्धिः
अधुनापि – अधुना + अपि – दीर्घसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
स्थितस्य – स्था + क्त – कृदन्तः
दत्तवान् – दा + क्तवतु – कृदन्तः
समाप्तः – सम् + आप् + क्त – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्गः
प्रपौत्रस्य – प्र
प्रपितामहाय – प्र
समाप्तः – सम्
आचर्यते – आ
समापनम् – सम्
विशेषण-विशेष्यम्
विशेषणम् – विशेष्यम्
स्थितस्य – इक्षुक्षेत्र
दीर्घकालिक – उपवासः
पवित्रतीर्थेषु – हस्तिनापुर-इत्यादिषु
प्रपौत्रस्य – श्रेयांसस्य
विपर्ययाः
शब्द: – विपर्ययः
समीपम् – दूरम्
समाप्तः – आरब्धः
पवित्रम् – अपवित्रम्
अन्ते – आदौ / प्रारम्भे
अधुना – तदानीम्

गद्यांश: 9
एवं दीर्घकालिकोपवासेन निरन्तराध्ययनेन कठोरतपसा च ऋषभदेवः फाल्गुनमासस्य कृष्णपक्षे एकादश्यां तिथौ प्रयागराजे अक्षयवटवृक्षस्य अधः केवलज्ञानं प्राप्तवान् । अयमेव जैनसम्प्रदाये आदिमः तीर्थङ्करः प्रभुः नाथः इत्यतः ‘आदिनाथः’ इति ख्यातः । ऋषभदेवः जनानां मार्गदर्शनार्थं भिक्षुः भिक्षुणी श्रावकः श्राविका चेति क्रमं रचितवान्। स एव क्रमः जैनसङ्घः इति प्रसिद्धः वर्तते।
हिंदी अनुवाद
इस प्रकार दीर्घकालीन उपवास, निरंतर अध्ययन और कठिन तपस्या से ऋषभदेव ने फाल्गुन मास के कृष्ण पक्ष की एकादशी तिथि को प्रयागराज में अक्षय वट वृक्ष के नीचे केवलज्ञान (परम ज्ञान) प्राप्त किया । यही जैन संप्रदाय में प्रथम तीर्थंकर, प्रभु और नाथ हैं; इसलिए ये ‘आदिनाथ’ के नाम से प्रसिद्ध हैं। ऋषभदेव ने लोगों के मार्गदर्शन के लिए भिक्षु, भिक्षुणी, श्रावक और श्राविका; यह क्रम बनाया। यही क्रम जैन संघ के रूप में प्रसिद्ध है।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- दीर्घकालिकोपवासेन – सुचिरकाल-अन्नशनेन – लंबे समय के उपवास से
- केवलज्ञानम् – मोक्षदायकं ज्ञानम् – परम ज्ञान / सर्वोच्च ज्ञान
- कठोरतपसा – कठोरेण तपसा – कठोर तप से
- आदिमः – ख्यातः – मशहूर
- ख्यातः – प्रसिद्धः – प्रसिद्ध / विख्यात
- मार्गदर्शनार्थम् – पथप्रदर्शनाय – रास्ता दिखाने के लिए
- रचितवान् – निर्मितवान् – बनाया / रचना की
- प्रसिद्धः – ख्यातः – मशहूर
- सङ्घः – समूहः – संघ
- तीर्थङ्करः – धर्ममार्गप्रदर्शकः – तीर्थंकर
- वर्तते – अस्ति – है / विद्यमान है
सन्धि-विच्छेदः
शब्द: – विच्छेदः – भेदः
दीर्घकालिकोपवासेन – दीर्घकालिक + उपवासेन – गुणसन्धिः
निरन्तराध्ययनेन – निरन्तर + अध्ययनेन – दीर्घसन्धिः
इत्यतः – इति + अतः – यणसन्धिः
चेति – च + इति – गुणसन्धिः
प्रसिद्धो वर्तते – प्रसिद्धः + वर्तते – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
प्राप्तवान् – प्र + आप् + क्तवतु – कृदन्तः
ख्यातः – ख्या + क्त – कृदन्तः
रचितवान् – रच् + क्तवतु – कृदन्तः
प्रसिद्धः – प्र + सिध् + क्त – कृदन्तः
मार्ग – मार्ग + घञ् – तद्धितः
उपसर्गकार्यम्
शब्द: – उपसर्गः
उपवासेन – उप
प्रविभक्त – प्र
प्रसिद्धः – प्र
निरन्तर – नि
संवृत्ता – सम्
विशेषण-विशेष्यम्
विशेषणम् – विशेष्यम्
परमो – मन्त्रः
अयमेव – जैनसम्प्रदाये
एतम् – क्रमम्
आदिमः – तीर्थङ्करः
आदिमः – तीर्थङ्करः
एकादश्यां – तिथौ
विपर्ययाः
शब्द: – विपर्ययः
कृष्णपक्षे – शुक्लपक्षे
अधः – उपरि
आदिमः – अन्तिमः
प्रसिद्धः – अप्रसिद्धः
परमो – अधमः / नीचः

गद्यांश: 10
तेषां परमो मन्त्रः ‘नवकारमन्त्रः’ इति प्रसिद्धः यच्च प्राकृतभाषायां वर्तते
“णमो अरिहन्ताणं,
णमो सिद्धाणं,
णमो आयरियाणं,
णमो उवज्झायाणं,
णमो लोए सव्वसाहूणं”
अस्य अर्थः भवति नमामि अरिहन्तॄन्, नमामि सिद्धान्, नमामि आचार्यान्, नमामि उपाध्यायान्, नमामि लोके सर्वसाधून् इति । अयं सर्वेषां जैनानां परमपावनः मन्त्रः अस्ति । प्रतिवर्षम् अप्रैल-मासस्य नवमे दिनाङ्के जैनजनाः सामूहिकरूपेण अस्य मन्त्रस्य जपादिकं कृत्वा उत्सवम् आचरन्ति । अतः अस्य दिवसस्य ‘नवकारमहामन्त्रदिवसः’ इति ख्यातिः वर्तते । एषः मन्त्रः पञ्चपरमेष्ठिभ्यः (अरिहन्तारः, सिद्धाः, आचार्याः, उपाध्यायाः, सर्वे साधवः च) प्रणामं समर्पयति । वसुधैवकुटुम्बकम् इत्यस्य अनुरूपेण विश्वशान्त्यै कोटिशैः जनैः गीयमानः परमोमन्त्रः अयं णमोकारमन्त्रः।
हिंदी अनुवाद
उनका परम मंत्र ‘नमोकार मंत्र’ के नाम से प्रसिद्ध है, जो प्राकृत भाषा में है
अरिहंतों को नमस्कार
सिद्धों को नमस्कार
आचार्यों को नमस्कार
उपाध्यायों को नमस्कार
लोक के सभी साधुओं को नमस्कार
इसका अर्थ है – मैं अरिहंतों को नमस्कार करता हूँ, सिद्धों को नमस्कार करता हूँ, आचार्यों को नमस्कार करता हूँ, उपाध्यायों को नमस्कार करता हूँ और संसार के सभी साधुओं को नमस्कार करता हूँ। यह सभी जैनियों का परम पवित्र मंत्र है। प्रतिवर्ष अप्रैल महीने की नौ तारीख को जैन लोग सामूहिक रूप से इस मंत्र का जप आदि करके उत्सव मनाते हैं। अत: इस दिन की प्रसिद्धि ‘नवकार महामंत्र दिवस’ के रूप में है। यह मंत्र पंचपरमेष्ठियों (अरिहंत, सिद्ध, आचार्य, उपाध्याय और सभी साधु) को प्रणाम समर्पित करता है। वसुधैव कुटुंबकम् के अनुरूप विश्व शांति के लिए करोड़ों लोगों द्वारा गाया जाने वाला यह परम मंत्र ‘नमोकार मंत्र’ है।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- अरिहन्ताम् – जितशत्रूणाम् – अरिहंतों को
- नमामि – नमस्कारं करोमि – नमस्कार करता हूँ
- परमपावनः – अत्यन्तपवित्रः – परम पवित्र
- प्रतिवर्षम् – प्रत्येकवर्षम् – हर साल
- दिनाङ्के – तिथौ – तारीख को
- आचरन्ति – कुर्वन्ति / सम्पादयन्ति – मनाते हैं / आचरण करते हैं
- ख्यातिः – प्रसिद्धिः – प्रसिद्धि
- प्रवकारमन्त्रः – जैनप्रार्थनामन्त्रः – नवकार मंत्र
- प्रणामम् – नमस्कारम् – प्रणाम
- अनुरूपेण – अनुसारेण – के अनुसार / अनुरूप
- गीयमानः – गानं क्रियमाणः – गाया जाने वाला
- विश्वशान्त्यै – जगतः कल्याणाय – विश्व शांति के लिए
समास-विग्रहः
शब्द: – विग्रहः – भेदः
परमपावनः – परमः च असौ पावनः – कर्मधारयः
प्रतिवर्षम् – वर्षं वर्षं प्रति – अव्ययीभावः
सामूहिकरूपेण – सामूहिकं च तत् रूपं तेन – कर्मधारयः
विश्वशान्त्यै – विश्वस्य शान्त्यै – षष्ठीतत्पुरुषः
वसुधैवकुटुम्बकम् – वसुधा एव कुटुम्बकम् – कर्मधारयः (अवधारणात्मक)
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
जपादिकम् – जप + आदिकम् – दीर्घसन्धिः
वसुधैव – वसुधा + एव – वृद्धिसन्धिः
इत्यस्य – इति + अस्य – यणसन्धिः
मन्त्रोऽयम् – मन्त्रः + अयम् – विसर्ग (उत्व) सन्धिः
अतोऽस्य – अतः + अस्य – विसर्गसन्धिः
प्रकृति-प्रत्ययाः
शब्दः – प्रकृतिः + प्रत्ययः – भेदः
समर्पित – सम् + अप् + क्त – कृदन्तः
गीयमानः – गै + शानच् – कृदन्तः
कृत्वा – कृ + क्त्वा – कृदन्तः
उपसर्गकार्यम्
शब्द: – उपसर्गः
उपाध्यायान – उप + अधि
आचरन्ति – आ
सामूहिक – सम्
अनुरूपेण – अनु
समर्पित – सम्
विशेषण-विशेष्यम्
विशेषणम् – विशेष्यम्
परमपावनः – मन्त्रः
गीयमानः – मन्त्रः
एषः – मन्त्रः
कोटिशैः – जनैः
सर्वेषां – जैनानां
नवमे – दिनाङ्के
विपर्ययाः
शब्दः – विपर्ययः
पावनः – अपावनः / अशुद्धः
परमो – अधम:
सामूहिक: – वैयक्तिक:
अनुरूपम् – प्रतिरूपम्
शान्तिः – अशान्तिः

गद्यांश: 11
जैनमतस्य प्रमुखाः सिद्धान्ताः – अहिंसा परमो धर्म: (मनसा, वाचा, कर्मणा च अहिंसापालनम्), अनेकान्तवादः (सत्यस्य अनेके पक्षाः भवन्ति), स्याद्वादः (प्रत्येकं वचनं सापेक्षं ‘स्यादिति’ रूपेण ग्राह्यम्), अपरिग्रहः (आवश्यकात् अधिकं सङ्ग्रहः न करणीयः) इत्यादयः। एतेषां दर्शनानां मध्ये – सम्यग्दर्शनम्, सम्यग्ज्ञानम्, सम्यक्चरित्रम् इति त्रीणि रत्नानि उच्यन्ते । च प्राणिमात्रहिताय पञ्चमहाव्रतानि— सत्यम्, अहिंसा, अस्तेयम्, अपरिग्रहः, ब्रह्मचर्यं च आचरितुं कल्याणकरम् इति निगद्यते ।
हिंदी अनुवाद
जैन मत के प्रमुख सिद्धांत (इस प्रकार) हैं ‘अहिंसा ही परम धर्म है’ (मन, वाणी और कर्म से अहिंसा का पालन करना), अनेकांतवाद (सत्य के अनेक पक्ष होते हैं), स्याद्वाद (प्रत्येक वचन सापेक्ष है, उसे ‘शायद ऐसा है’ इस रूप में स्वीकार करना चाहिए), अपरिग्रह (आवश्यकता से अधिक संग्रह नहीं करना चाहिए) इत्यादि । इन दर्शनों के मध्य सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चरित्र; इन तीनों को ‘त्रिरत्न’ कहा जाता है। साथ ही, प्राणीमात्र के हित के लिए पाँच महाव्रतों सत्य, अहिंसा, अस्तेय, अपरिग्रह और ब्रह्मचर्य का आचरण करना कल्याणकारी कहा गया है।
शब्दार्थाः
- शब्दा: – संस्कृतार्थाः – हिन्दी-अर्थाः
- अनेकान्तवादः – सत्यस्य बहुपक्षवादः – अनेकांतवाद
- वाचा – वाण्या – वाणी से
- सापेक्षम् – अपेक्षया सहितम् – तुलनात्मक / निर्भर
- ग्राह्यम् – स्वीकार्यम् – ग्रहण करने योग्य
- अपरिग्रहः – सञ्चयाभावः – संग्रह न करना
- सम्यक् – उचितम् / समीचीनम् – सही / उत्तम
- रत्नानि – श्रेष्ठवस्तूनि – रत्न (श्रेष्ठ तत्त्व)
- प्राणिमात्रहिताय – सर्वजीवहितार्थम् – जीवमात्र के भले के लिए
- अस्तेयम् – चौर्याभावः – चोरी न करना
- कल्याणकरम् – शुभप्रदम् – मंगलकारी
- निगद्यते – कथ्यते – कहा जाता है
समास विग्रहः
शब्दः – विग्रहः – भेदः
जैनमतस्य – जैनस्य मतस्य – षष्ठीतत्पुरुषः
परमधर्मः – परमः चासौ धर्मः – कर्मधारयः
त्रिरत्नानि – त्रयाणां रत्नानां समाहारः – द्विगुसमासः
पञ्चमहाव्रतानि – पञ्च च तानि महाव्रतानि – द्विगुसमासः
प्राणीमात्रहिताय – प्राणीमात्राणाम् हिताय – षष्ठीतत्पुरुषः
प्राणीमात्राणाम् – अहिंसा न हिंसा – नञ्तत्पुरुषः
सन्धि-विच्छेदः
शब्दः – विच्छेदः – भेदः
स्यादिति – स्यात् + इति – व्यञ्जन (जश्त्व) सन्धिः
दर्शननां मध्ये – दर्शनानाम् + मध्ये – व्यञ्जन (अनुस्वार) सन्धिः
परमो धर्मः – परमः + धर्मः – विसर्ग (उत्व) सन्धिः
ब्रह्मचर्यं च – ब्रह्मचर्यम् + च – व्यञ्जन (परसवर्ण) सन्धिः
इत्यादयः – इति + आदयः – यण्सन्धिः
प्रकृति-प्रत्ययाः
शब्द: – प्रकृतिः + प्रत्ययः – भेदः
ग्राह्यम् – ग्रह् + ण्यत् – कृदन्तः
करणीयः – कृ + अनीयर् – कृदन्तः
आचरितुम् – आ + र् + तुमुन् – कृदन्तः
सङ्ग्रहः – सम् + ग्रह् + घञ् – कृदन्तः
उपसर्गकार्यम्
शब्दः – उपसर्गः
अपरिग्रहः – अप
आचरितुम् – आ
निगद्यते – नि
संग्रह: – सम्
सापेक्षम् – स
अत्र इदम् अवधेयम्
प्राकृतभाषा
भारते भाषासम्पदा अतीव समृद्धा अस्ति । कस्मिंश्चित् कालघट्टे अनेकाः प्राकृतभाषा: सामान्यजनानां संवादोपयोगिन्यः आसन्।
प्राकृतभाषा:
- आर्षप्राकृतम्
- शौरसेनीप्राकृतम्
- पैशाचिप्राकृतम्
- अपभ्रंशप्राकृतम् इत्यादयः
- मागधीप्राकृतम्
- महाराष्ट्रप्राकृतम्
- चूलिकाप्राकृतम्
जैनागमा: अर्द्धमागधीभाषायां लिखिताः । महाराष्ट्रप्राकृते महाकविः हाल: गाथासप्तशती इति सुप्रसिद्धं काव्यं लिखितवान् । शौरसेनीप्राकृते बहवः नाट्यग्रन्थाः रचिताः सन्ति । अनेन ज्ञायते यत् प्राकृतभाषा न केवलं संवादोपयोगिनी अपितु उच्चकोटिसाहित्यस्य वाहिनी आसीत् । एवं संस्कृतं यदि स्रोतस्विनी नदी, तर्हि प्राकृतं तस्या एव सरलः प्रवाहः अस्ति । उभयोर्मध्ये अविच्छिन्नः सम्बन्धः अस्ति ।
संस्कृत-वाक्यानां प्राकृतानुवादः
संस्कृतम् – प्राकृतम्
(1) अहं विद्यालयं गच्छामि। – अहं विज्जालम गच्छामि / गच्छमि / गच्छं ।
(2) सः जलं पिबति । – सो जलं पिवइ ।
(3) बालकः पद्यं पठति। – बालओ पोत्थं पढइ / पढए / पढदि/पढदे।
(4) भवान् कुत्र गच्छति। – भवतो कत्थ गच्छउ ।
(5) अहं फलानि खादामि । – अहं फलाइं/ फलाणि खामि।
(6) एतत् मम मित्रम् अस्ति । – एसो मम / मज्झमित्तो /मित्तं अत्थि |