Students can access the CBSE Sample Papers for Class 9 Sanskrit with Solutions and marking scheme Set 1 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 9 Sanskrit Set 1 with Solutions
समय: 3 होराः
पूर्णांक: 80
सामान्यनिर्देशाः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रश्नाः सन्ति ।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
‘क’ खण्ड: : अपठितावबोधनम् 10 अङ्काः
‘ख’ खण्डः : रचनात्मककार्यम् 15 अङ्काः
‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् 25 अङ्काः
‘घ’ खण्डः : पठितावबोधनम् 30 अङ्काः - प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
- प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम् एव लेखनीयः ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
(खंड ‘क’)
(अपठित अवबोधनम्) (10 अंङ्का:)
1. अधोलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत । [10]
एकदा केचन चौरा: एकस्य सन्तस्य कुटीरम् आगत्य तस्य गाम् चोरयित्वा नयन्ति स्म । सन्तः ईश्वरस्तुत्याम् रतः आसीत् । यदा गौः अरम्भत तदा उन्मीलितनेत्रः सन्तः अपश्यत् यत् केचन जनाः तस्य गां नयन्ति । सन्तः शान्तभावेन अवदत् -“तिष्ठ भ्रातः ! एतं गोवत्सम् अपि नयत अन्यथा मातृ-वियोगेन एषः स्वप्राणान् त्यज्यति ।” सन्तस्य हृदयस्य करुणभावनया चौराणां हृदय-परिवर्तनम् अभवत्। ते सन्तचरणयोः अपतन्, भविष्ये च चौरकर्मं त्यक्त्वा उद्यमेन धनम् अर्जयितुम् प्रेरिताः अभवन् ।
प्रश्ना:-
(अ) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
(i) सन्तः कस्याम् रतः आसीत् ?
उत्तर:
ईश्वरस्तुत्याम्
(ii) चौरा : काम् चोरयित्वा नयन्ति स्म ?
उत्तर:
गाम्
(iii) सन्तः कान् अवदत् ?
उत्तर:
चौरान्
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) उन्मीलितनेत्रः सन्तः किम् अपश्यत् ?
उत्तर:
उन्मीलितनेत्रः सन्तः अपश्यत् यत् केचन जनाः तस्य गां नयन्ति ।
(ii) सन्तः किम् अवदत् ?
उत्तर:
सन्तः शान्तभावेन अवदत् “ तिष्ठ भ्रातः ! एतं गोवत्सम् अपि नयत अन्यथा मातृ – वियोगेन एषः स्वप्राणान् त्यज्यति ।”
(iii) चौराणाम् हृदय-परिवर्तनम् कीदृशम् अभवत् ?
उत्तर:
सन्तस्य हृदयस्य करुणभावनया चौराणां हृदय-परिवर्तनम् अभवत्।
(इ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत ।
उत्तर:
सत्संगतिः ।
(ई) भाषिक कार्यम् – (केवलं प्रश्नत्रयम्)
(i) ‘नयन्ति स्म’ इति क्रियापदस्य कर्तृपदम् किम् ?
(क) सन्ताः
(ख) गाव:
(ग) चौरा:
(घ) गां
उत्तर:
(ग) चौरा:
(ii) ‘निमीलितनेत्र:’ इति पदस्य विलोमपदम् अनुच्छेदे किम् ?
(क) उन्मीलितनेत्रः
(ख) शान्तनेत्र:
(ग) करुणनेत्रः
(घ) तीव्रनेत्र:
उत्तर:
(क) उन्मीलितनेत्र:
(iii) ‘सन्तस्य’ इति पदस्य विशेषणपदम् अनुच्छेदे किम् ?
(क) तस्य
(ख) एकस्य
(ग) केचन
(घ) अपश्यत्
उत्तर:
(ख) एकस्य
(iv) ‘सन्तः ईश्वरस्तुत्याम् रतः आसीत्’ इत्यत्र किं क्रियापदम् ?
(क) सन्तः
(ख) ईश्वरस्तुत्याम्
(ग) आसीत्
(घ) रतः
उत्तर:
(ग) आसीत्।
खण्ड – ‘ख’ (15 अंङ्काः)
(रचनात्मकं कार्यम्)
2. भवान् वाराणस्यां स्थितः उमेशः । भवतः मित्र सोमेशः प्रयागे वसति । स नवमकक्षायां प्रथमश्रेण्याम् उत्तीर्णः। तं प्रति लिखितं वर्धापनपत्रम् उचितशब्दैः पूरयित्वा लिखत । [1/2 × 10 = 5]
नारायणं संस्कृतविद्यालयः
(i) ______
_________
प्रियमित्र (ii) _______
नमस्ते ।
अत्र कुशलं (iii) _____ । भवतः पत्रं पठित्वा ज्ञातं यत् भवान् (iv) ____ प्रथम स्थानं प्राप्तवान्। इदं (v) ____ मम चित्तं प्रफुल्लं जातम् । (vi) _____ एतत् सर्वं तव सतत्परिश्रमस्य एव फलम् अस्ति । मम गृहस्य सर्वेषाम् (vii) ____ पक्षतः भवते वर्धापनम् भवान् उत्तरोत्तरं सफलतां प्राप्नोतु (viii) ___ अस्माकं शुभ-कामना। मातृपितृचरणेषु (ix) ____ प्रणामाः। अनुजाय स्नेहाराशिः ।
भवतः
(x) _____
मञ्जूषा
वाराणसीत:, मित्रवर्य !, तत्रास्तु, मम, ज्ञात्वा, एषा, उमेशः, परीक्षायाम्, सदस्यानाम्, सोमेश ! ।
उत्तर:
(i) वाराणसीतः
_________
प्रियमित्र (ii) सोमेश ।
नमस्ते।
अत्र कुशलं (iii) तत्रास्तु । भवतः पत्रं पठित्वा ज्ञातं यत् भवान् (iv) परीक्षायाम् प्रथमं स्थानं प्राप्तवान् । इदं (v) ज्ञात्वा मम चित्तं प्रफुल्लं जातम्। (vi) मित्रवर्य एतत् सर्वं तव सततपरिश्रमस्य एव फलम् अस्ति । मम् गृहस्य सर्वेषाम् (vii) सदस्यानाम् पक्षतः भवते वर्धापनं भवान् उत्तरोत्तरं सफलतां प्राप्नोतु (viii) एषा अस्माकं शुभ-कामना । मातृपितृचरणेषु (ix) मम प्रणामाः । अनुजाय स्नेहाराशिः।
भवतः
(x) उमेशः।
3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत । [1 × 5 = 5]
मञ्जूषा
वृद्धः, उद्याने, बाल-वाहिन्या, प्रात:कालस्य, अस्ति, पौत्र, पादपाः, मनोरम-चित्रम्, पितामहः, पक्षिणः, मेघैः, नद्या:, तीरे, नयति, पश्यति ।
अथवा
‘जलस्य महत्त्वम्’ इति विषयम् अधिकृत्य मञ्जूषा पदसहायतायै संस्कृतेन पञ्चवाक्यानि लिखत ।
मञ्जूषा
जलम, क्षेत्राणाम्, विना, जीवने, स्नानाय, भोजनस्य, अस्माभिः, महत्वपूर्णम्, कर्तुः, क्षालकाय, दूषितेन, जायन्ते ।
उत्तर:
(i) इदं चित्रं प्रात: कालस्य अस्ति ।
(ii) अस्मिन् चित्रे पक्षिणः आकाशे उड्डयन्ते।
(iii) उद्याने वृद्धः बाल – वाहिन्या सह गच्छति ।
(iv) नद्या : तीरे उद्यानम् अस्ति ।
(v) पितामहः पौत्रेण सह मनोरमचित्रम् पश्यति ।
अथवा
अनुच्छेद लेखनम्—
(i) जलेन विना जीवनं न अस्ति ।
(ii) दूषितेन जलेन शरीरः रुग्णः भवति ।
(iii) अस्माभिः जलस्य महत्वम् अवगच्छेयुः।
(iv) स्नानाय जलस्य महती आवश्यकता भवति ।
(v) जलम् एव मानवजीवनस्य आधारम् अस्ति ।
4. हिन्दी भाषया आङ्गलभाषया वा लिखितानां वाक्यानां संस्कृतेन अनुवादः क्रियताम् । (केवलं पञ्चवाक्यम्) [1 × 5 = 5]
(i) पाकिस्तान हमारा पड़ोसी देश है।
Pakistan is our neighbour country.
(ii) तुम्हें प्रतिदिन पढ़ना चाहिए।
You should read daily.
(iii) सीता जनक की पुत्री थी ।
Sita was the daughter of Janak.
(iv) वाराणसी में विश्वनाथ का मन्दिर है ।
There is temple of Vishwanath in Varanasi.
(v) सूर्य पूर्व दिशा में उदित होता है।
Sun rises in the east.
(vi) वृक्षों पर पक्षी कलरव करते हैं ।
Birds chirping on the trees.
(vii) गाँव से बाहर नदी बहती है।
River flows through village.
उत्तर:
(i) पाकिस्तानः अस्माकं प्रतिवेशी देशः अस्ति ।
(ii) त्वं प्रतिदिनं पठेः।
(iii) सीता जनकस्य सुता आसीत् ।
(iv) वाराणस्यां विश्वनाथस्य देवालयम् अस्ति ।
(v) सूर्य : पूर्वस्यां दिशि उदयति/उदेति।
(vi) वृक्षेषु पक्षिणः कलरवं कुर्वन्ति ।
(vii) ग्रामात् बहिः नदी: वहति ।
खण्ड – ‘ग’ (25 अंङ्काः)
(अनुप्रयुक्त व्याकरणम्)
5. अधोलिखित रेखाङ्कितपदानां समुचितं सन्धिं-सन्धिंविच्छेदं वा कृत्वा शुद्धं लिखत – (केवलं प्रश्नचतुष्टयम्)
(i) गुरु + उपदेश: कार्यं साधयति ।
उत्तर:
गुरोपदेशः
(ii) एका बलाका तस्य + उपरि उदसृजत्।
उत्तर:
तस्योपरि
(iii) यस्यास्ति वित्तं स नरः कुलीनः ।
उत्तर:
यस्य + अस्ति
(iv) समुद्रमासाद्य भवन्त्यपेयाः ।
उत्तर:
समुद्रं + आसाद्य
(v) भ्रान्तो बालः।
उत्तर:
भ्रान्तः बालः।
6. अधोलिखित शब्दरूपाणि रिक्त स्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]
(i) ………… सह मृगाः धावन्ति।
(क) मृगाः
(ख) मृगैः
(ग) मृगाय
(घ) मृगेण
उत्तर:
(ख) मृगैः
(ii) ……… उभयतः तौ तिष्ठतः।
(क) त्वया
(ख) तुभ्यम्
(ग) त्वाम्
(घ) त्वयि
उत्तर:
(ग) त्वाम्
(iii) ………. सरोवरे कमलानि सन्ति ।
(क) अस्याः
(ख) अस्य
(ग) अस्मिन्
(घ) अस्याम्
उत्तर:
(ग) अस्मिन्
(iv) वृक्षस्य शाखायाम् …….. शुकौ अतिष्ठताम्।
(क) द्वौ
(ख) द्वि
(ग) द्वयः
(घ) द्वाभ्याम्
उत्तर:
(क) द्वौ
(v) …….. क्षेत्रं हरितम् अस्ति।
(क) कृषकस्य
(ख) कृषकः
(ग) कृषकम्
(घ) कृषकेण
उत्तर:
(क) कृषकस्य।
7. उचितधातुरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्न चतुष्ट्यम्) [1 × 4 = 4]
(i) सर्वे आश्चर्येण चन्दनम् अन्योन्यं च…………. ।
(क) पश्यति
(ख) पश्यन्ति
(ग) पश्यामि
(घ) पश्यथः
उत्तर:
(ख) पश्यन्ति
(ii) स कष्टं……… ध्रुवम्।
(क) लभेते
(ख) लभन्ते
(ग) लभते
(घ) लभे
उत्तर:
(ग) लभते
(iii) स: जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च…….!
(क) अभवत्
(ख) अभवन्
(ग) अभवम्
(घ) अभवः
उत्तर:
(क) अभवत्
(iv) एवम् आलोच्य सः पितुः अन्तिकम्……….।
(क) आगच्छत्
(ख) आगच्छन्
(ग) आगच्छताम्
(घ) आगच्छथ
उत्तर:
(क) आगच्छत्
(v) ……. नद्यः स्वयमेव नाम्भः ।
(क) पिबति
(ख) पिबतः
(ग) पिबन्ति
(घ) पिबथः
उत्तर:
(ग) पिबन्ति
8. अधः प्रदत्तशब्दया उचितविभक्तिप्रयोगाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्न चतुष्ट्यम्) [1 × 4 = 4]
(i) विकसितानि कमलानि………….रोचन्ते।
(क) जनेभ्यः
(ख) जनाम
(ग) जनस्य
(घ) जना:
उत्तर:
(क) जनेभ्यः
(ii) ……. पुरतः एकः देवालयः अपि अस्ति ।
(क) जलाशयस्य
(ख) जलाशयं
(ग) जलाशयः
(घ) जलाशयेन
उत्तर:
(क) जलाशयस्य
(iii) नगरवासिनः निज ………. कुशला: आसम् ।
(क) कार्येषु
(ख) कार्येभ्या
(ग) कार्यान्
(घ) कार्या
उत्तर:
(क) कार्येषु
(iv) …….. सह छात्रः शोधकार्यं करोति ।
(क) अध्यापकस्य
(ख) अध्यापकेन
(ग) अध्यापक:
(घ) अध्यापकाः
उत्तर:
(ख) अध्यापकेन
(v) पाठान् पठित्वा सः ………… आगतः ।
(क) विद्यालयात्
(ख) विद्यालयं
(ग) विद्यालयः
(घ) विद्यालयस्य
उत्तर:
(ग) विद्यालयः
9. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा रिक्त स्थानानि पूरयत। (केवलं प्रश्नत्रयम्)
(i) गङ्गाजले ……… भक्ताः ध्यानं कुर्वन्ति । ( प्र + विश् + ल्यप् )
(क) प्रविशल्य
(ख) प्रविशय
(ग) प्रविश्य
(घ) प्रविश
उत्तर:
(ग) प्रविश्य
(ii) ग्रीष्मकाले जना: शीतलपेयम् ……… इच्छन्ति । (पा + तुमुन्)
(क) पातुम्
(ख) पिबतुम्
(ग) पेयतुम्
(घ) पीतुम्
उत्तर:
(क) पातुम्
(iii) समाचारान् ………. अहं दूरदर्शनं पश्यामि। (श्रु + तुमुन्)
(क) श्रोतुम्
(ख) श्रुतुम्
(ग) शृण्वन्त
(घ) शृणोः
उत्तर:
(क) श्रोतुम्
(iv) वस्त्रम् कृन्त् + तुमुन् कर्तरीम् आनय ।
(क) कृन्तितुम्
(ख) कर्तयितुम्
(ग) कर्तितुम्
(घ) कर्तुम्
उत्तर:
(ग) कर्तितुम्
10. संख्यावाचिशब्दरूपाणाम् उचितं रूपं चित्वा रिक्त स्थानानि पूरयत। (केवलं प्रश्नचतुष्टयम्)
(i) सरोवरे ………. मत्स्याः वसन्ति। (त्रि)
उत्तर:
त्रयः
(ii) सर्वे ……. हस्ताभ्याम् कार्यं कुर्वन्ति । (द्वे)
उत्तर:
द्वाभ्याम्
(iii) दशरथस्य ………. पुत्राः आसन्। (चतुर)
उत्तर:
चत्वारः
(iv) ………. आश्रमे साधवः तपस्याम् कुर्वन्ति। (एकम्)
उत्तर:
एकस्मिन्
(v) दशरथस्य ………. राज्ञः आसन् (त्रि)
उत्तर:
तिस्त्रः ।
11. रेखाङ्कितपदेषु उपसर्गं पृथक् क्रियताम्। (केवलं प्रश्नचतुष्टयम्)
(i) अनुत्तरम् अभिहितम् ।
उत्तर:
अनु
(ii) एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिशत्।
उत्तर:
नि
(iii) स्वर्णपक्षः काकः प्रोवाच ।
उत्तर:
प्र।
(iv) छात्रान् उत्तम प्रत्युत्तरार्थं अभिनन्दनं करोमि ।
उत्तर:
अभि
(v) अत्यधिक जनाः भारतदेशे सन्ति ।
उत्तर:
अति ।
12. वाक्यानुसारेण उचितव्ययपदं चिनुत (केवलं प्रश्नचतुष्टयम्)
(i) …….. सर्वत्र वायु विद्यमानोऽस्ति ।
(क) अत्र
(ख) तत्र
(ग) यत्र
(घ) अत्र-तत्र
उत्तर:
(घ) अत्र-तत्र
(ii) …….. राजा तथा प्रजा।
(क) यथा
(ख) यदा
(ग) यदि
(घ) एव
उत्तर:
(क) यथा
(iii) अहं ……… अत्र वृष्टेः अभिनन्दनं करोमि ।
(क) एव
(ख) अपि
(ग) पुरा
(घ) सर्वत्र
उत्तर:
(क) एव
(iv) यदा दुष्टबुद्धि कलशस्य आवरणम् अपसारयति ……… भयङ्करं विषधरं पश्यति ।
(क) तदा
(ख) तथा
(ग) सर्वदा
(घ) सम्यक्
उत्तर:
(क) तदा
(v) अहम् ………. गृहं गमिष्यामि ।
(क) अपि
(ख) अत्र
(ग) श्वः
(घ) अद्य
उत्तर:
(क) अपि।
खण्ड – ‘घ’ (30 अंङ्काः)
(पठित-अवबोधनम् )
13. अधोलिखितं गद्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- [05]
तदा खिन्नो बालकः एते पक्षिणो मानुषेषु नोपगच्छन्ति । तदन्वेषयाम्यपरं मानुषोचितं विनोदयितारमिति विचिन्त्य पलायमानं कमपि श्वानमवलोकयत्। प्रीतो बालस्तमित्थं संबोधयामास – रे मानुषाणां मित्र ! किं पर्यटसि अस्मिन् निदाघदिवसे ? इदं प्रच्छायशीतलं तरुमूलम् । आश्रयस्व अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति । कुक्कुरः प्रत्याह-
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि ॥
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) ‘रे मनुष्याणां मित्र ! किं पर्यटसि अस्मिन् निदाघदिवसे ? ‘ कः अकथयत् ?
उत्तर:
बालः
(ii) खिन्नोः बालकः केषुमनोपगच्छन्ति ?
उत्तर:
मानुषेषु
(iii) पुत्रप्रीत्या कं पोषयति ?
उत्तर:
कुक्कुरम् ।
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) खिन्नः बालकः श्वानं किम् अकथयत् ?
उत्तर:
खिन्नः बालकः श्वानम् अकथयत्-अस्मिन् निदाधदिवसे किं पर्यटसि ? आश्रयस्वेदं प्रच्छायशीतलं तरुमूलम्। अहमपि क्रीडासहायं
त्वामेवानुरूपं पश्यामीति ।
(ii) के न उपगच्छन्ति ?
उत्तर:
एते पक्षिणः मानुषेषु न उपगच्छन्ति ।
(iii) कुक्कुरः केषां मित्रम् अस्ति ?
उत्तर:
कुक्कुरः मानुषाणां मित्रम् अस्ति।
(इ) निर्देशानुसारम् उत्तरत (भाषिक कार्यम्) – (केवलं प्रश्नद्वयम् )
(i) ‘तदा खिन्नो बालकः एते पक्षिणो मानुषेषु नोपगच्छन्ति’ इत्यत्र कः कर्तृपदं प्रयुक्तम् ?
उत्तर:
पक्षिणो
(ii) ‘आतपे’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
उत्तर:
निदाघे
(iii) ‘अहमपि क्रीडासहायं त्वमेवानुरूपं पश्यामि’ अत्र किं क्रियापदम् प्रयुक्तम ?
उत्तर:
पश्यामि
14. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत्-
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः।
चकार बहुधा गात्रे व्रणान्पतगसत्तमः ॥
प्रश्ना:
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् )
(i) महाबलः काभ्याम् व्रणाः अकरोत् ?
उत्तर:
तीक्ष्ण नखाभ्यां
(ii) जटायुः रावणस्य गात्रे काभ्यां प्रहारं अकरोत् ?
उत्तर:
चरणाभ्यां
(iii) कतिधा व्रणान् चकार
उत्तर:
बहुधा ।
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) [1 × 2 = 2]
(i) जटायुः रावणस्य गात्रे प्रहारम् किम् अकरोत् ?
उत्तर:
जटायु रावणस्य गात्रे प्रहारम् बहुधा व्रणान् चकार ।
(ii) पतगसत्तमः कः कथ्यते ?
उत्तर:
पतगसत्तम: जटायुः कथ्यते ।
(iii) जटायुः चरणाभ्यां कस्य गात्रे प्रहारम् अकरोत् ?
उत्तर:
जटायुः चरणाभ्यां रावणस्य गात्रे प्रहारम अकरोत ।
(इ) निर्देशानुसारम् उत्तरत (भाषिक कार्यम्) – (केवलं प्रश्नद्वयम्)
(i) ‘पतगसत्तम: (जटायुः) तु तीक्ष्ण नखाभ्यां चरणाभ्यां
तस्यगात्रे बहुधा व्रणान् चकार’ इत्यत्र रेखांकितपदयोः किं विशेषण पदं ?
उत्तर:
तीक्ष्ण
(ii) तस्य गात्रे बहुधा व्रणान् चकार इत्यत्र किं क्रियापदम् ?
उत्तर:
चकार
(iii) ‘प्रहारजनित स्फोटान्’ इत्यर्थे गद्यांशे कः पर्यायः प्रयुक्तः ?
उत्तर:
व्रणान
15. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
चन्दनः – (प्रसन्नो भूत्वा, अङ्गुलिषु गणयन्) अहो ! सेटक- त्रिशत्कानि पयांसि! अनेन तु बहुधनं लप्स्ये। (नन्दिनीं दृष्ट्वा ) भो नन्दिनि ! तव कृपया तु अहं धनिकः भविष्यामि । (प्रसन्नः सः धेनोः बहुसेवां करोति)
चन्दनः – (चिन्तयति) मासान्ते एव दुग्धस्य आवश्यकता भवति । यदि प्रतिदिनं दोहनं करोमि तर्हि दुग्धं सुरक्षितं न तिष्ठति। इदानीं किं करवाणि ? भवतु नाम मासान्ते एव सम्पूर्णतया दुग्धदोहनं करोमि।
(एवं क्रमेण सप्तदिनानि व्यतीतानि । सप्ताहान्ते मल्लिका प्रत्यागच्छति)
मल्लिका – (प्रविश्य) स्वामिन्! प्रत्यागता अहम् । आस्वादय प्रसादम्।
(चन्दनः मोदकानि खादति वदति च )
चन्दनः – मल्लिके! तव यात्रा तु सम्यक् सफला जाता ? काशीविश्वनाथस्य कृपया प्रियं निवेदयामि ।
मल्लिका – (साश्चर्यम्) एवम्। धर्मयात्रातिरिक्तं प्रियतरं किम् ?
प्रश्ना:
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) कः धनिकः भविष्यति ?
उत्तर:
चन्दन:
(ii) सप्ताहान्ते का प्रत्यागच्छति ?
उत्तर:
मल्लिका
(iii) चन्दनः कानि खादति ?
उत्तर:
मोदकानि।
(आ) पूर्णवाक्येन उत्तरत—(केवलं प्रश्नद्वयम्) [1 × 2 = 2]
(i) मासान्ते एव सम्पूर्णतया दुग्धदोहनं कर्तुम् कः चिन्तयति ?
उत्तर:
मासान्ते एव सम्पूर्णतया दुग्धदोहनं कर्तुं चन्दनः चिन्तयति।
(ii) प्रियं कः निवेदयति ?
उत्तर:
काशीविश्वनाथस्य कृपया चन्दनः प्रियं कथयति ।
(iii) मल्लिका कदा प्रत्यागच्छति ?
उत्तर:
मल्लिका सप्ताहान्ते प्रत्यागच्छति।
(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम्)
(i) ‘चन्दनः मोदकानि खादति’ अत्र किं कर्तृपदं प्रयुक्तं ?
उत्तर:
खादति
(ii) ‘अहं धनिकः भविष्यामि’ अत्र किं क्रियापदं प्रयुक्तम् ?
उत्तर:
भविष्यामि
(iii) ‘अनेन तु बहु धनं लप्स्ये ‘ अत्र किं विशेष्यपदं प्रयुक्तम् ?
उत्तर:
धनम्
16. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत – (केवलं प्रश्नचतुष्टयम्)
(i) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत् ।
(ii) चन्दन: दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
(iii) प्रियवाक्यप्रदानेन सर्वे जन्तवः तुष्यन्ति।
(iv) सज्जनानां मैत्री पूर्वार्द्धपरार्द्ध भिन्ना भवति ।
(v) वसन्ते कोकिलाः कूजन्ति ।
उत्तर:
(i) कं निवारयन्ती बालिका प्रार्थयत् ?
(ii) चन्दन: दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत् ?
(iii) प्रियवाक्यप्रदानेन के जन्तवः तुष्यन्ति ?
(iv) केषाम् मैत्री पूर्वार्द्धपरार्द्ध भिन्ना भवति ?
(v) कदा कोकिला: कूजन्ति ।
17. अधोलिखितस्य श्लोकस्य अन्वये रिक्तस्थानपूर्ति क्रियताम्–
वृद्धोऽहं त्वंयुवा धन्वी सरथः कवची शरी ।
न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि ॥
अन्वयः
अहं (i) ……. त्वं युवा धन्वी (ii) …….. कवची शरी चापि (iii) ……… कुशली वैदेहीं आदाय न गमिष्यसि ।
मञ्जूषा – सरथ:, वृद्ध:, मे
अथवा
अधोलिखितस्य श्लोकस्य मञ्जूषायाः सहायया भावार्थ: रिक्तस्थानानि पूरयत-
श्लोकः प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता ॥
मञ्जूषा – तोषम्, प्रियं, प्रियवचनं ।
भावार्थ:- मानवं सदैव सत्यं (i) ………. वाणीं ब्रूयात् । मधुर वचनेन सर्वे प्राणिनः (ii) ……… अनुभवन्ति । अप्रियं सत्यं न ब्रूयात्। अतः मानवं (iii) ………. एव कथनीयम्। वचने किम् दरिद्रता । मधुरं वचनं एव जीवनस्य सारः अस्ति ।
उत्तर:
अहं (i) वृद्धः त्वं युवा धन्वी (ii) सरथ: कवची शरी चापि (iii) मे कुशली वैदेहीं आदाय न गमिष्यसि।
अथवा
भावार्थः
मानवं सदैव सत्यं (i) प्रियं वाणीं ब्रूयात् । मधुर वचनेन सर्वे प्राणिनः (ii) तोषम् अनुभवन्ति। अप्रियं सत्यं न ब्रूयात्। अतः मानवं (iii) प्रियवचनं एव कथनीयम् । वचने किम् दरिद्रता । मधुरं वचनं एव जीवनस्य सारः अस्ति।
18. घटनाक्रमानुसारं लिखत- [1/2 × 8 = 4]
(i) ताम्रसोपानेनैव आगमिष्यामि ।
(ii) वृक्षोस्योपरि विलोक्य सा आश्चर्य चकिता सञ्जाता यत्तत्र स्वर्णमयः प्रासादो वर्तते।
(iii) बाले! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि।
(iv) परं स्वर्णसोपानेन सा स्वर्ण भवनमाससाद ।
(v) बालिका व्याजहार – ताम्रस्थाल्यामेवाहं निर्धना भोजनं करिष्यामि ।
(vi) चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता ।
(vii) त्वम् शीघ्रमेव स्वगृहं गच्छ।
(viii) नैतादृक् स्वादुभोजनमद्यावधि बालिका खादितवती।
उत्तर:
(i) वृक्षस्योपरि विलोक्य सा आश्चर्यचकिता सञ्जाता यत्तत्र स्वर्णमयः प्रासादो वर्तते।
(ii) बाले ! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि।
(iii) ताम्रसोपानेनैव आगमिष्यामि।
(iv) परं स्वर्णसोपानेन सा स्वर्णभवनमाससाद ।
(v) चिरकालं भवने चित्रविचित्र वस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता ।
(vi) बालिका व्याजहार – ताम्रस्थाल्यामेवाहं निर्धना भोजनं करिष्यामि ।
(vii) नैतादृक् स्वादुभोजनमद्यावधि बालिका खादितवती ।
(viii) त्वं शीघ्रमेव स्वगृहं गच्छ।
19. (क) अधोलिखितानां रेखांकितपदानां प्रसङ्गानुकूलम् उचितार्थं चिनुत । (केवलं प्रश्नचतुष्टयम्)
(i) एको विचित्र काकः समुड्डीय तामुपजगाम।
(ii) विरम मा स्पृश ! एतानि मोदकानि ।
(iii) कथम् इदानीम् गृहीतः ।
(iv) आत्मन: प्रतिकूलानि परेषां न समाचरेत् ।
(v) अहं नियन्त्रयुतुम् अक्षमः अस्मि ।
मञ्जूषा- असमर्थ, सम्प्रति, विपरीतानि, उत्प्लुत्य तिष्ठ
उत्तर:
(i) उत्प्लुत्य
(ii) तिष्ठ
(iii) सम्प्रति
(iv) विपरीतानि
(v) असमर्थः
(ख) अधोलिखितानां शब्दानाम् अर्थैः सह मेलनं कुरुत – (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]
(i) व्यापहरत् – विक्रयं कृत्वा
(ii) शरी – अकथयत्
(iii) प्राण: – उत्खातवान्
(iv) विक्रीय – वाणधरः
(v) व्याजहारं – आपोमयः
उत्तर:
(i) व्यापहरत् – उत्खातवान्
(ii) शरी – बाणधरः
(iii) प्राण: – आपोमयः
(iv) विक्रीय – विक्रयं कृत्वा
(v) व्याजहारं – अकथयत्