Our free Class 7 Sanskrit Deepakam Worksheet and Class 7 Sanskrit अपठित अवबोधनम् गद्यांश काव्यांश Apathit Avbodhanam Gadyansh Kavyansh Worksheet with Answers make learning easier and fun.
Class 7 Sanskrit अपठित अवबोधनम् Worksheet with Answers
वर्कशीट 1
निर्देश अधोलिखितयोः गद्यांशयोः पठित्वा तद-आधारितानां प्रश्नानाम् उत्तराणि लिखत ।
(निम्नलिखित गद्यांशों को पढ़कर उन पर आधारित प्रश्नों के उत्तर लिखिए ।)
गद्यांश 1
अमरावती नाम्नः नगरे श्वेताः मूषकाः वर्तन्ते । ते अति चतुराः सन्ति । एकदा अनेके श्वेताः मूषकाः इतस्ततः भ्रमन्ति स्म। तदैव मार्जारः एकं मूषकं लब्धवान्। यावत् च मार्जारः मूषकं खादितुम् आरंभते तावत् खलु मूषकः वदति, कथं त्वं भोजनात् प्राक् हस्तौ मुखं च प्रक्षालयितुं न जानासि?
तच्छ्रुत्वा मार्जारः स्वस्य हस्तौ मुखं च प्रमाटुम् आरंभते । तं च मार्जनण्यापूतं दृष्ट्वा मूषकः निःशब्दं पलायते । मार्जारः इतस्ततः विलोकयति परं मूषकः तत्र नास्ति । सः पुनः पुनः विलोकयति परं मूषकः ततः गतः एव। अस्मात् कारणात् एव अद्य यावत् मार्जारः प्रथमं खादति पश्चात् मार्ष्टि।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एक पदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) कुत्र श्वेताः मूषकाः वर्तन्ते ? _________________
(ख) के अति चतुराः सन्ति ? _________________
(ग) कः एकं मूषकं लब्धवान् ? _________________
(घ) मूषकः कथं पलायते? _________________
उत्तर :
(क) अमरावती नगरे
(ख) श्वेताः मूषकाः
(ग) मार्जारः
(घ) नि:शब्द
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) मूषकः मार्जारं किं कर्तुम् अवदत् ?
______________________________________
उत्तर :
मूषकः मार्जारं भोजनात् प्राक् हस्तौ मुखं च प्रक्षालयितुं अवदत्।
(ख) मार्जनण्यापूतं दृष्ट्वा मूषकः किं करोति ?
______________________________________
उत्तर :
मार्जनण्यापूतं दृष्ट्वा मूषकः निःशब्दं पलायते ।
प्रश्न 3.
प्रदत्त विकल्पेभ्यः निर्देशानुसारं उचितं उत्तरं चित्वा लिखत ।
(दिए गए विकल्पों से निर्देशानुसार उचित उत्तर चुनकर लिखिए।)
(i) ‘अभ्रमन्’ इति पदस्य समानार्थकं पदं गद्यांशे किम् अस्ति ?
(अ) सन्ति
(ब) भ्रमन्ति स्म
(स) भ्रमन्ति
(द) वदति
उत्तर :
(ब) भ्रमन्ति स्म
(ii) ‘दृष्ट्वा’ इति पदे कः प्रत्ययः अस्ति ?
(अ) क्त्वा
(ब) तुमुन्
(स) ल्यप्
(द) क्त
उत्तर :
(अ) क्त्वा
![]()
(iii) ‘पलायते ‘ इति क्रियापदस्य कर्तृपदं गद्यांशे किम् अस्ति ?
(अ) मूषकाः
(ब) मूषकः
(स) मार्जारः
(द) त्वम्
उत्तर :
(ब) मूषकः
(iv) ‘तावत्’ अव्यय पदस्य विपरीतार्थकं अव्ययपदं गद्यांशे किम् प्रयुक्तम् ?
(अ) अद्य
(ब) तदैव
(स) इतस्ततः
(द) यावत्
उत्तर :
(द) यावत्
प्रश्न 4.
गद्यांशस्य कृते समुचितं शीर्षकं लिखत ।
(गद्यांश के लिए उचित शीर्षक लिखिए।)
______________________________________
उत्तर :
चतुरः मूषकः
गद्यांश 2
भगवद्गीता सर्वेषां शास्त्राणां सारभूतं औषधं वर्तते।
श्रीकृष्णः महाभारतस्य युद्धभूमौ अर्जुनाय यमुपदेशं दत्तवान् सः गीतायां निबद्ध अस्ति । गीताया: उपदेशेन अर्जुनस्य मोहोऽनश्यत्। एवमेव अस्माकं सर्वेषां मोहः नष्टो भवितुं शक्यते यदि वयं सर्वे गीतायां दत्तमुपदेशं स्वजीवने आचरामः । एको नरः अपरस्मै असूयति, न कोऽपि अन्यं दृष्ट्वा प्रसन्नो भवति । एतादृशी दुःखअवस्थां दूरी कर्तृ शक्यते यदि गीता जीवने आचरिता स्यात् ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) का सर्वेषां शास्त्राणां सारभूतं औषधं अस्ति? _________________
(ख) श्रीकृष्णः कुत्र अर्जुनाय गीतायाः उपदेशं दत्तवान् ? _________________
(ग) एक: नरः कस्मै असूयति ? _________________
(घ) कः अन्यं दृष्ट्वा प्रसन्नो न भवति ? _________________
उत्तर :
(क) भगवद्गीता
(ख) युद्धभूमौ
(ग) अपरस्मै
(घ) कोऽपि
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) अर्जुनस्य मोहः कथम् अनश्यत् ?
______________________________________
उत्तर :
गीतायाः उपदेशेन अर्जुनस्य मोहोऽनश्यत् ।
(ख) दुःखअवस्थां दूरी कर्तुं जीवने का आचरिता?
______________________________________
उत्तर :
दुःखस्थां दूरी कर्तुं जीवने गीता आचरिता।
प्रश्न 3.
प्रदत्त विकल्पेभ्यः निर्देशानुसारं उचितं उत्तरं चित्वा लिखत ।
(दिए गए विकल्पों में से निर्देशानुसार उचित उत्तर चुनकर लिखिए।)
(i) ‘भवितुम्’ इति पदे कः प्रत्ययः अस्ति ?
(अ) तुमुन्
(ब) तुम्
(स) भव्
(द) ल्यप्
उत्तर :
(अ) तुमुन्
(ii) शास्त्राणां इति पदे का विभक्तिः अस्ति ?
(अ) प्रथमा
(ब) षष्ठी
(स) पञ्चमी
(द) चतुर्थी
उत्तर :
(ब) षष्ठी
(iii) ‘अस्ति’ पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(अ) वर्तते
(ब) शक्यते
(स) स्यात्
(द) अनश्यत्
उत्तर :
(अ) वर्तते
![]()
(iv) ‘औषध’ इति पदस्थ किं विशेषणपदं गद्यांशे प्रयुक्तम् ?
(अ) सर्वेषाम्
(ब) स:
(स) सारभूतम्
(द) भूतम्
उत्तर :
(स) सारभूतम्
प्रश्न 4.
गद्यांशस्य कृते समुचितं शीर्षकं लिखत ।
(गद्यांश के लिए उचित शीर्षक लिखिए।)
______________________________________
उत्तर :
भगवद्गीता
वर्कशीट 2
निर्देश अधोलिखितयोः गद्यांशयोः पठित्वा तद-आधारितानां प्रश्नानाम् उत्तराणि लिखत ।
(निम्नलिखित गद्यांशों को पढ़कर उन पर आधारित प्रश्नों के उत्तर लिखिए।)
गद्यांश 1
एकदा बोपदेवः नाम एकः मन्दमति छात्रः आसीत् । सः यत्-पठति तत् विस्मरति स्म । तस्य सहपाठिनः तस्य उपहासं कुर्वन्ति स्म। एकदा तस्य गुरुः क्रुद्धः भूत्वा तम् विद्यालयात् बहिः अकरोत्। आत्मसम्मानेन वञ्चितः सः अचिन्तयत्- ‘नूनम् अहं मूर्खः अस्मि मम भाग्ये विद्या नास्ति ।’
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत ।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) कः मन्दमतिः आसीत्? _________________
(ख) के बोपदेवस्य उपहासं कुर्वन्ति स्म ? _________________
(ग) बोपदेवः केन वञ्चितः चिन्तितः अभवत्? _________________
(घ) बोपदेवस्य भाग्ये का नास्ति ? _________________
उत्तर :
(क) बोपदेवः
(ख) सहपाठिन
(ग) आत्मसम्मानेन
(घ) विद्या
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) गुरु: क्रुद्ध भूत्वा किम् अकरोत् ?
______________________________________
उत्तर :
गुरुः क्रुद्धः भूत्वा बोपदेवं विद्यालयात् बहिः अकरोत्।
(ख) बोपदेवः किम् अचिन्तयत् ?
______________________________________
उत्तर :
बोपदेवः अचिन्तयत् यत् – ‘ नूनम् अहं मूर्खः अस्मि, मम भाग्ये विद्या नास्ति ।
![]()
प्रश्न 3.
प्रदत्त विकल्पेभ्यः उचितं उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देशानुसार चुनकर लिखिए |)
(i) ‘स्मरति’ इति पदस्य विपर्ययः गद्यांशे किम् अस्ति ?
(अ) मन्दमतिः
(ब) विस्मरति
(स) उपहासं
(द) मूर्खः
उत्तर :
(ब) विस्मरति
(ii) ‘मति:’ पदस्य विशेषणपदं गद्यांशे किम् अस्ति ?
(अ) एकदा
(ब) यत्
(स) मन्द
(द) क्रुद्धः
उत्तर :
(स) मन्द
(iii) ‘आत्मसम्मानेन’ इति पदे का विभक्तिः अस्ति ?
(अ) प्रथमा
(ब) तृतीया
(स) पञ्चमी
(द) षष्ठी
उत्तर :
(ब) तृतीया
(iv) ‘तस्य’ इति पदे मूल शब्दः कः ?
(अ) तत्
(ब) एतत्
(स) किम्
(द) यत्
उत्तर :
(अ) तत्
प्रश्न 4.
अस्य गद्यांशस्य उचितं शीर्षकं लिखत ।
(इस गद्यांश के लिए उचित शीर्षक लिखिए।)
______________________________________
उत्तर :
बोपदेवः
गद्यांश 2
मानवजीवने वृक्षाणां महत्त्वं वर्तते । अधुना तु उद्योगानां युगं वर्तते । उद्योगेभ्यः विषाक्तम् अवशेषम् निस्सरति । एतेन अस्माकं पर्यावरणं दूषितं भवति । एतस्मिन् विषमे सङ्कटे वृक्षाः एव अस्माकं शरणम् । सूर्यस्य प्रकाशे वृक्षाः कार्बनडाई-आक्साइड नामकस्य वायोः गृहणं कुर्वन्ति आक्सीजन – वायुं च विसृजन्ति । अतः वृक्षाः वातावरणं शुद्धं कुर्वन्ति । वृक्षाः अस्मान् जीवनवायु यच्छन्ति ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) मानवजीवने केषां महत्त्वं वर्तते ? _________________
(ख) केभ्यः विषाक्तम् अवशेषम् निस्सरति ? _________________
(ग) के वातावरणं शुद्धं कुर्वन्ति ? _________________
(घ) जीवनवायुः का अस्ति ? _________________
उत्तर :
(क) वृक्षाणां
(ख) उद्योगेभ्यः
(ग) वृक्षाः
(घ) आक्सीजन
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) उद्योगेभ्यः किं निस्सरति ?
______________________________________
उत्तर :
उद्योगेभ्यः विषाक्तम् अवशेषं निस्सरति ।
(ख) सूर्यस्य प्रकाशे वृक्षाः किं विसृजन्ति ?
______________________________________
उत्तर :
सूर्यस्य प्रकाशे वृक्षा: आक्सीजन-वायुं विसृजन्ति ।
प्रश्न 3.
प्रदत्त विकल्पेभ्यः उचितं उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देशानुसार चुनकर लिखिए |)
(i) उद्योगेभ्यः इति पदे का विभक्ति अस्ति ?
(अ) प्रथमा
(ब) तृतीया
(स) पञ्चमी
(द) सप्तमी
उत्तर :
(स) पञ्चमी
(ii) ‘अवशेषम्’ इति पदस्य विशेषणपदं गद्यांशे किम् अस्ति ?
(अ) उद्योगेभ्यः
(ब) विषाक्तम्
(स) एतेन
(द) अस्माकम्
उत्तर :
(ब) विषाक्तम्
(iii) ‘विसृजन्ति’ क्रियायाः पदस्य कर्तृपदं गद्यांशे किम् अस्ति ?
(अ) वृक्षा:
(ब) वायुं
(स) गृहणं
(द) जना:
उत्तर :
(अ) वृक्षा:
(iv) ‘विसृजन्ति’ इति पदे उपसर्गः कः अस्ति ?
(अ) वि
(ब) सृज्
(स) ति
(द) न्ति
उत्तर :
(अ) वि
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
(इस गद्यांश का उचित शीर्षक लिखिए।)
______________________________________
उत्तर :
‘वृक्षाणां महत्त्वम्’
![]()
वर्कशीट 3
निर्देश अधोलिखितयोः गद्यांशयोः पठित्वा तद-आधारितानां प्रश्नानाम् उत्तराणि लिखत ।
(निम्नलिखित गद्यांशों को पढ़कर उन पर आधारित प्रश्नों के उत्तर लिखिए।)
गद्यांश 1
भारतवर्षम् अस्माकं देशः वर्तते । भूमौ सर्वप्रथम : मानवः अत्रैव उत्पन्नः अभवत्। वेदाः अत्र जाताः, विश्वस्य प्रथमा भाषा संस्कृतभाषा अत्र एव उत्पन्ना जाता । एषः देश: उत्तरदिशायां हिमालयेन रक्षितः । अत्र गङ्गा वहति । गङ्गा एका पवित्रतमा नदी मन्यते । रामः, कृष्णः, महात्माबुद्धः, शङ्कराचार्यः च अत्र जाताः । एषः देशः गान्धेः सुभाषस्य, विवेकानन्दस्य स्वामिदयानन्दस्य च वर्तते । अस्मिन् देशे उत्पन्नैः जनैः समस्ते विश्वे मानवतायाः नैतिकतायाः पाठः पाठितः शिक्षायाः प्रचारः प्रसारः च कृतः । अस्माकं देशभक्तानां प्रयत्नैः अयं देश: 1947 तमे वर्षे स्वतन्त्रः जातः । अद्य वयं स्वतन्त्रे भारते वसामः ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत । (निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) भारतवर्षं केषां देशः वर्तते ? _________________
(ख) वेदाः कुत्र जाता: ? _________________
(ग) भारतवर्षः उत्तरदिशायां केन रक्षित: ? _________________
(घ) भारतवर्षः कदा स्वतन्त्रः अभवत्? _________________
उत्तर :
(क) अस्माकम्
(ख) भारतवर्षे
(ग) हिमालयेन
(घ) 1947 तमे वर्षे
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) देशे उत्पन्नैः जनैः किं कृतम् ?
______________________________________
उत्तर :
देशे उत्पन्नैः जनैः समस्ते विश्वे मानवतायाः नैतिकतायाः च पाठ: पाठितः ।
(ख) भारतवर्षः केषां महापुरुषाणाम् अस्ति ?
______________________________________
उत्तर :
भारतवर्ष गान्धेः, सुभाषस्य, विवेकानन्दस्य स्वामिदयानन्दस्य च महापुरुषाणाम् अस्ति ।
प्रश्न 3.
प्रदत्त विकल्पेभ्यः उचितं उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देशानुसार चुनकर लिखिए।)
(i) ‘अत्रैव’ इति पदे कः सन्धि ?
(अ) दीर्घ
(ब) गुण
(स) वृद्धि
(द) यण्
उत्तर :
(स) वृद्धि
(ii) ‘रक्षित:’ इति पदे कः प्रत्ययः ?
(अ) क्त्वा
(ब) क्त
(स) क्तवतु
(द) तुमुन्
उत्तर :
(ब) क्त
(iii) ‘विश्वे ‘ इति पदस्य विशेषणपदं गद्यांशे किम् ?
(अ) समस्ते
(ब) वर्तते
(स) देशे
(द) जनै:
उत्तर :
(अ) समस्ते
(iv) ‘वसामः’ क्रिया पदस्य कर्तृपदं गद्यांशे किम् अस्ति ?
(अ) अद्य
(ब) स्वतन्त्रे
(स) वयं
(द) भारते
उत्तर :
(स) वयं
प्रश्न 4.
अस्य गद्यांशस्य उचितं शीर्षकं लिखत ।
(इस गद्यांश का उचित शीर्षक लिखिए।)
______________________________________
उत्तर :
भारतवर्षम्
गद्यांश 2
क्रोधः मनुष्यस्य महान् शत्रुः । क्रुद्धः जनः गुरुन् अपि निन्दति, अपभाषणं करोति, ज्येष्ठानां हितवचनानि अपि शृणोति । तस्माद् वयं क्रोधे सावधानां भवेम । यदि क्रोधः आगच्छति तदा तस्मिन् एवं क्षणे मौनं धारणीयम् । मौनेन मन: शान्तं भवति। वाणी अपि नियन्त्रिता भवति । ईदृशे काले किञ्चित् पुस्तकं गृहीत्वा पठेम । कोपात् सर्वदा आत्मानं रक्षेम |
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत ।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) क्रोधः कस्य महान् शत्रुः वर्तते । _________________
(ख) वयं कदा सावधानाः भवेम ? _________________
(ग) केन मन: शान्तं भवति ? _________________
(घ) ज्येष्ठानां हितवचनानि कः न शृणोति ? _________________
उत्तर :
(क) मनुष्यस्य
(ख) क्रोधे
(ग) मौनेन
(घ) क्रुद्धः जनः
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) यदि क्रोधः आगच्छति तदा किं करणीयम् ।
______________________________________
उत्तर :
यदि क्रोधः आगच्छति तदा मौनं धारणीयम् ।
(ख) क्रुद्धः जनः किं – किं करोति ?
______________________________________
उत्तर :
क्रुद्धः जनः गुरुन् निन्दति, अपभाषणं च करोति ।
प्रश्न 3.
प्रदत्त विकल्पेभ्यः उचितं उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देशानुसार चुनकर लिखिए |)
(i) ‘प्रशंसति’ इति क्रियायाः विपर्ययः किम् ?
(अ) क्रुद्धः
(ब) निन्दति
(स) शृणोति
(द) रक्षेम
उत्तर :
(ब) निन्दति
![]()
(ii) ‘शृणोति’ इति क्रियायाः कर्तृपदं गद्यांशे किम् अस्ति ?
(अ) ज्येष्ठानां
(ब) जन:
(स) क्रुद्धः
(द) हितवचनानि
उत्तर :
(ब) जन:
(iii) ‘गृहीत्वा’ इति पदे कः प्रत्ययः अस्ति ?
(अ) क्त्वा
(ब) तुमुन्
(स) ल्यप्
(द) अनीयर्
उत्तर :
(अ) क्त्वा
(iv) ‘कोपात् सर्वदा आत्मानम् रक्षेम।’ अस्मिन् वाक्ये अव्ययपदं किम् ?
(अ) कोपात्
(ब) सर्वदा
(स) आत्मानम्
(द) रक्षेम
उत्तर :
(ब) सर्वदा
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(इस गद्यांश का उचित शीर्षक लिखिए।)
______________________________________
उत्तर :
‘क्रोधः’ मनुष्यस्य महान् शत्रुः
वर्कशीट 4
निर्देश अधोलिखितयोः गद्यांशयोः पठित्वा तद-आधारितानां प्रश्नानाम् उत्तराणि लिखत ।
(निम्नलिखित गद्यांशों को पढ़कर उन पर आधारित प्रश्नों के उत्तर लिखिए |)
गद्यांश 1
सङ्गणकस्य आङ्गलभाषायां नाम ‘कम्प्यूटर’ इति विद्यते । सङ्गणकं तु विज्ञानस्य अत्यधिकं विकसितं बुद्धिमत् च यन्त्रम् अस्ति। सङ्गणकम् अर्थात् सम्यक् गणना – करणशीलं यन्त्रम् । सङ्गणकस्य गणनाशक्तिः स्मरणशक्ति: च असाधारणी अस्ति। अद्य अस्य एतादृशः प्रभावः यत्- जीवनस्य प्रत्येक क्षेत्रे अस्य व्यवहारः क्रियते । दिनानुदिनम् अस्य उपयोगः वर्धते एव । एतस्य महत्त्वं दृष्ट्वा प्रतिभाति यत्- भविष्ये इदं जगत् सङ्गणकमयं भविष्यति ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) सङ्गणकस्य आङ्गलभाषायां नाम किम् अस्ति ? _________________
(ख) अद्य कस्य प्रभाव जीवने प्रत्येकक्षेत्रे दृश्यते? _________________
(ग) भविष्ये इदं जगत् कीदृशं भविष्यति ? _________________
(घ) दिनानुदिनं कस्य उपयोगः वर्धते ? _________________
उत्तर :
(क) कम्प्यूटर
(ख) सङ्गणकस्य
(ग) सङ्गणकमयं
(घ) सङ्गणकस्य
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) सङ्गणकं विज्ञानस्य कीदृशं यन्त्रम् अस्ति ?
______________________________________
उत्तर :
सङ्गणकं विज्ञानस्य अत्यधिकं विकसितं बुद्धिमत च यन्त्रम् अस्ति।
(ख) सङ्गणकस्य गणनाशक्तिः स्मरणशक्तिः च कीदृशी अस्ति ?
______________________________________
उत्तर :
सङ्गणकस्य गणनाशक्तिः स्मरणशक्तिः च असाधारणी अस्ति
प्रश्न 3.
प्रदत्त विकल्पेभ्यः उचितं उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देशानुसार चुनकर लिखिए | )
(i) ‘आङ्गलभाषायां’ अस्मिन् पदे का विभक्ति ?
(अ) प्रथमा
(ब) चतुर्थी
(स) पञ्चमी
(द) सप्तमी
उत्तर :
(द) सप्तमी
(ii) ‘सङ्गणक’ कृते किं समानार्थक पदं गद्यांशे प्रयुक्तम् ?
(अ) कम्प्यूटर
(ब) विकसितं
(स) सम्यक्
(द) जगत्
उत्तर :
(अ) कम्प्यूटर
(iii) ‘वर्धते ‘ इति पदं कस्मिन् लकारे अस्ति?
(अ) लङ्
(ब) लोट्
(स) लृट्
(द) लट्
उत्तर :
(द) लट्
(iv) ‘क्रियते’ क्रियापदस्य कर्तृपदं गद्यांशे किम् अस्ति ?
(अ) एतादृश:
(ब) प्रभाव:
(स) व्यवहार:
(द) क्षेत्रे
उत्तर :
(स) व्यवहार:
प्रश्न 4.
अस्य गद्यांशस्य कृते उचितं शीर्षकं लिखत ।
(इस गद्यांश के लिए उचित शीर्षक लिखिए।)
______________________________________
उत्तर :
सङ्गणकस्य महत्त्वम्
गद्यांश 2
सम्पूर्णे दिवसे प्रात: कालस्य वेला एव सर्वतोऽधिका मनोहारिणी भवति । प्रात:काले पूर्वस्यां दिशि सूर्य : उदयति । तस्य रक्तवर्णाः किरणाः नभं शोभयन्ति। प्रातःकाले सर्वविधं शान्तं वातावरणं भवति । खगानाम् कलरवः सुखदः भवति। उद्याने मनोहारि दृश्यं सर्वेषां मनोहरति । विकसितानि पुष्पाणि स्वसुगन्धिं वितरन्ति मनांसि च मोहयन्ति ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) का वेला सर्वतोऽधिका मनोहारिणी भवति ? _________________
(ख) सूर्यः कस्यां दिशि उदयति ? _________________
(ग) कस्य किरणाः रक्तवर्णाः सन्ति? _________________
(घ) केषां कलरवः सुखदः भवति ? _________________
उत्तर :
(क) प्रातः कालस्य वेला
(ख) पूर्वस्यां
(ग) सूर्यस्य
(घ) खगानाम्
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए ।)
(क) प्रात:काले वातावरणं कीदृशं भवति ?
______________________________________
उत्तर :
प्रातःकाले वातावरणं सर्वविधं शान्तं भवति।
(ख) विकसितानि पुष्पाणि किं कुर्वन्ति ?
______________________________________
उत्तर :
विकसितानि पुष्पाणि स्वसुगन्धि वितरन्ति मनांसि च मोहयन्ति।
![]()
प्रश्न 3.
प्रदत्त विकल्पेभ्यः निर्देशानुसारं उचितं उत्तरं चित्वा लिखत ।
(दिए गए विकल्पों में से निर्देशानुसार उचित उत्तर चुनकर लिखिए।)
(i) ‘खगानाम्’ पदे का विभक्तिः अस्ति ?
(अ) प्रथमा
(ब) तृतीया
(स) षष्ठी
(द) सप्तमी
उत्तर :
(स) षष्ठी
(ii) ‘गगन’ इति पदस्य समानार्थकं पदं गद्यांशे किम् अस्ति ?
(अ) दिवस
(ब) नभम्
(स) दिशि
(द) शान्तं
उत्तर :
(ब) नभम्
(iii) ‘किरणा:’ इति पदस्य किं विशेषणपदं गद्यांशे अस्ति ?
(अ) रक्तवर्णाः
(ब) मनोहारिणी
(स) सर्वविधं
(द) कलरवः
उत्तर :
(अ) रक्तवर्णाः
(iv) ‘मनांसि’ इति कर्तृपदस्य क्रियापदं गद्यांशे किम् ?
(अ) वितरन्ति
(ब) मोहयन्ति
(स) मनोहरति
(द) भवति
उत्तर :
(ब) मोहयन्ति
प्रश्न 4.
अस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत ।
(इस गद्यांश के लिए उचित शीर्षक लिखिए ।)
______________________________________
उत्तर :
प्रातः कालः
वर्कशीट 5
निर्देश अधोलिखितयोः गद्यांशयोः पठित्वा तद् आधारितानां प्रश्नानाम् उत्तराणि लिखत ।
(निम्नलिखित गद्यांशों को पढ़कर उन पर आधारित प्रश्नों के उत्तर लिखिए।)
गद्यांश 1
पुरा दशरथः अयोध्यायाः नृपः आसीत् । तस्य चत्वारः पुत्राः आसन् । तस्य पुत्रेषु ज्येष्ठः पुत्रः श्रीरामः शस्त्रविद्यायां शास्त्रेषु च निपुणः आसीत् । तस्य भार्या सीता आसीत् । सा जनकस्य सुता आसीत् । दशरथस्य आदेशेन रामः चतुर्दशवर्षाणि अरण्ये अवसत् । यदा चतुर्दश वर्षाणां पश्चात् ते अयोध्याम् प्रत्यागच्छन् तदा अयोध्यायां जनाः प्रसन्नाः अभवन्। जनाः स्वगृहान् दीपकैः अभूषयन्।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) दशरथः कस्याः नृपः आसीत्? _________________
(ख) दशरथस्य ज्येष्ठः पुत्रः कः आसीत्? _________________
(ग) रामस्य भार्या का आसीत् ? _________________
(घ) रामः पितुः दशरथस्य आदेशेन कति वर्षाणि अरण्ये अवसत्? _________________
उत्तर :
(क) अयोध्यायाः
(ख) श्रीरामः
(ग) सीता
(घ) चतुर्दशवर्षाणि
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) श्रीरामः केषु निपुणः आसीत्?
______________________________________
उत्तर :
श्रीरामः शस्त्रविद्यायां शास्त्रेषु च निपुणः आसीत्।
(ख) सीता कस्य सुता आसीत् ?
______________________________________
उत्तर :
सीता जनकस्य सुता आसीत् ।
![]()
प्रश्न 3.
प्रदत्त विकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देशानुसार चुनकर लिखिए |)
(i) ‘आसीत्’ इति क्रियापदस्य कर्तृपदं किम् ?
(अ) सा
(ब) जनक:
(स) सुता
(द) सीता
उत्तर :
(स) सुता
(ii) ‘वने’ इति पदस्य पर्यायं गद्यांशे किं प्रयुक्तम् ?
(अ) चतुर्दश:
(ब) वर्षाणि
(स) अरण्ये
(द) आदेशेन
उत्तर :
(स) अरण्ये
(iii) ‘शस्त्रविद्यायां’ पदे का विभक्तिः अस्ति?
(अ) प्रथमा
(ब) तृतीया
(स) षष्ठी
(द) सप्तमी
उत्तर :
(द) सप्तमी
(iv) ‘अभवन्’ इति पदं कस्मिन् लकारे अस्ति?
(अ) लट्
(ब) लोट्
(स) लङ्
(द) लृट्
उत्तर :
(स) लङ्
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(इस गद्यांश का उचित शीर्षक लिखिए।)
______________________________________
उत्तर :
श्रीरामः
गद्यांश 2
एकस्मिन् वने अनेके पशवः निवसन्ति स्म। एकदा पशूनां राजा सिंहः अस्वस्थाः अभवत् । सर्वे पशवः रोगपीडितं सिंहं द्रष्टुमागताः, परन्तु एकः शृगालः तत्र न आगतः । एकः उष्ट्रः सिंहाय एतत् कथयति यत्-अहङ्कारिणं शृगालं विहाय सर्वे भवन्तं द्रष्टुमागताः । एतत् श्रुत्वा सिंह: क्रोधितम् अभवत् ।
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर एक शब्द में दीजिए।)
(क) वने के निवसन्ति ? _________________
(ख) कः अस्वस्थः अभवत्? _________________
(ग) सर्वे पशवः कं द्रष्टुमागताः ? _________________
(घ) पशवः कुत्र निवसन्ति स्म ? _________________
उत्तर :
(क) पशवः
(ख) सिंह:
(ग) रोगपीडितं सिंह
(घ) वने
प्रश्न 2.
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरत। (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) सिंहं द्रष्टुं कः न आगत: ?
______________________________________
उत्तर :
सिंह द्रष्टुं शृगालः न आगतः ।
(ख) किं श्रुत्वा सिंह: क्रोधितः अभवत्?
______________________________________
उत्तर :
उष्ट्रः सिंहाय कथयति यत् – अहङ्कारिणं शृगालं विहाय सर्वे भवन्तु द्रष्टुमागताः, एतत् श्रुत्वा सिंहः क्रोधितम् अभवत् ।
प्रश्न 3.
प्रदत्त विकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत ।
(दिए गए विकल्पों में से उचित उत्तर निर्देशानुसार चुनकर लिखिए |)
(i) ‘अनेके पशवः’ इति पदस्य क्रियापदं किम् ?
(अ) निवसन्ति
(ब) वसन्ति
(स) अभवत्
(द) न कोऽपि
उत्तर :
(अ) निवसन्ति
(ii) ‘स्वस्थ:’ इति पदस्य विपर्ययः गद्यांशे किं प्रयुक्तम् ?
(अ) अस्वस्थः
(ब) पीडित:
(स) अहङ्कारिणं
(द) कोऽपिनास्तिं
उत्तर :
(अ) अस्वस्थः
(iii) गद्यांशे ‘शृगालं विशेष्यपदाय किं विशेषणं प्रयुक्तम् ?
(अ) अहङ्कारिणं
(ब) क्रोधितम्
(स) अनेके
(द) सर्वे
उत्तर :
(अ) अहङ्कारिणं
![]()
(iv) ‘द्रष्टुम् ‘ पदे कः प्रत्यय: ?
(अ) क्त्वा
(ब) ल्यप्
(स) तुमुन्
(द) अनीयर्
उत्तर :
(स) तुमुन्
प्रश्न 4.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।
(इस गद्यांश का उचित शीर्षक लिखिए।)
______________________________________
उत्तर :
रोगपीडितः सिंहः