• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • NCERT Solutions
    • NCERT Books
  • Class 10
  • Class 9
  • Class 8
  • Class 7
  • Class 6
  • Class 11
  • Class 12
  • MCQ Questions
    • CBSE MCQ

Learn Insta

RD Sharma Solutions , RS Aggarwal Solutions and NCERT Solutions

  • Extra Questions
  • CBSE Notes
  • RD Sharma Solutions
    • RD Sharma Class 12 Solutions
    • RD Sharma Class 11 Solutions
    • RD Sharma Class 10 Solutions
    • RD Sharma Class 9 Solutions
    • RD Sharma Class 8 Solutions
  • RS Aggarwal Solutions
    • RS Aggarwal Solutions Class 10
    • RS Aggarwal Solutions Class 9
    • RS Aggarwal Solutions Class 8
    • RS Aggarwal Solutions Class 7
    • RS Aggarwal Solutions Class 6
  • ML Aggarwal Solutions
    • ML Aggarwal Class 10 Solutions
    • ML Aggarwal Class 9 Solutions
    • ML Aggarwal Class 8 Solutions
    • ML Aggarwal Class 7 Solutions
    • ML Aggarwal Class 6 Solutions
  • English Grammar
    • Words with Letters
    • English Summaries
    • Unseen Passages

CBSE Class 9 Sanskrit Sample Paper Set 3

April 12, 2021 by Prasanna

We have given detailed NCERT Solutions for Class 9 Sanskrit come in handy for quickly completing your homework.

CBSE Class 9 Sanskrit Sample Paper Set 3

समयः होरात्रयम्
पूर्णाङ्काः 80

निर्देशा:

  1. प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
    • खण्डः (क) अपठित-अवबोधनम् – (10 अङ्काः)
    • खण्डः (ख) रचनात्मकं-कार्यम्। – (15 अङ्काः)
    • खण्डः (ग) अनुप्रयुक्त-व्याकरणम् – (25 अङ्काः)
    • खण्डः (घ) पठित-अवबोधनम् – (30 अङ्काः)
  2. सर्व प्रश्नाः अनिवार्याः।
  3. प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
  4. प्रश्नसंख्या अवश्यं लेखनीया।
  5. उत्तराणि संस्कृतेन एव लेखनीयानि।

खण्डः ‘क’
अपठित-अवबोधनम् (10 अङ्काः)

प्रश्न 1.
अधोलिखितम् अनुच्छेदम् पठित्वा प्रश्नानाम् उत्तराणि लिखत-

श्री गान्धिमहोदयः पोरबन्दरनगरे जन्म लेभे। शिक्षा समाप्य वाक्कीलशिक्षायै विदेशमगच्छत्। सः मातुः समीप तिस्रः प्रतिज्ञाः अकरोत्-“नाहं विदेशे मदिरासेवनं करिष्ये, न मांसस्पर्शमपि करिष्यामि, पूर्णरूपेण ब्रह्मचर्यव्रतमाचरिष्यामि।” ततः प्रत्यावृत्य सः स्वराज्यप्राप्तये समान विचारधारानुयायिनां शिक्षितानां स्वदेशानुरागिणां जनानाम् एकां राष्ट्रीयमहासभाम् अस्थापयत्। वास्तविकं भारतं ग्रामेषु एव वसति इति विचार्य ग्रामीणजनानां दशां तेषां मनःस्थितिं च ज्ञातुं सः दीर्घा पदयात्राम् अकरोत्। ग्रामेषु अनेकान् सामाजिकदोषान् दूरीकुर्वन् सः महतीं प्रतिष्ठाम् अविन्दत।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) महात्मा गांधी कस्याः समीपं प्रतिज्ञाः अकरोत्?
(ii) श्री गान्धिमहोदयस्य तृतीया प्रतिज्ञा का आसीत्?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) गान्धिमहोदयस्य पदयात्रायाः कारणं किम् आसीत्।
(ii) महात्मा गान्धी राष्ट्रीयमहासभायाः स्थापना किमर्थम् अकरोत्?

III. निर्देशानुसारम् उत्तरत- (1 × 3 = 3)
(i) ‘तेषां मनः स्थितिं’ अत्र ‘तेषाम्’ कस्मै प्रयुक्तम्?
(क) गान्धी महोदयाय
(ख) ग्रामीणजनेभ्यः
(ग) भारताय
(घ) ग्रामेभ्यः

(ii) ‘महतीं’ इति पदस्य विशेष्यपदं किम् अस्ति?
(क) प्रतिष्ठाम्
(ख) प्रतिष्ठा
(ग) ग्रामेषु
(घ) सामाजिक दोषान्

(iii) ‘करिष्ये’ इति क्रियापदस्य कर्तृपदम् किं प्रयुक्तम्?
(क) सेवन
(ख) गान्धी
(ग) सः
(घ) अहम्

IV. अस्य अनुच्छेदस्य कृते समुचितं लिखत- (1 × 1 = 1)

खण्डः ‘ख’
रचनात्मकम् कार्यम् (15 अङ्काः)

प्रश्न 2.
भवान् कपिलः स्वविद्यालये ‘वृक्षारोपणसमारोहस्य’ आयोजनं कारितवान्, यस्मिन् भवतः अपि महत्त्वपूर्ण योगदानम् आसीत्। स्व-अनुभवं वर्णयन् स्वानुजं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रम् उत्तरपुस्तिकायां लिखत। (½ × 10 = 5)

लखनऊतः__________
तिथिः
प्रिय ___(i)___ रोहन,
मधुरस्मृतयः।
अत्र कुशलं तत्रास्तु। पूर्वपत्रे अहं ___(ii)___ खेलोत्सवस्य विषये अलिखम्। अधुना अस्मिन् पत्रे अहं स्वविद्यालये ___(iii)___ वृक्षारोपणसमारोहस्य विषये लिखामि। अस्मिन् अन्ये छात्राः अपि सक्रियरूपेण कार्यम् अकुर्वन्। विद्यालये जुलाई-मासस्य प्रथमे ___(iv)___ वृक्षारोपणकार्यक्रमः निश्चितः कृतः। अहमपि पूर्वमेव ___(v)___ अकरवम् यत् अहं स्वकक्षायाः छात्रेभ्यः ___(vi)___ पादपान् रोपयिष्यामि। त्वम् इदं ज्ञात्वा आश्चर्यचकितः भविष्यसि यत् अहं ___(vii)___ पादपान् आरोपयम्। अधुना अहं ___(viii)___ पादपानां पोषणं करोमि। एतत्कार्याय समापनसमारोहे अहं ___(ix)___ अपि अभवम्। अहं कथयामि यत् त्वम् अपि ___(x)___ समीपे कांश्चित् पादपान् रोपय।
मातापितरौ मम प्रणामाः।

भवतः अग्रजः
कपिलः

मञ्जूषा – पञ्चविंशतिः, स्वविद्यालयस्य, अनुज, आयोजितस्य, अधिकान्, तेषां, पुरस्कृतः, स्वगृहस्य, निश्चयम्, पक्षे

प्रश्न 3.
चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि संस्कृते लिखत- (5 × 1 = 5)
CBSE Class 9 Sanskrit Sample Paper Set 3 Q3

मञ्जूषा – स्वल्पं जलं, पाषाणखण्डानि, एकं उपायं, पिपासितः काकः, आनीय, घटोपरि, शनैः-शनैः, जलं पातुम् परिश्रमेण, सफलः।

अथवा

‘मञ्जूषायां प्रदत्तशब्दानां सहायतया ‘यातायात-अव्यवस्था’ इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।

मञ्जूषा – दिल्लीनगरे, मोटरयानानि, अत्यधिकानि, मार्गे, अवरोधाः, मार्गस्थ, उभयतः, गच्छन्ति, जनाः, मध्ये, विद्युतस्तम्भाः, स्कूटरयानानि, विपणनकेन्द्रम्, चलन्ति

प्रश्न 4.
अधोलिखितानां वाक्यानाम् संस्कृतेन अनुवादः कुरुत- (5 × 1 = 5)

  1. तुम दोनों प्रातः खेलने के लिए कहाँ जाते हो।
  2. माता पुत्र को लड्डू देती है।
  3. बिल्ली कुत्ते से डरकर भाग गई।
  4. हम सब भारतीय भारतमाता के पुत्र हैं।
  5. पर्यावरण की रक्षा हम सब का परम कर्त्तव्य है।

खण्डः ‘ग’
अनुप्रयुक्त-व्याकरणम् (25 अकाः)

प्रश्न 5.
अधोलिखितवाक्येषु रेखाङ्कितपदानां समुचितं सन्धि विच्छेदं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (4 × 1 = 4)
(i) यथेष्टं कार्यं कुरु।
(क) यथा + इष्टम्
(ख) यथ + एष्टम्
(ग) यत् + इष्टम्
(घ) यथा + ईष्टम्

(ii) इति + उक्तः पिता पुत्रम् उवाच।
(क) इत्युक्तः
(ख) इत्योक्तः
(ग) इत्यूक्तः
(घ) इतूक्तः

(iii) दिगम्बराणां रथयात्रा गच्छति।
(क) दिग् + अम्बराणां
(ख) दिगं + बराणां
(ग) दिक् + अम्बराणां
(घ) धिक् + अम्बराणां

(iv) नेता समारोहस्य उत् + घाटनम् करोति।
(क) उत्घाटनम्
(ख) उद्घाटनम्
(ग) उच्याटनम्
(घ) उन्धानम्

प्रश्न 6.
उचितशब्दरूपाणि चित्वा रिक्तस्थानानि परयत- (1 × 4 = 4)
(i) __________ सह लक्ष्मीः अपि अस्ति।
(क) हरिणा
(ख) हरेः
(ग) हरये
(घ) हरिम्

(ii) तस्याः __________ परिधानं सुंदरम् अस्ति।
(क) महिलया
(ख) महिलायाः
(ग) महिलायै
(घ) महिलाम्

(iii) __________ बालिकायै पुस्तकम् आनयः सा तु गता।
(क) यस्य
(ख) यस्यै
(ग) यस्मै
(घ) यस्याः

(iv) __________ प्रातः व्यायाम कुर्मः।
(क) वयम्
(ख) यूयम्
(ग) ते
(घ) आवाम्

प्रश्न 7.
उचितधातुरूपाणि चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)
(i) वानराः कदलीफलानि __________।
(क) भक्षन्ति
(ख) भक्षयन्ति
(ग) भक्षयन्ती
(घ) भक्षयथः

(ii) युवाम् अभिनयं कर्तुं __________।
(क) शक्ष्यथः
(ख) शक्ष्याव:
(ग) शक्ष्यतः
(घ) शक्ष्यथ

(iii) ते छात्राः उच्चाङ्कान् __________।
(क) अलभत
(ख) अलभे
(ग) अलभेथाम्
(घ) अलभन्त

(iv) पुस्तकानि पठित्वा ते विद्वांस __________।
(क) भवन्ति
(ख) भवतः
(ग) भवति
(घ) भविष्यसि

प्रश्न 8.
प्रदत्तविकल्पेभ्यः उचितपदं चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)
(i) इमम् __________ परितः राजपथम् वर्तते।
(क) विद्यालयस्य
(ख) विद्यालयात्
(ग) विद्यालयम्
(घ) विद्यालयाय

(ii) कृष्णः __________ अलम्।
(क) कंसम्
(ख) कंसेन
(ग) कंसात्
(घ) कंसाय

(iii) __________ पुरतः सेना-संचालकः अस्ति।
(क) सेनाम्
(ख) सेनायाः
(ग) सेनायै
(घ) सेनया

(iv) __________ हस्ते वीणा वर्तते।
(क) सरस्वत्याः
(ख) सरस्वत्यै
(ग) सरस्वत्यः
(घ) सरस्वती

प्रश्न 9.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)
(i) महापुरुषाः जनान् __________ प्रसीदन्ति। (उप + कृ + ल्यप्)
(क) उपकृय
(ख) उपकार्य
(ग) उपकृत्य
(घ) उपकारय

(ii) पुस्तकम् __________ मोहितः पठति। (लब्ध्वा)
(क) लभ् + क्त्वा
(ख) लब् + क्त्वा
(ग) लब् + त्वा
(घ) लब्ध् + त्वा

(iii) प्रदर्शनी __________ वयं गमिष्यामः। (दृश् + तुमुन्)
(क) दृश्तुम्
(ख) द्रष्टुम्
(ग) दृष्टुम्
(घ) द्रश्तुम्

(iv) छात्राः प्रात:काले विद्यालयं प्रति __________। (गम + क्तवतु)
(क) गतवान्
(ख) गतवती
(ग) गतवन्तः
(घ) गतवत्

प्रश्न 10.
अङकानां स्थाने संस्कृतसंख्यावाचकः विशेषणैः वाक्यानि पूरयत- (1 × 3 = 3)

  1. वेदाः __________ (4) सन्ति।
  2. पुराणानि __________ (18) सन्ति।
  3. भासः __________ (13) नाटकानि अलिखत्।

प्रश्न 11.
कोष्ठकात् शुद्धपदं चित्वा रिक्तस्थाने लिखत- (4 × ½ = 2)

  1. उद्याने पुष्पाणि __________। (सुशोभन्ते, सुशोभते, सुशोभताम्)
  2. अहम् दुर्जनम् __________। (परित्यज्यम्, परित्यजामि, परित्यज्य)
  3. चौराः धनम् __________। (अपहरति, अपहर, अपहरन्ति)
  4. माता पुत्रम् __________। (संस्करोति, संस्कुरुतः, संस्कुर्वन्ति)

खण्डः ‘घ’
पठित-अवबोधनम् (30 अङ्काः)

प्रश्न 12.
अधोलिखितं गद्यांशं, पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)
नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः। तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा। तं निवारयन्ती सा प्रार्थयत्-“तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धना वर्तते।” स्वर्णपक्षः काकः प्रोवाच, “मा शुचः। सूर्योदयात्प्राग् ग्रामाबहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्। अहं तुभ्यं तण्डुलमूल्यं दास्यामि।” प्रहर्षिता बालिका निद्रामपि न लेभे।

प्रश्ना:
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) कः तण्डुलमूल्यं दास्यति?
(ii) स्वर्णकाकः कया न पूर्वं दृष्टः?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
बालिका किमर्थं रोदितुम् आरब्धा?

III. प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत- (1 × 3 = 3)
(i) ‘तं तण्डुलान् खादन्तं…।’ अत्र ‘तं’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) स्वर्ण
(ख) वृद्धायै
(ग) बालिकायै
(घ) काकाय

(ii) ‘प्रार्थयत्’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सा
(ख) काकः
(ग) बालिका
(घ) तं

(iii) ‘अन्तः’ इति पदस्य विलोमपदं किम् प्रयुक्तम्?
(क) प्राग्
(ख) अपि
(ग) पूर्व
(घ) बहिः

प्रश्न 13.
पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)

पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः।।

प्रश्ना:
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) सतां विभूतयः किमर्थं भवन्ति?
(ii) के जलम् न पिबन्ति?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
वारिवाहाः किम् कुर्वन्ति?

III. निर्देशानुसारम् उचितम् उत्तरम् विकल्पेभ्यः चित्वा लिखत- (1 × 3 = 3)
(i) ‘वारिवाहाः’ इति पदस्य कः अर्थः?
(क) मेघाः
(ख) नद्यः
(ग) समुद्रः
(घ) सरोवराः

(ii) ‘वृक्षाः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) पिबन्ति
(ख) खादन्ति
(ग) आदन्ति
(घ) कुर्वन्ति

(iii) ‘दुर्जनानाम्’ इति पदस्य विलोमपदं किम्?
(क) सतां
(ख) सस्यं
(ग) विभूतयः
(घ) अम्भः

प्रश्न 14.
नाट्यांशं पठित्वा प्रदत्तानाम् प्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)
अभिमन्युः – अये! अयमपरः कः विभात्युमावेषमिवाश्रितो हरः।
बृहन्नला – आर्य, अभिभाषणकौतूहलं मे महत्। वाचालयत्वेनमार्यः।
भीमसेनः – (अपवार्य) बाढम् (प्रकाशम्) अभिमन्यो!
अभिमन्युः – अभिमन्युर्नाम?
भीमसेनः – रुष्यत्येष मया त्वमेवैनमभिभाषय।
बृहन्नला – अभिमन्यो!
अभिमन्युः – कथं कथम्। अभिमन्यु माहम्। भोः। किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवंश गतः। अतएव तिरस्क्रियते।
बृहन्नला – अभिमन्यो! सुखमास्ते ते जननी?

प्रश्नाः
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) कया अभिमन्युः रुष्यति?
(ii) कुत्र नीचैः अपि नामभिः अभिभाष्यन्ते?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
अभिमन्युः बृहन्नलां दृष्ट्वा किम् कथयति?

III. निर्देशानुसारम् शुद्धम् उत्तरम् विकल्पेभ्य चित्वा उत्तरत- (1 × 3 = 3)
(i) ‘शोभते’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) विभाति
(ख) आश्रितः
(ग) रुष्यति
(घ) आस्ते

(ii) ‘रुष्यति एषः मया’ अत्र ‘मया’ सर्वनामपदम् कस्मै प्रयुक्तम्?
(क) भीमसेनः
(ख) भीमसेनाय
(ग) अभिमन्योः
(घ) अभिमन्येव

(iii) ‘अभिभाषय’ इति क्रियापदस्य कर्तृपदं किम्?
(क) त्वम्
(ख) मया
(ग) एनम्
(घ) एषः

प्रश्न 15.
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (1 × 4 = 4)

  1. मोदकानि पूजानिमित्तानि रचितानि आसन्।
  2. जीमूतवाहनः महान् दानवीरः आसीत्।
  3. वृत्तम् यत्नेन संरक्षेत्।
  4. ग्रामात् बहिः पिप्पलवृक्षः आसीत्।

प्रश्न 16.
निम्नलिखितश्लोकयोः अन्वयम् उचितपदैः पूरयत्- (½ × 8 = 4)

(क) तुलां लौहसहस्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः।।

अन्वयः – राजन्! ___(i)___ लौहसहस्त्रस्य ___(ii)___ मूषकाः ___(iii)___ तत्र श्येनः ___(iv)___ हरेत्, अत्र संशयः न।

(ख) सा तदा करुणा वाचो विलपन्ती सुदु:खित।।
वनस्पतिगतं गृधं ददर्शायतलोचना।।

अन्वयः – तदा ___(i)___ करुणा वाचो ___(ii)___ आयतलोचना सा ___(iii)___ गृधं ___(iv)___।

अथवा

अधोलिखितस्य श्लोकस्य भावार्थम् मञ्जूषातः उचितपदानि चित्वा पूरतय- (4 × 1 = 4)

वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः।।

भावार्थ: – अस्य भावः अस्ति यत् मनुष्यैः ___(i)___ यत्नेन संरक्षणीयम् यतः ___(ii)___ तु आयाति ___(iii)___ वा। धनेन क्षीणः अक्षीणः परम् ___(iv)___ क्षीणः नूनं नश्यति।

मञ्जूषा – धनम्, चरित्रम्, चरित्रेण, याति

प्रश्न 17.
अधोलिखितानि वाक्यानि कथाक्रमेण संयोज्य लिखत- (½ × 8 = 4)

  1. ततः तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
  2. ‘देव’! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः तन्ममैकं कामं पूरय।
  3. क्षणेन सः कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्।
  4. अस्ति हिमवान् नाम सर्वरत्नभूमिः नगेन्द्रः।
  5. ईदृशममपादपं प्राप्यापि पूर्वैः पुरुषैः अस्माकं तादृशं फलं किमपि न प्राप्तम्।
  6. तस्य सानोः उपरि विभाति कञ्चनपुरं नाम नगरम्।
  7. युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति सः तव सदा पूज्यः।
  8. किन्तु केवलं कैश्चिदपि कृपणैः कश्चिदपि अर्थः अर्थितः।

प्रश्न 18.
प्रसङ्गानुसारं रेखाङ्कितपदयोः उचितम् अर्थं चित्वा लिखत- (1 × 3 = 3)
(i) कोऽपि वयस्येषु उपलभ्यमानः न आसीत्।
(क) मित्रेषु
(ख) बालकेषु
(ग) खगेषु
(घ) चटकासु

(ii) तन्द्रालुः बाल उद्यानं प्रविवेश।
(क) अलसः
(ख) सरलः
(ग) सुन्दरः
(घ) उत्तमः

(iii) श्रुयतां मद् वचः-
(क) मत्
(ख) मनः
(ग) मम
(घ) मानः

Filed Under: CBSE Sample Papers

Primary Sidebar

  • Maths NCERT Solutions
  • Science NCERT Solutions
  • Social Science NCERT Solutions
  • English NCERT Solutions
  • Hindi NCERT Solutions
  • Physics NCERT Solutions
  • Chemistry NCERT Solutions
  • Biology NCERT Solutions
RS Aggarwal Solutions RD Sharma Solutions
RS Aggarwal Class 10 RD Sharma Class 10
RS Aggarwal Class 9 RD Sharma Class 9
RS Aggarwal Class 8 RD Sharma Class 8
RS Aggarwal Class 7 RD Sharma Class 11
RS Aggarwal Class 6 RD Sharma Class 12

Recent Posts

  • English Grammar for Class 6, 7, 8, 9, 10, 11 and 12
  • Unscramble Words With Letters | Make Words with These Letters
  • Fractions and Decimals Class 7 Notes Maths Chapter 2
  • MCQ Questions for Class 7 Maths Chapter 2 Fractions and Decimals with Answers
  • MCQ Questions for Class 6 Maths Chapter 8 Decimals with Answers
  • MCQ Questions for Class 6 Maths Chapter 1 Knowing Our Numbers with Answers
  • RD Sharma Class 10 Solutions Chapter 12 Heights and Distances Ex 12.1
  • MCQ Questions for Class 10 Science Chapter 10 Light Reflection and Refraction with Answers
  • NCERT Solutions for Class 12 Physics Chapter 1 Electric Charges and Fields
  • MCQ Questions for Class 6 Maths Chapter 3 Playing with Numbers with Answers
DMCA.com Protection Status

Footer

CBSE Library
NCERT Library
NCERT Solutions for Class 12
NCERT Solutions for Class 11
NCERT Solutions for Class 10
NCERT Solutions for Class 9
NCERT Solutions for Class 8
NCERT Solutions for Class 7
NCERT Solutions for Class 6
ML Aggarwal Class 10 ICSE Solutions
Concise Mathematics Class 10 ICSE Solutions
CBSE Sample Papers
cbse
ncert
English Summaries
English Grammar
Biology Topics
Microbiology Topics
Chemistry Topics
Like us on Facebook Follow us on Twitter
Watch Youtube Videos Follow us on Google Plus
Follow us on Pinterest Follow us on Tumblr
Percentage Calculator

Copyright © 2022 Learn Insta