Students can access the CBSE Sample Papers for Class 9 Sanskrit with Solutions and marking scheme Set 2 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 9 Sanskrit Set 2 with Solutions
समय: 3 होराः
पूर्णांक: 80
सामान्यनिर्देशाः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रश्नाः सन्ति ।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
‘क’ खण्ड: : अपठितावबोधनम् 10 अङ्काः
‘ख’ खण्डः : रचनात्मककार्यम् 15 अङ्काः
‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् 25 अङ्काः
‘घ’ खण्डः : पठितावबोधनम् 30 अङ्काः - प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
- प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम् एव लेखनीयः ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
(खंड ‘क’)
(अपठित अवबोधनम्) (10 अंङ्का:)
1. अधोलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत । [10]
मानवजीवने छात्रजीवनं प्रशस्ततमम् अस्ति । अस्मिन् एव जीवने नरः भावीजीवनस्य निर्माणं करोति । इदं जीवनं चिन्ताशून्यं आनन्दप्रदं च वदन्ति वृद्धाः। सिद्धान्तरूपेण आजन्मनः पञ्चविंशतिवर्षाणि यावत् छात्रजीवनं प्रसरति इति स्वीक्रियते बुधैः । अध्ययनकाले विद्यार्थी सततं महापुरुषैः सह वदति । महाकवीनां काव्यरसं पीत्वा स्वात्मानं पवित्रीकरोति । ये छात्रजीवने सदाचारस्य जीवनम् आप्नुवन्ति ते व भावीजीवने सफलाः भवन्ति । अतः सर्वथा अभिनन्दनीयम् इदं जीवनम् ।
प्रश्ना:
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् )
(i) नरः कस्मिन् जीवने भावीजीवनस्य निर्माणं करोति ?
उत्तर:
छात्रजीवने
(ii) सिद्धान्तरूपेण कतिवर्ष – पर्यन्तं छात्रजीवनं स्वीक्रियते ?
उत्तर:
पञ्चविंशति वर्षाणि
(iii) छात्र जीवनम् कदा अभिनन्दनीयम् ?
उत्तर:
सर्वथा
(आ) पूर्णवाक्येन उत्तरत्— (केवलं प्रश्नद्वयम्)
(i) छात्रः केषां काव्यरसं पीत्वा स्वात्मानं पवित्रीकरोति ?
उत्तर:
छात्र : महाकवीनां काव्यरसं पीत्वा स्वात्मानं पवित्रीकरोति ।
(ii) के भावीजीवने सफलाः भवन्ति ?
उत्तर:
ये छात्रजीवने सदाचारस्य जीवनं प्राप्नुवन्ति ते एव भावीजीवने सफलाः भवन्ति ।
(iii) अध्ययनकाले विद्यार्थी सततं कैः सह वदति ?
उत्तर:
अध्ययनकाले विद्यार्थी सततं महापुरुषैः सह वदति ।
(इ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तर:
छात्रजीवनम्
(ई) भाषिक कार्यम् – (केवलं प्रश्नत्रयम्)
(i) ‘असफलाः’ पदस्य विपर्ययः लिखत-
(क) चिन्ताशून्यः
(ख) आनन्दप्रदम्
(ग) सफलाः
(घ) जीवनं
उत्तर:
(ग) सफला:
(ii) ‘प्राप्यन्ते’ इत्यस्य अर्थे अनुच्छेदे कः शब्दः प्रयुक्तः ?
(क) भवन्ति
(ख) आप्नुवन्ति
(ग) स्वीक्रियते
(घ) स्वीकृत:
उत्तर:
(ख) आप्नुवन्ति
(iii) ‘प्रशस्ततमम्’ पदं कस्य पदस्य विशेषणमस्ति ?
(क) छात्रजीवनम्
(ख) स्वात्मानम्
(ग) अभिनन्दनीयम्
(घ) भावीजीवने
उत्तर:
(क) छात्रजीवनम्
(iv) ‘नर: भावीजीवनस्य निर्माणं करोति’ इत्यस्मिन् वाक्ये किं कर्तृपदम् ?
(क) नरः
(ख) करोति
(ग) जीवनस्य
(घ) निर्माणं
उत्तर:
(क) नर:
खण्ड – ‘ख’ (15 अंङ्का:)
(रचनात्मकं कार्यम्)
2. भवतः नाम दीपेशः अस्ति । भवान् अधोलिखितं मञ्जूषां दृष्ट्वा शुल्कक्षमार्थं लिखिते अस्मिन् पत्रे रिक्तस्थानानि पूरयत-
सेवायाम्
प्रधानाचार्य महोदयः
सरस्वती विद्या मन्दिर मा. विद्यालयः,
मिहरावली, नव दिल्ली – 30
विषय- शुल्क क्षमार्थं पत्रम्।
श्रीमान् !
सविनयम् (i) ……..अस्ति यत् अहं भवत: (ii) …….नवम्यां कक्षायां पठामि । मम (iii) ………एकस्मिन् कार्यालये एकः लिपिकः अस्ति। तस्य मासिकं वेतनं केवलं (iv) …….. एव अस्ति । मम एकः भ्राता अष्टम्यां कक्षायां पठति । गृहे एका (v) ………………अपि अस्ति । पितुः वेतनेन (vi) ……… भरणपोषणम् अपि येन केन प्रकारेण भवति । अहं (vii)………… प्रतिवर्षं प्रथमं स्थानं प्राप्नोमि । अतः विद्यालयस्य (viii) ……….प्रार्थये। आशासे यत् भवान् मम प्रार्थनां (ix)………
भवत: (x)……….. शिष्यः
दीपेश:
कक्षा : नवम ‘अ’
अनुक्रमाङ्कः-12
मञ्जूषा
विद्यालये, आज्ञाकारी, कक्षायाम्, भगिनी, सार्धद्विसहस्ररुप्यकाणि, पिता, निवेदनम्, पूर्णशुल्कक्षमार्थाय, स्वीकरिष्यति, परिवारस्य
उत्तर:
सेवायाम्
प्रधानाचार्य महोदयः
सरस्वती विद्या मन्दिर मा. विद्यालयः,
मिहरावली, नव दिल्ली – 30
विषय- शुल्क क्षमार्थं पत्रम्।
श्रीमान् !
सविनयम् (i) निवेदनम् अस्ति यत् अहं भवतः (ii) विद्यालये नवम्यां कक्षायां पठामि । मम (iii) पिता एकस्मिन् कार्यालये एक: लिपिक: अस्ति। तस्य मासिकं वेतनं केवलं (iv) सार्धद्विसहस्ररुप्यकाणि एव अस्ति । मम एकः भ्राता अष्टम्यां कक्षायां पठति । गृहे एका (v) भगिनी अपि अस्ति। पितुः वेतनेन (vi) परिवारस्य भरणपोषणम् अपि येन केन प्रकारेण भवति । अहं (vii) कक्षायां प्रतिवर्षं प्रथमं स्थानं प्राप्नोमि । अत: विद्यालयस्य (viii) पूर्णशुल्क क्षमार्थाय प्रार्थये । आशासे यत् भवान् मम प्रार्थनां (ix) स्वीकरिष्यति ।
भवतः (x) आज्ञाकारी शिष्यः
दीपेशः
कक्षा : नवम ‘अ’
अनुक्रमाङ्क:-12
3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत । [1 × 5 = 5]
मञ्जूषा
शोभन्ते, जनाः, भवति, नौकाचालनम्, नौका: नराः, स्वहस्तयो:, हसन्ति, चालयन्ति, परितः, सरोवरम्, वृक्षाः, पश्यन्ति, खगाः, मनोहरं दृश्यम् ।
अथवा
मञ्जूषायां प्रदत्तशब्दानां सहायता ‘मम विद्यालयस्य क्रीडादिवस:’ इति विषयम् अधिकृत्य पञ्च वाक्यानि संस्कृतेन लिखत ।
मञ्जूषा
क्रीडादिवसः, प्रसन्नाः आसन्, अनेकक्रीडाः, धावने, क्रीडाप्रतियोगितासु, प्रथमस्थानम्, क्रीडाक्षेत्रे, विद्यालयस्य, पुरस्कारवितरणम्, गर्वम्, अनुभवामि, कृतवन्तः, प्रधानाचार्यः।
उत्तर:
(i) इदं चित्रं सरोवरस्य वर्तते ।
(ii) नद्यां जनाः नौकाचालनं कुर्वन्ति।
(iii) नरा: आनन्देन हस्तयोः नौकां चालयन्ति ।
(iv) हरितानि पुष्पाणि सर्वत्र शोभन्ते ।
(v) अत्रत्य दृश्यम् अतीव मनोहरमस्ति।
अथवा
अनुच्छेद लेखनम्—
(i) इदं वर्णनं मम विद्यालयस्य क्रीडादिवसस्य अस्ति।
(ii) क्रीडादिवसे अनेकक्रीडाप्रतियोगिताः भवन्ति ।
(iii) मम विद्यालयस्य प्रधानाचार्य : पुरस्कारवितरणं करोति ।
(iv) सर्वे छात्राः प्रसन्नाः भूत्वा तालिकावादनं कुर्वन्ति ।
(v) विजयी छात्र : गर्वम् अनुभवति ।
4. हिन्दी भाषया आङ्गलभाषया वा लिखितानां वाक्यानां संस्कृतेन अनुवादः क्रियताम् । (केवलं पञ्चवाक्यम्) [1 × 5 = 5]
(i) वह वहाँ जाकर पढ़ता है।
He reads after going there.
(ii) दुष्टों की संगति नहीं करनी चाहिए।
The wicked must be avoided.
(iii) इस लड़की का क्या नाम है ?
What is name of this girl?
(iv) गंगा हिमालय से निकलती है।
The Ganga flows from the Himalaya.
(v) छात्र मैदान में खेलते हैं।
Students play in the ground.
(vi) हमारे देश में बहुत से तीर्थ स्थान हैं।
There are many piligrimage in our Country.
(vii) वृक्ष परोपकार के लिए ही फलते हैं।
Tree grows for charity.
उत्तर:
(i) सः तत्र गत्वा पठति ।
(ii) दुष्टानां सङ्गतिः न करणीया ।
(iii) अस्याः बालिकायाः किं नाम अस्ति ?
(iv) गङ्गा हिमालयात् निर्गच्छति ।
(v) छात्रा : क्षेत्रे क्रीडन्ति ।
(vi) अस्माकं देशे बहूनि तीर्थस्थानानि सन्ति।
(vii) वृक्षाः परोपकाराय एव फलन्ति ।
खण्ड -‘ग’ (25 अंङ्काः)
(अनुप्रयुक्त व्याकरणम्)
5. अधोलिखितवाक्येषु रेखाङ्कितपदानां समुचितं सन्धिं सन्धिविच्छेदं वा कृत्वा लिखत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]
(i) उपेन्द्रः वनं गच्छति ।
(ii) सीतायाः ने + अनम् अति सुन्दरम् अस्ति ।
(iii) मया सह तवागमनस्य औचित्यम् नास्ति ।
(iv) अहं सर्वं अपि परिपालयिष्यामि ।
(v) प्रसन्नः भूत्वा, अङ्गुलिषु गणयन्।
उत्तर:
(i) उप + इन्द्र:
(ii) नयनम्
(iii) न + अस्ति
(iv) सर्वम् + अपि
(v) प्रसन्नौः भूत्वा ।
6. उचित शब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]
(i) …….. गुणं वेत्ति ।
(क) गुणी
(ख) गुणिनः
(ग) गुणिना
(घ) गुणाः
उत्तर:
(क) गुणी
(ii) …….. सर्वत्र पूज्यते।
(क) विद्वांसम्
(ख) विद्वान्
(ग) विदिषु
(घ) विद्वांसः
उत्तर:
(ख) विद्वान्
(iii) गृहोद्याने कुल क्रमागतः कल्प …….. स्थितः ।
(क) तरवः
(ख) तरू
(ग) तरु:
(घ) तरोः
उत्तर:
(ग) तरु:
(iv) स ………… सदा पूज्यः ।
(क) तव
(ख) त्वाम्
(ग) माम्
(घ) त्वयि
उत्तर:
(ख) त्वाम्
(v) पूर्वै: …….. अस्माकं तादृशं फलं किमपि न प्राप्तम्।
(क) पुरुषः
(ख) पुरुषैः
(ग) पुरुषम्
(घ) पुरुषान्
उत्तर:
(ख) पुरुषै:
7. उचित धातुरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]
(i) सः तस्य उद्घाटनम्………..।
(क) करिष्यति
(ख) करिष्यन्ति
(ग) करिष्यतः
(घ) करिष्यथः
उत्तर:
(क) करिष्यति
(ii) गीता रमा च तत्र ………..।
(क) पठति
(ख) पठतः
(ग) पठथः
(घ) पठथ
उत्तर:
(ख) पठतः
(iii) शिवास्ते ………. पन्थानः ।
(क) सन्ति
(ख) अस्तु
(ग) सन्तु
(घ) स्तः
उत्तर:
(ग) सन्तु
(iv) ग्रामप्रमुखस्य गृहे महोत्सवः मासान्ते ……… ।
(क) भविष्यन्ति
(ख) भविष्यति
(ग) भविष्यतः
(घ) भविष्यथ
उत्तर:
(ख) भविष्यति
(v) जना: गोदुग्धम् ……… ।
(क) पिबति
(ख) पिबन्ति
(ग) पिबामि
(घ) पिवसि
उत्तर:
(ख) पिबन्ति
8. अधः प्रदत्तशब्दयोः उचित विभक्ति प्रयोगेण वाक्यं पूरयत – (केवलं प्रश्नचुतुष्टयम्) [1 × 4 = 4]
(i) छात्राः ……. बहिः कोलाहलं कुर्वन्ति ।
(क) कक्षाम्
(ख) कक्षायै
(ग) कक्षायाः
(घ) कक्षायाम्
उत्तर:
(ग) कक्षायाः
(ii) लता………. सह ग्रामं गच्छति ।
(क) पित्रा
(ख) पितुः
(ग) पितरम्
(घ) पित्रे
उत्तर:
(क) पित्रा
(iii) अलं………. ।
(क) विवादेन
(ख) विवादं
(ग) विवादात्
(घ) विवाद:
उत्तर:
(क) विवादेन
(iv) ……… विना जीवनं निष्फलम्।
(क) विद्यया
(ख) विद्याम्
(ग) विद्यायै
(घ) विद्यायाः
उत्तर:
(क) विद्याम्
(v) शिष्य …….. नमति ।
(क) गुरवे
(ख) गुरुम्
(ग) गुरु:
(घ) गुरो:
उत्तर:
(ख) गुरुम् ।
9. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नत्रयम्)
(i) कश्चन बालः पाठशालागमनवेलायां………. अगच्छत्। (क्रीड् + तुमुन् )
(क) क्रीडित्वा
(ख) क्रीडितुम्
(ग) क्रीडनाय
(घ) क्रीडन्
उत्तर:
(ख) क्रीडितुम्
(ii) स विद्याव्यसनी ………. + ………. महतीं वैदुषीं सम्पदं च अलभत्। (भूत्वा)
(क) भू + क्त्वा
(ख) भवितुम्
(ग) भोक्तुम्
(घ) भूतः
उत्तर:
(क) भू + क्त्वा
(iii) स विभवक्षयात् देशान्तरं गन्तुम् ……….व्यचिन्तयत्। (इष् + शतृ)
(क) इच्छन्
(ख) इच्छित्वा
(ग) ईक्षयाण:
(घ) इष्टवान्
उत्तर:
(क) इच्छन्
(iv) धनी धनं ……. पुण्यम् अर्जयति (दत्तं)
(क) दा + क्त
(ख) दा + क्त्वा
(ग) दा + तुमुन्
(घ) दा + क्तवतु
उत्तर:
(क) दा + क्त
10. संख्यावाचिशब्दरूपाणाम् उचितं रूपं चित्वा रिक्त स्थानानि पूरयत। (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]
(i) वृक्षात् ………. पत्रे पततः। (द्वि)
उत्तर:
द्वेः
(ii) ………. छात्राणां समूहः क्रीडति । (चतुर्)
उत्तर:
चतसृणाम्
(iii) कालिदासस्य ……….. महाकाव्ये स्तः। (द्वि)
उत्तर:
द्वे
(iv) …….. शाखा वृक्षात् पतति। (एक)
उत्तर:
एका ।
(v) अये ……….. मोदकानि रच्यन्ते। (त्रि)
उत्तर:
त्रीणि ।
11. रेखाङ्कितपदेषु उपसर्गं पृथक् क्रियताम्। (केवलं प्रश्नचतुष्टयम्)
(i) सोमवासरे क्षीर अभिषेकं भवति ।
उत्तर:
अभि
(ii) सः अश्वात् अवरोहति ।
उत्तर:
अव
(iii) परिक्षायाः परिणामः आगतः ।
उत्तर:
परि
(iv) श्रेष्ठिपुत्रः अभ्यागतेन सह प्रस्थितः।
उत्तर:
प्र
(v) स: पठने उत्रयति ।
उत्तर:
उत्।
12. वाक्यानुसारेण उचितं अव्ययपदं लिखत (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]
(i) ………. भवान् किं खादति ?
(क) इदायीम्
(ख) अद्य
(ग) अत्र
(घ) अधुना
उत्तर:
(घ) अधुना
(ii) ………. मेघाः वर्षन्ति ।
(क) एक
(ख) अपि
(ग) यदा
(घ) इदानीम्
उत्तर:
(घ) इदानीम्
(iii) वृद्ध: मार्गे ……… गच्छति ।
(क) शीघ्रम्
(ख) शनेः
(ग) उच्चैः
(घ) अधुना
उत्तर:
(ख) शनै:
(iv) सूपकराणां मेषेण सह एषः कलहः ……….. भवतां विनाशकारणं भविष्यति ।
(क) यदा
(ख) नूनं
(ग) कदापि
(घ) सम्प्रति
उत्तर:
(ख) नूनं
(v) अहम् ………. गृहं गमिष्यामि ।
(क) य:
(ख) खः
(ग) अपि
(घ) एव
उत्तर:
(ग) अपि
खण्ड-‘घ’
(पठित-अवबोधनम्)
13. अधोलिखितं गद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
धर्मो रक्षति रक्षितः इत्यार्षवचनम्। पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमिति ऋषयः प्रतिपादितवन्तः । अत एव वापीकूपतडागादिनिर्माणं देवायतनविश्रामगृहादिस्थापनञ्च धर्मसिद्धेः स्रोतोरूपेणाङ्गीकृतम्। कुक्कुरसूकरसर्पनकुलादिस्थलचरा, मत्स्यकच्छपमकरप्रभृतयः जलचराश्चापि रक्षणीया:, यतस्ते स्थलमलापनोदिनो जलमलानाम् अपहारिणश्च । प्रकृतिरक्षयैव सम्भवति लोकरक्षेति न संशयः ।
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) लोकरक्षा कथं संभवति ?
(ii) प्रकृतिरक्षयैव का सम्भवति ?
(iii) धर्मोरक्षति रक्षितः इति किं वचनम् ?
उत्तर:
(i) प्रकृतिरक्षयैव
(ii) लोकरक्षा
(iii) आर्षवचनम्।
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम् )
(i) पर्यावरणारक्षणं कस्य अङ्गम् अस्ति ?
उत्तर:
पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति।
(ii) के के स्थलचरा: ?
उत्तर:
कुक्कुटसूकरसर्पनकुलादय: स्थलचराः सन्ति ।
(iii) अस्माभिः पर्यावरणस्य रक्षा किमर्थं करणीया ?
उत्तर:
प्रकृति संरक्षणाय अस्माभिः पर्यावरणस्य रक्षा करणीया ।
(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम् ) [1 × 2 = 2]
(i) ‘भूमिमलापसारिणः’ इत्यर्थे कः पर्यायः प्रयुक्त: ?
उत्तर:
स्थलमलापनोदिनः
(ii) ‘जलराश्चापिरक्षणीया’ अत्र किं क्रियापदं प्रयुक्तं ?
उत्तर:
रक्षणीया
(iii) ‘पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमिति ऋषयः प्रतिपादितवन्तः ‘ अत्र किं कर्तृपदं प्रयुक्तं ?
उत्तर:
ऋषयः।
14. अधोलिखितं पद्यांशं पठित्या प्रश्नानाम् उत्तराणि लिखत-
जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः।
वामबाहून्दश तदा व्यपाहरदरिन्दमः॥
प्रश्ना:
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् )
(i) जटायुः केन प्रहारम् अकरोत् ?
उत्तर:
तुण्डेन
(ii) खगाधिपः रावणस्य कति बाहू व्यपाहरत् ?
उत्तर:
दश
(iii) पक्षिराज : इति कः कथ्यते ?
उत्तर:
जटायुः ।
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम् )
(i) जटायुः प्रहारेण रावणस्य किं व्यपाहरात् ?
उत्तर:
जटायुः प्रहारेण रावणस्य वामबाहून्दश व्यपाहरत् ।
(ii) पक्षिराजः केन आक्रमति ?
उत्तर:
पक्षिराजः तुण्डेन आक्रमति ।
(iii) रावणस्य कति बाहवः सन्ति ?
उत्तर:
रावणस्य दश: बाहवः सन्ति ।
(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम् )
(i) ‘मुखेन’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
उत्तर:
तुण्डेन
(ii) ‘खगाधिपः रावणस्य दश वाहून् व्यपाहरत् ‘ अत्र किं कर्तृपदं प्रयुक्तं ?
उत्तर:
खगाधिपः
(iii) ‘यदा’ इत्यस्य पदस्य अत्र किं विलोमपदं प्रयुक्तं ?
उत्तर:
तदा।
15. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
श्वेतकेतुः – भगवन्! श्वेतकेतुरहं वन्दे
आरुणि: – वत्स ! चिरञ्जीव ।
श्वेतकेतुः – भगवन्! किञ्चित्प्रष्टुमिच्छामि।
आरूणिः – वत्स ! किमद्य त्वया प्रष्टव्यमस्ति ।
श्वेतकेतुः – भगवन्! ज्ञातुम् इच्छामि यत् किमिदं मनः ?
आरुणि: – वत्स! अशितस्यान्नस्य योऽणिष्ठः तन्मनः ।
श्वेतकेतुः – क़श्च प्राण: ?
आरुणिः – पीतानाम् अपां योऽणिष्ठः सः प्राणः ।
श्वेतकेतुः – भगवन्! का इयं वाक् ?
आरुणि: – वत्स! अशितस्य तेजसो योऽणिष्ठः सा वाक्।
सौम्य ! मनः अन्नमयं, प्राणः आपोमयः,
वाक् च तेजोमयी भवति इत्यप्यवधार्यम।
श्वेतकेतुः – भगवन्! भूय एव मां विज्ञापयतु ।
प्रश्ना:
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) पाठेस्मिन् आरुणिः कम् उपदिशति ?
उत्तर:
श्वेतकेतु
(ii) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति ?
उत्तर:
मनस:
(iii) आरुणिः मतानुसारं मनः कीदृशं भवति ?
उत्तर:
अन्नमयं ।
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) आरुणि: प्राणस्वरूपं कथं निरूपयति?
उत्तर:
आरुणिः प्राणस्वरूप विषये कथयति – ‘पीतानाम् अपां योऽणिष्ठः स प्राणः’।
(ii) श्वेतकेतुः कस्यविषये पृच्छति ?
उत्तर:
श्वेतकेतुः वाग्विषये पृच्छति।
(iii) केयं वाक्?
उत्तर:
अशितस्त्र तेजसा योऽपिष्ठः सा वाक् ।
(इ) निर्देशानुसारम् उत्तरत (भाषिक कार्यम्) – (केवलं प्रश्नद्वयम् )
(i) ‘अहं श्वेतकेतुः वन्दे’ अत्र किं क्रियापदं प्रयुक्तम् ?
उत्तर:
वन्दे
(ii) ‘प्रबोधयतु’ इत्यस्य पदस्य अत्र कः पर्यायः प्रयुक्तः ?
उत्तर:
विज्ञापयतु
(iii) ‘सर्वम्’ इत्यस्य पदस्य अत्र कः विलोम पदं प्रयुक्तम् ?
उत्तर:
किञ्चिद्
16. रेखाङ्कितपदानि अनुसृत्य प्रश्ननिर्माणं कृत्वा पूर्णवाक्येषु लिखत – (केवलं प्रश्नचतुष्टयम्)
(i) नद्याः जलं समुद्रमासाद्य अपेयं भवति ।
उत्तर:
नद्याः जलं कुत्र अपेयं भवति ?
(ii) मध्यमानस्य दर्ध्नः अणिमा ऊर्ध्वं समुदीषति ?
उत्तर:
कस्य दर्ध्नः अणिमा ऊर्ध्वं समुदीषति ?
(iii) धर्मसर्वस्वं श्रुत्वा अवधार्यताम् ।
उत्तर:
किम् श्रुत्वा अवधार्यताम् ?
(iv) वृक्षाः फलानि न खादन्ति ।
उत्तर:
वृक्षाः कानि न खादन्ति ?
(v) भवता घृतोत्पत्तिरहस्यं व्याख्यातम् ।
उत्तर:
केन घृतोत्पत्तिरहस्यं व्याख्यातम् ?
17. अधोलिखितस्य श्लोकस्य अन्वये रिक्तस्थानपूर्ति क्रियताम्-
तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे ।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥
अन्वयः
सः जटायुरथः तम् (i) …….. तु (ii) …….. । रावणं च (iii) ………… क्षिप्रं वैदेहीं ददर्श ।
मञ्जूषा- शुश्रुवे, निरीक्ष्य, शब्दमवसुप्तः
अथवा
अधोलिखितस्य श्लोकस्य भावार्थे रिक्त स्थान पूर्तिं क्रियताम्-
श्लोकः
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवा अवधार्मताम् धार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥
भावः
अस्यश्लोकस्य भावः अस्ति यत् धर्मस्य वचनं (i) …….. एव तम् मनसि चिन्तनं मननं क्रियताम् (ii) ……. च। आत्मवत् सदृश एव (iii) …….. समाचरेत् न विपरीतानि ।
मञ्जूषा- अन्येषां, आकर्ण्य, अवधार्यताम्
उत्तर:
सः जटायुरथः तम् (i) शब्दमवसुप्त तु (ii) शुश्रुवे । रावणं च (iii) निरीक्ष्य क्षिप्रं वैदेहीं ददर्श ।
अथवा
भावार्थ:
अस्य श्लोकस्य भावः अस्ति यत् धर्मस्य वचनं (i) आकर्ण्य एव तम् मनसि चिन्तनं मननं च क्रियताम् (ii) अवधार्यताम् च। आत्मवत् सदृशः एव (iii) अन्येषां समाचरेत् न विपरीतानि ।
18. घटनाक्रमानुसारं लिखत-
(i) पुरुषार्थैरेव लक्ष्यं प्राप्यते ।
(ii) नूनं सत्यमत्र पश्यामि ।
(iii) अये ! मामेवोद्धिश्य भद्रपुरुषोऽयम् अधिक्षिपति ।
(iv) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
(v) भो नरोत्तम ! नाऽहं जाने यत् कोऽस्ति भवान्।
(vi) तदिदानीं विद्याध्ययनाय गुरुकुलमेव गच्छामि।
(vii) तदियं भगवत्याः शारदाया अवमानना।
(viii) उन्मीलितं मे नयनयुगलम्।
उत्तर:
(i) अये! मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति।
(ii) नूनं सत्यमत्र पश्यामि ।
(iii) तदियं भगवत्याः शारदाया अवमानना ।
(iv) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः ।
(v) पुरुषार्थैरेव लक्ष्यं प्राप्यते ।
(vi) भो नरोत्तम ! नाऽहं जाने यत् कोऽस्ति भवान्।
(vii) उन्मीलितं मे नयनयुगलम्।
(viii) तदिदानीं विद्याध्ययनाय गुरुकुलमेव गच्छामि।
19. (क) अधोलिखितानां रेखांकितपदानां प्रसङ्गानुकूलम् उचितार्थं चिनुत । (केवलं प्रश्नचतुष्टयम्)
(i) अनेन राक्षसेन्द्रेणा करुणं पापकर्मणा ।
(ii) निवर्तय मतिं नीचां परदाराभिमर्शनात्।
(iii) वनस्पतिगतः श्रीमान्यवाजहार शुभां गिरम् ।
(iv) भवद्भिः उन्मीलितं मे नयनयुगलम्।
(v) स्वर्णकाकेन स्वर्णस्थाल्यां भोजने पर्यवेषितम् ।
मञ्जूषा- उद्घाटितम्, दानवपतिना, पर्यवेषणं कृतम्, परस्त्रीस्पर्शात्, अकथयत्
उत्तर:
(i) दानवपतिना
(ii) परस्त्रीस्पर्शात्
(iii) अकथयत्
(iv) उद्घाटितम्
(v) पर्यवेषणं कृतम्
(ख) अधोलिखितानां शब्दानां अर्थैः सहमेलनम् कुरुत – (केवलं प्रश्नचतुष्टयम्)
(i) उपैति – पाण्डित्यं
(ii) वैदुष्यम् – प्राप्नोति
(iii) ध्रुवम् – शीघ्रम्
(iv) क्षिप्रम् – असमर्थः
(v) अक्षम: – निश्चितम्।
उत्तर:
(i) उपैति – प्राप्नोति
(ii) वैदुष्यम् – पाण्डित्यं
(iii) ध्रुवम् – निश्चितं
(iv) क्षिप्रम् – शीघ्रम्
(v) अक्षमः – असमर्थः ।