We have given detailed Class 9 Sanskrit Solutions and Class 9th Sanskrit Sharada Chapter 4 Question Answer न खलु वयस्तेजसो हेतुः NCERT Solutions come in handy for quickly completing your homework.
Sanskrit Class 9 Chapter 4 Question Answer न खलु वयस्तेजसो हेतुः
Class 9 Sanskrit Ch 4 Question Answer NCERT Solutions न खलु वयस्तेजसो हेतुः
न खलु वयस्तेजसो हेतुः प्रश्न उत्तर कक्षा 9
१. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत ।
(नीचे दिए गए प्रश्नों के पूर्ण वाक्य में उत्तर लिखिए |)
(क) खुदीरामस्य जन्म कुत्र अभवत्?
(ख) खुदीरामः किमर्थं व्यथितः भवति स्म ?
(ग) सत्येन्द्रनाथः किम् उपदिष्टवान् ?
(घ) खुदीरामः कदा पर्यन्तं पादत्राणं न धरिष्यामि इति प्रतिज्ञातवान् ?
(ङ) किमर्थं न्यायाधीशः आङ्ग्लाः अधिकारिणः च चकिता: ?
उत्तर:
(क) खुदीरामस्य जन्म बङ्गप्रान्ते मेदिनीपुरनामके जनपदे मोहोबनी- ग्रामे नवाशीत्यधिक – अष्टादशशततमे वर्षे दिसम्बरमासस्य तृतीये दिनाङ्के अभवत् ।
(ख) खुदीराम : देशवासिषु जायमानान् अत्याचरान् दृष्ट्वा व्यथित: भवति स्म ।
(ग) सत्येन्द्रनाथः उपदिष्टवान्- “क्रान्तिकार्यं कर्तुं शरीरं वज्रसदृशं दृढं बुद्धिः असिधारा एव तीक्ष्णा, मनः गङ्गाजलमिव निर्मलं च भवेत् इति” ।
(घ) खुदीरामः प्रतिज्ञातवान् यत् “यावत् भारतम् आङ्ग्लशासनात् मुक्तं न भविष्यति तावत् पादत्राणं न धरिष्यामि” इति ।
(ङ) राष्ट्रभक्तस्य खुदीरामस्य मुखे भयं दुःखं वा नासीत् प्रत्युत प्रसन्नता, शान्तिः, तृप्तिः तेजः च आसीत् । तत् दृष्ट्वा न्यायाधीशः आङ्ग्लाः अधिकारिणः चापि चकिताः ।
२. अधः प्रदत्तेषु वाक्येषु किं वाक्यं सत्यं किं च असत्यम् इति सूचयत।
(नीचे दिए गए वाक्यों में से कौन- – सा वाक्य सत्य है और कौन-सा असत्य यह सूचित करें ।)
(क) देशभक्तानां जीवनं राष्ट्राय समर्पितं भवति। (सत्यम्/असत्यम्)
(ख) निर्दयः किङ्ग्जफोर्ड् बालान् अपि दण्डयति स्म। (सत्यम्/असत्यम्)
(ग) खुदीरामस्य आक्रमणेन किङ्ग्जफोर्ड् मृतः। (सत्यम्/असत्यम्)
(घ) खुदीरामः किङ्ग्जफोर्महोदयस्य रथस्य उपरि विस्फोटकं क्षिप्तवान्। (सत्यम्/असत्यम्)
(ङ) खुदीरामः बालानां सङ्घटनं कृत्वा पदयात्राम् आयोजयति स्म । (सत्यम्/असत्यम्)
उत्तर:
(क) सत्यम्
(ख) सत्यम्
(ग) असत्यम्
(घ) सत्यम्
(ङ) सत्यम्
३. अधः प्रदत्तानां संवत्सराणां शब्दानाम् अङ्कै सह मेलनं कुरुत ।
(नीचे दिए गए संवत्सर (वर्ष) शब्दों का उनके अंको के साथ मिलान कीजिए |)

(क) सप्तचत्वारिंशदधिक- नवदशशततमं वर्षम् – १. 1905
(ख) अष्टाधिक – नवदशशततमं वर्षम् – २. 1889
(ग) पञ्चाशदुत्तर – नवदशशततमं वर्षम् – ३. 1947
(घ) पञ्चाधिक- नवदशशततमं वर्षम् – ४. 1908
(ङ) नवाशीत्यधिक – अष्टादशशततमं वर्षम् – ५. 1950
उत्तर:
(क) ३. 1947
(ख) ४. 1908
(ग) ५. 1950
(घ) १. 1905
(ङ) २. 1889
![]()
४. अधः प्रदत्तानि पदानि आधृत्य चित्रं दृष्ट्वा पञ्च वाक्यानि लिखत ।
(नीचे दिए गए पदों के आधार पर चित्र को देखकर पाँच वाक्य लिखिए |)

उद्यानं, गृहाणि, पक्षिणः, पुष्पाणि, स्वच्छता, द्विचक्रिका, पर्वत, वृक्षा:, सूर्य:, मेघाः
(क) …………………………
(ख) …………………………
(ग) …………………………
(घ) …………………………
(ङ) …………………………
उत्तर:
(क) चित्रे उद्यानं दृश्यते ।
(ख) चित्रे अनेकानि गृहाणि सन्ति ।
(ग) चित्रे पुष्पाणि विकसन्ति ।
(घ) चित्रे एकः बालकः द्विचक्रिकया गच्छति ।
(ङ) आकाशे मेघाः दृश्यन्ते सूर्यः च उदेति ।
५. सन्धिच्छेदं कुरुत ।
(संधि-विच्छेद कीजिए ।)

(क) इत्यादयः …………. + ………………
(ख) सर्वेऽपि …………. + ………………
(ग) कश्चित् …………. + ………………
(घ) प्रत्येकम् …………. + ………………
(ङ) वयस्तेजसः …………. + ………………
(च) अचिरादेव …………. + ………………
उत्तराणि
(क) इति + आदयः
(ख) सर्वे + अपि
(ग) कः + चित्
(घ) प्रति + एकम्
(ङ) वयः + तेजस:
(च) अचिरात् + एव
६. विग्रहवाक्यं दृष्ट्वा पाठ्यपुस्तकात् समस्तपदानि चित्वा लिखत ।
(विग्रह वाक्यों को देखकर पाठ्य-पुस्तक से समस्त पद चुनकर लिखिए।)

(क) देशस्य भक्ताः ……………………….
(ख) बालः च क्रान्तिवीरः च ……………………….
(ग) वज्रेण सदृशम् ……………………….
(घ) असेः धारा ……………………….
(ङ) मृत्युः एव दण्डः ……………………….
(च) न साधारणः ……………………….
(छ) निर्गता दया यस्मात् सः ……………………….
उत्तर:
(क) देशभक्ता:
(ख) बालक्रान्तिवीरौ
(ग) वज्रसदृशम्
(घ) असिधारा
(ङ) मृत्युदण्डः
(च) असाधारण:
(छ) निर्दयः
७. लङ्लकारः, क्तवतु-प्रत्ययः, स्म, क्तप्रत्ययः – एते सर्वेऽपि भूतकालं सूचयन्ति । अधः दत्तानि वाक्यानि सूचनानुसारं परिवर्तयत ।
(लङ्लकार, क्तवतु- प्रत्यय, ‘स्म’ का प्रयोग और क्त प्रत्यय ये सभी भूतकाल का बोध कराते हैं। नीचे दिए गए वाक्यों को निर्देशानुसार परिवर्तित कीजिए । )
यथा- खुदीरामः हुतात्मा जातः । (लङ्-लकारः)
खुदीराम: हुतात्मा अजायत ।
(क) वन्दे मातरम् इत्यादयः घोषणाः भवन्ति स्म। (लङ्-लकारः)
(ख) सत्येन्द्रनाथः खुदीरामम् उपादिशत्। (क्तवतु-प्रत्ययः)
(ग) सः नवमीं कक्षां पूर्णां कर्तुं न शक्तवान्। (लङ्-लकारः)
(घ) क्रान्तिवीराः आङ्ग्लानां मनसि आतङ्कम् अजनयन्। (स्म)
(ङ) प्रफुल्लः भुशुण्ड्या गोलिकाप्रहारं कृतवान् । (लङ्-लकारः)
उत्तर:
(क) वन्दे मातरम् इत्यादयः घोषणाः अभवन्।
(ख) सत्येन्द्रनाथ: खुदीरामम् उपदिष्टवान्।
(ग) सः नवमीं कक्षां पूर्णां कर्तुं न अशक्नोत् ।
(घ) क्रान्तिवीराः आङ्ग्लानां मनसि आतङ्कम् जनयन्ति स्म ।
(ङ) प्रफुल्लः भुशुण्ड्या गोलिकाप्रहारम् अकरोत् ।
![]()
८. पाठे कदाचित्, कस्यचित्, इति एवं विधानि पदानि सन्ति । एतानि ‘चित्’ प्रत्यययुक्तानि अव्ययानि भवन्ति । एतानि पदानि विशेषणानि भवन्ति। चित् प्रत्ययस्य योजनेन अर्थे अनिश्चयस्य भावः सूच्यते । यथा-

(पाठ में ‘कदाचित’, कस्यचित् – इस प्रकार के पद आए हैं। ये ‘चित्’ प्रत्यय से युक्त अव्यय होते हैं। ये पद विशेषण के रूप में भी प्रयुक्त होते हैं। ‘चित’ प्रत्यय जोड़ने से अर्थ में निश्चिय का भाव प्रकट होता है।)
उदाहणानुसारं चित्-प्रत्ययान्तपदानि प्रयुज्य रिक्त स्थाने पूर्णवाक्यं लिखत-

कश्चित्, काचित् किञ्चित्, कुत्रचित् कदाचित्
(क) बालकः गच्छति । कश्चित् बालकः गच्छति।
(ख) बालिका गच्छति ।
(ग) फलं खादतु।
(घ) लेखनी लुप्ता ।
(ङ) सः आगच्छेत्।
उत्तर:
(क) कश्चित् बालकः गच्छति।
(ख) काचित् बालिका गच्छति ।
(ग) किञ्चित् फलं खादतु ।
(घ) कुत्रचित् लेखनी लुप्ता ।
(ङ) कदाचित् सः आगच्छेत् ।
स्वाध्यायान्मा प्रमद:
१. अधः प्रदत्तानि युगलपदानि अव्ययानि सन्ति । तेषां प्रयोगः अधः प्रदत्तेषु वाक्येषु प्रदर्शितः । ध्यानेन पठन्तु रिक्तस्थानानि च पूरयन्तु-
यथा- स्वामी विवेकानन्दः उक्तवान् यत् सामर्थ्यमेव जीवनं दुर्बलता मृत्युः इति ।
यदा कृष्णः शङ्खनादं कृतवान् तदा दुर्योधनादीनां हृदयानि कम्पितानि।
यावत् भूतले गिरयः भवन्ति तावत् रामायणकथा प्रचलिष्यति ।
यद्यि मेघाः सन्ति तथापि वृष्टिः न भवति ।
(क) सुभाषचन्द्रः वदति ………. भवन्तः मह्यं रुधिरं यच्छन्तु अहं भवद्भ्यः स्वातन्त्र्यं प्रयच्छामि …………।
(ख) ………… अर्जुनः भीष्मद्रोणादीन् अपश्यत् …….. शोकं प्राप्नोत् ।
(ग) श्रीरामः भरतम् उक्तवान् ………. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी …………।
(घ) ……… भरतः अयोध्यां प्राप्तवान्
………….. श्रीरामः तत्र नासीत्।
(ङ) …….. खुदीरामाय मृत्युदण्डः उद्घोषितः
………….. ‘सः प्रसन्नवदनः आसीत् ।
(च) ………… वृष्टिः भवति ……….. ‘कृषकाः सन्तुष्टाः भवन्ति ।
(छ) ………… खुदीरामः बालः ……….. सः देशकार्यं कृतवान्।
(ज) ………. कार्यं करोति ………… फलं प्राप्नोति ।
(झ) प्रफुल्ल – खुदीरामाभ्यां ……….. विस्फोटकं प्रक्षिप्तम् ……….. किङ्ग्जफोर्ड्: न मृतः।
(ञ) …….. अध्ययनं सुदृढं भवति
…….. ज्ञानं विकसितं भवति ।
(ट) ……………. खुदीरामः आङ्ग्लानां हस्तगतः
………… सः ततः बहिरागतः ।
उत्तर:
(क) यत्, इति
(ख) यदा, तदा
(ग) यत्, इति
(घ) यदा, तदा
(ङ) यद्यपि, तथापि
(च) यदा, तदा
(छ) यद्यपि, तथापि
(ज) यथा, यथा
(झ) यद्यपि, तथापि
(ञ) यदा, तदा
(ट) यद्यपि, तथापि
यस्त क्रियावान् मनुजः स विद्वान्
१. भगतसिंहः, मङ्गलपाण्डे, चन्द्रशेखरः, लक्ष्मीबाई, बालग ङ्गाधरतिलकः इत्येतेषां क्रान्तिवीराणां जीवनचरितं संगृह्य ततः एकां घटनां कक्षायां वदत।
२. पाठे विद्यमानानि अव्ययपदानि संगृह्य दश (10) वाक्यानि रचयत ।
३. खुदीरामस्य जन्म नवाशीत्यधिके अष्टादशशततमे वर्षे (1889) दिसम्बरमासस्य तृतीये दिनाङ्के अभवत् । एवं प्रकारेण स्वविषये लिखन्तु ।
(क) मम जन्म …………………………………………………..
…………………………………………………………… अभवत्।
(ख) पितुः जन्म …………………………………………………
……………………………………………………………… अभवत्।
(ग) मातु: जन्म ……………………………………………………
……………………………………………………………… अभवत्।
(घ) भ्रातुः जन्म ……………………………………………………
………………………………………………………………. अभवत्।
(ङ) भगिन्याः जन्म …………………………………………………
……………………………………………………………….. अभवत्।
४. पारा – अलम्पिकस् स्पर्धायां कस्यापि एकस्य यशस्विप्रतिभागिनः
विषये शिक्षकस्य पुरतः कथां श्रावयत ।
५. नृत्यसङ्गीतादिक्षेत्रेषु कस्यापि एकस्य जनप्रियस्य कलाकारस्य विषये पञ्चवाक्यानि लिखित्वा शिक्षकान् दर्शयत ?
Class 9th Sanskrit Chapter 4 न खलु वयस्तेजसो हेतुः Question Answer
संस्कृत कक्षा 9 पाठ 4 न खलु वयस्तेजसो हेतुः के प्रश्न उत्तर
प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत |
(निम्नलिखित गद्यांशों को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए |)
गद्यांशः 1
भारतस्य स्वतन्त्रतासङ्ग्रामे सशस्त्रान्दोलने बङ्गप्रान्तः अग्रेसरः आसीत्। तस्मिन् बङ्गप्रान्ते मेदिनीपुरनामके जनपदे मोहोबनी – ग्रामे नवाशीत्यधिक- अष्टादशशततमे वर्षे (1889) दिसम्बरमासस्य तृतीये दिनाङ्के खुदीरामस्य जन्म अभवत् । तस्य जनकस्य नाम त्रैलोक्यनाथः इति, जनन्याः नाम लक्ष्मीप्रिया देवी च आसीत् । खुदीरामस्य बाल्यकाले एव तस्य पितरौ दिवङ्गतौ । अतः तस्य अग्रजया अपरूपादेव्या एव खुदीरामस्य पालनं पोषणं च कृतम् । बाल्यकालतः एव खुदीरामः असाधारणः आसीत्। साधारणबालानाम् व क्रीडादिषु तस्य मनः न रमते स्म । सः देशवासिषु जायमानान् अत्याचारान् दृष्ट्वा व्यथितः भवति स्म।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए ।)
- भारतस्य स्वातन्त्रता सङग्रामे कः राज्यम् अग्रणी आसीत्?
- खुदीरामस्य जन्म कदा अभवत्?
- खुदीरामस्य भगिन्याः नाम किम् आसीत्?
उत्तर:
- बङ्गप्रान्तः
- नवाशीत्यधिक – अष्टादशशततमे (1889)
- अपरूपादेवी
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए।)
- खुदीरामस्य पितरौ नाम किम् आसीत्?
- अत्याचारं दृष्ट्वा कः दुःव्यथितः भवति स्म ?
- खुदीरामस्य पालनं पोषणं कया कृतम् ?
उत्तर:
- खुदीरामस्य जनकस्य नाम त्रैलोक्यनाथः इति, जनन्याः नाम लक्ष्मीप्रिया देवी च आसीत् ।
- अत्याचारं दृष्ट्वा ‘खुदीरामः’ व्यथितः भवति स्म ।
- खुदीरामस्य पालनं पोषणं च तस्य अग्रजया अरूपादेव्या कृतम्।
![]()
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘पितुः’ पदस्य पर्यायपदं गद्यांशात् चित्वा लिखत ।
- ‘तस्य जनकस्य नाम त्रैलोक्यानाथः आसीत् ।’ अत्र ‘तस्य’ सर्वनामपदं कस्मै प्रयुक्तम् ?
अथवा
- ‘जायमानान् अत्याचारान्’ अनयोः पदयोः विशेष्यपदं किमस्ति ?
- ‘बाल्यकालतः एव खुदीरामः असाधारणः आसीत्।’ अत्र क्रियापदं किमस्ति ?
उत्तर:
- जनकस्य
- खुदीरामाय
अथवा
- आत्याचारान्
- आसीत्
गद्यांश: 2
बङ्गप्रान्ते क्रान्तिवीरैः सञ्चालितानि बहूनि गुप्तमण्डलानि आङ्ग्लानां मनसि आतङ्कं जनयन्ति स्म । कस्यचित् गुप्तमण्डलस्य सञ्चालकः आसीत् सत्येन्द्रनाथः। खुदीरामः स्वमित्रेण प्रफुल्लेन सह गत्वा सत्येन्द्रनाथेन अमिलत्। सत्येन्द्रनाथः उपादिशत्- ‘क्रान्तिकार्यं कर्तुं शरीरं वज्रसदृशं दृढं, बुद्धिः असिधारा इव तीक्ष्णा, मनः गङ्गाजलमिव निर्मलं च भवेत् इति’ ।
तस्मात् गुप्तप्रशिक्षणकेन्द्रात् द्वाभ्याम् अष्टमासात्मकं प्रशिक्षणं प्राप्तम् । भुशुण्डि सञ्चालने अपि तौ अचिरादेव प्रवीणौ सञ्जातौ । राणाप्रतापस्य चरित्रेण प्रेरितः खुदीरामः प्रतिज्ञातवान् यत् ‘यावत् भारतम् आङ्ग्लशासनात् मुक्तं न भविष्यति तावत् पादत्राणं न धरिष्यामि इति ।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए।)
- गुप्तमण्डलानि केषां मनसि आतङ्कंजनयन्तिः स्म ?
- गुप्तमण्डलस्य सञ्चालकः कः आसीत्?
- खुदीरामस्य मित्रं कः आसीत् ?
उत्तर:
- आङ्ग्लानां
- सत्येन्द्रनाथ:
- प्रफुल्ल:
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- कस्मात् द्वाभ्याम् अष्टमासात्मकं प्रशिक्षणं प्राप्तम् ?
- अष्टमासस्य प्रशिक्षणं केन प्राप्तम् ?
- क्रान्तिकाराणां मनः कीदृशं भवेत् ?
उत्तर:
- ‘गुप्तप्रशिक्षणकेन्द्रात्’ द्वाभ्याम् अष्टमासात्मकं प्रशिक्षणं प्राप्तौ ।
- अष्टमासस्य प्रशिक्षणं ‘सत्येन्द्रनाथखुदीरामौ’ प्राप्तौ ।
- क्रान्तिकाराणां मनः ‘गंगाजलमिव’ निर्मलं भवेत् ।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘बहूनि गुप्तमण्डलानि’ – अत्र विशेष्यपदं किमस्ति ?
- ‘सत्येन्द्रनाथः उपादिशत्’ वाक्ये कर्तृपदं किमस्ति ?
अथवा
- “खुदीरामः स्वमित्रेण प्रफुल्लेन सह गत्वा सत्येन्द्रनाथेन अमिलत्।” अस्मिन् वाक्ये क्रियापदं किमस्ति ?
- ‘ भागीरथी’ शब्दस्य पर्यायपदं किमस्ति ?
उत्तर:
- गुप्तमण्डलानि
- सत्येन्द्रनाथः
अथवा
- अमिलत्
- गङ्गा
गद्यांश: 3
आङ्ग्लैः गृहीतः खुदीरामः न्यायालयं नीतः । तत्र अधिवक्तृणां प्रत्येकं प्रश्नस्य खुदीरामस्य निश्चितम् उत्तरम् आसीत् यत् ‘वन्दे मातरम्’ इति। न्यायाधीशेन निर्दयतया बालाय खुदीरामाय मृत्युदण्डः उद्घोषितः – ‘उद्बन्धनम्’ इति । राष्ट्रभक्तस्य खुदीरामस्य मुखे भयं दुःखं वा नासीत् प्रत्युत प्रसन्नता, शान्तिः, तृप्तिः, तेजः च आसीत् । तत् दृष्ट्वा न्यायाधीशः आङ्ग्लाः अधिकारिणः चापि चकिताः । अष्टाधिक-नवदशशततमस्य वर्षस्य अगस्तमासस्य एकादशे दिनाङ्के (11-08-1908) बाल्ये वयसि एव देशस्य स्वातन्त्र्यार्थं खुदीराम: हुतात्मा जातः। प्रियभारतमातुः दर्शनार्थं सः हसन् वन्दे मातरम् इति जपन् आनन्देन दिवं गतः ।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए ।)
- आङ्ग्लैः कः गृहीतः न्यायालयं नीतः?
- अधिवक्तॄणां प्रश्नानां खुदीरामेण कीदृशम् उत्तरं दत्तम्?
- कस्य मुखे भयम्, दुःखम् च नासीत्?
उत्तर:
- खुदीरामः
- निश्चितम्
- खुदीरामस्य
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- किं दृष्ट्वा आङ्ग्लाः अधिकारिणः च आश्चर्यचकिताः अभवन्?
- देशस्य स्वतन्त्रयाय खुदीरामः कदा हुतात्मा अभवत्?
- किं जपन् खुदीरामः दिवं गतः ?
उत्तर:
- खुदीरामस्य मुखे प्रसन्नता, शान्ति:, तृप्तिः, तेजः दृष्ट्वा आङ्ग्लाः अधिकारिणः च आश्चर्यचकिता: अभवन्।
- देशस्य स्वतन्त्रयाय खुदीरामः अष्टाधिक-नवदशशततमस्य वर्षस्य अगस्तमासस्य एकादशे दिनाङ्के (11-8-1908) वर्षे हुतात्मा अभवत्।
- ‘वन्दे मातरम्’ जपन् खुदीरामः आनन्देन दिवं गतः ।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘आङ्ग्लैः गृहीतः खुदीरामः न्यायालयं नीतः’-अत्र कर्तृपदं किमस्ति ?
- ‘निश्चितम् उत्तरम्’ अनयोः पदयोः विशेषणपदं किमस्ति ?
अथवा
- ‘वन्दे मातरम् इति जपन् आनन्देन दिवं गतः ‘ -अत्र क्रियापदं किमस्ति ?
- ‘रुदन् ‘ पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम् ?
उत्तर:
- खुदीरामः
- निश्चितम्
अथवा
- गतः
- हसन्
प्रश्ननिर्माणं कुरुतः
प्रश्न 2.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
(निम्नलिखित वाक्यों में रेखांकित पदों के आधार पर प्रश्न – निर्माण कीजिए ।)
- तत्र अधिवक्तृणां प्रत्येकं प्रश्नस्य खुदीरामस्य निश्चितम् उत्तरम् आसीत्।
- न्यायाधीशेन निर्दयतया बालाय खुदीरामाय मृत्युदण्डः उद्घोषितः।
- किन्तु दौर्भाग्यवशात् आङ्ग्लाः आरक्षकाः तौ अगृह्णन् ।
- बङ्ग प्रान्ते क्रान्तिवीरै: सञ्चालितानि बहूनि गुप्तमण्डलानि अस्ति ।
- खुदीरामः स्वमित्रेण प्रफुल्लेन सह गत्वा सत्येन्द्रनाथेन अमिलत्।
- भारतस्य स्वतन्त्रतासङ्ग्रामे सशस्त्रान्दोलने बङ्गप्रान्तः अग्रेसरः आसीत्।
उत्तर:
- कस्य
- केन
- कस्मात्
- कस्मिन् / कुत्र
- केन
- कस्य
![]()
प्रसङ्गानुसारं प्रश्नाः
प्रश्न 3.
रेखाङ्कितपदानां प्रसङ्गानुसारम् उचितं अर्थं चित्वा लिखत।
(रेखांकित पदों के प्रसंग के अनुसार अर्थरूप का चयन कीजिए ।)
(i) ‘वन्दे मातरम्’ इति जपन् आनन्देन दिवं गतः ।
(क) दिवस:
(ख) भीत:
(ग) स्वर्गम्
(घ) दुःखितः
उत्तर:
(ग) स्वर्गम्
(ii) तस्य जनकस्य नाम त्रैलोक्यनाथः आसीत्।
(क) भ्राताः
(ख) पितुः
(ग) भगिनी
(घ) न कोऽपि
उत्तर:
(ख) पितुः
(iii) तस्य अग्रजया अपरूपादेव्या एव खुदीरामस्य पालनं पोषणं च कृतम्।
(क) भगिनी
(ख) भ्राता
(ग) मातुलः
(घ) अग्रज:
उत्तर:
(क) भगिनी
(iv) बङ्गप्रान्ते क्रान्तिवीराणां महद्भिः गुप्तगतिविधिभिः आङ्ग्लाः संत्रस्ताः आसन् ।
(क) वीराणां
(ख) तेज:
(ग) स्वतन्त्रतासेनानीनाम्
(घ) न कोऽपि
उत्तर:
(ग) स्वतन्त्रतासेनानीनाम्
(v) खुदीरामः आङ्ग्लानां ताडनं कृत्वा ततः निरगच्छत्।
(क) पीडित्वा
(ख) तुलना
(ग) वृक्षा:
(घ) तुला
उत्तर:
(क) पीडित्वा
(vi) मन: गङ्गाजलमिव निर्मलं च भवेत् । इति ।
(क) कपोल:
(ख) हृदयं
(ग) चितम्
(घ) चक्षुः
उत्तर:
(ग) चितम्
मेलनं कुरुतः
प्रश्न 4.
उचितपर्यायपदैः मेलनं कुरु ।

सूची (अ) – सूची (ब)
(i) व्यथितः – (क) शस्त्रविशेषः
(ii) संत्रस्त: – (ख) विप्लवः
(iii) भुशुण्डी – (ग) दुःखितः
(iv) चकित: – (घ) भीत:
(v) आन्दोलनम् – (ङ) विस्मितः
उत्तराणि
(i) व्यथितः – (ग) दुःखितः
(ii) संत्रस्त: – (घ) भीत:
(iii) भुशुण्डी – (क) शस्त्रविशेषः
(iv) चकित: – (ङ) विस्मितः
(v) आन्दोलनम् – (ख) विप्लवः
कथापूर्तिं कुरुतः
प्रश्न 5.
अधोलिखितानां कथां मञ्जूषायाः सहायतया पूरयित्वा पुनः लिखत ।
(निम्नलिखित कथा को मंजूषा की सहायता से पूर्ण करके पुन: लिखिए।)
बालानां (i) ………. कृत्वा सः पदयात्राम् आयोजयति स्म। तस्यां (ii) ………. देशभक्तियुतानि गीतानि, (iii) ……… चेत्यादयः घोषणाः भवन्ति स्म । सः (iv) ……… ‘लोकजागरणविषयकाणि पत्रकाणि (v) ……… वितरति स्म। कदाचित् खुदीरामः पत्रक (vi) ……… समये आङ्ग्लानां हस्तगत: (vii) …….. किन्तु सामर्थ्यसम्पन्नः खुदीरामः आङ्ग्लानां (viii) ………. कृत्वा ततः निरगच्छत्। बङ्गप्रान्ते क्रान्तिवीरैः सञ्चालितानि (ix) ………. गुप्तमण्डलानि आङ्ग्लानां (x) ………. आतङ्कं जनयन्ति स्म ।
मञ्जूषा संघटनं, वन्दे मातरम्, यात्रायां, पदयात्रामाध्यमेन, जनेषु, जातः, वितरण, बहूनि, ताडनं, मनसि ।
उत्तर:
(i) संघटनं
(ii) यात्रायां
(iii) वन्दे मातरम्
(iv) पदयात्रामाध्यमेन
(v) जनेषु
(vi) वितरण
(vii) जात:
(viii) ताडनं
(ix) बहूनि
(x) मनसि