Check the below Class 8 Sanskrit MCQ Chapter 9 कोऽरुक्? कोऽरुक्? कोऽरुक्? with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 8 Sanskrit Chapter 9 Questions and Answers at LearnInsta.
कोऽरुक्? कोऽरुक्? कोऽरुक्? Class 8 MCQ Questions Sanskrit Chapter 9
पठित-अवबोधनम्
• अधोलिखितानां गद्यांशं पठित्वा गद्यांशाधारित प्रश्नानां उत्तराणि निर्देशानुसार लिखित।
(निम्नलिखित गद्यांशों को पढ़कर गद्यांश पर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखिए)
प्रश्न 1.
एतत् सर्वं दूरात् पश्यन्तः विस्मिताः शिष्याः आचार्यवाग्भटस्य समीपम् आगत्य अपृच्छन्-‘गुरुवर ! शुकः कोऽरुक् कोऽरुक् कोऽरुक् इति उक्तवान्, तस्य कोऽर्थः ? अपि च भवान् किम् उत्तरं दत्तवान्?’ तदा वाग्भटः छात्राणां जिज्ञासाम् उपशमयन् कथयति – छात्राः, शृणुत ! एषः शुकः वदति यत् कः अरुक् अर्थात् कः स्वस्थः नीरोगः वा वर्तते? तदा मया उक्तम्-
“यः हितभुक्, मितभुक्, ऋतुभुक् च सः एव सर्वदा स्वस्थः भवति।” छात्राः पुनः जिज्ञासया अपृच्छन्- “आचार्य ! ‘हितभुक्, मितभुक्, ऋतुभुक्’ इति एतेषां कः आशयः ?” वाग्भटः वदति-शिष्याः ! महर्षेः चरकस्य नाम भवन्तः श्रुतवन्तः स्युः । सः हितभुक्-विषये कथयति-
तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते ।
अजातानां विकाराणामनुत्पत्तिकरं च यत् ॥1॥
I. एकपदेन उत्तरत।
(एक शब्द में उत्तर दीजिए ।)
- सर्वं दूरात् पश्यन्तः के विस्मिताः अभवत्?
- वाग्भटः कः आसीत्?
- कस्य प्रयोग स्वास्थाय करणीयः ?
- ‘कोऽरुक्, कोऽरुक्, कोऽरुक्’ कः उक्तवान्?
उत्तर:
- शिष्यः
- वैद्य:
- औषधे
- शुक:
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए।)
- वाग्भटः शिष्यः किम् वदति ?
- छात्रा: पुन: जिज्ञासया किम् अपृच्छन्?
उत्तर:
- शिष्या: महर्षे चरकस्य नाम भवन्तः श्रुतवन्तः स्युः।
- आचार्य ! ‘हितभुक्, मितभुक्, ऋतुभुक्’ इति एतेषां कः आशयः ?
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘अरुक्’ पदस्य कोऽर्थः ?
- ‘अपि च भवान् किम् उत्तरं दत्तवान्’ ? वाक्ये कर्तृपदं किमस्ति ?
उत्तर:
- नीरोग:
- भवान्
IV. अधोलिखितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चित्वा लिखत।
(निम्नलिखित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनकर लिखिए।)
(i) “एतत् सर्वं दूरात पश्यन्तः विस्मिताः” रेखाङ्कितपदे का विभक्ति ?
(क) प्रथमा
(ख) द्वितीया
(ग) पञ्चमी
(घ) चतुर्थी
उत्तर:
(ग) पञ्चमी
(ii) ‘येनानुवर्तते’ पदस्य सन्धि-विच्छेदः कः ?
(क) येना + नुर्वते
(ख) येन + अनुवर्तते
(ग) येन् + अनुवर्तत
(घ) येनानु + वर्तते
उत्तर:
(ख) येन + अनुवर्तते
(iii) “महर्षे चरकस्य नाम भवन्तः श्रुतवन्तः स्युः ।” वाक्ये चरकस्य विशेषणपदं किमस्ति ?
(क) स्युः
(ख) भवन्तः
(ग) नाम
(घ) महर्षे
उत्तर:
(घ) महर्षे
![]()
(iv) ‘क: स्वस्थः नीरोगः वा वर्तते?’ वाक्ये क्रियापदं किमस्ति ?
(क) वर्तते
(ख) कः
(ग) वा
(घ) नीरोग:
उत्तर:
(क) वर्तते
प्रश्न 2.
‘भारतवर्षे वैद्या: विभिन्ननां व्याधीनां शमनं कथं कुर्वन्ति’ इति ज्ञातुं पुरा भगवान् धन्वन्तरिः मनोहरं शुकरूपं धृत्वा प्रतिग्रामम् अभ्रमत् । भ्रमणकाले सः बहूनां प्रख्यातवैद्यानां भवनपार्श्वस्थे वृक्षे उपविश्य ‘कोऽरुक्’ ‘कोऽरुक्’ ‘कोऽरुक्’ इति ध्वनिम् अकरोत्, किन्तु खगस्य ‘कोऽरुक्’ इति शब्दं प्रति कस्यापि अवधानं नासीत्।
अन्ते सः वैद्यस्य वाग्भटस्य कुटीरसमीपं गतवान्। तत्र विशाले प्राङ्गणे स्थितं पुष्पतरुम् आरुह्य मधुरया गिरा ‘कोऽरुक्’ ‘कोऽरुक्’ ‘कोऽरुक्’ इति शब्दम् अकरोत्। मधुरां वाणीं श्रुत्वा चिकित्सानिरतः वाग्भटः प्राङ्गणम् आगत्य सर्वासु दिक्षु अपश्यत् । क्षणात् वाग्भटः मनोहरं तं शुकम् अपश्यत् । सार्थकं मानुषध्वनिं कुर्वन्तं शुकं दृष्ट्वा विस्मितः वाग्भटः चिन्तितवान्-‘नायं लौकिकः खगः । एषः निश्चयेन कश्चन देवविशेषः अस्ति’। सः झटिति तस्मै विहगाय मधुराणि फलानि समर्पितवान्, परन्तु सः खगः फलानि न गृहीत्वा पुनरपि तथैव ‘कोऽरुक्’ ‘कोऽरुक्’ ‘कोऽरुक्’ इति प्रश्नस्वरेण शब्दमकरोत् ।
I. एकपदेन उत्तरत।
(एक शब्द में उत्तर दीजिए ।)
- अन्ते कः वाग्भटस्य कुटीरसमीपं गतवान्?
- कुत्र पुष्पतरुम् आरुह्य मधुरया गिरा ‘कोऽरुक्’ इति शब्दम् अकरोत्?
- कस्य शब्दं कस्यापि अवधानं नासीत्?
- सः झटिति कस्मै मधुराणि फलानि समर्पितवान्?
उत्तर:
- शुकः
- विशाल प्राङ्गणे
- खगस्य
- विहगाय
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- केन प्रख्यातवैद्यानां भवनपार्श्वस्थे वृक्षे उपविश्य इति ध्वनिम् अकरोत् ?
- क्षणात् वाग्भटः मनोहरं किम् अपश्यत् ?
उत्तर:
- शुकः प्रख्यातवैद्यानां भवनपार्श्वस्थे वृक्षे उपविश्य इति ध्वनिम् अकरोत्।
- क्षणात् वाग्भट: मनोहरं शुकम् अपश्यत् ।
III. निर्देशानुसारम् उत्तरत ।
(निर्देशानुसार उत्तर दीजिए। )
- ‘श्रुत्वाः’ पदे का प्रत्ययः ?
- ‘खगः’ पदस्य कोऽर्थः ?
उत्तर:
- क्त्वा
- पक्षी
IV. अधोलिखितानां प्रश्नांनाम् उत्तराणि प्रदत्तविकल्पेभ्यः चित्वा लिखत।
(निम्नलिखित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनकर लिखिए।)
(i) ‘तस्मै’ पदे का विभक्तिः अस्ति?
(क) पञ्चमी
(ख) चतुर्थी
(ग) षष्ठी
(घ) सप्तमी
उत्तर:
(ख) चतुर्थी
(ii) ‘चिकित्सानिरतः ‘ पदस्य सन्धि-विच्छेदः क ?
(क) चिकित्सानि + रत:
(ख) चिकित्सा + निरतः
(ग) चिकित्स + आनिरतः
(घ) सर्वे
उत्तर:
(ख) चिकित्सा + निरतः
(iii) “अन्ते सः वैद्यस्य वाग्भटस्य कुटीरसमीपं गतवान् ।” वाक्यं क्रियापदम् किमस्ति ?
(क) वैद्यस्य
(ख) सः
(ग) गतवान्
(घ) अन्ते
उत्तर:
(ग) गतवान्
(iv) ‘अपश्यत्’ पदे का लकारः?
(क) लृट् लकार:
(ख) लङ् लकार:
(ग) लङ् लकारस्य
(घ) लोट् लकार:
उत्तर:
(ख) लङ् लकार:
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चिनुत ।
(दिए गए विकल्पों से सही उत्तर चुनिए ।)
(क) ‘कोऽरुक्’ इति शुकस्य शब्दस्य अर्थः कः?
(i) कः खादति
(ii) क: रोगी
(iii) कः स्वस्थः
उत्तर :
(iii) कः स्वस्थः
(ख) वाग्भटेन त्रीणि सूत्राणि प्रदत्तानि तानि कानि ?
(i) हितभुक्, मितभुक्, बलभुक्
(ii) हितभुक्, मितभुक्, ऋतुभुक्
(iii) हितभुक्, ऋतुभुक्, जलभुक्
उत्तर :
(ii) हितभुक्, मितभुक्, ऋतुभुक्
(ग) “हितभुक्” इत्यस्य अर्थः कः ?
(i) यः शरीरहितं खादति
(ii) यः स्वादिष्टं खादति
(iii) यः शरीरहितं खादति
उत्तर :
(iii) यः शरीरहितं खादति
(घ) “ऋतुभुक्” इत्युक्तेन किम् बोध्यते ?
(i) ऋषीणां आहार:
(ii) ऋतूनां अनुसारेण आहार:
(iii) ऋतूनां विरोधी आहार:
उत्तर :
(ii) ऋतूनां अनुसारेण आहार:
![]()
रेखाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
(रेखांकित पदों के आधार पर प्रश्न बनाइए ।)
(क) धन्वन्तरिः शुकरूपं धृत्वा भ्रमणं अकरोत् ।
उत्तर :
धन्वन्तरिः किं धृत्वा भ्रमणं अकरोत् ?
(ख) वाग्भटः प्राङ्गणम् आगत्य सर्वासु दिक्षुम अपश्यत् ।
उत्तर :
वाग्भटः शुकस्य मधुरं शब्दं श्रुत्वा किं अकरोत् ?
(ग) शुकः इति कः स्वस्थाय उक्तवान्।
उत्तर :
शुकः ‘कोऽरुक्’ इति किमर्थं उक्तवान्?
(घ) वाग्भटेन त्रीणि सूत्ररूपाणि उत्तराणि प्रदत्तानि ।
उत्तर :
वाग्भटेन कति सूत्ररूपाणि उत्तराणि प्रदत्तानि ?
(ङ) ऋतुभुक् इति पदेन ऋतूनां बोध्यते ।
उत्तर :
ऋतुभुक् इति पदेन किं बोध्यते?
विलोमशब्दैः सह मेलनं कुरुत ।
(विलोम शब्दों के साथ मिलान कीजिए।)
| शब्द | विलोम शब्द |
| (क) अरुक | (i) गुरूणाम् |
| (ख) लघूनाम् | (ii) रोग |
| (ग) अवलम्ब | (iii) अधिक: |
| (घ) अल्पः | (iv) विलम्ब |
उत्तर :
| शब्द | विलोम शब्द |
| (क) अरुक | (ii) रोग |
| (ख) लघूनाम् | (i) गुरूणाम् |
| (ग) अवलम्ब | (iv) विलम्ब |
| (घ) अल्पः | (iii) अधिक: |
मञ्जूषातः उचितपदैः श्लोकानां पूर्ति कुरु ।
(मञ्जूषा से उचित पदों के द्वारा श्लोकों की पूर्ति कीजिए।)
मञ्जूषा – सुखिन:, दुःखभाग्भवेत्, पश्यन्तु, गुरूणां सर्वे, निरामयाः, चातिसेवने, उद्दिष्ट
(क) सर्वे भवन्तु ______ सर्वे सन्तु ______ ।
______ भद्राणि ______ मा कश्चिद् ______ ॥
उत्तर :
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ॥
(ख) अल्पादाने ______ च लघूनां ______ ।
मात्राकारण____ द्रव्याणां ______ ।।
उत्तर :
अल्पादाने गुरूणां च लघूनां चातिसेवने ।
मात्राकारणमुद्दिष्टं द्रव्याणां गुरुलाघवे ।।
अधोलिखितानां संवादाधारित प्रश्नानां उचितम् उत्तरं लिखत ।
(निम्नलिखित संवाद – आधारित प्रश्नों के उचित उत्तर लिखें।)
(क) ‘अम्ब! महती बुभुक्षा बाधते’ – इत्यत्र को वदति ?
(ख) ‘मुखे दाहः भवेत् ‘ – इत्युक्ते कः कारण: प्रदत्त : ?
(ग) ‘गुरुवर ! शुकः ” कोऽरुक्” इति उक्तवान्’ – इदं वाक्यं कः उक्तवान्?
उत्तर :
(क) पुत्री अम्बां प्रति ।
(ग) छात्राः गुरुं प्रति ।
(ख) अम्बा पुत्रि प्रति ।
![]()
अधोलिखितेषु वाक्येषु कर्ता क्रियां च चित्वा लिखत ।
(नीचे दिए गए वाक्यों से कर्ता और क्रिया चुनकर लिखिए।)
(क) अम्बं शीघ्रं भोजनं परिवेषयतु ।
कर्ता ______
क्रिया ______
उत्तर :
कर्ता – अम्ब
क्रिया – परिवेषयतु
(ख) वाग्भटः शुकाय उत्तराणि प्रदत्तवान् ।
कर्ता ______
क्रिया ______
उत्तर :
कर्ता – वाग्भटः
क्रिया – प्रदत्तवान्
(ग) धन्वन्तरिः शुकरूपेण भ्रमणम् अकरोत्।
कर्ता ______
क्रिया ______
उत्तर :
कर्ता – धन्वन्तरिः
क्रिया – अकरोत्
वाक्य-निर्माणं
अधोलिखितैः शब्दैः वाक्य – निर्माणं कुरुत ।
(निम्नलिखित शब्दों से वाक्य निर्माण कीजिए ।)
- यावत्
- अवधानम्
- अस्मि
- खगः
- उपदेश:
उत्तर:
- यावत् भोजनं भोक्तुं योग्यं भवति तावत् ते श्रावयतु ।
- इति शब्द प्रति कस्यापि अवधानं नासीत् ।
- अहम् अतीव सन्तुष्टः अस्मि ।
- नायं लौकिकः खगः ।
- ‘अत्युष्णं भोजनं हितकरं न भवति’ इति आयुर्वेदस्य उपदेशः ।
अतिलघु उत्तरीय प्रश्नाः
प्रश्न 1.
वैद्याः विभिन्नानां व्याधीनां शमनं कुत्र कुर्वन्ति?
उत्तर:
भारतवर्षे
प्रश्न 2.
शुकरूपं धृत्वा कः प्रतिग्रामम् अभ्रमत् ।
उत्तर:
भगवान् धन्वन्तरिः
प्रश्न 3.
अन्ते शुकः कस्य कुटीरसमीपं गतवान्?
उत्तर:
वाग्भटस्य
लघु उत्तरीय प्रश्नाः
प्रश्न 1.
अल्पमात्रं सेवनेन कानि सुपाच्यानि भवन्ति ?
उत्तर:
अल्पमात्रं सेवनेन गरिष्ठद्रव्यानि सुपाच्यानि भवन्ति ।
प्रश्न 2.
षट् ऋतवः कानि – कानि भवन्ति ?
उत्तर:
ग्रीष्मः, वर्षा, शरद्, शिशिरः, हेमन्तः, वसन्तः चेति षट् ऋतवः भवन्ति।
दीर्घ उत्तरीय प्रश्ना:
प्रश्न 1.
अस्माकम् ऋषयः किम् नित्यं प्रार्थनां कुर्वन्ति ?
उत्तर:
‘सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ।
प्रश्न 2.
आयुर्वेदज्ञानेन कः अतीव सन्तुष्टः अभवत्?
उत्तर:
आयुर्वेदज्ञानेन भगवान धन्वन्तरिः सन्तुष्टः अभवत्।