Students can access the CBSE Sample Papers for Class 9 Sanskrit with Solutions and marking scheme Set 3 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 9 Sanskrit Set 3 with Solutions
समय: 3 होराः
पूर्णांक: 80
सामान्यनिर्देशाः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रश्नाः सन्ति ।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
‘क’ खण्ड: : अपठितावबोधनम् 10 अङ्काः
‘ख’ खण्डः : रचनात्मककार्यम् 15 अङ्काः
‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् 25 अङ्काः
‘घ’ खण्डः : पठितावबोधनम् 30 अङ्काः - प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
- प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम् एव लेखनीयः ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
(खंड ‘क’)
(अपठित अवबोधनम्) (10 अंङ्का:)
1. अधोलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत । [10]
एकदा कश्चित् नरः नृपाय वज्रदन्ताय एकं सुन्दरं कमलं समर्पितवान् । नृपेण कमलस्य सौन्दर्यम् अपश्यत् । तस्य मध्ये एकः मृतः भ्रमरः दृष्टः। राजा अचिन्तयत्-एषः भ्रमरः कमलात् बहिः किमर्थं न निरगच्छत् तस्य अन्तः एव प्राणान् किमर्थम् अत्यजत् ? ततः नृपः राजगुरुम् उपगम्य एतं प्रश्नम् अपृच्छत्। राजगुरुः अकथयत्-“राजन् ! भ्रमरः पुष्परसस्य मोहपाशे बद्ध्वा तस्माद् बहिः न निरगच्छत् प्राणान् च अत्यजत्। नृपः मोहस्य कुपरिणामं ज्ञात्वा राजमहलं त्यक्त्वा स्वराज्यम् पुत्राय दत्त्वा ज्ञान-प्राप्त्यर्थम् वनम् अगच्छत्।
प्रश्ना:
(अ) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
(i) नृपः कम् उपगम्य प्रश्नम् अपृच्छत् ?
उत्तर:
राजगुरुम्
(ii) नरः नृपाय किं समर्पितवान् ?
उत्तर:
कमलम्
(iii) भ्रमरः कुतः न निरगच्छत् ?
उत्तर:
कमलात्।
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) भ्रमरः कथं स्व प्राणान् अत्यजत् ?
उत्तर:
भ्रमरः पुष्परसस्य मोहमाशे बद्ध्वा स्वप्राणान् अत्यजत् ।
(ii) राजा कः अचिन्तयत् ?
उत्तर:
राजा अचिन्तयत्-एषः भ्रमरः कमलात् बहिः किमर्थं न गिरगच्छत् तस्य अन्तः एव प्राणान् किमर्थम् अत्यजत्?
(iii) भ्रमरः कस्मिन् आसन् ?
उत्तर:
भ्रमरः कमलस्य मध्येम् आसीत् ।
(इ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत ।
उत्तर:
नृपस्य मोहः ।
(ई) भाषिक कार्यम् – (केवलं प्रश्नत्रयम्)
(i) ‘निरगच्छत्’ इति क्रियापदस्य कर्तृपदम् किम् ?
(क) राजा
(ख) राजगुरुः
(ग) भ्रमरः
(घ) एषः
उत्तर:
(ग) भ्रमरः
(ii) ‘पङ्कजम्’ इति पदस्य किं पर्यायपदम् अनुच्छेदे प्रयुक्तम् ?
(क) कमलम्
(ख) पुष्परसम्
(ग) भ्रमरः
(घ) वनम्
उत्तर:
(क) कमलम्
(iii) ‘भ्रमरः’ इति विशेष्यपदस्य किं विशेषणपदम् अनुच्छेदे प्रयुक्तम् ?
(क) सुन्दर:
(ख) एकम्
(ग) मृत:
(घ) पुष्पं
उत्तर:
(ग) मृतः
(iv) ‘आदाय’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(क) दत्त्वा
(ख) नीत्वा
(ग) पीत्व
(घ) ज्ञत्वा
उत्तर:
(ख) नीत्वा
खण्ड – ‘ख’ (15 अंङ्काः)
(रचनात्मकं कार्यम्)
2. भवत्याः नाम अनीशा अस्ति । भवत्याः भगिनी गुंजनः लण्दननगरे वसति । तस्याः संस्कृतभाषायां रुचिः वर्तते । तस्याः उत्कण्ठां शमयितुम् लिखितम् इदं पत्रं मञ्जूषायां दत्तैः पदैः पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत । [1/2 × 10 = 5]
रोहिणी
(i) ……….
तिथि: ……….
प्रिये भगिनी……… (ii) ……………
सप्रेम नमोनमः।
अद्य मया (iii) ……. पत्रं प्राप्तम्। संस्कृतविषये तव अभिरुचिं (iv) ……. प्रसन्नता अभवत्। संस्कृतभाषा सर्वासां (v) …….. जननी अस्ति। पाणिनेः व्याकरणस्य उपयोगः (vi) ………. अपि अस्ति । अस्याः विशाल: शब्दकोशः अद्वितीयः अस्ति । समृद्ध-संस्कृतसाहित्यस्य वैभवं अभूतपूर्वम् अस्ति । अधुना वैदेशिक – विद्वांसः अपि (vii) ……….. महत्त्वं स्वीकुर्वन्ति। मनोयोगेन त्वं संस्कृतभाषायाः (viii) …… कुरु इति मम निवेदनम्। शेषमत्र कुशलम् । शीघ्रं प्रत्युत्तरं प्रेषय ।
तव……(ix)……
……..(x)……..
मञ्जूषा
सङ्गणकयन्त्रे, ज्ञात्वा, अध्ययनम्, गुंजन!, नवदिल्लीत:, तव, भगिनी, संस्कृतभाषायाः, भाषाणाम्, अनीशा ।
उत्तर:
पत्र लेखनम्
रोहिणी
(i) नवदिल्लीत:
तिथि: ……….
प्रिये भगिनि (ii) गुंजन !
सप्रेम नमोनमः।
अद्य मया (iii) तव पत्रं प्राप्तम्। संस्कृतविषये तव अभिरुचिं (iv) ज्ञात्वा प्रसन्नता अभवत्। संस्कृतभाषा सर्वासां (v) भाषायाम् जननी अस्ति। पाणिनेः व्याकरणस्य उपयोग:. (vi) संगणकयन्त्रे अपि अस्ति । अस्याः विशालः शब्दकोशः अद्वितीय अस्ति। समृद्ध – संस्कृतसाहित्यस्य वैभवं अभूतपूर्वम् अस्ति । अधुना वैदेशिक – विद्वांसः अपि (vii) संस्कृतभाषायाः महत्त्वं स्वीकुर्वन्ति। मनोयोगेन त्वं संस्कृतभाषायाः (viii) अध्ययनम् कुरु इति मम निवेदनम् । शेषमत्र कुशलम्। शीघ्रं प्रत्युत्तरं प्रेषय।
तव (ix) भगिनी
(x) अनीशा
3. चित्रम् आधृत्य शब्दसूची – सहायतया पञ्चवाक्यानि संस्कृतेन लिखत । [1 × 5 = 5]
मञ्जूषा
नद्याः, नौका, नाविकाः, जनाः, निमज्जन्ति, शीतवायुः, प्रातःकाले, वृक्षाः, पर्वताः, मेघाः, जलप्रवाहः, तीव्रम्, वातावरणम्, क्रन्दन्ति, वहति, अपि।
अथवा
‘मञ्जूषायां प्रदत्तशब्दानां सहायतया ‘नौकाचालानप्रतियोगिता’ इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
मञ्जूषा
दक्षिण-भारते, केरलप्रदेशे:, अनेका जनाः, नदीतीरे, एकत्रिता, द्रष्टुम्, प्रसिद्धा, भवन्ति, करतलध्वनिम्, उत्साहवर्धनम्, कुर्वन्ति, पुरस्कारा:, हर्षः ।
उत्तर:
(i) इदं चित्रं नद्या : तटस्य अस्ति ।
(ii) नद्यां नाविका : नौका: चालयन्ति ।
(iii) नद्यां जना: निमज्जन्ति ।
(iv) एक : जनः वहति अपि ।
(v) प्रात:काले शीतवायुः प्रवहति ।
अथवा
अनुच्छेद लेखनम्—
(i) दक्षिण-भारते केरलप्रदेशे नौकाचालनप्रतियोगिताः भवन्ति ।
(ii) एकत्रिता : नाविकानाम् उत्साहवर्धनं कुर्वन्ति ।
(iii) अनेके जना: प्रतियोगितां दृष्ट्वा हर्षम् अनुभवन्ति ।
(iv) विजेता: पुरस्काराः लभन्ते ।
(v) जनाः करतलध्वनिं कुर्वन्ति ।
4. हिन्दी भाषया आङ्गलभाषया वा लिखितानां वाक्यानां संस्कृतेन अनुवादः क्रियताम् । (केवलं पञ्चवाक्यम्) [1 × 5 = 5]
(i) मेघ को देखकर वनों में मोर नाचते हैं।
Seeing the clouds, the peacocks dance in the forests.
(ii) मैं अपना पाठ पढ़ता हूँ ।
I read my lesson.
(iii) महेश साहित्यशास्त्र में निपुण है।
Mahesh is well versed in literature.
(iv) विद्यार्थी को प्रात:काल उठ जाना चाहिए ।
A student should get up early in the morning.
(v) विद्यालय के चारों ओर वृक्ष हैं।
There are trees around the school.
(vi) पेड़ से फल गिरते हैं ।
Fruit falls from the tree.
(vii) यात्री भिक्षुकों को धन देता है ।
The Traveler pays money to beggar.
उत्तर:
(i) मेघं दृष्ट्वा अरण्येषु मयूराः नृत्यन्ति ।
(ii) अहम् स्वपाठं पठामि ।
(iii) महेशः साहित्यशास्त्रे निपुणः अस्ति।
(iv) छात्रः प्रात:काले उतिष्ठेत् ।
(v) विद्यालयं परित: वृक्षाः सन्ति ।
(vi) वृक्षात् फलानि पतन्ति ।
(vii) यात्री भिक्षुकेभ्यः धनम् ददाति ।
खण्ड- ‘ग’ (25 अंङ्काः)
(अनुप्रयुक्त व्याकरणम्)
5. अधोलिखितवाक्येषु रेखाङ्कितपदानां सन्धिं – सन्धिविच्छेदं वा कृत्वा लिखत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]
(i) नायक: नाटकस्य जीवनं भवति ।
उत्तर:
नै + अक:
(ii) यद्यपि सः महान् तथापि निर्धनः ।
उत्तर:
यदि + अपि
(iii) पीताम्बरः इति नाम्नाः प्रसिद्धः अस्ति।
उत्तर:
पीतम् अम्बरम् यस्म सः
(iv) विना लिप्य क्षरज्ञानं तयोभिः + एव केवलम् ?
उत्तर:
तयोभिर्एव
(v) हरिर्गच्छति।
उत्तर:
हरिः गच्छति
6. उचित शब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]
(i) देशभक्तः…………नमति ।
(क) मातृभूमिः
(ख) मातृभूम्या
(ग) मातृभूमिम्
(घ) भातृभूमौ
उत्तर:
(ग) मातृभूमिम्
(ii) शिष्यः ……… फलानि यच्छति ।
(क) गुरुं
(ख) गुरवे
(ग) गुरु:
(घ) गुरो:
उत्तर:
(ख) गुखे
(iii) मनुष्य: ……… शोभते ।
(क) विद्यायाः
(ख) विद्याभ्यः
(ग) विद्यया
(घ) विद्याम्
उत्तर:
(ग) विद्यया
(iv) रात्रौ आकाशे ……. राजते ।
(क) चन्द्रेण
(ख) चन्द्रः
(ग) चन्द्राय
(घ) चन्द्रं
उत्तर:
(क) चन्द्रेण
(v) तव……..नदीतटात् श्येनेन नीतः इति ।
(क) पुत्रः
(ख) पुत्रम्
(ग) पुत्रे
(घ) पुत्राय
उत्तर:
(क) पुत्रः
7. उचितधातुरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्न चतुष्ट्यम्) [1 × 4 = 4]
(i) त्वम् अत्र स्थित्वा पितुः सेवाम्……… ।
(क) कुरु
(ख) करोतु
(ग) कुर्वन्तु
(घ) कुरुताम्
उत्तर:
(क) कुरु
(ii) त्वम् किम्……… ?
(क) करोति
(ख) करोषि
(ग) कुरुत:
(घ) करोमि
उत्तर:
(ख) करोषि
(iii) ऋषि दयानन्दस्य गुरुः विरजानन्दः ……….।
(क) आरम्भ
(ख) अस्मि
(ग) आसीत्
(घ) आस्ताम्
उत्तर:
(ग) आसीत्
(iv) शिष्या: गुरुम् ……..
(क) सेवेरन्
(ख) सेवेत
(ग) सेवेवहि
(घ) सेवामहे
उत्तर:
(क) सेवेरन्
(v) तत्र गत्वा अहं किं…………?
(क) करोमि
(ख) करवाणि
(ग) कुर्मः
(घ) कुर्याम
उत्तर:
(ख) करवाणि
8. उचित विभक्तिप्रयोगाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]
(i) …….. वामतः अरब समुद्रं वर्तते ।
(क) भारतदेशम्
(ख) भारतदेशे
(ग) भारतदेशस्य
(घ) भारतदेशेन
उत्तर:
(क) भारतदेशम्
(ii) …….. वामतः भवनानि सन्ति ।
(क) मार्गे
(ख) मार्गस्य
(ग) मार्गेण
(घ) मार्गानाम्
उत्तर:
(ख) मार्गस्य
(iii) ………… दक्षिणतः पुस्तकानि वर्तन्ते ।
(क) मम
(ख) मयि
(ग) मत्
(घ) मया
उत्तर:
(क) मम
(iv) यमुना ……….दक्षिणतः मन्दिरम् अस्ति ।
(क) नद्या:
(ख) नदीम्
(ग) नदीभ्याम्
(घ) नदीनाम्
उत्तर:
(क) नद्या:
(v) ……. श्रेष्ठः श्रीरामः ।
(क) नराणाम्
(ख) नरै:
(ग) नराभ्याम्
(घ) नरान्
उत्तर:
(क) नराणाम्
9. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्न त्रयम्) [1 × 3 = 3]
(i) पात्रम् संगृह्य गृहं गतः ।
(क) सम् + ग्रह् + ल्यप्
(ख) सम् + ग्रहण + ल्यप्
(ग) सं + ग्रह् + कत्वा
(स) सम् + ग्र + ल्यप्
उत्तर:
(क) सम् + गृह् + ल्यप्
(ii) सन्धिं……. (प्र + कल्प् + ल्यप्) बहिः आगच्छ।
(क) प्रकल्प्य
(ख) प्रकप्य
(ग) प्रकल्पय
(घ) प्रकल्पाय
उत्तर:
(क) प्रकल्प्य
(iii) कुशलवार्तां (पृष्ट्वा) …… उपविश ।
(क) पृष्छ + क्त्वा
(ख) प्रच्छ् + क्त्वा
(ग) पृष् + क्त्वा
(घ) पृष्ट + क्त्वा
उत्तर:
(ख) प्रच्छ् + क्त्वा
(iv) सा जलं (पातुम्) ……. कूपं गच्छति ।
(क) पा + तुम्
(ख) पा + तुमुन्
(ग) पी + तुम्
(घ) पा + तु + म्
उत्तर:
(ख) पा + तुमुन्
10. संख्यावाचिशब्दरूपाणाम् रिक्त स्थानानि पूरयत। (केवलं प्रश्न चतुष्टयम्) [1/2 × 4 = 2]
(i) मूल्यं विना तु……….. अपि घटं न दास्यामि । (एक)
उत्तर:
एकम्
(ii) चञ्च्वा तृणशलाकादिकम् आददानम्…….. चटकम् अपश्यत्। (एक)
उत्तर:
एकम्
(iii) कुक्कुर – सूकर-सर्प – नकुलादयः ……… स्थलचराः रक्षणीयाः । (चतुर्)
उत्तर:
चत्वारः
(iv) दशरथस्य …….. राज्ञः आसन्। (त्रि)
उत्तर:
तिस्त्र:
(v) कालिदास्य …………… महाकाव्येस्तः। (द्वि)
उत्तर:
द्वे
11. रेखाङ्कितपदेषु उपसर्गं पृथक् क्रियताम्। (केवलं प्रश्न चतुष्टयम्) [1/2 × 4 = 2]
(i) व्यक्त्वयं सर्वदा दुराचारान्।
उत्तर:
दुर्
(ii) महयं रामायणम् अत्यन्तं रोचते।
उत्तर:
अति
(iii) अत्यधिकजनाः भारतदेशे सन्ति ।
उत्तर:
सम्
(iv) परोपकाराय सतां विभूतयः ।
उत्तर:
वि
(v) धर्मसर्वस्यं श्रुत्वा अवधार्यताम् ।
उत्तर:
अव
12. मञ्जूषायाः उचितम् अव्ययपदं चित्वा वाक्येषु रिक्त स्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]
(i) तव कार्यालये ………. अवकाशः आसीत्।
(क) खः
(ख) ह्यः
(ग) अद्य
(घ) अधुना
उत्तर:
(ख) ह्यः
(ii) भोः, नूतना लेखनी ……. आनीतवान्।
(क) कुल:
(ख) कुत्र
(ग) कस्मै
(घ) किमर्थम्
उत्तर:
(क) कुल:
(iii) अहम् ताम्रसोपानेन ……… आगमिष्यामि ।
(क) एव
(ख) सम्प्रति
(ग) इदानीम्
(घ) सम्यक
उत्तर:
(क) एव
(iv) ………… कः तिष्ठति ?
(क) अत्र
(ख) तत्र
(ग) सर्वत्र
(घ) उभयत्र
उत्तर:
(क) अत्र
(v) सायं समये ……… असौ गन्तव्याद् दूरे आसीत् ।
(क) अपि
(ख) प्रद
(ग) पुरा
(घ) नूनं
उत्तर:
(क) अपि
खण्ड – ‘घ’ (30 अंङ्का:)
(पठित-अवबोधनम्)
13. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- [5]
सूर्योदयात्पूर्वमेव सा तत्रोपस्थिता । वृक्षस्योपरि विलोक्य सा चाश्चर्यचकिता सञ्जाता यत्तत्र स्वर्णमयः प्रासादो वर्तते । यदा काकः शयित्वा प्रबुद्धस्तदा तेन स्वर्णगवाक्षात्कथितं हंहो बाले । त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि, तत्कथय स्वर्णमयं रजतमयमुत ताम्रमयं वा? कन्या प्रावोचत् अहं निर्धनमातुर्दुहिताऽस्मि । ताम्रसोपानेनैव आगमिष्यामि । परं स्वर्णसोपानेन सा स्वर्ण – भवनमाससाद ।
प्रश्नाः
(अ) एकपदेन उत्तरत् – (केवलं प्रश्नद्वयम्) [1/2 × 2 = 1]
(i) बालिका केन सोपानेन स्वर्णभवनम् आससाद ?
उत्तर:
स्वर्णसोपानेन
(ii) कदा तत्रोपस्थिता ?
उत्तर:
सूर्योदयात्पूर्वमेव
(iii) बालिका केन आससाद ?
उत्तर:
स्वर्णसोपानेन।
(आ) पूर्णवाक्येन उत्तरत् – (केवलं प्रश्नद्वयम् )
(i) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता ?
उत्तर:
बालिका वृक्षस्योपरि स्वर्णमयः प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।
(ii) बालिका कुत्र विलोक्य चकिता जाता ?
उत्तर:
बालिका वृक्षस्योपरि विलोक्य चकिता जाता ।
(iii) कः कस्याः कृते सोपानमवतारयति ?
उत्तर:
काक: बालिकायाः कृते सोपानमवतारयति ।
(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम्)
(i) अत्र ‘प्राप्नोत् ‘ इत्यर्थे कः पर्यायः प्रयुक्त: ?
उत्तर:
आससाद
(ii) ‘अहं निर्धनमातुर्दुिहिताऽस्मि ‘ अत्र किं क्रियापदं प्रयुक्तम् ?
उत्तर:
अस्मि
(iii) ‘ताम्र सोपानेनैव आगमिष्यामि’ अत्र किं विशेषण पदं प्रयुक्तं ?
उत्तर:
ताम्र ।
14. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- [5]
आरम्भ गुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जानानाम्॥
प्रश्ना:
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [1⁄2 × 2 = 1]
(i) केषां मैत्री आरम्भगुर्वी भवति ?
उत्तर:
खलानाम्
(ii) केषां मैत्री पूर्वार्द्ध भिन्ना भवति ?
उत्तर:
सज्जनानाम्
(iii) खलसज्जनानां मैत्री का इव भवति ?
उत्तर:
छायेव।
(आ) पूर्णवाक्येन उत्तरत—(केवलं प्रश्नद्वयम्)
(i) सज्जनानां मैत्री कीदृशी भवति ?
उत्तर:
सज्जनानां मैत्री पुरा लघ्वी पश्चात् च वृद्धिमती भवति ।
(ii) कैषां मैत्री पश्चात् क्षयिणी भवति ?
उत्तर:
सज्जनानां मैत्री पश्चात् क्षयिणी भवति।
(iii) का पुरा लघ्वी भवति ?
उत्तर:
सज्जनानां मैत्री पूर्वार्द्धछाया च पुरा लघ्वी भवति ।
(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) [1 × 2 = 2]
(i) ‘वृद्धिम् उपगता’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
उत्तर:
वृद्धिमती
(ii) ‘पश्चात्’ इत्यस्य पदस्य अत्र किं विलोम पदं प्रयुक्तं ?
उत्तर:
पुरा
(iii) ‘खलसज्जानानाम् मैत्री छायेव भवति’ अत्र किं क्रियापदं प्रयुक्तंम् ?
उत्तर:
भवति ।
15. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- [5]
चन्दनः – अस्तु। गच्छ। सखिभिः सह धर्मयात्रया आनन्दिता च भव । अहं सर्वमपि परिपालयिष्यामि । शिवास्ते सन्तु पन्थानः।
चन्दनः – मल्लिका तु धर्मयात्रायै गता । अस्तु । दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्धं करिष्यामि । (स्त्रीवेषं धृत्वा, दुग्धपात्रहस्तः नन्दिन्याः समीपं गच्छति)
उमा – मातुलानि! मातुलानि !
चन्दनः – उमे! अहं तु मातुलः। तव मातुलानि तु गङ्गास्नानार्थं काशीं गता अस्ति । कथय ! किं ते प्रियं करवाणि ?
उमा – मातुल! पितामहः कथयति, मासानन्तरम् अस्मत् गृहे महोत्सवः भविष्यति । तत्र त्रिशत्-सेटकमितं दुग्धम् अपेक्षते। एषा व्यवस्था भवद्भिः करणीया ।
चन्दनः – (प्रसन्नमनसा) त्रिशत्-सेटककपरिमितं दुग्धम् ! शोभनम् । दुग्धव्यवस्था भविष्यति एव इति पितामहं प्रति त्वया वक्तव्यम्।
उमा – धन्यवादः मातुलः! याम्यधुना। (सा निर्गता)
प्रश्ना:
(अ) एकपदेन उत्तरत — (केवलं प्रश्नद्वयम्) [1/2 × 2 = 1]
(i) सर्वमपि कः परिपालयिष्यति ?
उत्तर:
चन्दनः
(ii) गङ्गास्नानार्थं काश का गता अस्ति ?
उत्तर:
मातुलानि
(iii) पितामहस्य गृहे कः भविष्यति ?
उत्तर:
महोत्सवः।
(आ) पूर्णवाक्येन उत्तरत—(केवलं प्रश्नद्वयम्) [1 × 2 = 2]
(i) स्त्रीवेषं धृत्वा क: नन्दिन्याः समीपं गच्छति ?
उत्तर:
चन्दनः स्त्रीवेषं धृत्वा नन्दिन्याः समीपं गच्छति ।
(ii) कति परिमितं दुग्ध व्यवस्था भविष्यति ?
उत्तर:
त्रिशत् सेटकपरिमितं दुग्धव्यवस्था भविष्यति ।
(iii) का सखिभिः सह धर्मयात्रायै गता ?
उत्तर:
मल्लिका सखिभिः सह धर्मयात्रायै गता ।
(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) [1 × 2 = 2]
(i) ‘एकलीटरमितम्’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
उत्तर:
सेटकम्
(ii) ‘अहं सर्वमपि परिपालयिष्यामि’ अत्र किं क्रियापदं प्रयुक्तं ?
उत्तर:
परिपालयिष्यामि
(iii) ‘मल्लिकातु धर्मयात्रायै गता’ अत्र किं कर्तृपदं प्रयुक्तं ?
उत्तर:
मल्लिका
16. वाक्येषु रेखांकितपदानि अधिकृत्य प्रश्नं कृत्वा पुनः लिख्यताम् – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]
(i) हताश्वा हतसारथिः रावणः भुविः अपतत् ।
उत्तर:
हताश्वा हतसारथिः रावणः कुत्र अपतत् ?
(ii) खगाधिपः जटायुः तुण्डेन रावणस्य वामबाहून्दश क्षतविक्षतं अकरोत् ।
उत्तर:
खगधिपः कः तुण्डेन रावणस्य वामबाहून्दश क्षतविक्षतं अकरोत् ?
(iii) क्रोधवशात् रावणः वामेनाङ्केन जटायुं आशु अभिजघान ।
उत्तर:
कस्मात् रावणः वामेनाङ्गेन जटायुं आशु अभिजद्यान ?
(iv) श्वेतकेतुः वारिविषये पृच्छति।
उत्तर:
श्वेतकेतुः कस्मिन् पृच्छति ?
(v) तेजोमयी वाक् भवति ।
उत्तर:
तेजोमयी कः भवति ?
17. अधोलिखितस्य श्लोकस्य अन्वये रिक्त स्थान पूर्तिं क्रियताम्-
निवर्तय मतिं नीचां परदाराभिमर्शनात्।
न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्॥ [1 × 3 = 3]
अन्वयः
परदाराभिमर्शनात् (i) …….. मतिं निवर्तय। धीरः (ii) …….. न (iii) ………. यत् परः अस्य विगर्हयेत्।
मञ्जूषा- तत्, नींचा, समाचरेत्
अथवा
अधोलिखितस्य श्लोकस्य भावार्थे रिक्त स्थान पूर्तिं क्रियताम्-
श्लोकः
वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी ।
न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि ॥
भावार्थः
प्रस्तुते श्लोके जटायुः रावणं कथयति – भो रावणः ! अहम् (i) ………. अस्मि त्वं युवा असि। चापि त्वं धनुर्धरः (ii) ……… कवचधारी वाणधरः भवा। मम कुशली (iii) ……… गृहीत्वा त्वं न गमिष्यामि इत्यम् जटायोः रावणे कटाक्षं प्रतीयते ।
मञ्जूषा- रथयुक्तः, वृद्धः, सीताम्
उत्तर:
अन्वयः परदाराभिमर्शनात् (i) नीचां मतिं निवर्तय। धीरः (ii) तत् न (iii) समाचरेत् यत् परः अस्य विगर्हयेत्।
अथवा
भावार्थः
प्रस्तुते श्लोके जटायुः रावणं कथयति – ‘भो रावण: ! अहं (i) वृद्धः अस्मि त्वं युवा असि । चापि तवं धनुर्धर: (ii) रथयुक्त: कवचधारी वाणधरः भव। मम कुशली (iii) सीतां गृहीत्वा त्वं न गमिष्यसि इत्यम् जटायोः रावणे कटाक्षं प्रतीयते ।
18. घटनाक्रमानुसारं लिखत-
(i) सा सखिभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति ।
(ii) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
(iii) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(iv) मल्लिका पूजार्थं मोदकानि रचयति।
(v) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति ।
(vi) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति ।
(vii) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति ।
(viii) चन्दनस्य `पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
उत्तर:
(i) मल्लिका पूजार्थं मोदकानि रचयति ।
(ii) सा सखिभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति ।
(iii) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति ।
(iv) चन्दन: उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति ।
(v) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति ।
(vi) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
(vii) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति ।
(viii) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
19.
(क) अधोलिखितानां शब्दानां प्रसङ्गानुकूलंउचितार्थ चित्वा लिखत – (केवलं प्रश्नचतुष्टयम्)
(i) तेन स्वर्ण गवाक्षात् कथितम्।
उत्तर:
वातायनात्
(ii) तस्या: एक दुहिता मनोहरा आसीत् ।
उत्तर:
रमणीया
(iii) तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिकारोदितुमारब्धा ।
उत्तर:
अक्षतान्
(iv) काक: प्राह-पूर्वं लघुप्रातराशः क्रियताम् ।
उत्तर:
अल्पाहार:
(v) तस्य गृहोद्याने कुलक्रमागतः कल्पलसः स्थितः।
उत्तर:
कुलपरम्परया सम्प्राप्तः
(ख) शब्दानाम् अर्थेः सह मेलनं कुरुत – (केवलं प्रश्नचतुष्टयम्)
(i) कवची – पक्षिश्रेष्ठः
(ii) विरथ: – अपतत्
(iii) पपात् – रथविहीनः
(iv) पतगसत्तमः – कवचधारी
(v) क्षयिणी – क्षय शीलाः।
उत्तर:
(i) कवची – कवच धारी
(ii) विरथः – रथविहीनः
(iii) पपात् – अपतत्
(iv) पतगसत्तम: – पक्षिश्रेष्ठः
(v) क्षयिणी – क्षयशीलाः