CBSE Class 6 Sanskrit Sample Papers
CBSE Class 6 Sanskrit Sample Paper Set 1
समय: – घण्टात्रयम्
अड्का: – 80
खण्ड: ‘क’-अपठित-अवबोधनम् [10]
1. निम्नगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत।
दिनेशः परिवारेण सह जन्तुशालां गच्छति। जन्तुशालायां बहवः पशुपक्षयः सन्ति। दिनेशः सिंहं पश्यति। सिंह: उच्चै: गर्जति। ततः स: मयूरं पश्यति। मयूर: अस्माकम् राष्ट्रीयपक्षी। वर्षा-आगमन-काले स: शोभनं नृत्यति। जन्तुशालायाम् अनेके मृगा: इतस्तः धावन्ति। वानरा: तत्र कदलीफलानि खादन्ति।
प्रश्ना:
(क) एकपदेन उत्तरत- [1 × 3 = 3]
(i) दिनेशः कुत्र गच्छति?
(ii) कः उच्चै: गर्जति?
(iii) कदलीफलानि के खादन्ति?
(ख) पूर्णवाक्येन उत्तरत- [2 × 2 = 4]
(i) मयूर: कः?
(ii) जन्तुशालायां के धावन्ति?
(ग) निर्देशानुसारम् उत्तरत- [1 × 3 = 3]
(i) ‘दिनेशः सिंहं पश्यति।’ अत्र क्रियापदं किम्?
(ii) ‘स: मयूरं पश्यति’ अत्र कर्तृपदं किम्?
(iii) ‘जन्तुशालायाम्’ इति पदे का विभक्ति:?
खण्ड: ‘ख’-रचनात्मकं कार्यम् [15]
2. हिन्दीभाषया अनुवादं कुरुत। [1 × 5 = 5]
(क) मोहसिन: गृहात् विद्यालयं गच्छति। ______________
(ख) सौचिकात् जनकः वस्त्राणि नयति। ______________
(ग) माता अपि गोशालायाः दुग्धम् आनयति। ______________
(घ) कृषकाः क्षेत्रात् गृहम् आगच्छन्ति। ______________
(ङ) शरीरात् श्वासं त्यजन्ति परं देशस्य मानं न त्यजन्ति। ______________
3. अधोलिखितवार्तालापम् मञ्जूषायाः सहायतया पूरयत। [1 × 5 = 5]
मातुः पुत्र्याः च संवादः।
मुग्धा – मातः! अहं …………. अस्मि।
माता – यावत् त्वं एतत् दुग्धं पिबसि तावत् अहम् ………………… पचामि।
मुग्धा – मातः! …………………. दुग्धं न रोचते।
अहम् दुग्ध न …………….।
माता – मुग्धे! ……………….. दुग्धम् आवश्यकं भवति।
मुग्धा – अस्तु, वदति चेत् पिबामि।
मञ्जूषा – स्वास्थ्याय, भोजनम, बुभुक्षिता, पास्यामि, महाम्
4. मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्येषु चित्रवर्णनं कुरुत।
मञ्जूषा- विद्यालयं, प्रार्थनासभा, छात्राः, ध्वनिविस्तारकयन्त्रम्, गायन्ति, अध्यापिका
खण्ड: ‘ग’-अनुप्रयुक्त-व्याकरणम् [25]
5. कोष्ठकात् उचितपदं चित्वा रिक्तस्थानानि पूरयत। [1 × 5 = 5]
(क) युवाम् पुस्तकं _________। (पठन्ति/पठथः)
(ख) राम: ________ सह आपणं गच्छति। (पिता/पित्रा)
(ग) तौ ह्यः विद्यालयं _________। (अगच्छः/अगच्छताम्)
(घ) स: श्व: देवालयं _________। (गमिष्यति/गच्छन्ति)
(ङ) वने पशव: _________। (अस्ति/सन्ति)
6. प्रदत्तविकल्पेभ्यः उचितम् उत्तर चिनुत। [1 × 5 = 5]
(क) ‘गच्छति’ क्रियापदस्य मूलधातुरूपम् अस्ति-
(i) गम् (ii) गच्छ् (iii) गछ्
(ख) ‘ज्वल्’ इति मूलपदस्य बहुवचनरूपम् अस्ति-
(i) ज्वलति (ii) ज्वलन्ति (iii) ज्वलत:
(ग) ‘बालकौ’ इति कर्तृपदस्य क्रियापदं भविष्यति-
(i) हसति (ii) हसत: (iii) हसन्ति
(घ) ‘स्था’ इति मूलपदस्य द्विवचनरूपं भवति-
(i) तिष्ठत: (ii) तिष्ठन्ति (iii) तिष्ठति
(ङ) ‘अर्चन्ति’ क्रियापदस्य वचनम् अस्ति-
(i) एकवचनम् (ii) द्विवचनम् (iii) बहुवचनम्
7. पर्यायशब्देन रिक्तस्थानं पूरयत। [1 × 5 = 5]
(क) आकाशे _________ सन्ति। (वारिद)
(ख) अहम् _________ गच्छामि। (उद्यान)
(ग) सा मम _________ अस्ति। (अम्बा)
(घ) _________ मत्स्या: सन्ति। (नदी)
(ङ) _________ वृक्षे कूर्दन्ति। (कपि)
8. अधोलिखितानि क्रियापदानि शुद्धं कृत्वा वाक्यानि पुनः लिखत। [1 × 10 = 10]
(क) त्वं गच्छति। _________
(ख) तौ पुस्तकं पठन्ति। _________
(ग) युवां पाठं स्मरतः। _________
(घ) यूयं तीव्रं हसथः। _________
(ङ) मीनाः तडागे तरति। _________
(च) वानराः वृक्षेषु कूर्दति। _________
(छ) अहं रोटिकां खादामः। _________
(ज) त्वम् उद्याने क्रीडतः। _________
(झ) सारिके तत्र कूजति। _________
(ज) त्वं दुग्धं पिबति। _________
खण्ड: ‘घ’-पठित-अवबोधनम् – [30]
9. संज्ञापदानि अधिकृत्य प्रश्ननिर्माणं कुर्वन्तु।
(क) स: बालकः। – _________
(ख) सा लता। – _________
(ग) सा नदी। – _________
(घ) तत् फलम्। – _________
(ङ) स: वृक्षः। – _________
10. वाक्येषु शिष्टाचारपदं योजयन्तु। [1 × 5 = 5]
(क) सा दुर्बलानां _________ करोति।
(ख) सर्वेषु प्राणिषु _________ भवतु।
(ग) सर्वें छात्रा: पाठशालाया: _________ कुर्वन्तु।
(घ) वयं सर्वे अतिथीनां _________ कुर्मः।
(ङ) परस्परं छात्रेषु _________ भवतु।
11. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु। [1 × 5 = 5]
(क) सरोवरस्य तीरे सकोमलभूमौ बिलेषु के निवसन्ति?
(ख) केषां परिभ्रमणेन शशका: क्षतविक्षताः मृताः च भवन्ति?
(ग) शशकराजः कस्य समीपं गच्छति?
(घ) के स्वमतं प्रकाशयन्ति?
(ङ) क: चन्द्रं नमति?
12. अधोलिखितानां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखन्तु। [2 × 5 = 10]
(क) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?
(ख) उदारचरितानां भावः कः भवति?
(ग) मृगा: स्वयमेव कस्य मुखे न प्रविशन्ति?
(घ) अभिवादनशीलस्य नित्यं कानि वर्धन्ते?
(ङ) मनुष्य: धनात् किम् आप्नोति?
13. अधोलिखितानां, प्रश्नानाम् उत्तराणि ‘आम्’ अथवा ‘न’ इति पदेन लिखन्तु। [1 × 5 = 5]
(क) भिक्षुक: उन्नत: दृढकाय: च आसीत्। _____________
(ख) जना: तस्मै दण्डं यच्छन्ति। _____________
(ग) भिक्षुकः प्रभूतं धनम् इच्छति। _____________
(घ) भिक्षुक: धनिकाय पादौ ददाति। _____________
(ङ) भिक्षुक: भिक्षाटनं त्यजति। _____________
CBSE Class 6 Sanskrit Sample Paper Set 2
खण्ड: ‘क’-अपठित-अवबोधनम् [10]
1. निम्नगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत।
एकस्मिन् वने एकः शृगालः प्रतिवसति स्म। स: बहु चतुरः आसीत्। स: प्रतिदिनं भोजनाय वने इतः तत: भ्रमति स्म। तस्मिन् वने एक: वानरः अपि वसति स्म। तयो: मित्रता अभवत्। एकवारं तौ नदीम् अगच्छताम्। नद्याः जलं शीतलम् आसीत्। तस्मिन् जले बहवः मत्स्या: अपि निवसन्ति स्म।
प्रश्ना:
(क) एकपदेन उत्तरत- [1 × 3 = 3]
(i) वानर: कस्य मित्रम् आसीत्?
(ii) शृगालः कुत्र प्रतिवसति स्म?
(iii) नद्या: जलं कीदृशम् आसीत्?
(ख) पूर्णवाक्येन उत्तरत- [2 × 2 = 4]
(i) मत्स्या: कुत्र निवसन्ति स्म?
(ii) शृगाल: किमर्थं इतः ततः भ्रमति स्म?
(ग) निर्देशानुसारम् उत्तरत- [1 × 3 = 3]
(i) ‘नीरम्’ इति पदस्य पर्यायपदं गद्यांशे किम्?
(ii) ‘स: चतुर: आसीत्। अत्र क्रियापदं किम्?
(iii) ‘उष्णम्’ इति पदस्य विलोमपदं गद्यांशे किम्?
खण्ड: ‘ख’-रचनात्मकं कार्यम् [15]
2. हिन्दीभाषया अनुवादं कुरुत। [1 × 5 = 5]
(क) पत्रवाहकः पत्रालयं गच्छति। ___________
(ख) तन्तुवायः कर्पासान् आनयति। ___________
(ग) श्रमिक: इष्टिका: वहति। ___________
(घ) काष्ठकारः काष्ठान् नयति। ___________
(ङ) अहं नापितः अस्मि। ___________
3. चित्रं दृष्ट्वा अध: प्रदत्तवाक्यानाम् रिक्तस्थानानि मञ्जूषायाः शब्दानां सहायतया पूरयत। [1 × 5 = 5]
मञ्जूषा- गृहाणि, ग्रामस्य, जनाः, वृक्षाः, सूर्य:
(क) इदम् चित्रम् जीवनस्य अस्ति।
(ख) ग्रामे सामान्या: भवन्ति।
(ग) अत्र चित्रे सुन्दराणि सन्ति।
(घ) प्रातःकाले उदितः सुन्दरः अस्ति।
(ङ) अत्र उन्नता: सन्ति।
4. अधोलिखितवार्तालापं मञ्जूषाया: सहायतया पूरयत। [1 × 5 = 5]
पितृव्येण सह संवाद:
पितृव्य: – एते बालका: क्रीडन्ति।
अमितः – पितृव्य! एते बालकाः किं क्रीडन्ति?
पितृव्य: – एते ______ क्रीडन्ति। त्वम् अपि _____?
अमित: – न अहं न _______।
पितृव्य: – त्वं प्रथमं _______
अमित: – तदा अहं ________ करिष्यसि तदा क्रीडिष्यसि। भविष्यामि।
मञ्जूषा- जानामि, क्रिकेटक्रीडां, क्रीडक:, अभ्यासं, जानासि
खण्ड: ‘ग’-अनुप्रयुक्त-व्याकरणम् [25]
5. कोष्ठकात् उचितपदं चित्वा रिक्तस्थानानि पूरयत। [1 × 4 = 4]
(क) _________ पत्राणि पतन्ति। (वृक्षेण/वृक्षात्)
(ख) छात्र: _________ गृहं गच्छति। (क्रीडाक्षेत्रात्/क्रीडाक्षेत्र:)
(ग) गंगा _________ हरिद्वारम् आगच्छति। (गोमुखं/गोमुखात्)
(घ) एषा _________ वाराणसीं गच्छति। (प्रयागात्/प्रयागेन)
6. ‘पठ्’ धातोः रूपाणि लृद्लकारे लिखत।
7. ‘बालक’ इति शब्दस्य रूपाणि द्वितीया-तृतीया विभक्त्यां लिखत।
8. ‘संज्ञापदस्य स्थाने सर्वनामपदं लिखत। [1 × 10 = 10]
(क) बालकौ लिखतः – ______________________
(ख) सैनिका: रक्षन्ति – ______________________
(ग) नरौ हसतः – ______________________
(घ) मयूरा: नृत्मन्ति – ______________________
(ङ) मूषकाः धावन्ति – ______________________
(च) मूषिके धावत: – ______________________
(छ) बालिके पठत: – ______________________
(ज) छात्रा नमति – ______________________
(झ) छात्रा: नमन्ति – ______________________
(अ) व्याघ्रा: गर्जन्ति – ______________________
9. निर्देशानुसारं परिवर्तयत। [1 × 5 = 5]
खण्ड: ‘घ’-पठित-अवबोधनम् [30]
10. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु। [1 × 5 = 5]
(क) राधिका कथं चलति स्म?
(ख) गृहे कति अतिथयः सन्ति?
(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति?
(घ) मार्जार्या: कति शावका:?
(ङ) राधिका मार्जाये किं ददाति?
11. समयम् आधृत्य प्रश्ननिर्माणं कुर्वन्तु। [1 × 5 = 5]
(क) सा सपाद-नववादने विद्यालयं गच्छति। _________
(ख) सतीशः सार्ध-द्वादशवादने भोजन करोति। _________
(ग) यानं पज्चवादने आगच्छति। _________
(घ) गोपाल: षड्वादने गोदोहनं करोति। _________
(ङ) माता दशवादने कार्यालयं गच्छति। [2 × 5 = 10]
12. पूर्णवाक्येन उत्तराणि लिखन्तु।
(क) चन्द्र: कदा प्रसन्न: भवति?
(ख) सायङ्काले केषां सभा भवति?
(ग) शशकाः किमर्थम् उपायं चिन्तयन्ति?
(घ) चन्द्र: केन नाम्ना प्रसिद्ध: अस्ति?
(ङ) “आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः।” इति क: कथयति?
13. अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति लिखन्तु। [1 × 5 = 5]
(क) त्रीणि रत्नानि जलम् अन्नं पाषाणः च सन्ति? _________
(ख) किं धर्मण सुखं प्राप्यते? _________
(ग) किं विद्या विनयं ददाति? _________
(घ) किम अभिवादनशीलस्य विद्या वर्धते? _________
(ङ) किम् उद्यमेन कार्याणि नश्यन्ति? _________
14. पट्टिकातः क्रियापदानि चित्वा वाक्यानि पूरयन्तु। [1 × 5 = 5]
(क) किं चन्द्र: सरोवरे _________
(ख) सर्वे शशकाः उपायं _________
(ग) सायंकाले शशकानां सभा _________
(घ) शशकाः सरोवरस्य तीरे _________
(ङ) स: गजराजं _________
CBSE Class 6 Sanskrit Sample Paper Set 3
खण्ड: ‘क’-अपठित-अवबोधनम् [10]
1. निम्नगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतसर्वे बालकाः उपवने क्रीडन्ति। राघवः एकां चटकां पश्यति। परं तत्र पञ्च चटकाः सन्ति। तत्र काकः अपि आगच्छति। तदा सर्वा: चटकाः चीं चीं कुर्वन्ति। राघवः काकम् अनुधावति।
प्रश्ना:
(क) एकपदेन उत्तरत। [1 × 2 = 2]
(i) बालका: कुत्र क्रीडन्ति?
(ii) राषंवः कां पश्यति?
(ख) पूर्णवाक्येन उत्तरत। [2 × 2 = 4]
(i) काक: आगच्छति तदा चटकाः किं कुर्वन्ति?
(ii) राघव: कम् अनुधावति?
(ग) निर्देशानुसारम् उत्तरत। [1 × 4 = 4]
(i) ‘क्रीडन्ति’ क्रियापदस्य किं कर्तृपदं अत्र अस्ति?
(ii) ‘एकां चटकां’ अनयोः पदयोः किं विशेषणपदम् प्रयुक्तम्?
(iii) ‘पश्यति’ अत्र का धातुः क: च लकार:?
(iv) ‘चटका’ अत्र का विभक्तिः प्रयुक्ता?
खण्ड: ‘ख’-रचनात्मकं कार्यम् [15]
2. हिन्दीभाषया अनुवारं कुरुत- [1 × 5 = 5]
अत्र त्रयः हंसाः सन्ति।
(ख) हे सारिके! क्रीडाक्षेत्रं चलसि।
(ग) अस्माकं ग्रामे आम्राणां उद्यानम् अस्ति।
(घ) सूर्यस्य उदिते खगाः प्रसन्नाः सन्ति।
(ङ) भारतवर्षस्य दक्षिणभागे ‘केरल’ नामकः एक: प्रदेशः अस्ति।
3. अधोलिखितवार्तालापम् मञ्जूषाया: सहायतया पूरयत। [1 × 5 = 5]
अनयो: मित्रयो: मध्ये वृक्षाणाम् विषये संवाद:
विहान: – भो: मित्र! किं त्वं जानासि! वृक्षा:
मित्राणि सन्ति।
अयान: – कथम्? ते
सह कदापि न वदन्ति?
विहान: – वृक्षा:
पर्णानि, फलानि, कुसुमानि च यच्छन्ति। अस्माकं सहायतां कुर्वन्ति।
अयान: – विहान! आम्, एवं तु ते अस्माकं मित्राणि सन्ति। ते अन्यत् किं
विहान: – ते अस्मभ्यं काष्ठम् औषधं
अपि यच्छन्ति।
अयान: – ते अस्माकं मित्राणि सन्ति। अतः तै: सह उपविशामः।
विहान: – आम्! उपविशामः।
4. मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्येषु चित्रवर्णनं कुरुत। [1 × 5 = 5]
मञ्जूषा – मेलकम्, बालाः, परिधानानि, आपणानि, सुसज्जितानि, दोला, वायुगोलानि, पंचालिकाः
_________________________
_________________________
_________________________
_________________________
_________________________
खण्ड: ‘ग’-अनुप्रयुक्त-व्याकरणम् [25]
5. उचितकर्तृपदेन रिक्तस्थानानि पूरयत। [1 × 4 = 4]
(क) ___________ पश्यतः।
(ख) ___________ पश्यथः।
(ग) ___________ खादावः।
(घ) ___________ कि पिबथ:?
6. ‘धाव्’ धातो: रूपाणि लृट्लकारे लिखत। [3]
7. ‘बालक’ इति शब्दस्य रूपाणि पक्चमी-षष्ठी विभक्त्यां लिखत। [3]
8. प्रवत्तेभ्य: विकल्पेभ्यः उचितम् उत्तरं चिनुत। [1 × 10 = 10]
(क) वयं ______ बालका: स्मः।
(i) सप्त
(ii) सप्ता:
(iii) सप्तानि
(ख) ______ बालिकाः नृत्यन्ति।
(i) चत्वार:
(ii) चत्वारि
(iii) चतस्र:
(ग) तत्र ______ बालका: क्रीडन्ति।
(i) त्रय:
(ii) त्रीणि
(iii) तिस्र:
(घ) स: ______ पुस्तके आनयति।
(i) द्वौ
(ii) द्वे
(iii) द्वि
(ङ) राजपथे ______ वाहनानि सन्ति।
(i) चत्वार:
(ii) चतस्र:
(iii) चत्वारि
(च) राजमार्गे ______ महिला: गच्छन्ति।
(i) पञ्चदश
(ii) पञ्चदशा:
(iii) पञ्चदशः
(छ) गजस्य ______ पादाः सन्ति।
(i) चत्वारि
(ii) चत्वार:
(iii) चतस्र:
(ज) सप्ताहे ______ दिवसा: भवन्ति।
(i) सप्ता:
(ii) सप्त:
(iii) सप्त
(झ) अत्र ______ वृक्षौ स्तः।
(i) द्वौ
(ii) द्वे
(iii) द्वि
(ञ) उद्याने ______ आम्रवृक्ष: अस्ति।
(i) एकम्
(ii) एक:
(iii) एक
9. चित्रं दृष्ट्वा वाक्यानि पूरयत। [1 × 5 = 5]
(क) बालकौ विद्यालयं ___________।
(ख) खगाः नीडे ___________।
(ग) अत्र एकः देवालय: __________।
(घ) बालका: ___________।
(ङ) बालिके ___________।
खण्ड: ‘घ’-पठित-अवबोधनम् [30]
10. प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु। [1 × 5 = 5]
(क) श्रद्धा सर्वत्र किं पश्यति?
(ख) शुकः केन वर्णेन शोभते?
(ग) श्रद्धाया: इष्टवर्ण: कः?
(घ) क: महान् चित्रकार:?
(ङ) आदित्यः कान् द्रष्टुम् इच्छति?
11. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु। 2 × 5 = 10
(क) नद्य: कि न पिबन्ति?
(ख) वृक्षाः अस्मभ्यं किं किं यच्छन्ति?
(ग) इदं शरीर किमर्थम् अस्ति?
(घ) दशपुत्रसमः कः भवति?
(ङ) केषां विभूतयः परोपकाराय भवन्ति?
12. ‘क’ स्तम्भेन सह ‘ख’ स्तम्भस्य उचितं मेलनं कृत्वा रिक्तस्थाने लिखन्तु। [1 × 5 = 5]
13. मऊजजूषा-सहायतया रिक्तस्थानानि पूरयन्तु। [1 × 5 = 5]
(क) पृथिव्यां त्रीणि रत्नानि __________ सुभाषितम्।
(ख) उदारचरिजानां तु __________ कुटुम्बकं भवति।
(ग) उद्यमेन हि __________ सिध्यन्ति।
(घ) अभिवादनशीलस्य वृद्धोपसेविन: __________ वर्धन्ते।
(ङ) परोपकाराय __________ वृक्षाः।
14. शब्दानां पुरतः उचितां संख्यां लिखन्तु। [1 × 5 = 5]
(क) मम हस्ते __________ अड्गुलय: सन्ति। (९, ५, ८, ७)
(ख) सप्ताहे __________ वासरा: भवन्ति। (६, १०, ७, ५)
(ग) कार्तिकेयस्य __________ मुखानि सन्ति। (१, ६, १०, ३)
(घ) व्याकरणे __________ वचनानि सन्ति। (१०, ९, ३, ५)
(ङ) गगने __________ ग्रहा: सन्ति। (८, ७, ९, १०)
Also Read