Our free Class 8 Sanskrit Deepakam Worksheet and Class 8 Sanskrit Chapter 9 कोऽरुक्? कोऽरुक्? कोऽरुक्? Worksheet with Answers make learning easier and fun.
Class 8 Sanskrit Chapter 9 Worksheet कोऽरुक्? कोऽरुक्? कोऽरुक्?
Class 8 Sanskrit कोऽरुक्? कोऽरुक्? कोऽरुक्? Worksheet
कोऽरुक्? कोऽरुक्? कोऽरुक्? Worksheet
प्रश्न 1.
अधोलिखितानां प्रश्नानां उत्तरम् एकपदेन लिखत ।
(नीचे लिखे प्रश्नों के उत्तर एक पद में लिखिए |)
(क) शुकं फलं क: दत्तवान्? ___________________
(ख) ‘सर्वे भवन्तु सुखिनः’ इति प्रार्थना के कुर्वन्ति ? ___________________
(ग) फलानि कीदृशानि सन्ति? ___________________
(घ) आयुर्वेदस्य ज्ञानं प्रथमं कः दत्तवान् ? ___________________
ङ) प्रातः उत्थाय किम् कर्तव्यम् ? ___________________
(च) कानि अतिमात्रसेवनेन हानिकराणि जायन्ते ? ___________________
प्रश्न 2.
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत ।
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए |)
(क) भगवान् धन्वन्तरिः शुकरूपं धृतवान् ?
___________________
(ख) षट् ऋतवः सन्ति ।
___________________
(ग) सः वाग्भटस्य कुटीरसमीपं गतवान् ।
___________________
(घ) सः अचिरादेव सूत्ररूपाणि त्रीणि उत्तराणि ददाति ।
___________________
(ङ) वाग्भट: छात्राणां जिज्ञासाम् उपशमयन् कथयति ।
___________________
(च) वैद्यः अन्वेषणाय सर्वत्र परिभ्रमणं करोति ।
___________________
प्रश्न 3.
निर्दिष्ट – वचनानुसारं पदानि परिवर्तयत ।
(निर्दिष्ट वचन के अनुसार पदों को बदलिए ।)
(क) ददाति (बहुवचने) ___________________
(ख) त्वम् (द्विवचने) ___________________
(ग) श्रावयतु (द्विवचने) ___________________
(घ) भवन्ति (एकवचने) ___________________
(ङ) परिवेषयन्तु (एकवचने) ___________________
(च) श्रावयामः (द्विवचने) ___________________
प्रश्न 4.
अधोलिखितं संवादं पठित्वा तदाधारितान् प्रश्नान् उत्तरत।
(नीचे लिखे संवाद को पढ़कर उस पर आधारित प्रश्नों के उत्तर दीजिए ।)
पुत्री – अम्ब! महती बुभुक्षा बाधते, शीघ्रं भोजनं परिवेषयतु ।
माता – वत्से, भोजनम् अत्युष्णम् अस्ति किञ्चित प्रतीक्षस्व ।
पुत्री – उष्णं भोजनं किमर्थं न ददाति ?
पिता – वत्से! मुखे दाहः भवेत्, अपि च ‘ अत्युष्णं भोजनं हितकरं न भवति’ इति आयुर्वेदस्य उपदेशः ।
पुत्रः – अम्ब! आयुर्वेदे बहवः आहारनियमाः सन्ति इति अस्माकं शिक्षकः अपि बोधयति।
माता – सत्यम् उक्तं वत्स! आहारविषये एक: रोचक प्रसङ्गः अस्ति । युवाम् इच्छथ चेत् श्रावयामि ।
पुत्रः – अस्तु अम्ब! यावत् भोजनं भोक्तुं योग्यं भवति तावत् तं श्रावयतु ।
माता – अस्तु, श्रूयताम्।
I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए ।)
(i) आयुर्वेदे कति आहारनियमाः सन्ति? ___________________
(ii) आहारविषये रोचक प्रसङ्गः का श्रावयति ? ___________________
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) शिक्षक: किं बोधयति ? ___________________
(ii) माता भोजनं किमर्थं न ददाति ? ___________________
III. भाषिककार्यम्। (भाषा संबंधी कार्य ।)
(i) ‘भोजनं’ इत्यस्मिन् पदे का विभक्तिः ? ___________________
(ii) ‘उष्णं भोजनं किमर्थं न ददाति ।’ अत्र क्रियापदं किम् ? ___________________
(iii) ‘अस्माकं शिक्षकः अपि बोधयति ।’ अत्र अव्ययपदं किम् ? ___________________
![]()
प्रश्न 5.
मञ्जूषातः उचितपदं चित्वा रिक्तस्थानानि पूरयत ।
(मंजूषा से उचित पद को चुनकर रिक्त स्थान भरिए ।)
| मञ्जूषा
किं |
(क) यावत् भोजनं पचति ___________________ श्रावयतु ।
(ख) आयुर्वेदविषये शिक्षक : ___________________ बोधयति ?
(ग) वाग्भटः तं शुकं ___________________ दत्तवान्।
(घ) शुकः कः ___________________ इति वदति ?
(ङ) सः ___________________ कुटीरसमीपं गतवान् ।
(च) निश्चयेन हि सः ___________________ अस्ति।
प्रश्न 6.
संस्कृतभाषायाम् अनुवादं कुरुत ।
(संस्कृत भाषा में अनुवाद कीजिए ।)
(क) सभी खुश रहें और सभी निरोग रहें। ___________________
(ख) हमें सुबह उठकर व्यायाम करना चाहिए। ___________________
(ग) नित्य प्रार्थना करने के उपरान्त भोजन करें। ___________________
(घ) हमें ऋतु के अनुसार भोजन करना चाहिए । ___________________
(ङ) हमें प्रमाद नहीं करना चाहिए । ___________________
(च) भोजन बहुत गर्म है, प्रतीक्षा करो। ___________________
प्रश्न 7.
अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत।
(नीचे लिखे गद्यांश को पढ़कर उस पर आधारित प्रश्नों के उत्तर दीजिए ।)
एतत् सर्वं श्रुत्वा कश्चन छात्रः वाग्भटम् अपृच्छत् – ” आचार्य ! हितभुगादिविषये वयं तु ज्ञातवन्त:, किन्तु किं सः शुकः सन्तुष्टः अभवत्? ” तदा वाग्भटः शुकस्य रहस्यम् उक्तवान्- “प्रियशिष्याः ! अयं विहग : न सामान्यविहगः, अपि तु आयुर्वेदस्य पूज्यः देवः भगवान् धन्वन्तरिः एव स्वयं शुकरूपेण अत्र आगच्छत् । अस्माकं कृते संक्षेपेण स्वास्थ्यरक्षणाय सूत्ररूपेण सन्देशं च प्रदत्तवान्ं, भवन्तः अपि शृण्वन्तु स्मरन्तु च-
व्यायामः प्रातरुत्थाय, नित्यं दन्तविशोधनम्।
स्वच्छजलेन सुस्नानं, बुभुक्षायाञ्च भोजनम्।।
I. एकपदेन उत्तरत। ( एक पद में उत्तर दीजिए ।)
(i) क: धन्वन्तरिरूपेण आगच्छत् ? ___________________
(ii) कः स्वास्थ्यरक्षणाय सूत्ररूपेण सन्देशं प्रदत्तवान् ? ___________________
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
(i) अस्माभिः नित्यं किं कर्तव्यम् ? ___________________
(ii) वाग्भटः शुकस्य रहस्यम् विषये किम् उक्तवान् ? ___________________
III. भाषिककार्यम् । (भाषा संबंधी कार्य ।)
(i) ‘स्वच्छजलेन’ इत्यस्मिन् पदे का विभक्तिः ? ___________________
(ii) ‘स्वयं शुकरूपेण अत्र आगच्छत् । ‘अत्र ‘क्रियापदं किम् ? ___________________
(iii) ‘अयं सामान्यविहगः न अपितु आयुर्वेददेवः अस्ति।’ अत्र ‘कर्तृपदं’ किम् ? ___________________
प्रश्न 8.
शुद्ध-कथनस्य समक्षम् ‘आम्’ अशुद्ध कथनस्य समक्षं ‘न’ इति लिखत ।
(सही कथन के सामने ‘आम्’ गलत कथन के सामने ‘न’ लिखिए।)
(क) अस्माभिः नित्यं व्यायामः कर्तव्यम् ।
(ख) ऋतोः अनुसारं भोजनं कर्तव्यम् ।
(ग) आयुर्वेदस्य देवता भगवान इन्द्रः अस्ति।
(घ) आयुर्वेद शास्त्रे रसायनिकज्ञानं वर्तते।
(ङ) शुकः कोऽरुक् कोऽरुक् कोऽरुक् इति वदति ।
(च) वाग्भटः तं शुकं वचनं दत्तवान् ।
प्रश्न 9.
मञ्जूषातः उचितं पदं चित्वा अधोलिखितश्लोकयोः अन्वयं पूरयत।
(मंजूषा से उचित पद चुनकर नीचे लिखे श्लोकों के अन्वय पूरे कीजिए ।)
(क) अल्पादाने गुरूणां च लघूनां चातिसेवने ।
मात्राकारणमुद्दिष्टं द्रव्याणां गुरुलाघवे।।
मञ्जूषा- लघूनां, मात्रा, अल्पादाने, गुरु-लाघवे
अन्वयः गुरूणां (i) ___________________ (ii) ___________________ च अति सेवने (iii) ___________________ द्रव्याणां (iv) ___________________ कारणम् उद्दिष्टम्।
(ख) सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ।।
मञ्जूषा- निरामयाः, भद्राणि, दुःखभाग्, सुखिनः
अन्वयः – सर्वे (i) ___________________ भवन्तु, सर्वे (ii) ___________________ सन्तु। सर्वे (iii) ___________________ पश्यन्तु मा कश्चित् (iv) ___________________ भवेत् ।
प्रश्न 10.
अधोलिखितानां पदानां सन्धिविच्छेदं कुरु ।
(निम्नलिखित पदों का संधि विच्छेद कीजिए ।)
(क) कश्चित् = ___________________ + ___________________
(ख) प्रातरुत्थाय = ___________________ + ___________________
(ग) बुभुक्षायाञ्च = ___________________ + ___________________
(घ) दिनेश: = ___________________ + ___________________
(ङ) चातिसेवने = ___________________ + ___________________
(च) कोsरुक = ___________________ + ___________________
(छ) कोऽर्थः = ___________________ + ___________________
(ज) समयानुसारं = ___________________ + ___________________
प्रश्न 11.
उचितं मेलनं कुरुत ।
(उचित मिलान कीजिए।)
| ‘क’ स्तम्भः | ‘ख’ स्तम्भः |
| (क) अल्पदाने गुरूणां च | (i) स्वास्थ्यं येनानुनवर्तते |
| (ख) स्वच्छ – जलेन सुस्नानं | (ii) नित्यं दन्तविशोधनम् |
| (ग) व्यायामः प्रातरुत्थाय | (iii) बलं वर्णश्च वर्धते |
| (घ) तस्याशिताद्यादाहारात् | (iv) बुभुक्षायाञ्च भोजनम् |
| (ङ) तच्च नित्यं प्रयुञ्जीत | (v) लघूनां चातिसेवने |
प्रश्न 12.
निम्नलिखित – पदानां मूलशब्द, विभक्ति वचनं च लिखत ।
(निम्नलिखित पदों के मूल शब्द, विभक्ति तथा वचन लिखिए |)
| पदानि | मूलशब्दः | विभक्तिः | वचनम् |
| (क) अन्वेषणाय | अन्वेषण | चतुर्थी | एकवचनम् |
| (ख) जिज्ञासाम् | |||
| (ग) आयुर्वेदज्ञानेन | |||
| (घ) छात्राणाम् | |||
| (ङ) व्यायामः | |||
| (च) प्राङ्गणम् | |||
| (छ) लौकिक: | |||
| (ज) व्याधीनाम् |
बहुविकल्पीय प्रश्नाः
प्रश्न 1.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चिनुत ।
(दिए गए विकल्पों से सही उत्तर चुनिए ।)
(क) ‘छात्रेभ्यः’ अस्मिन् पदे का विभक्ति: ?
(i) प्रथमा
(ii) तृतीया
(iii) चतुर्थी
(ख) ‘ऋषय: नित्यं प्रार्थनां कुर्वन्ति ।’ अत्र अव्ययपदं किम् ?
(i) नित्यम्
(ii) ऋषय:
(iii) प्रार्थनाम्
(ग) आयुर्वेदस्य वक्ता क: ?
(i) वाग्भट:
(ii) धन्वन्तरिः
(iii) खगः
(घ) ‘मधुरया’ इति पदस्य विशेष्यं किम् ?
(i) चटकया
(ii) उपचारेण
(iii) गिरा
![]()
(ङ) यः ऋत्वनुकूलं पथ्यं भोजनं करोति सः
(i) ऋतुभुक्
(ii) हितभुक्
(iii) मितभुक्
(च) वैद्यः किं करोति ?
(i) उपचारम्
(ii) अन्वेषणम्
(iii) रोगम
प्रश्न 2.
कोष्ठकात् उचितपदं चित्वा रिक्तस्थानं पूरयत ।
(कोष्ठक से सही पद को चुनकर रिक्त स्थान भरिए ।)
(क) वाग्भटः ___________________ मनोहरं शुकम् अपश्यत्। (तव / तेन / तं)
(ख) ___________________ निश्चयेन कश्चन् देवविशेषः अस्ति । (एतत/ एतेन / एषः)
(ग) सः ___________________ वाग्भटेन अर्पितानि फलानि खादितवान् । (शुक: / शुकं / शुकेन)
(घ) ___________________ अवश्यमेव आयुर्वेदस्य विचारकः असि । (तव/त्वम्/त्वया)
(ङ) ___________________ उत्तमस्य वैद्यस्य अन्वेषणाय अत्र समागतः । (युवाम् / अहम् / इयम्)
(च) ___________________ उत्कृष्टेन आयुर्वेदज्ञानेन अहम् अतीव संतुष्टः अस्मि । (त्वया /तव/तत्)