Check the below Class 8 Sanskrit MCQ Chapter 11 सन्निमित्ते वरं त्यागः (ख-भागः) with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 8 Sanskrit Chapter 11 Questions and Answers at LearnInsta.
सन्निमित्ते वरं त्यागः (ख-भागः) Class 8 MCQ Questions Sanskrit Chapter 11
पठित-अवबोधनम्
• अधोलिखितानां गद्यांशानां पठित्वा प्रश्नानां उत्तराणि निर्देशानुसारं लिखत।
(निम्नलिखित गद्यांशों को पढ़कर प्रश्नों के उत्तर निर्देशानुसार लिखिए)
प्रश्न 1.
अथ राजपुत्रो वीरवरो स्वावासं गत्वा निद्रालसां पत्नीं पुत्रं दुहितरञ्च प्राबोधयत् अखिलराजलक्ष्मीसंवादं च अवर्णयत्।
शक्तिधरः – (तच्छ्रुत्वा सानन्दम्) हे पितः ! जानाम्यहं भवतः सर्वप्रियं वस्तु। तद् अहमेव भवतः प्रियतमः इति सर्वविदितः। धन्योऽहं स्वामिजीवितरक्षार्थं यदि विनियुक्तः । तत् कोऽधुना विलम्बस्तात ? एवंविधे कर्मणि राष्ट्रस्य राज्ञश्च हिताय मम सर्वस्वविनियोगः परमश्लाघ्यः। यतः-
धनानि जीवितञ्चैव परार्थे प्राज्ञ उत्सृजेत्।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ।।
वेदरता – यद्येवम् अस्मत्कुलोचितं नाचरितव्यं तर्हि गृहीतस्वामिवर्तनस्य कथं निस्तारो भवेत् ?
वीरवती – धन्याहं यस्या ईदृशो जनको भ्राता च । तत् कथं विलम्ब्यते? एष एव गृहीतस्वामिवर्तनस्य निस्तारस्य उपायः।
(ततस्ते सर्वे सर्वमङ्गलाया आयतनं गताः)
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए ।)
- सन्नमित्ते त्यागः कीदृशम् ?
- ते सर्वे कस्याः आयतनं गताः ?
- शक्तिधरः कस्य जीवितरक्षार्थं विनियुक्तः ?
- राजपुत्रः कुत्र गत्वा निद्रालसां पत्नीं प्राबोधयत् ?
उत्तर:
- वरं
- सर्वमङ्गलाया:
- स्वामिनः
- स्वावासं
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- प्राज्ञः परार्थे कानि उत्सृजेत् ?
- वीरवती स्वयमेव धन्यां किमर्थम् अकथयत् ?
उत्तर:
- प्राज्ञ परार्थे धनानि जीवितञ्चैव उत्सृजेत्।
- वीरवरः इव जनकः शक्तिधरः इव भ्राता प्राप्यवीरवती स्वयमेव धन्या अकथयत्।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘तच्छ्रुत्वा’ इति पदस्य विच्छेदं किम् भवति ?
- ‘प्रियतम:’ इति पदे कः प्रत्ययः अस्ति ?
उत्तर:
- तत् + श्रुत्वा
- प्रिय + तमप्
IV. अधोलिखितानां प्रश्नानाम् उत्तराणि प्रदत्त विकल्पेभ्यः चित्वा लिखत ।
(निम्नलिखित प्रश्नों के उत्तर विकल्पों में से चुनकर लिखिए |)
(i) ‘कोऽधुना’ इति पदे सन्धिरस्ति
(क) स्वर
(ख) व्यंजन
(ग) विसर्ग
(घ) अयादि
उत्तर:
(ग) विसर्ग
(ii) ‘अस्मत्’ इति पदे का विभक्तिः ?
(क) तृतीया
(ख) पञ्चमी
(ग) चतुर्थी
(घ) षष्ठी
उत्तर:
(ख) पञ्चमी
![]()
(iii) ‘जानाम्यहं भवतः सर्वप्रियं वस्तु’ अस्मिन् वाक्ये भवतः कस्मै प्रयुक्तम् ?
(क) वीरवराय
(ख) शक्तिधराय
(ग) शूद्रकाय
(घ) वेदरतायै
उत्तर:
(क) वीरवराय
(iv) ‘सन्निमित्ते’ इति पदे कः उपसर्गः ?
(क) सन्
(ख) स
(ग) सम्
(घ) सन्नि
उत्तर:
(ग) सम्
(v) तत् कः विलम्बस्तात ?
(क) इतस्तत:
(ख) अधुना
(ग) गत्वा
(घ) तर्हि
उत्तर:
(ख) अधुना
प्रश्न 2.
वीरवरः – (देवीपूजां विधाय) भगवति ! प्रसीद, विजयतां महाराजः शूद्रकः, गृह्यतामेष मद्दत्त उपहारः ।
वीरवर: – (स्वगतम्) कृतो मया गृहीतस्वामिवर्तनस्य निस्तारो स्वपुत्रसमर्पणेन। अधुना पुत्रवियुक्तस्य मे जीवनं निष्फलम्।
(ततः सः आत्मानमपि देव्यै समर्पितवान् । ततस्तस्य पत्न्या दुहित्रा च तदेवाचरितम् । राजा शूद्रकोऽपि तेषां सर्वेषां सर्वमेतद् आचरितम् तददृश्य एवालोकयत् ।)
ततोऽसौ व्यचिन्तयत्
जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः।
अनेन सदृशो लोके न भूतो न भविष्यति ॥
तदेतत्परित्यक्तेन मम राज्येनापि किं प्रयोजनम्।
(देवीं प्रति प्रकटयन्) हे मातः ! सर्वमङ्गले! गृहाण मे सर्वस्वम्। नेष्टं मे राज्यं न च जीवितं वा।
देवी – (ततः प्रत्यक्षीभूतया भगवत्या सर्वमङ्गलया राज्ञः करं धृत्वा) वत्स! प्रसन्ना भवामि त्वयि, अलं साहसेन। नेदानीं राज्यभङ्गस्ते भविष्यति ।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए।)
- वीरवरः भगवत्यै उपहारे कं दत्तवान् ?
- पुत्रवियुक्तस्य कस्य जीवनं निष्फलम् ?
- केन निस्तारो गृहीतस्वामिवर्तनस्य ?
- कया राजानं करे धारयेत् ?
उत्तर:
- स्वपुत्रं
- वीरवरस्य
- स्वपुत्र समर्पणेन
- सर्वमङ्गलया
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- वीरवरस्य पत्नीं दुहित्रिञ्च किम् कृतवती ?
- केन सदृशो लोके न भूतो न भविष्यति ?
उत्तर:
- वीरवरम् इव स्वजीवनं देव्यै समर्पितवती ।
- वीरवरेण सदृशो लोके न भूतो न भविष्यति ।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘राज्येन’ इति पदे का विभक्ति ?
- ‘ततस्तस्य’ पदस्य विच्छेदं किं भवति ?
उत्तर:
- तृतीया
- ततः + तस्य
IV. अधोलिखितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चित्वा लिखत ।
(निम्नलिखित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनकर लिखिए।)
(i) ‘उपहार:’ इति पदे कः उपसर्गः ?
(क) उ
(ख) उप
(ग) अप
(घ) उपह
उत्तर:
(ख) उप
(ii) ‘राज्येनापि’ इति पदे सन्धिरस्ति
(क) दीर्घ
(ख) गुण
(ग) यण्
(घ) अयादि
उत्तर:
(क) दीर्घ
(iii) ‘त्वयि’ पदं वचनं किम् अस्ति ?
(क) बहुवचनम्
(ख) द्विवचनम्
(ग) एकवचनम्
(घ) न कोऽपि
उत्तर:
(ग) एकवचनम्
(iv) ‘समर्पितवान्’ इति पदे कः प्रत्ययः अस्ति ?
(क) क्तः
(ख) क्तवतु
(ग) शतृ
(घ) शानच्
उत्तर:
(ख) क्तवतु
(v) ‘गृहाण मे सर्वस्वम्’ अस्मिन् वाक्ये ‘मे’ सर्वनामपदं कस्य कृते प्रयुक्तम् ?
(क) वीरवरस्य
(ख) शक्तिधरस्य
(ग) अमात्यस्य
(घ) शूद्रकस्य
उत्तर:
(घ) शूद्रकस्य
![]()
3. राजा – (साष्टाङ्ग प्रणिपत्य) भगवति ! न मे प्रयोजनं राज्येन जीवितेन वा । यदि मयि कृपा भगवत्या जाता, तदा ममायुः शेषेणापि प्रत्यावर्तेत राजपुत्रो वीरवरः सह पुत्रेण पत्न्या दुहित्रा च । अन्यथा मया यथाप्राप्ता गतिर्गन्तव्या जगदम्ब !
देवी – वत्स! अनेन ते सत्त्वोत्कर्षेण भृत्यवात्सल्येन च परं प्रीतास्मि । तद गच्छ विजयी भव । अयमपि सपरिवारो जयतु राजपुत्र आदर्शचरितो वीरवरः ।
ततो देवी गताऽदर्शनम्। ततो वीरवरः सपरिवारो सानन्दं स्वगृहं गतः। नृपतिरपि सर्वेषामदृश्य एव स्वप्रासादं प्राविशत्। अन्येद्युः वीरवरोट्टपि पुनः द्वारि सेवानिरतोऽभवत्।
राजा – (तं वीक्ष्य) का वार्ता राजपुत्र !
वीरवरः – देव! सा रोदनपरा नारी मद्दर्शनाददृश्यतां गता । न हि कापि वार्ताऽन्या स्वामिन्!
ततः परमां प्रीतिं गतो महीपतिस्तस्मै प्रायच्छत् समग्र कर्णाटप्रदेशं राजपुत्राय वीरवराय ।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए ।)
- भृत्यवात्सल्येन नृपोपरि कस्याः प्रीत्यस्ति ?
- वीरवरः केन सह स्वगृहं गतः ?
- राजपुत्र वीरवरः कीदृशः आसीत्?
- नृपतिरपि सर्वेषामदृश्य एव कुत्र प्राविशत् ?
उत्तर:
- देव्या:
- परिवारेण
- आदर्शचरितो
- स्वप्रासादं
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए।)
- वीरवरः राजानं का वार्ता अवदत् ?
- नृपस्य केन प्रयोजनं न अस्ति ?
उत्तर:
- वीरवर : राजानं अवदत् यत्-सा रोदनपरा नारी मद्दर्शनाददृश्यतां गता ।
- नृपस्य राज्येन जीवितेन वा प्रयोजनं नास्ति।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘वीक्ष्य’ इति पदे कः प्रत्ययः अस्ति ?
- ‘सर्वेषाम्’ इति पदे का विभक्तिः अस्ति ?
उत्तर:
- ल्यप्
- षष्ठी
IV. अधोलिखितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चित्वा लिखत ।
(निम्नलिखित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनकर लिखिए।)
(i) ‘नृपतिरपि’ इति पदे का सन्धिः अस्ति
(क) विसर्ग
(ख) स्वर
(ग) व्यंजन
(घ) यण्
उत्तर:
(क) विसर्ग
(ii) ‘तस्मै’ इति पदे का विभक्तिः अस्ति?
(क) तृतीया
(ख) पञ्चमी
(ग) चतुर्थी
(घ) सप्तमी
उत्तर:
(ग) चतुर्थी
(iii) ‘सेवानिरतः’ अस्मिन् पदे कः समासः अस्ति ?
(क) अव्ययीभाव
(ख) तत्पुरुष
(ग) द्वन्द्व
(घ) बहुव्रीहि
उत्तर:
(ख) तत्पुरुष
(iv) ‘अभवत्’ पदः कस्य लकारस्य अस्ति ?
(क) लट्
(ख) लृट्
(ग) लोट्
(घ) लङ्
उत्तर:
(घ) लङ्
(v) ‘प्रत्यावर्तेत’ इति पदे कः उपसर्गः अस्ति ?
(क) प्रत्
(ख) प्रति
(ग) प्रत्य
(घ) प्र
उत्तर:
(ख) प्रति
प्रदत्तविकल्पेभ्यः उचित उत्तर चिनुत ।
(दिए गए विकल्पों से सही उत्तर चुनिए ।)
(क) वीरवरः कस्य सेवकः आसीत् ?
(i) राजपुत्रस्य
(ii) राजा शूद्रकस्य
(iii) देवी सर्वमङ्गलाया:
उत्तर :
(ii) राजा शूद्रकस्य
(ख) राजलक्ष्मीः वीरवरेण कस्मै वस्तुं समर्पयितुं वाणी?
(i) पुत्रलाभाय
(ii) राज्यप्राप्त्यर्थम्
(iii) तस्य राजा दीर्घायुषः भवेत्
उत्तर :
(iii) तस्य राजा दीर्घायुषः भवेत्
(ग) वीरवरः सर्वस्य संवादं कस्यः समक्षम् अवर्णयत् ?
(i) पत्नी-परिवारस्य
(ii) पितु:
(iii) देवस्य
उत्तर :
(i) पत्नी-परिवारस्य
(घ) राजा वीरवराय किं प्रदात् ?
(i) सुवर्णशतचतुष्टयं
(ii) समग्रकर्णाटप्रदेशम्
(iii) दिव्याभरणम्
उत्तर :
(ii) समग्रकर्णाटप्रदेशम्
(ङ) देव्या वीरवरस्य त्यागं प्रति किम् उक्तम् ?
(i) “ अनेन ते सत्त्वोत्कर्षेण”
(ii) ” न मे प्रयोजन राज्येन”
(iii) “जायन्ते च म्रियन्ते च”
उत्तर :
(i) “ अनेन ते सत्त्वोत्कर्षेण”
![]()
रेखाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
(रेखांकित शब्दों के आधार पर प्रश्न बनाइए।)
(क) सः शूद्रकस्य सेवकरूपेण नियुक्तः
उत्तर :
सः कस्य सेवकरूपेण नियुक्त: ?
(ख) वीरवर : एकचतुर्थांश स्वपत्न्याः हस्ते अर्पयति ।
उत्तर :
वीरवरः एकचतुर्थांशं कस्याः हस्ते अर्पयति ?
(ग) राजलक्ष्मीः वीरवरेण उपायं सूचयति ।
उत्तर :
राजलक्ष्मीः केन उपायं सूचयति ?
(घ) राज्ञः दीर्घायुषः उपायं पृच्छति ।
उत्तर :
कस्य दीर्घायुषः उपायं पृच्छति ?
(ङ) वीरवरः स्वपुत्रसमर्पणेन प्रकारेण वर्तनस्य निस्तारं अकरोत्।
उत्तर :
वीरवरः कस्य प्रकारेण वर्तनस्य निस्तारं अकरोत् ?
अधोलिखितान् प्रश्नान् पूर्ण वाक्येन उत्तरत ।
(नीचे दिए गए प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) वीरवरः कस्य सेवकः आसीत्?
उत्तर :
राज्ञः शूद्रकस्य सेवकः आसीत् ।
(ख) वीरवरः प्राप्तवेतनं कथं व्ययति स्म ?
उत्तर :
वीरवरः प्राप्तवेतनस्य अर्धं देवकार्ये नियोजयति स्मं, एकचतुर्थांशं दरिद्रेभ्यः वितरति स्म शेषं च एकचतुर्थांशं स्वपत्न्यै अर्पयति स्म।
(ग) राजलक्ष्मी कथं रोदनपरायाः स्थितवती ?
उत्तर :
राजलक्ष्मी दिव्याभरणभूषिता एक रूपवती नारीरूपेण नगरद्वारस्य बहि: रात्रौ करुणक्रन्दनं कुर्वन्ती स्थितवती।
(घ) राज्ञः दीर्घायुषः उपायः कः आसीत्?
उत्तर :
यदि वीरवर : स्वस्य सर्वप्रियं वस्तुं सर्वमङ्गलायै उपहाररूपेण समर्पयेत्, तर्हि राजा शूद्रक : दीर्घायुः भविष्यति एषः राज्ञः दीर्घा उपायः आसीत्।
(ङ) वीरवरेण आत्मसमर्पणं किमर्थं कृतम् ?
उत्तर :
वीरवरेण आत्मसमर्पणं राज्ञः शूद्रकस्य जीवितरक्षणार्थं कृतम्।
मञ्जूषातः उचितपदं चित्वा रिक्तस्थानानि पूरयत ।
(मञ्जूषा से उचित पद को चुनकर रिक्त स्थान भरिए ।)
मञ्जूषा – तस्य राजा, स्वपुत्रसमर्पणेन, वीरवरस्य त्यागं, दिव्याभरणभूषिता
(क) वीरवरः ________ वर्तनस्य निस्तारं कृतवान्।
उत्तर :
स्वपुत्रसमर्पणेन
(ख) ________ बहुत-आनन्दितः अभवत्।
उत्तर :
तस्य राजा
(ग) ________ नगरद्वारात् पश्यति दृष्टवती ।
उत्तर :
दिव्याभरणभूषिता
(घ) वीरवरस्य आत्मसमर्पणं ________ विना न संभवत्।
उत्तर :
वीरवरस्य त्यागं
![]()
विलोमशब्दैः सह मेलनं कुरु ।
(विलोम शब्दों के साथ मिलान कीजिए।)
| शब्द: | विलोमशब्द: |
| (क) सत्यं | (i) त्यागः |
| (ख) सुखम् | (ii) अप्रियः |
| (ग) जीवनम् | (iii) रात्रिः |
| (घ) दिनम् | (iv) मरणम् |
| (ङ) प्रियः | (v) दुःखम् |
| (च) समर्पणम् | (vi) असत्यं |
उत्तर :
| शब्द: | विलोमशब्द: |
| (क) सत्यं | (vi) असत्यं |
| (ख) सुखम् | (v) दुःखम् |
| (ग) जीवनम् | (iv) मरणम् |
| (घ) दिनम् | (iii) रात्रिः |
| (ङ) प्रियः | (ii) अप्रियः |
| (च) समर्पणम् | (i) त्यागः |
भावावबोधनम्
समुचित पदैः रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत्।
(उचित पदों से रिक्त स्थानों की पूर्ति कीजिए, जिससे कथनों का भाव स्पष्ट हो जाए।)
- जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः।
भाव मत् सदृशः ……… जायन्ते च …….. च। - नेदानीं राज्यभङ्गस्त्रे भविष्यति ।
भाव दानीं …….. राज्यभङ्ग ……. भविष्यति ।
उत्तर:
- क्षुद्र जन्तव:, म्रियन्ते।
- ते, न।
अन्वय पूर्तिः
अधोलिखितस्य श्लोकस्य अन्वयं लिखत ।
(निम्नलिखित श्लोक का अन्वय लिखिए।)
धनानि जीवितञ्चैव परार्थे प्राज्ञ उत्सृजेत्।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ।।
उत्तर:
अन्वय – प्राज्ञः परार्थे एव धनानि जीवितं च उत्सृजेत्, विनाशे नियते सति सन्निमित्ते त्यागः वरम्।
अधोलिखितस्य श्लोकस्य अन्वयं समुचितपदेन रिक्तस्थानानि पूरयत।
(निम्नलिखित श्लोक के अन्वय में उचित पद से रिक्त स्थानों की पूर्ति कीजिए।)
जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः ।
अनेन सदृशो लोके ने भूतो न भविष्यति ।
अन्वय मादृशा: (i) ……… जायन्ते च (ii) ……… च (iii) …….. अनेन सदृशो न (iv) ……. न भविष्यति ।
उत्तर:
(i) क्षुद्रजन्तवः
(ii) म्रियन्ते
(iii) लोके
(iv) भूतो
घटनाक्रमानुसारं प्रश्नाः
अधोलिखितानां वाक्यानां घटनाक्रमानुसारेण पुनः लिखत ।
(निम्नलिखित वाक्यों को घटनाक्रमानुसार पुनः लिखिए |)
(i) अयमपि सपरिवारो जयतु राजपुत्र आदर्शचरितो वीरवरः ।
(ii) सः आत्मानमपि देव्यै समर्पितवान्।
(iii) महीपतिस्तस्मै प्रायच्छत् समग्रकर्णाटप्रदेशं राजपुत्राय वीरवराय ।
(iv) ततः प्रत्यक्षीभूत्या भगवत्या सर्वमङ्गलया राज्ञः करं धृत्वा ।
(v) वीरवरः स्वावासं गत्वा निद्रालसां पत्नीं पुत्रं दुहितरञ्च प्राबोधयत्।
(vi) ततस्तस्य पत्न्या दुहित्रा च तदेवाचरितम्।
(vii) नेष्टं मे राज्यं न च जीवितं वा ।
उत्तर:
(v) वीरवरः स्वावासं गत्वा निद्रालसां पत्नीं पुत्रं दुहितरञ्च प्राबोधयत्।
(ii) स: आत्मानमपि देव्यै समर्पितवान्।
(vi) ततस्तस्य पल्या दुहित्रा च तदेवाचरितम्।
(vii) नेष्टं में राज्यं न च जीवितं वा ।
(iv) तत: प्रत्यक्षीभूत्या भगवत्या सर्वमङ्गलया राज्ञः करं धृत्वा ।
(i) अयमपि सपरिवारो जयतु राजपुत्र आदर्शचरितो वीरवरः ।
(iii) महीपतिस्तस्मै प्रायच्छत् समग्र कर्णाट प्रदेशं राजपुत्राय वीरवराय ।
वाक्य-निर्माणं
अधोलिखितैः शब्दैः वाक्य – निर्माणं कुरुत ।
(निम्नलिखित शब्दों से वाक्य निर्माण कीजिए ।)
- प्राज्ञः
- सह
- वरम्
- दुहितरम्
- गृह्यताम्
- सानन्दम्
उत्तर:
- प्राज्ञः परार्थे धनानिजीवितञ्चैव उत्सृजेत्।
- तदा ममायुः शेषेणापि प्रत्यावर्तेत वीरवरेण सह पुत्रेण पत्न्या दुहित्राच
- विनाशे नियते सति सन्निमित्ते त्यागो वरम् ।
- वीरवरः दुहितरम् अपि भग्वत्यै समर्पितवती।
- गह्यताम् मछत्त उपहारः ।
- वीरवरः सपरिवारो सानन्दं स्वगृहं गतः ।
![]()
व्याकरणम्
अधोलिखितेषु पदेषु सन्धि / सन्धि-विच्छेदं वा कुरुत।
(निम्नलिखित पदो में संधि अथवा संधि-विच्छेद कीजिए ।)
- तदेवाचरितम्
- महीपतिः + तस्मै
- धन्योऽहम्
- एव + आलोकयत्
- दर्शनाददृश्यतां
- नृपतिरपि
- प्रति + अ + अवर्तेत
उत्तर:
- तदेव + आचरितम्
- महीपतिस्तस्मै
- धन्यः + अहम्
- एवालोकयत
- दर्शनात् + अदृश्झतां
- नृपतिः + अपि
- प्रत्यावर्तेत
अतिलघु उत्तरीय प्रश्ना:
प्रश्न 1.
नृपस्य समक्षे का प्रत्यक्षीभूतया ?
उत्तर:
देवी
प्रश्न 2.
राज्ञः शूद्रकस्य सेवा कः नियुक्तः ?
उत्तर:
वीरवर:
प्रश्न 3.
नगराद् बहिः कः गच्छति ?
उत्तर:
वीरवरः, शूद्रकश्च
प्रश्न 4.
वीरवरः आत्मानं कस्मै समर्पितवान् ?
उत्तर:
देव्यै
लघु उत्तरीय प्रश्नाः
प्रश्न 1.
कस्य वियुक्तस्य वीरवरस्य जीवनं निष्फलम् ?
उत्तर:
स्वपुत्रस्य वियुक्तरस्य वीरवरस्य जीवनं निष्फलम्।
प्रश्न 2.
राजा शूद्रकस्य आयुः कति दिनम् अस्ति?
उत्तर:
राजा शूद्रकस्य आयुः केवलं दिनत्रयम् अस्ति ।
प्रश्न 3.
परार्थे कः धनानि जीवितञ्चैव उत्सृजेत्।
उत्तर:
परार्थे प्राज्ञः धनाना जीवितञ्चैव उत्सृजेत्।
दीर्घ उत्तरीय प्रश्ना:
प्रश्न 1.
वीरवरः शूद्रकं रोदनपरा नारी विषये किम् अकथयत् ?
उत्तर:
वीरवरः शूद्रकं रोदनपुरा नारी विषये अकथयत् यत्-सा मद्दर्शनाददृश्यतां गता।
प्रश्न 2.
भगवत्या कं जीवितम् अकरोत् ?
उत्तर:
भगवत्या वीरवरम् जीवितम् अकरोत् तेन सह तस्य परिवारमपि जीवितम् अकरोत्।
प्रश्न 3.
वीरवरस्य प्रशंसां कृत्वा शूद्रकः किम् अकथयत् ?
उत्तर:
शूद्रकः अकथयत् यत् – मासदृशाः क्षुद्रजन्तवः जायन्ते च म्रियन्ते च वीरवरेण सदृशो लोके न भूतो न भविष्यति ।