Students can access the CBSE Sample Papers for Class 9 Sanskrit with Solutions and marking scheme Set 5 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 9 Sanskrit Set 5 with Solutions
समय: 3 होराः
पूर्णांक: 80
सामान्यनिर्देशाः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रश्नाः सन्ति ।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
‘क’ खण्ड: : अपठितावबोधनम् 10 अङ्काः
‘ख’ खण्डः : रचनात्मककार्यम् 15 अङ्काः
‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् 25 अङ्काः
‘घ’ खण्डः : पठितावबोधनम् 30 अङ्काः - प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
- प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम् एव लेखनीयः ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
(खंड ‘क’)
(अपठित अवबोधनम्) (10 अंङ्का:)
1. अधोलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत । [10]
न्यायस्य आलयः एव न्यायालयः भवति । विवादमानौ पक्षौ अत्र आगत्य न्यायमिच्छतः । अत्र एकः न्यायाधीशः भवति एकश्च तस्य सहायक: लिपिक: भवति । एषः लिपिक: सर्वाणि लेख्यानि अवधानेन रक्षति यथाकालं च तानि न्यायाधीशस्य सम्मुखम् उपस्थापयति। न्यायालयः त्रिविधाः भवन्ति । प्रथमः माण्डलिक : न्यायालयः । एषः न्यायालयः प्रायेण प्रत्येकनगरे एव भवति । महानगरेषु एकाधिका अपि न्यायालयाः भवन्ति। यदि कस्मैचित् अपि पक्षाय माण्डलिक – न्यायालयस्य न्याय: मान्यः न भवति तदा सः तस्य विरोधे उच्च-न्यायालयं गच्छति। अस्य न्यायालयस्यापि निर्णयः न मान्यः भवेत् चेत् तदा न्यायं प्राप्तुं सः देशस्य सर्वोच्च न्यायालयं गच्छति। सर्वोच्च-न्यायालयस्य निर्णयः एव अन्तिमः भवति । न तं खण्डयितुं कोऽपि समर्थः ।
प्रश्ना:
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) न्यायालयाः कतिविधा: भवन्ति ?
उत्तर:
त्रिविधा:
(ii) कस्य निर्णय: अन्तिमः भवति ?
उत्तर:
सर्वोच्च न्यायालयस्य
(iii) विवादमानौ पक्षौ किं इच्छतः ?
उत्तर:
न्यायम्।
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम् )
(i) न्यायालये लिपिक: किं करोति ?
उत्तर:
न्यायालये लिपिक: सर्वाणि लेख्यानि अवधानेन रक्षति यथाकालं च तानि न्यायाधीशस्य सम्मुखम् उपस्थापयति।
(ii) न्यायस्य आलय: क: भवति ?
उत्तर:
न्यायस्य आलय: एव न्यायालयः भवति ।
(iii) माण्डलिक : न्यायालयः कुत्र भवति ?
उत्तर:
माण्डलिक : न्यायालयः प्रायेण प्रत्येकनगरे एव भवति ।
(इ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत ।
उत्तर:
न्यायालयः।
(ई) भाषिक कार्यम् – (केवलं प्रश्नत्रयम्)
(i) ‘रक्षति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) सर्वाणि
(ख) लिपिक:
(ग) एषः
(घ) न्यायः
उत्तर:
(ख) लिपिक:
(ii) ‘अन्यायस्य’ अस्य पदस्य अत्र कः विलोम : ?
(क) न्यायालयस्य
(ख) न्यायाधीशस्य
(ग) न्यायस्य
(घ) न्यायेन
उत्तर:
(ग) न्यायस्य
(iii) ‘सर्वोच्च न्यायालयस्य निर्णयः एव अन्तिमः भवति’ अत्र विशेषणपदं किम् अस्ति ?
(क) निर्णय:
(ख) एव
(ग) सर्वोच्च
(घ) निर्णयः
उत्तर:
(ग) सर्वोच्चः
(iv) ‘न्यायालयः प्रायेण प्रत्येकनगरे एव भवति’ इत्यत्र किं क्रियापदं प्रयुक्तम् ?
(क) न्यायालयः
(ख) नगरे
(ग) भवति
(घ) प्रायेण
उत्तर:
(ग) भवति।
खण्ड – ‘ख’ (15 अंङ्का:)
(रचनात्मकं कार्यम्)
2. भवान् केतनः। भवतां विद्यालये अन्तर्विद्यालयीयः संस्कृतप्रतियोगितासमारोहः समायोजितः। तत्र संस्कृतभाषणप्रतियोगितायाम् भवता प्रथमः पुरस्कारः प्राप्तः । तत् सूचयता भवता स्वमित्रं गौरीशं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं पुनः लिख्यताम्।
छात्रावासः
16, लाजपतनगरम्,
(i)…….
दिनाङ्क : ……….
प्रिय मित्रं (ii)…………
सस्नेहम् (iii)………….।
अत्र वयं सर्वे (iv)…………… । अस्माकं विद्यालये गतसप्ताहे अन्तर्विद्यालयीयः संस्कृतप्रतियोगितासमारोहः समायोजितः। तत्र एका भाषणप्रतियोगिता (v)……….। अहं तस्यां (vi) …….. प्रथम पुरस्कारं लब्धवान्। संस्कृतभाषणेन (vii)…….. आत्मविश्वासः वर्धितः अभवत्। अधुना अहं संस्कृतभाषायाम् एव वदामि । भवान् अपि (viii)……..कुर्यात्। पितृभ्यां नमो नमः ।
(ix)……..अभिन्न मित्रम्
(x)…………।
मञ्जूषा
गौरीश!, अभिवादनम्, दिल्लीतः, अभवत्, भवतः, केतनः, मयि, प्रतियोगितायाम्, प्रयत्नम्, कुशलिनः
उत्तर:
पत्रलेखनम्
छात्रावासः
16, लाजपतनगरम्,
(i) दिल्लीत:
दिनाङ्क : ……….
प्रिय मित्रं (ii) गौरीश:
सस्नेहम् (iii) अभिवादनम् ।
अत्र वयं सर्वे (iv) कुशलिनः । अस्माकं विद्यालये गतसप्ताहे अन्तर्विद्यालयीयः संस्कृतप्रतियोगितासमारोहः समायोजितः। तत्र एका भाषणप्रतियोगिता (v) अभवत् । अहं तस्यां (vi) प्रतियोगितायाम् प्रथम पुरस्कारं लब्धवान् । संस्कृतभाषणेन (vii) मयि आत्मविश्वासः वर्धितः अभवत्। अधुना अहं संस्कृतभाषायाम् एव वदामि। भवान् अपि (viii) प्रयत्नम् कुर्यात् । पितृभ्यां नमो नमः।
(ix) भवत: अभिन्न मित्रम्
(x) केतनः ।
3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत- [1 × 5 = 5]
मञ्जूषा
मेघाः, नदी, महिलाः, हर्षिताः, शोभनम्, पुरुषाः, मयूर:, कृषकाः, भवन्ति, आगच्छन्ति, बालाः, पुष्पाणि, उड्डयते, भविष्यति ।
अथवा
मञ्जूषायां प्रदत्तशब्दानां सहायतया ‘ग्रामीण जीवनम्’ इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
मञ्जूषा
शिक्षिताः, जनाः सर्वसुविधासम्पन्नाः, क्षेत्राणि, सिञ्चन्ति, अपि, विद्यालयः वैज्ञानिकविधिना, अस्ति, कुर्वन्ति, कृत्रिम, पठन्ति, हरीतिमा, सर्वत्र, प्रदूषणरहितम् ।
उत्तर:
(i) इदं चित्रं नदीतटस्य अस्ति ।
(ii) कृषकः हलेन क्षेत्रं कर्षति ।
(iii) मेघान् दृष्ट्वा मयूरः नृत्यति ।
(iv) हर्षिता: महिलाः इतस्ततः धावन्ति।
(v) पक्षिणः आकाशे उड्डयन्ते ।
अथवा
(i) इदं ग्राम्यजीवनस्य वर्णनमस्ति ।
(ii) ग्राम्यजीवनं प्रदूषणरहितं भवति ।
(iii) जना: सर्वसुविधासम्पन्नाः सन्ति ।
(iv) शिक्षिता: कृषकाः वैज्ञानिकविधिना कृषिकार्यं कुर्वन्ति ।
(v) कृषकाः क्षेत्राणि जलेन सिञ्चन्ति ।
4. हिन्दी भाषया आङ्गलभाषया वा लिखितानां वाक्यानां संस्कृतेन अनुवादः क्रियताम् । (केवलं पञ्चवाक्यम्)
(i) प्राचीन समय में माधव नामक कोई ग्वाला था।
There was a hardsman named Madhav in the ancient time.
(ii) इस ब्रह्माण्ड में बहुत से नक्षत्र हैं ।
There are many stars in this universe.
(iii) पर्यावरणरक्षण में सूर्य की अत्यधिक भूमिका है |
The Sun plays a vital role in the Preservation of environment.
(iv) शेर जंगल का राजा कहा जाता है।
The lion is called the king of the forest.
(v) नदी का जल अमृत समान होता है।
River water is like nectar.
(vi) सीता राम की पत्नी थी।
Sita was the wife of the Ram.
(vii) भारतवर्ष में छ: ऋतुएँ होती हैं।
There are six seasons in India.
उत्तर:
(i) पुरा माधवो नाम कश्चित् गोपालकः आसीत् ।
(ii) अस्मिन् ब्रह्माण्डे बहूनि नक्षत्राणि सन्ति ।
(iii) पर्यावरणरक्षणे सूर्यस्य महती भूमिका अस्ति ।
(iv) सिंह: जंगलस्य राजा कथ्यते ।
(v) नद्याः जलं पीयूषतुल्यं भवति ।।
(vi) सीता रामस्य भार्या आसीत् ।
(vii) भारतवर्षे षड् ऋतवः भवन्ति ।
खण्ड-‘ग’ (25 अंङ्काः)
(अनुप्रयुक्त व्याकरणम्)
5. अधोलिखितवाक्येषु रेखाङ्कितपदानां सन्धिं सन्धिविच्छेदं वा कृत्वा लिखत- (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]
(i) रमेश: तीव्रं धावति ।
उत्तर:
रमा + ईश:
(ii) शुभं सदैव सत्यं वदति ।
उत्तर:
सदा + एव
(iii) अद्य अहम् विद्यालयं गच्छामि ।
उत्तर:
अहं विद्यालयम्
(iv) नायक: नाटकस्य जीवनं भवति
उत्तर:
नै + अक:
(v) द्वौ + अपि पर्वतीयस्थलं गच्छतः।
उत्तर:
द्वावपि
6. उचित शब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नचतुष्ट्यम) [1 × 4 = 4]
(i) …….. पिता अध्यापकः अस्ति ।
(क) अस्माकं
(ख) मम
(ग) मयि
(घ) मया
उत्तर:
(ख) मम
(ii) ………. उच्च क्रीडन्ति ।
(क) बालकः
(ख) बालको
(ग) बालकाः
(घ) बालकान्
उत्तर:
(ग) बालकाः
(iii) प्राचार्येण……. उपहारा: दीयते ।
(क) रमया
(ख) रमायै
(ग) रामायाः
(घ) रमायाम्
उत्तर:
(ख) रमायै
(iv) ……. सर्वश्रेष्ठा गंगा ।
(क) नदीषु
(ख) नदीभिः
(ग) नद्याम्
(घ) नद्या:
उत्तर:
(क) नदीषु
(v) अपूर्वः कोऽपि कोशोऽयं विद्यते भारति ।
(क) तव
(ख) त्वम्
(ग) यूयम्
(घ) युवाम्
उत्तर:
(क) तव
7. उचित धातुरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]
(i) दुर्जनानां संसर्ग……… ।
(क) त्यज
(ख) त्यजानि
(ग) त्यजति
(घ) त्यजतः
उत्तर:
(क) त्यज
(ii) सत्य हरिचन्द्रः सत्यपालनां कदापि न …… ।
(क) अत्यजत्
(ख) त्यजतु
(ग) त्यजानि
(घ) अत्यजताम्
उत्तर:
(क) अत्यजत्
(iii) यावत् गिरयः …….. ।
(क) स्थास्यतु
(ख) स्थास्यन्ति
(ग) स्थाति
(घ) स्थास्यति
उत्तर:
(ख) स्थास्यन्ति
(iv) अर्चक: मीर्ति ……….।
(क) स्थापयति
(ख) स्थापयत्
(ग) स्थाति
(घ) स्थापयामि
उत्तर:
(क) स्थापयति
(v) वैभव: संसारे किमपि कर्तुम् ……..।
(क) शक्नोमि
(ख) शकती
(ग) शक्नोति
(घ) शक्नुवन्ति
उत्तर:
(ग) शक्नोति
8. अधः प्रदत्तशब्दयोः उचित विभक्ति प्रयोगेण वाक्यं पूरयत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]
(i) मातुः ……. स्नेहः अस्ति ।
(क) शिशुः
(ख) शिशौ
(ग) शिशवः
(घ) शिशोः
उत्तर:
(ख) शिशौ
(ii) संसारे …….. बिना ज्ञानं न प्राप्यते ।
(क) पुस्तकस्य
(ख) पुस्तकात्
(ग) पुस्तकेन
(घ) पुस्तकं
उत्तर:
(ग) पुस्तकेन
(iii) अस्माकं ……… पुरतः आपणकेन्द्रं विद्यते ।
(क) विद्यालयस्य
(ख) विद्यालयम्
(ग) विद्यालयात्
(घ) विद्यालयेन
उत्तर:
(क) विद्यालयस्य
(iv) छात्रा: ………. बहिः कोलाहलं कुर्वन्ति ।
(क) कक्षायाः
(ख) कक्षाम्
(ग) कक्षया
(घ) कक्षासु
उत्तर:
(क) कक्षायाः
(v) ……… पुरतः राघवः तिष्ठति ।
(क) अस्माकं
(ख) मयि
(ग) अस्मत्
(घ) अनयोः
उत्तर:
(क) अस्माकं
9. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नत्रयम्) [1 × 3 = 3]
(i) गङ्गाजले ……….. भक्ताः ध्यानं कुर्वन्ति । (प्र + विश् + ल्यप्)
(क) प्रविशल्य
(ख) प्रविशय
(ग) प्रविश्य
(घ) प्रविशन्ति
उत्तर:
(ग) प्रविश्य
(ii) ग्रीष्मकाले जना: शीतलपेयं ……… इच्छन्ति । (पा + तुमुन्)
(क) पातुम्
(ख) पिबतुम्
(ग) पेयतुम्
(घ) पातयितुम्
उत्तर:
(क) पातुम्
(iii) समाचारान् …….. अहं दूरदर्शनं पश्यामि। (श्रु + तुमुन्)
(क) श्रोतुम्
(ख) श्रुतुम्
(ग) शृण्वन्त
(घ) श्रणोति
उत्तर:
(क) श्रोतुम्
(iv) वस्त्रं कृन्त् + तुमुन् कर्तरीम् आनय।
(क) कृन्तितुम्
(ख) कर्तयितुम्
(ग) कर्तितुम्
(घ) कर्तुम्
उत्तर:
(ग) कर्तितुम्
10. संख्यावाचि शब्द रूपाणाम् उचितं रूपं चित्वा रिक्तस्थानानि पूरयत । (केवलंप्रश्नचतुष्टयम्) [1/2 × 4 = 2]
(i) ……… बालकस्य समीपे पुस्तकम् नास्ति। (एक)
उत्तर:
एकस्य
(ii) दशमीकक्षा ……… वर्गेषु विभक्ता अस्ति। (त्रि)
उत्तर:
त्रिषु
(iii) ……. अतिथिजनाभ्याम् नमः। (द्वि)
उत्तर:
द्वाश्याम्
(iv) मनुष्यस्य ……. हस्तौ भवतः । (द्वि)
उत्तर:
द्वौ
(v) शरीरे …… इन्द्रियाणि सन्ति । (पञ्च)
उत्तर:
पञ्च
11. रेखांकितपदेषु उपसर्ग पृथक् क्रियताम् – (केवलं प्रश्न चतुष्टयम्) (1/2 × 4 = 2)
(i) कीदृशी दुर्बुद्धि आसीत् तदा ।
उत्तर:
दुर्
(ii) आव्रियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्।
उत्तर:
परि
(iii) काकः समुड्डीय तस्याः समीपम् अगच्छत्।
उत्तर:
सम्
(iv) रमा विद्यालयात् गृहं आगच्छति ।
उत्तर:
आ
(v) चटका नीडे निवसति ।
उत्तर:
नि
12. मञ्जूषायाः उचितम् अव्ययपदं चित्वा वाक्येषु रिक्त स्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]
(i) ……….. कर्मं तथा फलम्।
(क) यथा
(ख) यदि
(ग) तर्रि
(घ) तद्य
उत्तर:
(क) यथा
(ii) यत्र नार्यस्तु पूज्यन्ते रमन्ते …….. देवताः।
(क) तत्र
(ख) अत्र
(ग) एकत्र
(घ) उभयत्र
उत्तर:
(क) तत्र
(iii) सः ………. मम मित्रम् अस्ति।
(क) अपि
(ख) एव
(ग) पुरा
(घ) अधुना
उत्तर:
(क) अपि
(iv) अद्य तु ………. छायायां प्रार्थना भविष्यति ।
(क) अत्र
(ख) तत्र
(ग) अधुना
(घ) नूनं
उत्तर:
(क) अत्र
(v) …….. लोहड़ी उत्सवः भविष्यति ।
(क) खः
(ख) यः
(ग) सम्प्रति
(घ) इदानीम्
उत्तर:
(क) श्वः
खण्ड – ‘घ’ (30 अंङ्काः)
(पठित-अवबोधनम् )
13. अधोलिखितं गद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत- [5]
परन्तु स्वार्थान्धो मानवस्तदेव पर्यावरणमद्य नाशयति । स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति । जनाः यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति तेन मत्स्यदीनां जलचराणां च क्षणेनैव नाशो भवति । नदीजलम् अपि तत्सर्वथाऽपेयं जायते । मानवाः व्यापार वर्धनाय वनवृक्षाः निर्विवेकं छिन्दन्ते तस्मात् आवृष्टिः प्रवर्धते, वनपशवश्च शरणहिता ग्रामेषु उपद्रवं विदधति ।
प्रश्ना:
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) कीदृश: मानव : पर्यावरणं नाशयति ?
उत्तर:
स्वार्थान्धो
(ii) नदीजलं सर्वथा कीदृशं जायते ?
उत्तर:
अपेयम्
(iii) किमर्थं जनाः बहुमूल्यानि वस्तूनि नाशयन्ति ?
उत्तर:
स्वल्पलाभाय ।
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) विषाक्तजलेन किं भवति ?
उत्तर:
विषाक्तजलेन नद्यां मत्स्यदीनां जलचराणां च क्षणेनैव नाशो जायते ।
(ii) पर्यावरणे विकृते जाते किं भवति ?
उत्तर:
पर्यावरणे विकृते जातो विविधाः रोगाः भीषणसमस्याश्च जायन्ते।
(iii) वनवृक्षाः किमर्थम् छिद्यन्ते ?
उत्तर:
वनवृक्षाः निर्विवेकं व्यापार वर्धनाय छिद्यन्ते।
(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) [1 × 2 = 2]
(i) ‘स्वार्थान्ध: मानवः पर्यावरणं नाशयति ‘ अत्र किं कर्तृपदं प्रयुक्तम् ?
उत्तर:
मानवः
(ii) ‘जना: विषाक्तं जलं नद्यां निपातयन्ति ‘ अत्र किं कृर्तृपदं प्रयुक्तं ?
उत्तर:
नि: + विवेकं
(iii) ‘जना: बहुमूल्यानि वस्तूनि नाशयन्ति’ अत्र किं विशेष्यपदं प्रयुक्तम् ?
उत्तर:
वस्तूनि ।
14. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ॥
प्रश्नाः
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) “जटायो ! पश्य” इति का वदति ?
उत्तर:
सीता
(ii) राक्षसेन्द्रः कः?
उत्तर:
रावणः
(iii) मां करुणं पश्य इति कं प्रतिकथयति ?
उत्तर:
जटायुम्।
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) सीता केन ह्रियमाणाम् अस्ति ?
उत्तर:
माम्
(ii) दानवपतिः कः कथ्यते ?
उत्तर:
हियमाणाम्
(iii) अत्र का अनाथवत् अस्ति ?
उत्तर:
करुणंम्।
(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम्)
(i) ‘माम् अनाथवत् ह्वियमाणम्’ अत्र किं कर्तृपदं प्रयुक्तम् ?
उत्तर:
सीता राक्षसेन्द्रेण ह्रियमाणाम् अस्ति।
(ii) ‘नीयमानाम्’ इत्यर्थे अत्र कः पर्यायाः प्रयुक्तः ?
उत्तर:
दानवपतिः इति रावणः कथ्यते।
(iii) ‘निर्दयं’ इत्यस्यपदस्य अत्र किं विलोमपदं प्रयुक्तम् ?
उत्तर:
अत्र वैदेही अनाथवत् अस्ति ।
15. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
तपोदत्तः – अहमस्मि तपोदत्तः। बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि ।
तस्मात् सर्वैः, कुटुम्बिभि: मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्।
(ऊर्ध्वं निःश्वस्य)
हा विधे ! किम् इदं मया कृतम् ? कीदृशी दुर्बुद्धिरासीत् तदा ! एतदपि न चिन्तितं यत्-
परिधानैरलङ्कारैर्भूषितोऽपि न शोभते ।
नरो निर्मणिभोगीव सभायां यदि वा गृहे ।।
(किञ्चिद् विमृश्य)
भवतु, किमेतेन ? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम् ।
नाऽसौ भ्रान्तो मन्यते। अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि ।
(जलोच्छलनध्वनिः श्रूयते)
अये कुतोऽयं कल्लोलोच्छलनध्वनि : ? महामत्स्यो मकरो वा भवेत् । पश्यामि तावत् ।
प्रश्ना:
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् )
(i) कः न अधीतवान् ?
उत्तर:
तपोदत्त:
(ii) तपोदत्त: कया विद्यामवाप्तुं प्रवृत्तोऽस्ति ?
उत्तर:
तपश्चर्यया
(iii) परिधानैरलङ्ककारै: किं न भवति ?
उत्तर:
न शोभते।
(आ) पूर्णवाक्येन उत्तरत—(केवलं प्रश्नद्वयम्)
(i) अनंधीतः तपोदन्तः कैः गर्हितोऽभवत् ?
उत्तर:
अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैः च गर्वितः अभवत्।
(ii) बाल्ये कः न अधीतवान् ?
उत्तर:
बाल्ये पितृचरणैः क्लेश्यमानोऽपि तपोदत्तः विद्यां न अधीतवान्।
(iii) कः भ्रान्तो न मन्यते ?
उत्तर:
दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तम् भ्रान्तो न मन्यते ।
(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम्)
(i) ‘असै, भाक्तो मन्यते’ अत्र किं क्रियापदं प्रयुक्तंम् ?
उत्तर:
मन्यते
(ii) ‘तातपादैः’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
उत्तर:
पितृचरणै:
(iii) ‘रात्रौ’ इत्यस्य पदस्य कः विपर्ययः प्रयुक्त: ?
उत्तर:
दिवसे।
16. रेखाङ्कितपदानि अनुसृत्य प्रश्ननिर्माणं कृत्वा पूर्णवाक्येषु लिखत – (केवलं प्रश्नचतुष्टयम्)
(i) तदियं भगवत्या: शारदायाः अवमानना।
उत्तर:
तदियं कस्याः शारदायाः अवमानना ?
(ii) पुरुषार्थैः एव लक्ष्यं प्राप्यते ।
उत्तर:
कै: एव लक्ष्यं प्राप्यते ?
(iii) भवद्भिः उन्मीलिंत मे नयनयुगलम्।
उत्तर:
काभि: उन्मीलितं में नयनयुगलम् ?
(iv) दिवसे मार्गभ्रान्त: संध्यां यावद् यदि गृहमुपैति तदपि वरम्।
उत्तर:
कदा मार्गभ्रान्त: संध्यां यावद् यदि गृहमुपैति तदीप वरम् ?
(v) बाल्ये पितृचरणै: क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि ।
उत्तर:
बाल्ये कै: क्लेश्यमानोऽपि विद्यां नाडधीतवानस्मि ?
17. अधोलिखितस्य श्लोकस्य अन्वये रिक्त स्थान पूर्ति क्रियताम्-
सा तदा करुणा वाचो विलपन्ती सुदुःखिताः।
वनस्पतिगतं गृध्रं ददर्शायतलोचना॥
अन्वयः
तया (i) ……… गृध्रं (ii) ……. आयत लोचना करुणा वाचो (iii) ……. विलपन्ती ददर्श ।
मञ्जूषा- वनस्पतिगतं, सा, सुदुःखिता
अथवा
अधोलिखितस्य श्लोकस्य भावार्थ: चित्वा लिखत-
श्लोकः जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः।
बामबाहून्दश तदा व्यपाहरदरिन्दमः ।
भावार्थ:- क्रोधान्धरावणेन (i)………… प्राणघातकं प्रहारं पश्चात् (ii) ………. जटायुः त्वयि चञ्च्वा प्रहारं कृत्वा तस्य (iii) ………. अंङ्गस्य दशबाहून् क्षत-विक्षतं अकरोत् । शत्रुनाशक खगाधिपस्य पराक्रमः बुद्धिकौशलस्य इदं सुन्दरम् उदाहरणं अस्ति ।
मञ्जूषा- वाम, पक्षिराजः, जटायो
उत्तर:
तदा (i) वनस्पतिगतं ग्रध्रं (ii) सुदुःखिता आयत लोचना करुणा वाचो (iii) सा विलपन्ती ददर्श ।
अथवा
भावार्थ:-
क्रोधान्धरावणेन (i) जटायो प्राणघातकंप्रहारं अकरोत् पश्चात् (ii) पक्षिराज: जटायुः त्वमि चञ्च्वा प्रहारं कृत्वा तस्य (iii) वाम् अङ्गस्य दशवान् क्षतं विक्षतं अकरोत् । शत्रुनाशक खगाधिपस्य पराक्रमः बुद्धि कौशलस्य इदं सुन्दरम् उदाहरणं अस्ति।
18. घटनाक्रमानुसारं लिखत-
(i) शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जातः ।
(ii) व्यापारवर्धनाय वनवृक्षा निर्विवेकं छिद्यन्ते, येन अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति।
(iii) तत्सर्वमिदानीं चिन्तनीयं प्रतिभाति।
(iv) स्वल्पलाभाय जनाः बहुमूल्यानि वस्तूनि नाशयन्ति ।
(v) धर्मो रक्षति रक्षितः इत्यार्षवचनम् ।
(vi) प्रकृतिरक्षयैव सम्भवति लोकरक्षेति न संशयः ।
(vii) पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमिति ऋषयः प्रतिपादितवन्तः।
(viii) पर्यावरणे विकृतिमुपगते जायन्ते विविधाः रोगाः भीषणसमस्याश्च।
उत्तर:
(i) स्वल्पलाभाय जना: बहुमूल्यानि वस्तूनि नाशयन्ति ।
(ii) व्यापारवर्धनाय वनवृक्षा निर्विवेकं छिद्यन्ते व्यापारवर्धनाय, येन अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति ।
(iii) शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जातः।
(iv) पर्यावरणे विकृतिमुपगते जायन्ते विविधाः रोगाः भीषण समस्याश्च ।
(v) तत्सर्वमिदानीं चिन्तनीयं प्रतिभाति ।
(vi) धर्मो रक्षति रक्षितः इत्यार्षवचनम्।
(vii) पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमिति ऋषयः प्रतिपादितवन्तः।
(viii) प्रकृतिरक्षयैव सम्भवति लोकरक्षेति न संशयः ।
19. (क) अधोलिखितानां शब्दानाम् उचितार्थ चित्वा लिखत – (केवलं प्रश्नचतुष्टयम्)
(i) तन्द्रालुतायां कुत्सा समापादिता।
उत्तर:
भर्त्सना, घृणा
(ii) नदीनां कान्तसलिलं सलिलं उच्छलेत्।
उत्तर:
मनोहर जलम्
(iii) जटायुः रावणस्य चापं सशरं बभञ्ज ।
उत्तर:
भङ्गुरम्
(iv) जलोच्छलनध्वनिः श्रूयते ।
उत्तर:
जलोर्ध्वगतेः शब्दः
(v) सौम्य ! मनः अन्नमय ।
उत्तर:
अन्यविकारभूतम्
(ख) शब्दानाम् अर्थै सहमेलनं कुरुत – (केवलं प्रश्नचतुष्टयम्)
(i) आञ्जनेयम् – सुन्दरनीतिसंलग्नाम्
(ii) मार्गभ्रान्तः – हनुमन्तं
(iii) भङ्गुरम् – पथभ्रष्टः
(iv) अरिन्दमः – भञ्जनशीलं
(v) ललित-नीतिलीनाम् – शत्रुदमन:
उत्तर:
(i) आञ्जनेयम् – हनुमन्तम्
(ii) मार्गभ्रान्तः – पथभ्रष्टः
(iii) भग्नं कृतवान् – भञ्जनशीलं
(iv) अरिन्दमः – शत्रुदमनः
(v) ललितनीतिलीनाम् – सुन्दरनीति संलग्नाम्।