Check the below Class 8 Sanskrit MCQ Chapter 8 पश्यत कोणमैशान्यं भारतस्य मनोहरम् with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 8 Sanskrit Chapter 8 Questions and Answers at LearnInsta.
पश्यत कोणमैशान्यं भारतस्य मनोहरम् Class 8 MCQ Questions Sanskrit Chapter 8
पठित-अवबोधनम्
• अधोलिखितानां गद्यांशं पठित्वा गद्यांशाधारित प्रश्नानां उत्तराणि निर्देशानुसार लिखत ।
(निम्नलिखित गद्यांशों को पढ़कर गद्यांश पर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखिए |)
प्रश्न 1.
अरुणाचलप्रदेशः, असम, मणिपुरं, मेघालय, मिजोरम, नागालैण्डं, त्रिपुरा ऐवञ्च सिक्किमः इत्येतानि अष्टराज्यानि देशस्य पूर्वोत्तरभागे स्थितानि । एतानि राज्यानि भारतस्य केवलं स्थानविशेषत्वेन न, अपितु सांस्कृतिक-ऐतिहासिक – विविधतायाः कारणेन विशेषमहत्त्वं वहन्ति । एषां प्रदेशानां प्राकृतिकं सौन्दर्य, समुदायानां विविधता, भौगोलिक-पर्यावरणीयं वैचित्र्यं च देशस्य अन्येभ्यः भागेभ्यः पृथक् अस्ति । पर्वतैः नदीभिः च सुशोभितानि एतानि राज्यानि पूर्वहिमालय-श्रेणिषु पत्काई – नागपर्वत- प्रदेशे च स्थितानि । एतेषु बराक-ब्रह्मपुत्रादि– द- नद्यः प्रवहन्ति एवञ्च पर्वतश्रेण्यः, पीठस्थलानि, निम्नपर्वताः, उपत्यकाः च अस्मिन् भू-भागे भू-वैविध्यं धारयन्ति । प्राकृतिक सम्पदाभिः समृद्धः अयं प्रदेशः पूर्व-दक्षिणपूर्व एशियायाः द्वारम् अस्ति। तानि राज्यानि अष्टभ्रातृभगिन्यः इति नाम्ना प्रसिद्धानि सन्ति। तानि एव ‘अष्टभगिन्यः’ अथवा ‘सप्तभगिन्यः एकः भ्राता च ‘ इति कथ्यन्ते ।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए)
- पूर्व हिमालय – श्रेणिषु पत्काई – नागपर्वत- प्रदेशे च का स्थितानि ?
- एतानि राज्यानि क नद्यः प्रवहन्ति ?
- अस्मिन् भू-भागे किम् धारयन्ति ।
- अयं प्रदेशः केन प्रकारेण सम्पदाभिः समृद्ध: ?
उत्तर:
- एतानि राज्यानि
- ब्रह्मपुत्रादि
- वैविध्यं
- प्राकृतिक
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए)
- देशस्य पूर्वोत्तरभागे स्थितः राज्यानि कानि – कानि सन्ति?
- एतानि राज्यानि किम् विशेष महत्त्वं अस्ति?
उत्तर:
- अरुणाचलप्रदेश, असम, मणिपुर, मेघालय, मिजोरमः, नागालैण्ड, त्रिपुरा एवञ्च सिक्किमः ।
- सांस्कृतिक ऐतिहासिक विविधतायाः कारणेन विशेषमहत्त्वं वहन्ति ।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- “प्राकृतिक सम्पदाभिः समृद्धः अयं प्रदेशः” वाक्ये विशेष्यपदं किमस्ति ?
- ‘अष्टभगिन्यः’ पदे कः समासः अस्ति?
उत्तर:
- प्रदेश:
- द्विगु समासः
IV. अधोलिखितानि उत्तराणि प्रदत्तविकल्पेभ्यः चित्वा लिखत ।
(निम्नलिखित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनकर लिखिए।)
(i) ‘एवञ्च’ पदस्य सन्धि-विच्छेदः ?
(क) एवं + ञ्च
(ख) एवम् + च
(ग) एव + च
(घ) एवञ + च
उत्तर:
(ख) एवम् + च
(ii) ‘वहन्ति’ पदे का लकारः अस्ति?
(क) लट् लकार:
(ख) लोट् लकारः
(ग) लङ् लकार:
(घ) लृट् लकारः
उत्तर:
(क) लट् लकार:
![]()
(iii) “इति नाम्ना प्रसिद्धानि सन्ति” वाक्ये क्रियापदम् किमस्ति ?
(क) प्रसिद्धानि
(ख) नाम्ना
(ग) इति
(घ) सन्ति
उत्तर:
(घ) सन्ति
(iv) एक : भ्राता कः अस्ति?
(क) असमः
(ख) सिक्किमः
(ग) मणिपुरम
(घ) मेघालय:
उत्तर:
(ख) सिक्किमः
प्रश्न 2.
अध्यापिका – नूनम् अस्ति एव । पर्वत वृक्ष पुष्प प्रभृतिभिः
प्राकृतिकसम्पद्भिः सुसमृद्धानि सन्ति इमानि
राज्यानि । भारतवृक्षे पुष्प – स्तबकसदृशानि विराजन्ते
एतानि । अस्ति तावदेतेषां विषये किञ्चिद्
वैशिष्ट्यमपि कथनीयम् । सावहितमनसा शृणुत।
जनजातिबहुलप्रदेशोऽयम् । गारो खासी – नागा- मिजो
– लेप्चा-प्रभृतयः बहवः जनजातीयाः अत्र
निवसन्ति। शरीरेण ऊर्जस्विनः एतत्प्रादेशिकाः
बहुभाषाभिः समन्विताः, पर्वपरम्पराभिः परिपूरिताः,
स्वलीला-कलासु च निष्णाताः सन्ति ।
मालती – महोदये ! तत्र तु वंशवृक्षाणां वनानि अपि प्राप्यन्ते?
अध्यापिका – आम्। प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।
आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः
वंशवृक्षनिर्मितानां वस्तूनाम् उपयोगः क्रियते । यतो हि
अत्र वंशवृक्षाणां प्राचुर्यं विद्यते । साम्प्रतं
वंशोद्योगोऽयम् अन्ताराष्ट्रियख्यातिम् अवाप्तोऽस्ति ।
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए)
- अन्ताराष्ट्रियख्यातिम् केन अवाप्तोऽस्ति ?
- भारतवृक्षे किम् स्तबकसदृशानि विराजन्ते?
- अस्मिन् प्रदेशे कस्य प्राचुर्यं विद्यते ?
- स्वलीला-कलासु च निष्णाताः का सन्ति?
उत्तर:
- वंशोद्योगेन
- पुष्प
- वंशवृक्षाणां
- जनजातीयः जनाः
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए)
- एतानि सर्वाणि राज्यानि केन धनेन धन्याः सन्ति?
- एतानि राज्यानि का जनजातयः सन्ति?
उत्तर:
- पर्वत-वृक्ष-पुष्प – प्रभृतिभिः प्राकृतिकसम्पद्भिः सुसमृद्धानि सन्ति ।
- गारो – खासी – नागा-1 – मिजो – लेप्चा प्रभृतयः बहवः जनजातीया: अत्र निवसन्ति ।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए ।)
- ‘नूनम अस्ति एव’ वाक्ये रेखाङ्कित पदमस्ति ?
- ‘वनानि’ पदे वचनमस्ति ?
उत्तर:
- अव्यय पद
- बहुवचनम्
IV. अधोलिखितानि उत्तराणि प्रदत्तविकल्पेभ्यः चित्वा लिखत ।
(निम्नलिखित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनकर लिखिए।)
(i) ‘स्वलीला – कलासु च निष्णाताः सन्ति’ वाक्ये क्रियापदं किमस्ति ?
(क) लीला
(ख) सन्ति
(ग) कलासु
(घ) च
उत्तर:
(ख) सन्ति
(ii) “भारतवृक्षे पुष्प-स्तबकसदृशानि विराजन्ते एतानि ” रेखाङ्कितपदे का विभक्ति ?
(क) सप्तमी
(ख) षष्ठी
(ग) पञ्चमी
(घ) तृतीया
उत्तर:
(क) सप्तमी
(iii) ‘महोदये। तत्र तु वंशवृक्षणां वनानि अपि प्राप्यन्ते?’
अत्र ‘तत्र’ सर्वनामपदस्य स्थाने कर्तृपदं लिखत ।
(क) काननानि
(ख) पर्वतानि
(ग) समृद्धानि
(घ) अष्टराज्यानि
उत्तर:
(घ) अष्टराज्यानि
(iv) ‘निष्णाता:’ पदस्य कोऽर्थः ?
(क) नियम
(ख) दयालु
(ग) निपुण:
(घ) न कोऽपि
उत्तर:
(ग) निपुण:
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चिनुत ।
(दिए गए विकल्पों से सही उत्तर चुनिए ।)
(क) ‘अष्टभगिन्यः’ नाम पदेन के निर्दिश्यन्ते ?
(i) उत्तरभारतस्य राज्यानि
(ii) दक्षिणभारतस्य नगराणि
(iii) पूर्वोत्तर-भारतस्य राज्यानि
(iv) भारतस्य केन्द्रशासित प्रदेशाः
उत्तर :
(iii) पूर्वोत्तर-भारतस्य राज्यानि
(ख) ‘भ्राता’ इति पदेन कः राज्यः संकेतितः अस्ति ?
(i) मणिपुरम्
(ii) सिक्किमः
(iii) त्रिपुरा
(iv) नागालैण्ड
उत्तर :
(ii) सिक्किमः
(ग) सप्तभगिन्यः प्रदेशे ‘नागा’ इति जनजाति: कुत्र वसति?
(i) त्रिपुरायाम्
(ii) मेघालये
(iii) नागालैण्डे
(iv) सिक्किमे
उत्तर :
(iii) नागालैण्डे
(घ) वंशवृक्षनिर्मितानि वस्तूनि कस्मिन् प्रदेशे प्रसिद्धानि सन्ति?
(i) केरलप्रदेशे
(ii) पंजाबे
(iii) पूर्वोत्तरप्रदेशेषु
(iv) गुजरातप्रदेशे
उत्तर :
(iii) पूर्वोत्तरप्रदेशेषु
![]()
मञ्जूषातः उचितपदं चित्वा रिक्तस्थानानि पूरयत ।
(मञ्जूषा से उचित पद को चुनकर रिक्त स्थान भरिए । )
मञ्जूषा – अष्ट, वंश, नद्यः, भ्राता
(क) भारतस्य पूर्वोत्तरभागे स्थितानि ________ राज्यानि ‘अष्टभगिन्यः’ इति प्रसिद्धानि ।
उत्तर :
अष्ट
(ख) सिक्किम: सप्तभगिन्यः सह एकः ________ इति प्रसिद्धः।
उत्तर :
भ्राता
(ग) पूर्वोत्तरप्रदेशेषु ________ वृक्षाणां प्रचुरता अस्ति।
उत्तर :
वंश
(घ) अस्मिन् भूभागे बराक्-ब्रह्मपुत्रादयः ________ ।
उत्तर :
नद्यः
विलोमशब्दैः सह मेलनं कुरुत ।
(विलोम शब्दों के साथ मिलान कीजिए।)
| शब्द: | विलोम-शब्दः |
| (क) प्रथितः | (i) अकुशल |
| (ख) स्वदेशस्य | (ii) अपूर्णता |
| (ग) निष्णाता | (iii) प्रदेशस्य |
| (घ) परिपूरिता | (iv) अप्रथितः |
उत्तर :
| शब्द: | विलोम-शब्दः |
| (क) प्रथितः | (iv) अप्रथितः |
| (ख) स्वदेशस्य | (iii) प्रदेशस्य |
| (ग) निष्णाता | (i) अकुशल |
| (घ) परिपूरिता | (ii) अपूर्णता |
अधोलिखितानां प्रश्नानां उत्तरं पूर्णवाक्येन लिखत ।
(नीचे दिए गए प्रश्नों के पूर्ण वाक्य में उत्तर लिखिए।)
(क) अष्टभगिन्यः इत्यस्मिन् को भ्राता अस्ति ?
उत्तर :
अष्टभगिन्यः इत्यस्मिन् भ्राता सिक्किमः अस्ति ।
(ख) सप्तभगिन्यः प्रदेशेषु का प्राकृतिकसम्पद् अस्ति ?
उत्तर :
पर्वताः, नद्यः, वंशवृक्षाः, पुष्पाणि, जनजातीय -सांस्कृतिकवैविध्यम् च।
(ग) पूर्वोत्तरप्रदेशेषु का हस्तशिल्पकारः प्रसिद्धः अस्ति?
उत्तर :
वंशवृक्षेभ्यः निर्मितं हस्तशिल्पम् प्रसिद्धम् अस्ति।
(घ) कति प्रकाराः दिशः सन्ति? तेषां नामानि लिखत ?
उत्तर :
दिशा: अष्ट प्रकाराः सन्ति । पूर्वदिशा, पश्चिमदिशा, उत्तरदिशा, दक्षिणदिशा, ईशानदिशा, नैऋत्यदिशा, आग्नेयदिशा, वायव्यदिशा इति एतानि तेषां नामानि सन्ति।
![]()
मञ्जूषातः उचितपदैः श्लोकानां पूर्ति कुरुत ।
(मञ्जूषा से उचित पदों के द्वारा श्लोकों की पूर्ति कीजिए।)
मञ्जूषा- मत्रयं, तथाद्वयम्, सप्तकं, न-त्रि, मनोहरम्, सप्तराज्यसमूहोऽयं, लघुः, सिक्किम, विश्रुतः, कोणमैशान्यं
(क) अद्वयं ________ चैव ________- युक्तं ________ ।
________ भगिनी: ________ मतम्।।
उत्तर :
अद्वयं मत्रयं चैव न- -त्रि-युक्तं तथाद्वयम् ।
सप्तराज्यसमूहोऽयं भगिनी: सप्तकं मतम् ।।
(ख) तेन युक्तो ________भ्राता ________ इति ________।
पश्यत ________ भारतस्य ________।
उत्तर :
तेन युक्तो लघु भ्राता सिक्किमः इति विश्रुतः ।
पश्यत कोणमैशान्यं भारतस्य मनोहरम् ।।
अधोलिखितानां राज्यानां राजधान्यः मेलनं कुरुत ।
(नीचे दिए गए राज्यों की राजधानी से मिलान कीजिए।)
| राज्यम् | राजधानी |
| (क) अरुणाचल प्रदेश: | (i) इम्फालः |
| (ख) असमः | (ii) आइजोल: |
| (ग) मणिपुरम् | (iii) ईटानगरम् |
| (घ) मिजोरमः | (iv) दिसपुरम् |
| (ङ) नागालैण्डम् | (v) कोहिमा |
उत्तर :
| राज्यम् | राजधानी |
| (क) अरुणाचल प्रदेश: | (iii) ईटानगरम् |
| (ख) असमः | (iv) दिसपुरम् |
| (ग) मणिपुरम् | (i) इम्फालः |
| (घ) मिजोरमः | (ii) आइजोल: |
| (ङ) नागालैण्डम् | (v) कोहिमा |
वाक्य-निर्माणं
अधोलिखितैः शब्दैः वाक्य – निर्माणं कुरुत ।
(निम्नलिखित शब्दों से वाक्य – निर्माण कीजिए ।)
- स्वर्ग
- रोचते
- समन्विताः
- अस्मिन्
- अतिरिच्च
उत्तर:
- एतानि राज्यानि तु भ्रमणार्थं स्वर्ग सदृशानि सन्ति ।
- रोचते मेऽयं विचारः ।
- एतत्प्रदेशिका: बहुभाषाभिः समन्विताः।
- अस्मिन् भूभागे भू-वैविध्यं धारयन्ति।
- एतद् अतिरिच्च अष्टकेन्द्रशासित प्रदेशाः अपि सन्ति ।
![]()
अतिलघु उत्तरीय प्रश्नाः
प्रश्न 1.
कस्मिन् भू-भागे भू-वैविध्यं धारयन्ति ?
उत्तर:
अष्टाराज्यानि
प्रश्न 2.
वयं सर्वे कस्य राज्यानां विषये ज्ञातुमिच्छामः ?
उत्तर:
स्वदेशस्य
प्रश्न 3.
भारतदेशे कति केन्द्रशासित प्रदेशाः सन्ति ?
उत्तर:
अष्ट
लघु उत्तरीय प्रश्नाः
प्रश्न 1.
एतेषु राज्येषु अष्टराज्याम् एकः किमस्ति ?
उत्तर:
एतेषु राज्येषु अष्टराज्याम् एकः समवायोऽस्ति ।
प्रश्न 2.
एतानि राज्यानि क्षेत्रपरिमाणैः कीदृशाः सन्ति ?
उत्तर:
एतानि राज्यानि क्षेत्रपरिमाणैः लघूनि सन्ति।
दीर्घ उत्तरीय प्रश्ना:
प्रश्न 1.
अस्मिन् प्रदेशस्य जनाः कीदृशानि वस्तूनाम् उपयोगः क्रियते ?
उत्तर:
अस्मिन् प्रदेशस्य जनाः हस्तनिर्मितानि वस्तूनाम् उपयोगं क्रियते।
प्रश्न 2.
आगामिनि अबकाशे वयं कुत्र गन्तुमिच्छामः ।
उत्तर:
आगामिनि अवकाशे वयं ‘पूर्वोत्तर राज्ये’ गन्तुम् इच्छामः ।’