We have given detailed Class 9 Sanskrit Solutions and Class 9th Sanskrit Sharada Chapter 3 Question Answer आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः NCERT Solutions come in handy for quickly completing your homework.
Sanskrit Class 9 Chapter 3 Question Answer आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः
Class 9 Sanskrit Ch 3 Question Answer NCERT Solutions आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः
आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः प्रश्न उत्तर कक्षा 9
१. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत ।
(निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखिए।)
(क) मातामही कस्य कथां श्रावितवती?
(ख) नामदेवस्य गुरु: नामदेवं किम् अध्यापितवान् ?
(ग) नामदेव: कया भावनया धावनं कृतवान्?
(घ) बालकयोः मुखे किमर्थं म्लाने सञ्जाते?
(ङ) कपिल: माधवी च कं सङ्कल्पं कृतवन्तौ ?
(च) तं दृष्ट्वा पाषाणखण्डं स्वीकृत्य मारयितुं धावितवन्तौ इति वाक्ये ‘तम्’ इति सर्वनामशब्दः कस्य कृते प्रयुक्तः ?
(छ) कपिल: माधवी च कुत्र गतवन्तौ ?
(ज) ‘मातामही तं प्रसङ्गं दृष्टवती, तौ आहूतवती च’ । इति वाक्ये ‘तो’ इति शब्दः कस्यां विभक्तौ अस्ति?
उत्तर:
(क) मातामही पुण्यश्लोकस्य पाण्डुरङ्गमित्रस्य नामदेवमहाराजस्य कथां श्रावितवती ।
(ख) नामदेवस्य गुरुः विसोबा नामदेवम् अध्यापितवान् यत् ‘ईश्वरः न केवलं मन्दिरे भवति, अपि तु सर्वेषु भूतेषु तस्य निवासो भवति। अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु ।
(ग) नामदेवः करुणया भावनया धावनं कृतवान् ।
(घ) बालकयोः मुखे अपराधभावनया म्लाने सञ्जाते।
(ङ) कपिल : माधवी च सङ्कल्पं कृतवन्तौ यत् तौ कमपि न पीडयिष्यतः ।
(च) ‘तम्’ इति सर्वनामशब्दशुनकस्य कृते प्रयुक्तः ।
(छ) कपिल: माधवी च अवकाशकाले मातुलगृहं गतवन्तौ ।
(ज) ‘तौ’ इति शब्दः द्वितीयायां विभक्तौ अस्ति ।
२. अधोलिखितानि वाक्यानि भूतकालेन परिवर्त्य पुनः लिखत ।
(निम्नलिखित वाक्यों को भूत काल में परिवर्तित करके पुनः लिखिए |)
यथा- नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गच्छति।
नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गतवान् ।
(क) नैवेद्यं विग्रहस्य पुरतः स्थापयति ।
(ख) नेत्रे निमील्य प्रार्थनायाः आरम्भं करोति ।
(ग) गुरुः विसोबा तम् अध्यापयति ।
(घ) अहं शृणोमि ।
(ङ) सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कुर्वन्ति ।
(च) नामदेवः शुनकस्य पृष्ठे अनुधावति ।
उत्तर:
(क) नैवेद्यं विग्रहस्य पुरतः स्थापितवान् / अस्थापयत् ।
(ख) नेत्रे निमील्य प्रार्थनायाः आरम्भम् कृतवान्/अकरोत् ।
(ग) गुरुः विसोबा तम् अध्यापितवान् / अध्यापयत्।
(घ) अहं श्रुतवान् / अशृण्वम्।
(ङ) सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कृतवन्तः /अकुर्वन्।
(च) नामदेवः शुकनस्य पृष्ठे अनुधावितवान् / अन्वधावत्।
![]()
३. अधोलिखितानि कथनानि कः/का/कं/कां च प्रति कथयति इति लिखत ।
(निम्नलिखित कथन किसने किसके प्रति कहे लिखिए |)

यथा – हे देव! शुष्कां रोटिकां न – कः/का-कं – कां प्रति
खादतु घृतमपि स्वीकरोतु । – नामदेवः – शुनकम्
(क) कथां श्रोतुम् इच्छतः वा? – ……….. – ………..
(ख) अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति । – ……….. – ………..
(ग) किं देवेन सह अपि मित्रता सम्भवति ? – ……….. – ………..
(घ) अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु । – ……….. – ………..
(ङ) नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु । – ……….. – ………..- ……….. – ………..
(च) धिक् शुनकम्। – ……….. – ………..
(छ) नामदेवस्य कियत् दुःखं जातं स्यात् खलु ? – ……….. – ………..
(ज) किं घृतपात्रम् आधृत्य ? – ……….. – ………..
(झ) अद्य अहं ज्ञातवान् यत् सर्वेषु ईश्वरः निवसति इति । – ……….. – ………..
(ञ) उत्तीर्णः भवान् परीक्षाम् । – ……….. – ………..
उत्तर:
कः / का – कम्/काम् प्रति
(क) मातामही – कपिलं माधवीं प्रति
(ख) माधवी – मातामहीं प्रति
(ग) कपिलः – मातामह प्रति
(घ) विसोबा – नामदेवं प्रति
(ङ) नामदेवः – देवं प्रति
(च) कपिल: – मातामहीं प्रति
(छ) माधवी – मातामहीं प्रति
(ज) उभौ (कपिल: माधवी च) – मातामहीं प्रति
(झ) कपिल: – मातामहीं प्रति
(ञ) पाण्डुरङ्गः – नामदेवं प्रति
४. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।)
यथा- पाण्डुरङ्गः नामदेवस्य मित्रम् आसीत्।
‘पाण्डुरङ्गः कस्य मित्रम् आसीत्?
(क) देवः नामदेवं परितः भवति स्म ।
(ख) ईश्वरः सर्वेषु भूतेषु निवसति ।
(ग) शुनकः आगत्य मुखे रोटिकां धृत्वा धावितवान्।
(घ) शुनकस्य स्थाने पाण्डुरङ्गः/u> आविर्भूतवान्।
(ङ) आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः।
उत्तर:
(क) कम्
(ख) केषु
(ग) काम्
(घ) कः
(ङ) कः
५. घटनाक्रमानुसारं लिखत ।
(घटनाक्रम के अनुसार लिखिए |)
(क) नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान् ।
(ख) नामदेवः घृतपात्रम् आधृत्य अनुधावितवान् ।
(ग) नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान् ।
(घ) शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्।
(ङ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
(च) नामदेवः मन्दिरं गतवान् ।
उत्तर:
(च) नामदेवः मन्दिरं गतवान् ।
(ग) नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान् ।
(क) नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान्।
(घ) शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान् ।
(ख) नामदेवः घृतपात्रम् आधृत्य अनुधावितवान् ।
(ङ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
६. कोष्ठकेषु दत्तानां पदानाम् उचितां विभक्तिं योजयित्वा अनुच्छेदं पूरयत।
(कोष्ठक में दिए गए पदों में उचित विभक्ति जोड़कर अनुच्छेद को पूरा कीजिए ।)
आगच्छन्तु, पायसं कुर्मः
आगच्छन्तु, पायसं कुर्मः । (i) …….. (क्षीर) सह तण्डुलाः पक्वाः। (ii) …….. (शर्करा) विना कथं शक्यते । शीघ्रमेव (iii) ……. (आपण) प्रति गत्वा शर्कराम् आनयतु। (iv) ………….. (आपण) निकषा वाहनानि तिष्ठन्ति । शर्करा महानसे स्थापिता । (v) …… (शर्करा) परितः पिपीलिकाः आगताः । पिपीलिकाः अपनीय पायसे शर्करा योजिता । (vi) …….. (मधुर) विना पायसं रुचिकरं न भवति । अधुना (vii) …… (पायस) परितः बालक-बालिकावृन्दं तिष्ठति। धिक् (viii) ……… (अन्ये मधुरपदार्थाः) इति एकः वदन्ति, (ix) ……. (तत्) विना जीवनम् अपूर्णम् इति अपरः । (x) ……… (पायस) सह एव भोजनं सरसम् इति अन्यः । तेषां वचनानि श्रुत्वा पायसं यच्छन्त्याः अम्बायाः मुखे मन्दहासः विलसति ।
उत्तर:
(i) क्षीरेण
(ii) शर्करां
(iii) आपणं
(iv) आपणम्
(v) शर्करां
(vi) मधुरं
(vii) पायसं
(viii) अन्ये मधुरपदार्थान्
(ix) तान्
(x) पायसेन
![]()
७. अनुच्छेदे स्थूलाक्षरेण दत्तानां क्रियापदानां स्थाने उचितं क्तवतुप्रत्ययान्तरूपं योजयित्वा पुनः लिखत ।
(अनुच्छेद में स्थूल अक्षर दिये गए हैं, उन क्रियापदों के स्थान पर उचितं क्तवतु प्रत्यान्त रूप बनाकर पुनः लिखे)
कञ्चित् ग्रामं निकषा एका नदी आसीत् । नदी सर्वदा स्वच्छजलम् अददात्। जनाः तस्याः जलं पीत्वा सुखेन अजीवन्। एकः कृषकः तेन जलेन सर्वदा कृषिम् अकरोत् । कालान्तरम् अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् अकुर्वन् । महिलाः पर्वसमये नदीम् अपूजयन्। एकवारं कश्चित् परिवारः नद्यां मालिन्यानि अक्षिपत् । क्रमशः अन्ये अपि अक्षिपन्। तेन नदी मलिना अभवत्, मीनाः अम्रियन्त। स्त्रियः रोगैः पीडिताः अभवन्। तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् अवदत्। सा नदीतीरम् आगत्य स्वयं वृक्षम् अरोपयत्। महिलाः अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यम् अकुर्वन् । सर्वे ग्रामवासिनः मिलित्वा नदीम् अशोधयन्। पुनः नदी स्वच्छा जाता निर्मलं जलं च अददात्। ततः आरभ्य वर्षे एकवारं जनाः नदीम् अपूजयन् वृक्षरोपणं च अकुर्वन् ।
उत्तर:
अददात् → दत्तवान्
अजीवन् → जीवितवन्तः
अकरोत् → कृतवान्
अकुर्वन् → कृतवन्तः
अपूजयन् → पूजितवत्यः
अक्षिपत् → क्षिप्तवान्
अक्षिपन् → क्षिप्तवन्तः
अम्रियन्त → मृतवन्तः
अभवन् → भूतवन्तः
अवदत् → उक्तवतरी
अरोपयत् → रोपितवती
अकुर्वन् → कृतवत्यः
अशोधयन् → शोधितवन्तः
अददात् → दत्तवती
अपूजयन् → अकुर्वन्
पूजितवन्त: → कृतवन्तः
८. एतेषां समस्तपदानि पाठात् चित्वा लिखत ।
(इन समस्त पदों को पाठ से चुनकर लिखिए |)
यथा- महान् आत्मा, तेषां – महात्मनाम्

(क) घृतस्य पात्रम्, तत् ……………….
(ख) पाषाणस्य खण्डः, तम् ……………….
(ग) प्रियः सुहृद् ……………….
(घ) उदरे वेदना ……………….
(ङ) स्वीयः व्यवहारः ……………….
(च) जीवनस्य मूल्यानि ……………….
(छ) मातुलस्य गृहम्, तत् ……………….
(ज) नरेषु रत्नानि इव, तेषाम् ……………….
(झ) स्वीयं कर्तृत्वम्, तेन ……………….
(ञ) अपराधस्य भावना, तया ……………….
(ट) गुरोः उपदेशः, तम् ……………….
(ठ) दिने-दिने ……………….
(ड) राजा ऋषिः इव, तेषाम् ……………….
उत्तर:
(क) घृतपात्रम्
(ख) पाषाणखण्डम्
(ग) प्रियसुहृद्
(घ) उदरवेदना
(ङ) स्वीयव्यवहार:
(च) जीवनमूल्यानि
(छ) मातुलगृहम्
(ज) नररत्नानाम्
(झ) स्वीयकर्तृत्वेन
(ड) राजर्षीणाम्
(ट) गुरुपदेशम्
(ठ) प्रतिदिनम्
(ञ) अपराधभावनया
स्वाध्यायान्मा प्रमदः
१. ‘क्तवतु’- प्रत्ययान्तशब्दानां पुल्लिङ्गे रूपाणि वयं पश्यामः-

२. ‘क्तवतु’-प्रत्ययान्तशब्दानां स्त्रीलिङ्गे रूपाणि वयं पश्यामः-

३. ‘क्तवतु’- प्रत्ययान्तशब्दानां नपुंसकलिङ्गे रूपाणि वयं पश्यामः-

पाण्डुरड्ग:
पाण्डुरङ्गस्य एव विट्ठल, विठोबा, पण्ढरीनाथः, विठुमाऊली च इत्यादीनि बहूनि नामानि सन्ति । महाराष्ट्रस्य सोलापुरजनपदे पण्ढरपुरम् इति प्रसिद्धं तीर्थक्षेत्रं वर्तते। तच्च चन्द्रभागानद्याः तीरे विराजमानमस्ति । वारकरीसम्प्रदायस्य आराध्यं दैवतम् अस्ति पाण्डुरङ्गः । सः इष्टिकायां समचरणः स्थितः वर्तते । हस्तौ कट्यां संस्थाप्य भक्तानां रक्षणार्थम् अहं सर्वदा कटीबद्धः अस्मीति सः भक्तान् सूचयति ।
विषयप्रबोधनम्
नैवेद्यं गृह्यतां देव भक्तिं में ह्यचलां कुरु ।
ईप्सितं मे वरं देहि परत्र च परां गतिम् ॥
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
अन्वयः हे देव! नैवेद्यं गृह्यताम् । शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् । भक्तिं हि अचलां मे कुरु । ईप्सितं वरं मे देहि। परत्र च परां गतिं देहि ।
यस्तु क्रियावान् मनुजः स विद्वान्
१. स्वप्रदेशे विद्यमानानां द्वित्राणां महात्मनां चित्राणि संकलयत । तेषां विषयकं विवरणं पञ्चषैः वाक्यैः च लिखत । उदाहरणम्-
छत्तीसगढप्रान्तस्य गिरौदपुरी – ग्रामे गुरु- घासिदासमहाराजस्य जन्म जातम्। ‘मनखे मनखे एक समान अर्थात् सर्वे मनुष्याः समानाः सन्ति इति तस्य उपदेशः आसीत् । समाजस्थां विषमतां दूरीकृत्य समानताम् आनेतुं घासिदासः महाराजः महान्तं प्रयत्नं कृतवान्। अस्माभिः न केवलं सर्वैः मनुष्यैः सह अपि तु सर्वैः जीवैः सह अपि वत्सलतया व्यवहरणीयम् इति सः उपदिशति स्म। सतनामी इति सम्प्रदायस्य सः संस्थापकः आसीत् ।
२. पाठे आगतानि क्तवतुप्रत्यययुतानि वाक्यानि संगृह्य तादृशानि अन्यानि वाक्यानि लिखत ।
यथा कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ। रामः लक्ष्मण: च सीतया सह वनं गतवन्तौ ।
३. गुलावराव-महाराज: सन्तकवि – भीमभोई चेति एतयोः महापुरुषयोः विषये पञ्चभिः वाक्यैः दशभिः वाक्यैः वा वर्णयित्वा शिक्षकान् दर्शयत।
Class 9th Sanskrit Chapter 3 आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः Question Answer
संस्कृत कक्षा 9 पाठ 3 आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः के प्रश्न उत्तर
प्रश्न 1.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत ।
(निम्नलिखित नाट्यांशों को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
नाट्यांशं 1
मातामही – उपविशताम्, सावधानेन शृणुतां च । अस्माकं भारतभूमिः अनेकेषां नररत्नानां, ब्रह्मर्षीणां, राजर्षीणां च प्रसवित्री। बहवः सत्पुरुषाः स्वीयकर्तृत्वेन जन्म सार्थकं कृतवन्तः । किं भवन्तौ महात्मानं नामदेवं जानीत: ?
माधवी – आम्! अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति । अपि सत्यम् ?
मातामही – आम्! तस्यैव पुण्यश्लोकस्य पाण्डुरङ्गमित्रस्य नामदेवमहाराजस्य एषा कथा । नामदेवः न केवलं पाण्डुरङ्गस्य प्रियभक्तः अपि तु प्रियमित्रमपि । देवः नामदेवं परितः भवति स्म ।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए।)
- पाण्डुरङ्गस्य मित्रस्य नाम किम् अस्ति ?
- ‘उपविशताम्, सावधानेन शृणुतां च।’ इति वाक्यं कः कथयति ?
- पाण्डुरङ्गस्य प्रियभक्तः कः आसीत्?
उत्तर:
- नामदेवः
- मातामही
- नामदेवः
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए।)
- भारतभूमिः कस्य जन्मदात्री अस्ति?
- अस्यां भूमौ के स्वजीवनं सार्थकं कृतम् ?
- नामदेवस्य कीर्तने कः नृत्यं कृतवान्?
उत्तर:
- भारतभूमिः अनेकेषां नररत्नानां, ब्रह्मर्षीणां, राजर्षीणां च जन्मदात्री अस्ति |
- अस्यां भूमौ बहवः सत्पुरुषाः स्वजीवनम् सार्थकं कृतम्।
- नामदेवस्य कीर्तने स्वयमेव देवः ‘पाण्डुरङ्गः’ नृत्यं कृतवान्।
III. निर्देशानुसारं उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘देवः नामदेवं परितः भवति स्म।’ अस्मिन् वाक्ये क्रियापदं किमस्ति ?
- ‘सऽजना:’ पदस्य पर्यायं चित्वा लिखत ।
अथवा
- ‘बहवः सत्पुरुषाः ‘ अनयोः पदयोः विशेष्यपदं किमस्ति ?
- ‘राक्षसः’ शब्दस्य विलोमपदं गद्यांशे किं प्रयुक्तम् ?
उत्तर:
- भवति स्म
- सत्पुरुषा:
अथवा
- सत्पुरुषाः
- देव:
नाट्यांशं 2
मातामही – आम्, शृणु वत्स ! नामदेवः प्रतिदिनम् अतीव श्रद्धया, निष्ठया, भक्त्या च नैवेद्यस्थालिकाम् आदाय मन्दिरं गच्छति स्म। एकदा सः नैवेद्यस्थालिकां गृहीत्वा विग्रहस्य पुरतः स्थापितवान् । नेत्रे निमील्य प्रार्थनां कृतवान्
नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु।
ईप्सितं मे वरं देहि परत्र च परां गतिम् ॥
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
मन्त्रम् उच्चार्य श्रद्धया प्रणम्य सः नेत्रे उद्घाटितवान् ।
अहो आश्चर्यम् ! पुरतः स्थितायां स्थालिकायां रोटिका नासीत् ।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए ।)
- नैवेद्यस्य थालीं स्वीकृत्य कः मन्दिरं गच्छति स्म ?
- ‘हे देव! नैवेद्यं स्वीकुरु’ कः अवदत् ?
- मन्त्रस्य उच्चारणं श्रद्धया च प्रणामं कः अकरोत् ?
उत्तर:
- नामदेवः
- नामदेव:
- नामदेव:
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- नामदेवः थाल्यां किं स्वीकृत्य प्रतिदिनं मन्दिरं गच्छति स्म ?
- नामदेवः थालीं कस्य सम्मुखं स्थापितवान् ?
- पुरतः स्थितायां स्थालिकायां का नासीत्?
उत्तर:
- नामदेवः थाल्यां ‘नैवेद्यं’ स्वीकृत्य प्रतिदिनं मन्दिरं गच्छति स्म।
- नामदेवः थालीं विग्रहस्य (ईश्वरस्य) सम्मुखं स्थापितवान्।
- पुरतः स्थितायां स्थालिकायाम् रोटिका नासीत् ।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘अतीव श्रद्धया’ अत्र विशेषण पदं चित्वा लिखत ।
- ‘भोजनम्’ पदस्य पर्यायं किमस्ति ?
अथवा
- ‘पुरतः स्थितायां स्थालिकायां रोटिका नासीत्।’ अस्मिन् वाक्ये क्रियापद किमस्ति ?
- ‘नामदेवः प्रतिदिनम् मन्दिरं गच्छति स्म।’ अस्मिन् वाक्ये कर्तृपदं किमस्ति ?
उत्तर:
- अतीव
- नैवेद्यम्
अथवा
- आसीत्
- नामदेव:
![]()
अन्वयपूर्तिः
प्रश्न 2.
मञ्जूषात् समुचितपदानि चित्वा अधोलिखितस्य
श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत ।
(मंजूषा से समुचित पद चुनकर निम्नलिखित श्लोक के अन्वय को पूर्ण करके पुनः लिखिए |)
नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ।
ईप्सितं मे वरं देहि परत्र च परां गतिम् ।।
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ।।
अन्वयः हे देवः ! (इदं) नैवेद्यं गृह्यतां मे भक्तिं हि
(i) …….. कुरु! मे ईप्सितं वरं (ii) …….. परत्र च परां गतिं (देहि) शर्कराखण्डखाद्यानि (iii) ………. घृतानि, भक्ष्यं भोजनं च (iv) ……. (इदं) नैवेद्यं प्रतिगृह्यताम् ।
मञ्जूषा देहि, दधिक्षीरं, आहारं, अचलाम्।
उत्तर:
(i) अचलां
(ii) देहि
(iii) दधिक्षीर
(iv) आहारं
भावार्थपूर्ति:
प्रश्न 3.
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत |
(मंजूषा की सहायता से श्लोक के भावार्थ में रिक्त स्थान पूर्ण करके लिखिए।)
नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ।
ईप्सितं मे वरं देहि परत्र च परां गतिम् ।।
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ।।
भावार्थ:- हे देवः ! यथा भक्त्या समर्पितं नैवेद्यं अङ्गीकुरु । मम् मनसि स्वचरणौ प्रति अचलां भक्तिं प्रयच्छ ।
मह्ययं भक्त्या (i) ………… वरदानं दत्त्वा परलोकं अपि मध्यं (ii) …….. गतिं देहि । अहं शर्करां, दधि, दुग्धं तथा घृतादिभि: (iii) …….. नानाविधं भक्ष्य-भोज्यं आहाररूपेण तुभ्यं (iv) ……… ‘कृपया तत् प्रतिगृह्यताम्।
मञ्जूषा समर्पयामि, इच्छितं, निर्मितम्, परां।
उत्तर:
(i) इच्छितं
(ii) परां
(iii) निर्मितम्
(iv) समर्पयामि
प्रश्ननिर्माणं कुरुतः
प्रश्न 4.
अधोलिखितवाक्येषु रेखाङ्किपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
(निम्नलिखित वाक्यों में रेखांकित पदों के आधार पर प्रश्न – निर्माण कीजिए ।)
- क्रोधेन लगुडम् आदाय शुनकं ताडयितुं धावितवान् स्यात् !
- महात्मनः नामदेवस्य चिन्ता आसीत् ।
- सर्वेषु जीवेषु ईश्वरः निवसति।
- अस्माकं कायेन वाचा मनसा वा कस्यापि पीडा न भवेत् ।
- नामदेवः शुनकस्य पृष्ठे अनुधावितवान् ।
- सः नैवेद्यस्थालिकां गृहीत्वा विग्रहस्य पुरतः स्थापितवान् ।
उत्तर:
- केन
- कस्य
- केषु
- केन
- कः
- कस्य
प्रसङ्गानुसारं प्रश्नाः
प्रश्न 5.
रेखाङ्कितपदानां प्रसङ्गानुसारम् अर्थरूपं चयनं कुरुत ।
(रेखांकित पदों के प्रसंग के अनुसार अर्थ रूप का चयन कीजिए।)
(i) पुरतः स्थितायां स्थालिकायां रोटिका नासीत्।
(क) परित:
(ख) प्रत्यक्षम्
(ग) उभौ
(घ) इव
उत्तर:
(ख) प्रत्यक्षम्
(ii) नेत्रे निमील्य प्रार्थनां कृतवान्।
(क) जिह्वा
(ख) नीतिं
(ग) लोचने
(घ) नासिका
उत्तर:
(ग) लोचने
(iii) नामदेवः कोपेन न धावितवान् ।
(क) क्रुध्येन
(ख) कोणेन
(ग) भवेत्
(घ) न कोऽपि
उत्तर:
(क) क्रुध्येन
(iv) मां निकषा आगच्छताम्।
(क) भवान्
(ख) निष्कर्ष:
(ग) निकटं
(घ) समीपम्
उत्तर:
(घ) समीपम्
(v) अस्माकं कायेन वाचा मनसा वा कस्यापि पीडा न भवेत् ?
(क) काकेन
(ख) शरीरेण
(ग) उभौ
(घ) कार्य
उत्तर:
(ख) शरीरेण
(vi) आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः।
(क) विद्वान्
(ख) सज्जन:
(ग) निष्ठुर:
(घ) दुष्ट:
उत्तर:
(क) विद्वान्
प्रश्न 6.
सुमेलितं कुरुत ।
(सुमेलित कीजिए ।)

उत्तर:
सूची (अ) – सूची (ब)
(i) दण्डम् – (ग) लगुडम्
(ii) म्लाने – (घ) कान्तिहीने
(iii) क्षुधार्त: – (क) बुभुक्षितः
(iv) समीपे – (ख) निकषा
कथापूर्ति कुरुत
प्रश्न 7.
अधोलिखितानां कथां मञ्जूषायाः सहायतया पूरयित्वा पुनः लिखत ।
(निम्नलिखित कथा को मंजूषा की सहायता से पूर्ण करके पुन: लिखिए।)
“कपिल: (i) ……… च (ii) …… मातुलगृहं (iii) ……। तत्र क्रीडावेलायां कञ्चन शुनकं (iv) …………. । तं दृष्ट्वा पाषाणखण्डं (v) …… ‘स्वीकृत्य तं मारयितुं धावितवन्तौ । (vi) …….. भयेन आक्रोशं कुर्वन् (vii) …… धावितवान्। तत् (viii) …….. कपिल: (ix) …….. च (x) ……. ‘हसितवन्तौ ।
मञ्जूषा माधवी, गतवन्तौ शुनकः, वेगेन, हस्ते, | अवकाशकाले, दृष्टावन्तौ दृष्ट्वा, उच्चैः
उत्तर:
(i) माधवी
(ii) अवकाशकाले
(iii) गतवन्तौ
(iv) दृष्टावन्तौ
(v) हस्ते
(vi) शुनकः
(vii) वेगेन
(viii) दृष्ट्वा
(ix) माधवी
(x) उच्चैः