Check the below Class 8 Sanskrit MCQ Chapter 2 अल्पानामपि वस्तूनां संहतिः कार्यसाधिका with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 8 Sanskrit Chapter 2 Questions and Answers at LearnInsta.
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका Class 8 MCQ Questions Sanskrit Chapter 2
पठित-अवबोधनम्
• अधोलिखितानां गद्यांशानां पठित्वा गद्यांशाधारित प्रश्नानां उत्तराणि निर्देशानुसारं लिखत ।
(निम्नलिखित गद्यांशों को पढ़कर गद्यांश पर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखिए ।)
प्रश्न 1.
“कानिचन मित्राणि विद्यालयस्य ग्रीष्मावकाशे पुण्यक्षेत्रदर्शनाय देवभूमिम् ‘उत्तराखण्डम्’ अगच्छन्। तदानी वर्षारम्भकालः आसीत्। सर्वेऽपि गौरीकुण्डनामकं स्थानं प्राप्तवन्तः । यदा ते श्रीकेदारक्षेत्रम् आरोहन्तः आसन् तदा लक्ष्यप्राप्तेः पूर्वं वेगेन वृष्टिः आरब्धा । सहसा सर्वत्र अन्धकारः प्रसृतः । नद्याः तीव्रजलवेगेन सेतुः भग्नः । पर्वतस्खलनं सञ्जातम् । सर्वेऽपि उच्चस्वरेण अक्रन्दन् ईश्वरं प्रार्थयन्त च ‘हे भगवन्! रक्ष अस्मान् रक्ष’ इति सर्वेषाम् अधैर्यं दृष्ट्वा नायकः सुधीरः सर्वान् सांत्वयन् प्रेरयन् च अवदत्
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए ।)
- नद्या: तीव्रजलवेगेन कः भग्नः ?
- सर्वेषाम् दृष्ट्वा कः सांत्वयन् प्रेरयन् च अवदत् ?
- सर्वेऽपि कुत्र स्थानं प्राप्तवन्तः ?
- के ग्रीष्मावकाशे देवभूमिम् ‘उत्तराखण्डम्’ अगच्छन्?
उत्तर:
- सेतु:
- सुधीर :
- गौरीकुण्डनामकं
- मित्राणि
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- कः ईश्वरेण प्रार्थयन्तः ?
- पूर्वं वेगेन वृष्टिः कदा आरब्धा?
उत्तर:
- सर्वेऽपि उच्चस्वरेण ईश्वरं प्रार्थयन्तः ।
- पूर्वं वेगेन वृष्टि यदा ते श्रीकेदारक्षेत्रम् आरोहन्तः आरब्धाः ।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए।)
- ‘वेगेन’ शब्दस्य विलोम पदमस्ति ?
- “देवभूमिम् उत्तराखण्डम् अगच्छन्।” वाक्ये क्रियापदम् किमस्ति?
उत्तर:
- शनै:
- अगच्छन्
IV. अधोलिखितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चित्वा लिखत ।
(निम्नलिखित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनकर लिखिए।)
(i) ‘वेगेन’ शब्दे का विभक्ति ?
(क) पञ्चमी
(ख) चतुर्थी
(ग) द्वितीया
(घ) तृतीया
उत्तर:
(घ) तृतीया
(ii) सुधीरः कः आसीत्?
(क) कपोतराजः
(ख) नायक:
(ग) मूषकराज:
(घ) विदूषक
उत्तर:
(ख) नायक:
(iii) ‘ग्रीष्मावकाशे’ पदस्य सन्धि-विच्छेदं किम् ?
(क) ग्रीष्म + अवकाशे
(ख) ग्रीष्माव + काशे
(ग) ग्रीष्मा + वकाशे
(घ) ग्रीष्म + आवकाशे
उत्तर:
(क) ग्रीष्म + अवकाशे
(iv) ‘आसीत्’ पदे कः लकारः?
(क) लृट् लकार:
(ख) लोट् लकार:
(ग) लङ् लकार:
(घ) लट् लकार:
उत्तर:
(ग) लङ् लकार:
![]()
2. अस्ति गोदावरीतीरे एको विशालः शाल्मलीतरुः। तत्र प्रतिदिनं दूरदेशात् पक्षिणः आगत्य निवसन्ति स्म । अथ कदाचित् तत्र कश्चिद् व्याधस्तण्डुलकणान् विकीर्य जालं विस्तीर्य च प्रच्छन्नो भूत्वा स्थितः । तस्मिन्नेव काले चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशमार्गे गच्छति स्म। केचन कपोताः वनमध्ये तण्डुलकणान् अवलोक्य लोभाकृष्टाः अभवन्। ततो चित्रग्रीवः तण्डुलकणलुब्धान् कपोतान् अवदत्-“कुतोऽत्र निर्जने वने तण्डुलकणानां सम्भवः तद् निरूप्यताम्। कश्चिद् व्याधोऽत्र भवेत् । सर्वथा अविचारितं कर्म न कर्त्तव्यम्।” एतद्वचनं श्रुत्वा कश्चित् कपोतः सदर्पम् अवदत् -‘आः किमर्थम् एवमुच्यते ?
I. एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए ।)
- गोदावरीतीरे एको विशाल किमस्ति ?
- शाल्मलीवृक्षे का आगत्य निवसन्ति स्म ?
- सर्वथा अविचारितं किम् न कर्त्तव्यम् ?
- कः सदर्पम् अवदत् ?
उत्तर:
- शाल्मलीतरुः
- पक्षिणः
- कर्म
- कपोतः
II. पूर्णवाक्येन उत्तरत।
(पूर्ण वाक्य में उत्तर दीजिए ।)
- कः तण्डुलान् विकीर्य जालं विस्तीर्य च प्रच्छन्नो भूत्वा स्थितः ?
- अविचार्यः कर्म कः करोति ?
उत्तर:
- व्याधः तण्डुलान् विकीर्य जालं विस्तीर्य च प्रच्छन्नो भूत्वा स्थितः ।
- कपोता: अविचार्यः कर्मः करोति।
III. निर्देशानुसारम् उत्तरत।
(निर्देशानुसार उत्तर दीजिए।)
- ‘भूत्वा’ इत्यस्मिन् पदे का धातु ?
- ‘जालम्’ इत्यस्मिन् पदे का विभक्ति ?
उत्तर:
- भू
- द्वितीया
IV. अधोलिखितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चित्वा लिखत ।
(निम्नलिखित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनकर लिखिए।)
(i) ‘भूत्वा’ पदे कः प्रत्यय ?
(क) क्त्वा
(ख) क्त
(ग) त्वा
(घ) क्तवतु
उत्तर:
(क) क्त्वा
(ii) ‘आगत्य’ पदे कः उपसर्गः ?
(क) आ
(ख) अ
(ग) आग
(घ) गम्
उत्तर:
(क) आ
(iii) ‘स्म’ पदे लकारः कः अस्ति ?
(क) लङ् लकार:
(ख) लोट् लकार:
(ग) तस्मिन् + एव
(घ) लृट् लकार:
उत्तर:
(क) लङ् लकार:
(iv) ‘तस्मिन्नेव’ पदस्य सन्धि-विच्छेदं किम् ?
(क) तस्मिन् + नेव
(ख) तस्मिन + ऐव
(ग) तस्मिन् + एव
(घ) तस्मिन् + ऐव
उत्तर:
(ग) तस्मिन् + एव
![]()
अधोलिखितं अनुच्छेदं पठित्वा प्रश्नानां उत्तराणि लिखत ।
(निम्नलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर लिखिए।)
(क) अस्ति गोदावरीतीरे एको विशालः शाल्मलीतरुः। तत्र प्रतिदिनं दूरदेशात् पक्षिणः आगत्य निवसन्ति स्म । अथ कदाचित् तत्र कश्चिद् व्याधस्तण्डुलकणान् विकीर्य जालं विस्तीर्य च प्रच्छन्नो भूत्वा स्थितः । तस्मिन्नेव काले चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशमार्गे गच्छति स्म। केचन कपोता: वनमध्ये तण्डुलकणान् अवलोक्य लोभाकृष्टाः अभवन्। ततो चित्रग्रीवः तण्डुलकणलुब्धान् कपोतान् अवदत् – “कुतोऽत्र निर्जने वने तण्डुलकणानां सम्भवः तद् निरूप्यताम् । कश्चिद् व्याधोऽत्र भवेत् । सर्वथा अविचारितं कर्म न कर्तव्यम् । ” एतद्वचनं श्रुत्वा कश्चित् कपोतः सदर्पम् अवदत् – “आः किमर्थम् एवमुच्यते ?
I. एकपदेन उत्तरत।
(i) पक्षिणः कुतः आगच्छन्ति स्म ?
उत्तर :
दूरदेशात्
(ii) शाल्मलीतरुः कुत्र आसीत् ?
उत्तर :
गोदावरी तीरे
II. पूर्णवाक्येन उत्तरत ।
(i) एकः व्याधः किम् अकरोत् ?
उत्तर :
एकः व्याधः तण्डुलकणान् विकीर्य जालं विस्तीर्य च प्रच्छन्नो भूत्वा स्थितः ।
(ii) आकाशमार्गे कः गच्छति स्म ?
उत्तर :
चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशमार्गे गच्छति स्म ।
III. भाषिककार्यम् ।
(i) ‘निवसन्ति स्म’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) पक्षिणः
(ख) व्याधः
(ग) चित्रग्रीवः
उत्तर :
(क) पक्षिणः
(ii) ‘निर्जने वने’ अत्र विशेषणपदं किम् ?
(क) वने
(ख) निर्जने
(ग) उभौ
उत्तर :
(ख) निर्जने
(iii) ‘केचन कपोता:’ अत्र विशेष्यपदं किम् ?
(क) केचन
(ख) कपोता:
(ग) उभौ
उत्तर :
(ख) कपोता:
(iv) “दर्पेण सहितम्” इति पदस्य अर्थे किं समस्तपदं आगतम् ?
(क) सदर्पम्
(ख) सगर्वम्
(ग) सविस्मयम्
उत्तर :
(क) सदर्पम्
![]()
प्रदत्तविकल्पेभ्यः उचितं उत्तरं चिनुत ।
(दिए गए विकल्पों से सही उत्तर चुनिए ।)
(क) कर्म न कर्तव्यम्-
(i) सुविचारितं
(ii) अविचारितं
(iii) शीघ्रं
उत्तर :
(ii) अविचारितं
(ख) विपत्काले कापुरुषलक्षणम् एव–
(i) विस्मयः
(ii) धैर्य:
(iii) विक्रम:
उत्तर :
(i) विस्मयः
(ग) विपदि सत्पुरुषाणां लक्षणम् तु–
(i) विक्रमः
(ii) धैर्यम्
(iii) विस्मयः
उत्तर :
(ii) धैर्यम्
(घ) वस्तूनां संहतिः कार्यसाधिका भवति –
(i) वृहत्तानाम्
(ii) लघूनाम्
(iii) महत्तानाम्
उत्तर :
(ii) लघूनाम्
(ङ) हिरण्यकः सर्वदा शतद्वारं विवरं कृत्वा निवसति-
(i) अनिष्टशङ्कया
(ii) शुभशङ्कया
(iii) दोषशङ्किया
उत्तर :
(i) अनिष्टशङ्कया
(च) आपत्काले वचनं ग्राह्यम्-
(i) वृद्धानाम्
(ii) कपोतानाम्
(iii) दुष्टानाम्
उत्तर :
(i) वृद्धानाम्
विलोमपदानि मेलयत ।
(विलोम पदों को मिलाइए।)
| ‘क’ | ‘ख’ |
| (क) उपकृत्य | (i) निःसृत्य |
| (ख) उपसरति | (ii) ग्राह्यम् |
| (ग) प्रविश्य | (iii) पराजित्य |
| (घ) परित्यज्य | (iv) अपकृत्य |
| (ङ) विजित्य | (v) अपगम्य |
| (च) विस्मृत्य | (vi) अपसरति |
| (छ) उपगम्य | (vii) स्मृत्वा |
उत्तर :
| ‘क’ | ‘ख’ |
| (क) उपकृत्य | (iv) अपकृत्य |
| (ख) उपसरति | (vi) अपसरति |
| (ग) प्रविश्य | (i) निःसृत्य |
| (घ) परित्यज्य | (ii) ग्राह्यम् |
| (ङ) विजित्य | (iii) पराजित्य |
| (च) विस्मृत्य | (v) अपगम्य |
![]()
पर्यायपदानि मेलयत ।
(पर्याय पदों को मिलाइए।)
| ‘क’ | ‘ख’ |
| (क) नत्वा | (i) विज्ञाय |
| (ख) लिखित्वा | (ii) निरीक्षण |
| (ग) पूजयित्वा | (iii) प्रणम्य |
| (घ) दृष्ट्वा | (iv) सम्पूज्य |
| (ङ) ज्ञात्वा | (v) विलिख्य |
| (च) हसित्वा | (vi) प्रदाय |
| (छ) दत्वा | (vii) विहस्य |
उत्तर :
| ‘क’ | ‘ख’ |
| (क) नत्वा | (iii) प्रणम्य |
| (ख) लिखित्वा | (v) विलिख्य |
| (ग) पूजयित्वा | (iv) सम्पूज्य |
| (घ) दृष्ट्वा | (ii) निरीक्षण |
| (ङ) ज्ञात्वा | (i) विज्ञाय |
| (च) हसित्वा | (vii) विहस्य |
| (छ) दत्वा | (vi) प्रदाय |
समासयुक्तपदेन रिक्तस्थानं पूरयत-
(समास युक्त पद से रिक्त स्थान भरिए ।)
(क) शोकं पतितः
उत्तर :
शोकपतितः
(ख) हस्तेन लिखित:
उत्तर :
हस्तलिखित:
(ग) काकेभ्यः बलि:
उत्तर :
काकबलिः
(घ) सुखेन युक्तः
उत्तर :
सुखयुक्तं :
(ङ) सिंहात् भयम्
उत्तर :
सिंह भयम्
(च) वृक्षात् पतितः
उत्तर :
वृक्ष पतितः
(छ) राज्ञः सेवकः
उत्तर :
राजसेवकः
सन्धि-विच्छेदं कुरुत |
(संधि-विच्छेद कीजिए ।)
(क) सुखार्थी – ________ + ________
उत्तर :
सुख + अर्थी
(ख) नास्ति – ________ + ________
उत्तर :
न + अस्ति
(ग) परमेश्वरः – ________ + ________
उत्तर :
परम + ईश्वरः
(घ) महर्षिः – ________ + ________
उत्तर :
महा + ऋषिः
(ङ) विद्यौज : – ________ + ________
उत्तर :
विद्या + ओज :
![]()
(च) तथैव – ________ + ________
उत्तर :
तथा + एव
(छ) अन्वयः – ________ + ________
उत्तर :
अनु + अयः
(ज) भवति – ________ + ________
उत्तर :
भो + अति
(झ) पदच्छेदः – ________ + ________
उत्तर :
पद + छेद:
(ञ) कश्चित् – ________ + ________
उत्तर :
नमः + ते
कः + चित्
(ट) पुरुषोऽस्ति – ________ + ________
उत्तर :
पुरुष: + अस्ति
वाक्य-निर्माणं
3. अधोलिखितैः शब्दैः वाक्य-निर्माणं कुरुत।
(निम्नलिखित शब्दों से वाक्य निर्माण कीजिए ।)
- कश्चित्
- शाल्मलीतरुः
- रक्ष
- कथां
- शक्नुमः
उत्तर:
- कश्चित् व्याधोऽत्र भवेत् ।
- गोदावरीतीरे विशालः शाल्मलीतरुः अस्ति ।
- ‘रक्ष अस्मान् रक्ष’ इति ।
- अहं हितोपदेशस्य कथां श्रावयामि ।
- असम्भं च कार्यं कर्तुं शक्नुमः ।
![]()
अतिलघु उत्तरीय प्रश्ना:
प्रश्न 1.
उत्तराखण्डस्य भूमिः कीदृशी अस्ति ?
उत्तर:
देवभूमिः
प्रश्न 2.
गौरीकुण्डनामकं स्थाने किम् अभवत् ?
उत्तर:
पर्वतस्खलनं सञ्जातम्
प्रश्न 3.
नायकस्य प्रेरक वचनैः कैः उत्साहिता अभवन् ?
उत्तर:
सर्वेऽपि
लघु उत्तरीय प्रश्नाः
प्रश्न 1.
‘अस्माकं मृत्युः एव सन्निकटे अस्ति’ केन उक्तम्।
उत्तर:
प्रस्तुत वाक्य: दिनेशेन उक्तम् ।
प्रश्न 2.
कपोताः भूमौ अवतीर्य कान् भोक्तुं प्रवृत्ताः?
उत्तर:
कपोताः भूमौ अवतीर्य ‘तण्डुलकणान्’ भोक्तुं प्रवृत्ताः।
दीर्घ उत्तरीय प्रश्ना:
प्रश्न 1.
‘कापुरुषलक्षणम्’ किम् अस्ति ?
उत्तर:
यः विपत्काले विस्मयः एव कापुरुषलक्षणम्।
प्रश्न 2.
मूषकराजः कुत्र निवसति ?
उत्तर:
मूषकराज: गण्डकीतीरे चित्रवने निवसति ।