We have given detailed Deepakam Class 8 Solutions and Class 8th Sanskrit Deepakam Chapter 3 Question Answer सुभाषितरसं पीत्वा जीवनं सफलं कुरु come in handy for quickly completing your homework.
Sanskrit Class 8 Chapter 3 Question Answer सुभाषितरसं पीत्वा जीवनं सफलं कुरु
Class 8 Sanskrit Chapter 3 NCERT Solutions सुभाषितरसं पीत्वा जीवनं सफलं कुरु
कक्षा 8 संस्कृत पाठ 3 के प्रश्न उत्तर सुभाषितरसं पीत्वा जीवनं सफलं कुरु
पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत ।
(पाठ के आधार पर नीचे दिए गए प्रश्नों के उत्तर एक पद में लिखिए।)
(क) गीतानि के गायन्ति ?
उत्तर :
देवा:
(ख) कः बलं न वेत्ति ?
उत्तर :
निर्बलः
(ग) कः वसन्तस्य गुणं वेत्ति ?
उत्तर :
पिक:
(घ) मूषकः कस्य बलं न वेत्ति ?
उत्तर :
सिंहस्य
(ङ) फलोद्गमैः के नम्राः भवन्ति ?
उत्तर :
तरवः
(च) केन समं सख्यं न करणीयम् ?
उत्तर :
दुर्जनेन
(छ) केन बिना दैवं न सिध्यति ?
उत्तर :
पुरुषकारेण
![]()
पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत ।
(पाठ के आधार पर नीचे दिए गए प्रश्नों के उत्तर पूर्ण वाक़्य में लिखिए।)
(क) तरवः कदा नम्राः भवन्ति ?
उत्तर :
तरवः फलोद्गमैः नम्राः भवन्ति ।
(ख) समृद्धिभिः के अनुद्धताः भवन्ति ?
उत्तर :
समृद्धिभिः सत्पुरुषाः अनुद्धताः भवन्ति ।
(ग) सत्पुरुषाणां स्वभावः कीदृशः भवति ?
उत्तर :
सत्पुरुषाणां स्वभावः परोपकारिणां भवति ।
(घ) सत्यं कदा सत्यं न भवति ?
उत्तर :
यत् छलम् अभ्युपैति सत्यं तत् सत्यं न भवति ।
(ङ) दैवं कदा न सिध्यति ?
उत्तर :
पुरुषकारेण विना दैवं न सिध्यति ।
स्तम्भयोः मेलनं कुरुत ।
(स्तंभों का मिलान कीजिये ।)
| (अ) उक्तिः | (आ) भावार्थ: |
| (क) गायन्ति देवाः किल गीतकानि | (i) सत्पुरुषाणां स्वाभाविकी नम्रता |
| (ख) गुणी गुणं वेत्ति | (ii) सुवर्णं चतुर्भिः प्रकारैः परीक्ष्यते |
| (ग) भवन्ति नम्राः तरवः फलोद्रमैः | (iii) भारतभूमेः माहात्म्यवर्णनम् |
| (घ) यथा चतुर्भिः कनकं परीक्ष्यते | (iv) सज्जनः एव गुणानां मर्मज्ञः |
| (ङ) अष्टौ गुणाः पुरुषं दीपयन्ति | (v) प्रज्ञा, दम:, दानं, कृतज्ञता इत्यादयः |
| (च) दुर्जनेन समं सख्यं न कारयेत् | (vi) केवलं दैवं प्रयत्नं विना असिद्धम् |
| (छ) एकेन चक्रेण न रथस्य गतिः | (vii) दुष्टसङ्ग: उष्णाङ्गारसदृशः |
उत्तर :
| (अ) उक्तिः | (आ) भावार्थ: |
| (क) गायन्ति देवाः किल गीतकानि | (iii) भारतभूमेः माहात्म्यवर्णनम् |
| (ख) गुणी गुणं वेत्ति | (iv) सज्जनः एव गुणानां मर्मज्ञः |
| (ग) भवन्ति नम्राः तरवः फलोद्रमैः | (i) सत्पुरुषाणां स्वाभाविकी नम्रता |
| (घ) यथा चतुर्भिः कनकं परीक्ष्यते | (ii) सुवर्णं चतुर्भिः प्रकारैः परीक्ष्यते |
| (ङ) अष्टौ गुणाः पुरुषं दीपयन्ति | (v) प्रज्ञा, दम:, दानं, कृतज्ञता इत्यादयः |
| (च) दुर्जनेन समं सख्यं न कारयेत् | (vii) दुष्टसङ्ग: उष्णाङ्गारसदृशः |
| (छ) एकेन चक्रेण न रथस्य गतिः | (vi) केवलं दैवं प्रयत्नं विना असिद्धम् |
![]()
अधः प्रदत्तमञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत।
(नीचे दिए गए मञ्जूषा से पद चुनकर रिक्त स्थान भरिये ।)
फलोद्गमैः, गुणं, कृतज्ञता, सिध्यति, श्रुतम्, शीलेन
(क) गुणी _________ वेत्ति न वेत्ति निर्गुण: ।
उत्तर :
गुणं
(ख) भवन्ति नम्राः तरवः _________ ।
उत्तर :
फलोद्गमैः
(ग) पुरुष: परीक्ष्यते कुलेन, _________ गुणेन कर्मणा ।
उत्तर :
शीलेन
(घ) गुणाः पुरुषं दीपयन्ति – प्रज्ञा, कौल्यं, दम:, _________
उत्तर :
श्रुतम्
(ङ) दानं यथाशक्ति _________ च।
उत्तर :
कृतज्ञता
(च) एवं पुरुषकारेण विना दैवं न _________
उत्तर :
सिध्यति
समुचितं विकल्पं चिनुत ।
(सही विकल्प चुनिए ।)
(क) “ गायन्ति देवाः किल गीतकानि “- इत्यस्य श्लोकस्य मुख्यविषयः कः ?
(i) वसन्तस्य सौन्दर्यम्
(ii) भारतभूमेः गौरवम्
(iii) कर्मणां फलम्
(iv) दानस्य प्रभावः
उत्तर :
(ii) भारतभूमेः गौरवम्
(ख) “गुणी गुणं वेत्ति ” – इत्यत्र कः गुणं न जानाति ?
(i) गुणी
(ii) निर्गुण:
(iii) पिक:
(iv) बली
उत्तर :
(ii) निर्गुण:
(ग) “पिको वसन्तस्य गुणं न वायसः ” – इत्यस्य तात्पर्यं किम् ?
(i) पिक: मधुरं गायति न वायसः
(ii) सुजन एव गुणं जानाति
(iii) वायसः अपि सरसं गानं करोति
(iv) वसन्तः निर्गुणः अस्ति
उत्तर :
(i) पिक: मधुरं गायति न वायसः
(घ) “भवन्ति नम्राः तरवः फलोद्गमैः ” – इत्यस्य अर्थः कः?
(i) वृक्षाणां कठोरता
(ii) सत्पुरूषाणाम् उन्नतिः
(iii) फलयुक्ताः वृक्षाः नम्राः भवन्ति
(iv) परोपकारिणां दुर्बलता
उत्तर :
(iii) फलयुक्ताः वृक्षाः नम्राः भवन्ति
(ङ) “न सा सभा यत्र न सन्ति वृद्धा: ” महत्त्वं किम्?
(i) सभा मनोरञ्जनाय भवति इत्यत्र सभायाः
(ii) सभा धनसम्पत्तिं प्रदातुं शक्नोति
(iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः
(iv) सभा केवलं राजकार्यार्थं भवति
उत्तर :
(iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः
(च) दुर्जनेन सह सख्यं किमर्थं न कार्यम् ?
(i) सः मित्रं भवति
(ii) सः धनं ददाति
(iii) स: शिक्षां ददाति
(iv) स: उष्णाङ्गारवद् हानिकरः भवति
उत्तर :
(iv) स: उष्णाङ्गारवद् हानिकरः भवति
![]()
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 3 डिजीभारतम्
1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए)
(क) कुत्र ‘डिजिटल इण्डिया’ इत्यस्य चर्चा भवति?
उत्तराणि:
सम्पूर्णविश्वे
(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
उत्तराणि:
कालपरिवर्तनेन
(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
उत्तराणि:
रूप्यकाणाम्
(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
उत्तराणि:
कर्गदोद्योगे
(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तराणि:
संगणकयन्त्रेण
2. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत
(निम्नलिखित प्रश्नों के उत्तर पूर्णवाक्य में लिखिए)
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तराणि:
(क) प्राचीनकाले विद्या मुखेन गृह्यते स्म।
(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
उत्तराणि:
वृक्षाणां कर्तनं संगणकस्य प्रयोगेण न्यूनतां यास्यति।
(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
उत्तराणि:
चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।
(घ) वयम् कस्यां दिशि अग्रेसरामः?
उत्तराणि:
वयम् ‘डिजीभारतम्’ इति दिशि अग्रेसरामः।
(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
उत्तराणि:
वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति।
3. रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)
(क) भोजपत्रोपरि लेखनम् आरब्धम्।
उत्तराणि:
भोजपत्रोपरि किं आरब्धम्?
(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
उत्तराणि:
लेखनार्थम् कस्य आवश्यकतायाः अनुभूतिः न भविष्यति?
(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
उत्तराणि:
कुत्र कक्षं सुनिश्चितं भवेत्?
(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उत्तराणि:
सर्वाणि पत्राणि कस्मिन् सुरक्षितानि भवन्ति?
(ङ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः।
उत्तराणि:
वयम् किमर्थम् चिकित्सालयं गच्छामः?
4. उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत
(उदाहरण के अनुसार विशेषण और विशेष्य को मिलाइए)
यथा- विशेषण – विशेष्य
संपूर्णे – भारते
(क) मौखिकम् – (1) ज्ञानम्
(ख) मनोगताः – (2) उपकारः
(ग) टङ्किता – (3) काले
(घ) महान् – (4) विनिमयः –
(ङ) मुद्राविहीनः – (5) कार्याणि
उत्तरम्-
संपूर्णे – भारते
(क) मौखिकम् – (1) ज्ञानम्
(ख) मनोगताः – (2) कार्याणि
(ग) टङ्किता – (3) काले
(घ) महान् – (4) उपकारः
(ङ) मुद्राविहीनः – (5) विनिमयः
5. अधोलिखितपदयोः सन्धिं कृत्वा लिखत
(निम्नलिखित पदों के लिए संधि करके लिखिए)
पदस्य + अस्य
उत्तराणि:
पदस्य + अस्य = पदस्यास्य।
तालपत्र + उपरि
उत्तराणि:
तालपत्र + उपरि = तालपत्रोपरि।
च + अतिष्ठत
उत्तराणि:
च + अतिष्ठत = चातिष्ठत्।
कर्गद + उद्योगे
उत्तराणि:
कर्गद + उद्योगे = कर्गदोद्योगे।
क्रय + अर्थम्
उत्तराणि:
क्रय + अर्थम् = क्रयार्थम्।
इति + अनयोः
उत्तराणि:
इति + अनयोः = इत्यनयोः।
उपचार + अर्थम्
उत्तराणि:
उपचार + अर्थम् = उपचारार्थम्।
6. उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत –
(उदाहरण के अनुसार निम्नलिखित पदों से लघु वाक्यों का निर्माण कीजिए)
यथा- जिज्ञासा – मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति।
(क) आवश्यकता – …………………
उत्तराणि:
(क) आवश्यकता-अद्यत्वे लेखनार्थं कर्गदस्य आवश्यकता नास्ति।
(ख) सामग्री – …………………
उत्तराणि:
सामग्री-लेखनसामग्री वृक्षाणां वल्कलेन निर्मीयते।
(ग) पर्यावरण सुरक्षा – …………………
उत्तराणि:
पर्यावरण सुरक्षा-पर्यावरण सुरक्षा अस्माभिः कर्त्तव्या।
(घ) विश्रामगृहम् – …………………
उत्तराणि:
(घ) विश्रामगृहम्-नगरे विश्रामगृहम् अस्ति।
7. उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत –
(कोष्ठक से शब्द छाँटकर चतुर्थ विभक्ति से रिक्तस्थान पूर्ति कीजिए)
यथा- भिक्षुकाय धनं ददातु। (भिक्षुक)
(क) ……… पुस्तकं देहि। (छात्र)
उत्तराणि:
छात्राय पुस्तकं देहि।
(ख) अहम् …………….. वस्त्राणि ददामि। (निर्धन)
उत्तराणि:
अहम् निर्धनाय वस्त्राणि ददामि।
(ग) ……….. पठनं रोचते। (लता)
उत्तराणि:
लतायै पठनं रोचते।
(घ) रमेशः ……… अलम्। (सुरेश)
उत्तराणि:
रमेशः सुरेशाय अलम्।
(ङ) ………….. नमः। (अध्यापक)
उत्तराणि:
अध्यापकाय नमः।
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत –
(क) अद्य सम्पूर्णविश्वे “डिजिटलइण्डिया” इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः इति मनसि
जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्।
I. एकपदेन उत्तरत –
(i) मनसि का उत्पद्यते?
उत्तराणि:
जिज्ञासा।
(ii) लेखनकार्यं कुत्र आरब्धम्?
उत्तराणि:
पत्रोपरि।
II. पूर्णवाक्येन उत्तरत
(i) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तराणि:
प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।
(ii) प्राचीनकाले मौखिकं किम् आसीत्?
उत्तराणि:
प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।
III. निर्देशानुसारम् उत्तरत
(i) ‘मनसि’ इत्यत्र का विभक्तिः ?
(क) तृतीया
(ख) षष्ठी
(ग) सप्तमी
(घ) चतुर्थी।
उत्तराणि:
(ग) सप्तमी
(ii) ‘श्रूयते’ इत्यस्य बहुवचनान्तरूपं लिखत।
(क) श्रूयध्वे
(ख) श्रूयन्ति
(ग) श्रूयन्ते
(घ) श्रूयाम हे।
उत्तराणि:
(ग) श्रूयन्ते
(iii) ‘आवश्यकताऽपि’ इत्यत्र कः सन्धिः?
(क) दीर्घ
(ख) गुण
(ग) यण
(घ) वृद्धि।
उत्तराणि:
(क) दीर्घ
(iv) ‘आरब्धम्’ इत्यत्र कः प्रत्ययः?
(क) धम्
(ख) ब्धम्
(ग) क्त
(घ) त।
उत्तराणि:
(ग) क्त।
रिक्तस्थानस्य पूर्ति कृत्वा भावं स्पष्टीकुरुत –
(i) कालस्य ………….. सह मानवस्य आवश्यकताऽपि …………
उत्तराणि:
कालस्य परिवर्त्तनेन सह मानवस्य आवश्यकताऽपि परिवर्त्तते।
(ii) प्राचीनकाले ………. आदान-प्रदानं च ……… आसीत्।
उत्तराणि:
प्राचीनकाले ज्ञानस्य आदान-प्रदानं च मौखिकम् आसीत्।
शुद्धकथनं (✓) चिह्नेन, अशुद्धकथनं चिह्नन अङ्कय(क) ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।
(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म।
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म।
उत्तराणि:
(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म। (✓)
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म। (✗)
विपरीतार्थ शब्दान् लिखत ।
शब्दाः विलोमः
प्राचीनकाले ……………….
आसीत् ……………….
आवश्यकता ……………….
सुरक्षिता ……………….
उपयोगेन ……………….
न्यूनता ……………….
उत्तराणि:
शब्दाः – विलोमः
प्राचीनकाले – आधुनिककाले
आसीत् – अस्ति
आवश्यकता – अनावश्यकता
सुरक्षिता – असुरक्षिता
उपयोगेन – अनुपयोगेन
न्यूनता – अधिकता
अधोलिखितानां शब्दानां समक्षं दतैरथैः सह मेलनं कुरुत –
शब्दाः – अर्थाः
पदस्य – दातुम्
अनन्तरम् – ज्ञानम्
बहु – तीव्रम्
प्रदातुम् – शब्दस्य
द्रुतम् – पश्चात्
अन्वेषणम् – अनेकम्
उत्तराणि:
शब्दाः – अर्थाः
पदस्य – शब्दस्य
अनन्तरम् – पश्चात्
बहु – अनेकम्
प्रदातुम् – दातुम्
द्रुतम् – तीव्रम्
अन्वेषणम् – ज्ञानम्
अधोलिखितंगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत –
कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म्। अनन्तरः तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परिवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्।
I. एकपदेन उत्तरत –
(क) प्राचीनकाले ज्ञानस्य आदान-प्रदान कीदृशमासीत्।
(i) लिखितम्
(ii) मौखिकम्
(iii) दर्शनेन
(iv) श्रवणेन।
उत्तराणि:
(ii) मौखिकम्
(ख) लेखनकार्यं प्राचीनकाले कथम् आरब्धम्?
(i) भूर्जपत्रोपरि
(ii) पाषाणोपरि
(iii) कर्गदोपरि .
(iv) वस्त्रोपरि।
उत्तराणि:
(i) भूर्जपत्रोपरि
II. ‘लेखन्याः’ इत्यत्र का विभक्तिः?
(i) षष्ठी
(ii) तृतीया
(iii) चतुर्थी
(iv) द्वितीया।
उत्तराणि:
(i) षष्ठी
III. ‘कालपरिवर्त्तनेन …… परिवर्त्तते’- इत्यत्र क्रियापदं किम्?
(i) सह
(ii) मानवस्य
(iii) परिवर्तते
(iv) आवश्यकता।
उत्तराणि:
(iv) आवश्यकता।
IV. ‘ज्ञानस्य’ इत्यस्य विपरीतार्थकशब्दं लिखत
(i) दु:खस्य
(ii) अज्ञानस्य
(iii) स्नेहस्य
(iv) शास्त्रस्य।
उत्तराणि:
(ii) अज्ञानस्य
V. ‘भूर्जपत्रम्’ इत्यत्र कः समासः?
(i) कर्मधारय
(ii) बहुव्रीहि
(iii) तत्पुरुष
(iv) अव्ययीभाव।
उत्तराणि:
(iii) तत्पुरुष
VI. ‘सर्वेषाम्’ इत्यस्य एकवचनान्तरूपं लिखत
(i) सर्वे,
(ii) सर्वस्य,
(iii) सर्वेण,
(iv) सर्वेः।
उत्तराणि:
(ii) सर्वस्य,
VII. ‘मानवस्य’ इत्यस्य पर्यायशब्दं लिखत
(i) दानवस्य
(ii) मनुष्यस्य
(iii) देवस्य
(iv) मुनेः।
उत्तराणि:
(ii) मनुष्यस्य